Skip to content

१०. विकृतेहाविज्ञानीयः

Adhikarana अथ विकृतेहाविज्ञानीयो नाम दशमोऽध्यायः प्रतिज्ञा (१) · Śloka

अथातो विकृतेहाविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

छायादीनां विकृतिमुक्त्वा चेष्टादीनां विकृतिपरिज्ञानार्थमध्यायारम्भः| अथेत्यादि पूर्ववद् व्याख्येयम्| ईहायाः प्राधान्येनात्र निर्देशः|| १||

Adhikarana अरुन्धत्याद्यनवलोकने रिष्टम् (२) · Śloka

सन्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्| ध्रुवमाकाशगङ्गां वा न स पश्यति तां समाम्|२|

🔊 Audio coming soon

Adhikarana मेघाद्यभावेऽपि तच्छब्दश्रवणादौ रिष्टम् (२) · Śloka

मेघतोयौघनिर्घोषवीणाप्रणववेणुजान्| शृणोत्यन्यांश्च यः शब्दानसतो न सतोऽपि वा||२||

🔊 Audio coming soon

Adhikarana कर्णनिष्पीडनस्वराश्रयं रिष्टम् (१) · Śloka

निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम्|१|

🔊 Audio coming soon

Adhikarana गन्धरसस्पर्शविपर्य्ययाश्रयं रिष्टम् (१) · Śloka

तद्वद्गन्धरसस्पर्शान् मन्यते यो विपर्य्ययात्|१|

🔊 Audio coming soon

Adhikarana दीपगन्धाद्याघ्राणाश्रयं रिष्टम् (१) · Śloka

सर्वशो वा न यो यश्च दीपगन्धं न जिघ्रति|१|

🔊 Audio coming soon

Adhikarana रसाश्रयं रिष्टम् (१) · Śloka

विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः|१|

🔊 Audio coming soon

Adhikarana अङ्गाश्रयं रिष्टम् (१) · Śloka

यः पांसुनेव कीर्णाङ्गो योऽङ्गे घातं न वेत्ति वा||१||

🔊 Audio coming soon

Adhikarana अकस्मादतीन्द्रियदर्शनाद्रिष्टम् (२) · Śloka

अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्| जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत्|२|

🔊 Audio coming soon

Adhikarana जिह्वामुखनेत्रमूर्धाश्रयं रिष्टम् (२) · Śloka

जिह्वा श्यावा मुखं पूतिसव्यमक्षि निमज्जति| खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत्||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

घनीभूतं कठिनीभूतमाकाशं शून्यमेवमादि सर्वं यो विपर्य्यस्तं पश्यति स नश्यतीति सम्बन्धः| लाञ्छनमिन्दोश्चिह्नं शेशः| समाः संवत्सरः| असतः शब्दाञ्छृणोति| सतोऽपि वा न शृणोत्येवमादयस्तेषां मरणमादिशेदित्यनेन सम्बन्धः| गन्धादीनि यः स्वभावविपर्य्ययाणि मन्यते| नैव वा सर्वेण सर्वं यो मन्यते| तेन विधिना शस्त्रोक्तेन प्रकारेण| तद्विपर्य्ययेणाऽविधिना| विधिपूर्वको योगः पातञ्जलादिशास्त्रदृष्टेन विधिना सम्पादितः| अतीन्द्रियमविषयमिन्द्रियाणां स्वर्णादि| सुबोधम्||२||

Adhikarana पादघर्षणच्युतांसत्वाश्रयं रिष्टम् (१) · Śloka

निकषन्निव यः पादौ च्युतांसः परिसर्पति|१|

🔊 Audio coming soon

Adhikarana हितान्नसेवायामपि बलक्षये रिष्टम् (१) · Śloka

हीयते बलतः शरवद् योऽन्नमश्नन् हितं बहु|१|

🔊 Audio coming soon

Adhikarana विण्मूत्राल्पत्वबाहुल्याश्रयं रिष्टम् (१) · Śloka

योऽल्पाशी बहुविण्मूत्रो बह्वाशी चाल्पमुत्रविट्|१|

🔊 Audio coming soon

Adhikarana अल्पन्नाऽशित्वेऽपि कफप्रवृद्धौ दीर्घश्वासे च रिष्स्टम् (१) · Śloka

यो वाऽल्पशी कफेनार्त्थो दीर्घं श्वासिति चेष्टते||१||

🔊 Audio coming soon

Adhikarana श्वासनिःश्वासस्पन्दाश्रयं रिष्टम् (२) · Śloka

दीर्घमुच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति| ह्रस्वञ्च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम्|२|

🔊 Audio coming soon

Adhikarana प्रपाणिकाकुञ्चनपूर्वकं शिरोविक्षेपे रिष्टम् (२) · Śloka

शिरो विक्षिपते कृच्छ्राद्योऽञ्चयित्वा प्रपाणिकौ| यो ललाटात्स्रुतस्वेदः श्लथसन्धानबन्धनः||२||

🔊 Audio coming soon

Adhikarana उत्ताप्यमानस्य मूर्च्छायां रिष्स्टम् (१) · Śloka

उत्ताप्यमानः सम्मुह्येद्यो बली दुर्बलोऽपि वा|१|

🔊 Audio coming soon

Adhikarana मुहुः पादप्रसारणाकुञ्चनपूर्वक मुत्तानस्वापे रिष्टम् (१) · Śloka

उत्तान एव स्विपिति यः पादौ विकरोति च|१|

🔊 Audio coming soon

Adhikarana श्यानासनाद्यसद्बस्तुजि घृक्षायां रिष्टम् (१) · Śloka

शयनासनकुड्यादेर्योऽसदेव जिघृक्षति|१|

🔊 Audio coming soon

Adhikarana अहास्यहनौष्ठलेहनाश्रयं रिष्टम् (१) · Śloka

अहास्यहासी सम्मुह्यन्यो लेढि दशनच्छदौ|१|

🔊 Audio coming soon

Adhikarana उत्तरौष्ठलेहनपूर्वकं फूत्काराश्रयं रिष्टम् (१) · Śloka

उत्तरोष्ठं परिलिहन् फूत्काराश्च करोति यः|१|

🔊 Audio coming soon

Adhikarana कृष्णपीतादिच्छायाभिरभिद्रवणे रिष्टम् (१) · Śloka

यमभिद्रवति छाया कृष्णा पीताऽरुणापि वा||१||

🔊 Audio coming soon

Adhikarana भिषग्भेषजादिद्वेषे रिष्टम् (३) · Śloka

भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये| वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

निकषन्निवेत्यादेर्वशगाः सर्व एवैत इत्यादिना सम्बन्धः सुबोधम्| परिताम्यतिवैकल्यं याति| अञ्चयित्वा आकुञ्च्य| प्रपाणिकः कूर्परमणिबन्धान्तरम्| शयनादेः पादौ विकरोति| यस्तु असद्वस्तु ग्रहीतुमिच्छति| अहास्ये वस्तुनि हसतीति अथोक्तः| कृष्णादिका छाया यमभिद्रवति यमभ्यागच्छति| सः समवर्तिनो वशगः| समवर्ती वैवस्वतः|| ३||

Adhikarana ग्रीवाललाटहृदयेषु प्रस्वेदे शैत्ये च रिष्टम् (४) · Śloka

ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम्| ऊष्णोऽपरः प्रदेशश्च शरणं तस्य देवताः||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तस्य देवताः शरणं लोकान्तरस्थास्तं त्रायन्ते नान्यच्छरणं तस्येत्यर्थः|| ४||

Adhikarana स्वल्पप्रकाशादौ रिष्टम् (१) · Śloka

योऽणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा|१|

🔊 Audio coming soon

Adhikarana बलिभुग्भिर्बलीनामभक्षणे रिष्टम् (१) · Śloka

बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते||१||

🔊 Audio coming soon

Adhikarana निर्निमित्तं मेधाशोभादिलाभे रिष्टम् (२) · Śloka

निर्निमित्तं च यो मेधां शोभमुपचयं श्रियम्| प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम्|२|

🔊 Audio coming soon

Adhikarana प्रकृतेरन्यथात्वे रिष्टम् (२) · Śloka

गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा| यात्यन्यथात्वं प्रकृतिः षण्मासान्न स जीवति|२|

🔊 Audio coming soon

Adhikarana भक्तिशीलादीनामहेतुकं निवृत्तौ रिष्टम् (२) · Śloka

भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्| षडेतानि निवर्त्तन्ते षड्भिर्मासैर्मरिष्यतः||२||

🔊 Audio coming soon

Adhikarana मत्तवद्गतिकम्पमोहे रिष्टम् (१) · Śloka

मत्तवद्गतिवाक्कम्पमोहा मासान्मरिष्यतः|१|

🔊 Audio coming soon

Adhikarana केशलुञ्चनादौ रिष्टम् (१) · Śloka

नश्यत्यजानन् षडहात् केशलुञ्चनवेदनाम्|१|

🔊 Audio coming soon

Adhikarana कण्ठामयादृते आहारस्य कण्ठाप्रापणे रिष्टम् (१) · Śloka

न याति यस्य चाहारः कण्ठं कण्ठामयादृते|१|

🔊 Audio coming soon

Adhikarana भृत्यानां प्रातिकूल्ये रिष्टम् (१) · Śloka

प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्य्यते|१|

🔊 Audio coming soon

Adhikarana सततं निद्रायामनिद्रायां वा रिष्टम् (१) · Śloka

यस्य निद्रा भवेन्नित्या नैव वा न स जीवति||१||

🔊 Audio coming soon

Adhikarana अश्रुभिर्वक्त्रपूरणादौ रिष्टम् (२) · Śloka

वक्त्रमापूऽर्यतेऽश्रूणां स्विद्यतश्चरणौ भृशम्| चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः||२||

🔊 Audio coming soon

Adhikarana मनोरमाणां प्रद्वेषे रिष्टम् (५) · Śloka

यैः पुरा रमते भावैरेरतिस्तैर्न जीवति||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अणुज्योतिः स्वल्पप्रकाशः| अनेकाग्रो व्याक्षिप्तचित्तः सदा कारणं विनैवंविधः| बलिभुजो वायसादयः| अतो वा मेधादितो विभ्रंशम्| यमक्षयं यमसद्म| गुणमयी प्रकृतिः सत्त्वादिजा दोषमयी वातादिजा| ताश्चोक्ताः| परमवहिः षण्मासान्| षट् पृथत्भूताः| मत्तवद्गत्यादयो मासान्मरिष्यतो भवन्ति| लुञ्चनमपनयनम्| प्रेष्याः भृतकाः| प्रतीपतां प्रतिकूलत्वम्| प्रेताकृयिः प्रेतजातीयः| उदीर्य्यते उच्यते| अकारणादश्रूणां वक्त्रमापूर्य्यते पूरणयोगे षष्ठी| चरणौ स्विद्यतः| तैर्भावैररतिः सन् न जीवति| न विद्यते रतिर्यस्याऽसावऽरतिः|| ५||

Adhikarana पृष्टोऽपि भिषङ्मुमूर्षोर्मरणं न कथयेन्न चिकित्सेच्च (२) · Śloka

कथयेन्न च पृष्टोऽपि दुःश्रवं मरणं भिषक्| गतासोर्बन्धुमित्राणां न चेच्छेत्तं चिकित्सितुम्||२||

🔊 Audio coming soon

Adhikarana परासोर्भूतानुबन्धात्क्रियावैफल्यम् (६) · Śloka

यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्ज्जयेत्||६|| गतासोर्मुमूर्षोर्बन्धुभ्यो मित्रेभ्यश्च भिषङ्मरणं न कथयेत्| न च तं चिकित्सितुमिच्छेत्| कुतश्चिकित्सितुं नेच्छेदित्याऽऽह-यद्यस्मात्परासुर्यमदूतादिभिरौषधवीर्य्याणि घ्नद्भिरुपास्यते| अतः परित्यजेत्| अन्यथा वैद्यो यशसा परिहीयते| तदेव द्रढयति||६||

🔊 Audio coming soon

Adhikarana रिष्टारिष्टविज्ञानीयं चरकमतम् (७) · Śloka

अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम्| अरिष्टं रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात्||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अरिष्टम् रिष्टेन विना नास्ति मरणम्| दृष्टे रिष्टे जीवितं नास्ति| इति चरकाचार्य्यानुमते| तत्र केचिच्चोदयन्ति-दृष्टे रिष्टे अपि जीवितं दृष्टमदृष्टेऽपि मरणमिति| तन् प्रति चरकः समर्थयति-अरिष्ट इत्यादि| यो निपुणो भिषङ् न भवति, तस्यैतद् भ्रान्तिज्ञानमिति चरकस्य वचनम्|| ७||

Adhikarana रिष्टारिष्टज्ञाने सुश्रुतमतम् (८) · Śloka

ध्रुवं हि रिष्टे मरणं ब्राह्मणैस्तत् किलामलैः| रसायनतपोदानतत्परैश्च निवार्य्यते||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सुश्रुतः पुनराह-यद्यपि रिष्टे ध्रुवं मरणं तथापि अमलैः निर्मलैर्ब्राह्मणै रसायनादिपरैश्च तन्मरणं निवार्य्यते|| ८||

Adhikarana कृष्णात्रेयमतेन रिष्टानां द्वैविग़्यम् (९) · Śloka

कृष्णात्रेयो द्विधा रिष्टं स्थिरास्थिरविभेदतः| दोषणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत्| तद्दोषाणं शमे शम्येत्स्थाय्यवश्यं तु मृत्यवे||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

कृष्णात्रेयोऽपि द्विविधं रिष्टमाह-स्थिरमस्थिरञ्च| दोषबाहुल्यात् जातमस्थिरम्| तच्चामरणफलम्| दोषाणां वातादीनाम्||९||

Adhikarana रिष्टविज्ञानप्रयोजनम् (१०-११) · Śloka ११

आयुर्वेदफलं कृत्स्नं यदाऽऽयुर्ज्ञे प्रतिष्ठितम्| रिष्टज्ञानादृतस्तस्मात् सर्वदैव भवेद्भिषक्||१०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने विकृते विज्ञानीयोनाम दशमोऽध्यायः||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

रिष्टविज्ञानप्रयोजनमुच्यते| यद्यस्मायुर्वेदफलमायुषः परिपालनं कृत्स्नं निरवशेषमायुर्ज्ञे जीवितपरिज्ञानवति भिषजि प्रतिष्ठितम्| सर्वदैव परिज्ञान आदृतो भवेदिति|| १०|| इति श्रीमन्महामहोपाध्ययेन्दुविरचितायाम् अष्टङ्गसंग्रव्याख्यायां शशिलेखायां शारीरस्थाने दशमोऽध्यायः