Skip to content

१२. दूतादिविज्ञानीयः

Adhikarana अथ दूतादिविज्ञानीयो नाम द्वादशोऽध्यायः प्रतिज्ञा (१) · Śloka

अथातो दूतादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|१|

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दूतादिविज्ञानीयमपि आयुष इदन्तापरिज्ञानार्थमुपयुज्यत इति तदर्थमध्यायारम्भः| सुबोधम्|| १||

Adhikarana अथ दूतादिविज्ञानीयो नाम द्वादशोऽध्यायः प्रतिज्ञा (१) · Śloka

अथातो दूतादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दूतादिविज्ञानीयमपि आयुष इदन्तापरिज्ञानार्थमुपयुज्यत इति तदर्थमध्यायारम्भः| सुबोधम्|| १||

Adhikarana अध्यायप्रयोजनम् (२) · Śloka

निर्दिष्टं रिष्टमातुराश्रयम्| दूतस्यापि तु जातिवेषभाषाचेष्टितदेशकाला वैद्यस्य च तस्सङ्गल्पप्रस्थानप्रयाणप्रवेशा ग्रहचारोऽपूर्वसम्भवः स्वप्नदर्शनानि च रोगिणः शुभाशुभं सूचयन्ति||२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

निर्दिष्टमित्यादिना शास्त्रकारः स्वयमध्यायप्रयोजनं कथयति| दूतजात्यादयोऽपि रोगिणः शुभाशुभं सूचयन्तीति सम्बन्धः| जातिः ब्राह्मणादिका| भाषा वचनम्| चेष्टितं क्रिया| देशः उष्णशीतादिको विकारसमानासमानस्तद्वत् कालोऽपि च| वैद्यस्य च तत्सङ्गमे यः सङ्कल्पस्तदिति दूतस्य व्यपदेशः| प्रस्थानं स्ववेश्मनो निर्गमनम्| प्रयाणं पथि| प्रवेशः आतुरवेश्मनि| ग्रहाणां चारो राशिगमनम्| अपूर्वसम्भवो वैद्यातुरसङ्गमे प्रथममयत्नेनोत्पत्तिरभूतपूर्वस्य शुभाशुभसूचकस्य|| २||

Adhikarana अशुभदूतदर्शनम् (१) · Śloka

तत्राऽऽतुराद्वर्णोत्तमोऽन्याश्रमः पाषण्डः षण्डो मुण्डी जटिलः स्त्री व्याधितोऽनेकः|१|

🔊 Audio coming soon

Adhikarana अशुभ दूताः (१) · Śloka

जीर्णविवर्णमलिनच्छिन्नार्द्रैकवसनः पङ्कतैलदिग्धो रक्त- माल्यानुलेपनो विकृताङ्गरूपकर्मा खरोष्ट्रमहिषवाहनो विक्लवः श्वसन् रुदन्|१|

🔊 Audio coming soon

Adhikarana अशुभदूतस्य भाषादि (१) · Śloka

निष्ठुरामङ्गलाभिधायी दूरादाह्वयमानः||१||

🔊 Audio coming soon

Adhikarana अशुभदूतस्य चेष्टितम् (४) · Śloka

तृणलोष्ठतुषाङ्गारभस्मतुषसीसास्थिकेशशिरोललाटनासिकास्यदन्तजिह्वाग्रीवानखानामिकाङ्गुलिस्तनजठर- नाभिपृष्ठकटीमेहनजङ्घाकपालपललोपलमुसलशुर्पोपानन्मार्जनीशस्त्रवस्त्रान्तदशाकार्पासभग्नच्युत स्पृक्काष्ठयष्टीतुलारज्जुपाशचर्मवेणुरिक्तभाजनस्नेहभाजनधरः| पादाभ्यां भुवं मुञ्चन् विलिखन्| गृहीत्वा पक्वं फलमसारं वा| तद्विधमन्यद्वा||४||

🔊 Audio coming soon

Adhikarana दूतागमनस्याप्रशस्तोउ देशकालोउ (३) · Śloka

विकारतुल्यगुणे च देशे काले वा दूतो वैद्यमुपसर्पन् अशुभः||३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

आतुरादित्यादेर्दूतो वैद्यमुपसर्पन्न शुभ इति सम्बन्धः आतुरवर्णादुत्तमो वर्णोउ यस्य दूतस्य| यथा शूद्रस्य ब्राह्मणादीनां त्रयाणामन्यतमो दूतः| वैश्यस्य ब्राह्मणक्षत्रियाभ्यामन्यतरस्तथा क्षत्रियस्य ब्राह्मण इति| अन्याश्रमो भिन्नाश्रमः| चत्वार आश्रमाः| ब्रह्मचारी गृहस्थो यतिर्वानप्रस्थः इति| पाषण्डा लिङ्गिनः षण्डः क्लीबः| स्त्रीदूतः| अनेको युगपद् बहवो दूताः जीर्णादिवसनः| विवर्णो विशिष्टवर्णः विक्लवो भीरुः| निष्ठुरो रूक्षः| अमङ्गलाद्यभिधायी| दूरादाह्वयमानो वैद्यम्| तृणादि स्पृक्| अनामिकाङ्गुलिः कनिष्ठायाः पूर्वा| मार्जनी शोधनी| भग्नच्युतोउ तथाविधोउ भाण्डोउ| तथा काष्ठादिधरः| पादाभ्यं भुवनतल्पादीनि मुञ्चन्| अथवा पक्वं फलानि गृहीत्वा दूतो वैद्यमुपसर्पन्नशुभः| तद्विधमन्यत् क्लिन्नदुर्गन्धादि|| ३||

Adhikarana विकासतुल्यगुणोउ देशकालौ (४) · Śloka

तद्यथा-घृतोदकादिद्रवसमीपस्थमतिशीतस्तब्धाः प्रत्यु- षसि श्लेष्मामयेऽशुभः| पित्तामये तु शुभः| तथा सेतु- भङ्गे छर्दिमेहातिसारादिष्वशुभः| सेतुबन्धे तु शुभः||४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

विकारातुल्यगुणोउ देशकालोउ तद्यथेत्यादिना दर्शयति| श्लेष्मामयेषु घृतोदकादि समीपस्थं वैद्यं दूत उपसर्पन्नशुभः| पित्तामयेषु शुभः| छर्द्यादिषु सेतुभङ्गे अशुभः| सेतुबन्धे शुभः| देशा उक्ताः|

Adhikarana दूतागमनेऽशुभा वेला (५) · Śloka

तथा मध्याह्नोभयसन्ध्यार्धरात्रिचतुर्थीषष्ठीनवमीपर्वदिनेषु ग्रहोपरागोत्पातदर्शनभरणीकृत्तिकार्द्राऽऽश्लेषामघामूल- पूर्वासुचाशुभः||५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तथेत्यादिना काल उच्यते| उभयसन्ध्या पूर्वा चापरा च| नक्षत्रं महारोगदेशान्तरविवक्षया|| ५||

Adhikarana दूतागमने अशुभं वैद्यचेष्टितम् (६) · Śloka

यश्छ वैद्यं सुप्तं नग्नञ्च भूमोउ शयानमभ्यक्तं मुक्तकेशं दक्षिणाभिमुखं विक्लवं छिन्दन्तं भिन्दन्तमग्निपितृ- कार्य्यप्रवणमशस्तं चिन्तयन्तं कथयन्तं वोपतिष्ठति||६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यश्छ दूतः सुप्तादिकं वैद्यमुपतिष्ठति तं दूतं वैद्यो नानुयायात्|

Adhikarana वैद्यस्यापरं चेष्टितम् (७) · Śloka

यो वा दिशं याम्यां प्रतिकृताञ्जलिर्विषमैकपादस्थः||७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यो वा इत्यादि भिषग्विशेषणम्| विषयो भूमावसम्यक् स्थित एकपादस्तेन तिष्ठति यः|| ७||

Adhikarana अशुभमातुरसंश्रयं दूतवाक्यम् (८) · Śloka

यस्मिन् व्याधिताश्रयं कथयति दूते भिषगशुभमिन्द्रि- यार्थमुपलक्षयेत् सङ्कल्पयेद्वा तं च नानुयायात्||८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

यस्मिन् व्याधिताश्रयमातुरमुद्दिश्य दूते कथयत्यशुभमिन्द्रियार्थं शब्दस्पर्शादिकं भिषगनुभवति वा सङ्कल्पयति वा| तं दूतं नायुयायात्|| ८||

Adhikarana वैद्यस्य प्रस्थानम् (९) · Śloka

अतोऽन्यथा पुनः करुणापेशलेन मनसा सौमनस्यवता मातापितृसमेनातुरस्यात्यन्तमारोग्यमाशंसमानेन प्रयातव्यम्||९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अतो यथोक्तादातुराद्वर्णोत्तम इत्यादि दर्शिताद्वैपरीत्ये करुणापेशलत्वादियुक्तेन भिषजा आतुरं द्रष्टुं प्रयातव्यम्|| ९||

Adhikarana वैद्येन प्रस्थानादिषु दर्शनादियोग्यानि अष्टोत्तरशतं मङ्गलानि (१०) · Śloka १०

प्रस्थानगमनप्रवेशेषु दधिमधुघृतलाजपुष्पाक्षतोदुम्बराश्वत्थमुक्तामणिच्छत्रदुर्वाङ्कुरादर्शकन्याध्वजस्यन्दनाष्टापदा- क्षानृपश्रीतरुर्भद्रपीठानि सस्यानि मत्स्या हया हंसचाषौ वृषः केसरी दक्षिणावर्त्तशङ्खाब्जसिद्धार्थकारोचनाः स्वस्तिकस्तोरणं कीचका वेणवो वरवधूर्मदसिक्तगण्डो गजस्तोयलम्बोऽम्बुदः पूर्णकुम्भो हरिद्राऽत्रिरिन्द्रः फलान्यार्द्रमांसं सितं चामरङ्गोउः सवत्साङ्गना पुत्रिणी मानुषं वर्धमानं सहस्रं नराणां प्रयुक्तानि यानानि धन्वन्तरिर्वामनो ब्राह्मणो भूमिरभ्युद्धृता सिद्धमन्नं वराहश्छ तोयोत्थितस्त्रिणयनमधुसूदनस्कन्दपद्मासनाः लोकपालाः सुराः खं दिशोऽग्निः सरांसि स्रवन्त्यः समुद्रा मखा मारुता ज्योतिषं धर्म्मशास्त्राणि तीर्थानि काव्यं धर्मार्थ- कामामृतं वालखिल्यादयो वेदवाक्यं निधिः कोउस्तुभः कञ्चनं माणिभद्रः सुमेरुः प्रियङ्गुः प्रदीपो वचामोदकौ दितिरदितिररुन्धती ऋद्धिः सावित्र्युमाकाशगङ्गा शची देवसेना स्वधा शान्तिर्लक्ष्मीः सरस्वत्यपत्यं क्षमा स्वस्तिशब्दो वषट्काराउम्कारपुण्याहधर्मक्रियाश्छैतदष्टोत्तरं मङ्गलानां शतं दर्शनात् स्पर्शनात् कीर्त्तनाच्चाशुभानि व्यपोह्यार्थसिद्धिं दिशन्त्युत्तमाम्||१०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

वैद्यस्यान्यस्य च दध्यादिकं मङ्गलानामष्टोत्तरशतं दर्शनादिभ्योऽशुभानि व्यपोह्य उत्तमार्थसिद्धिं दिशति| अक्षता यवाः| स्यन्दनं रथादि| अष्टापदं चतुरङ्गफलकम्| अक्षाः पाशाः| श्रीतरुः बिल्ववृक्षः| भद्रपीठं देवासनं चतुष्कोणम्| स्वस्तिका आकारविशेषाः| कीचका वेणवो, ये वेणवो वायुना शब्दायन्ते| वरवधूरुत्तमा स्त्री| वर्धमानमलङ्कारविशेषः| यानान्यश्वादीनि प्रयुक्तानि| बोधकरणेन धन्वन्तरिश्छित्रादिकृतः| वामनो यः कश्छित्| तथा ब्राह्मणः| वराहः सूकरः तोयमध्यादुत्थितः सन्| अमृतं शब्द एव| माणिभद्रो यक्षविशेषः| दितिरसुरमाता| अदितिः सूर्यमाता| देवसेना तत्संज्ञा| स्वधा पितृणाम्| शान्तिर्धर्मस्य| अपत्यं स्वस्य| क्षमा धर्मस्य| स्वस्तीत्ययं शब्दः|| १०||

Adhikarana वैद्यस्य प्रस्थानादिषु पक्ष्यादिभिः शुभाशुभसूचनाः (११) · Śloka ११

अपि च-पुन्नामानः पक्षिणो वामाः शिवाः||११||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

अपि चेति समुच्चये| पुन्नामानो ये स्त्रीव्यञ्जना अपि पुरुषाभिधानाः शुक्रचाषादयस्ते वामाः शिवाः शुभाः प्रस्थानादिषु|

Adhikarana शुभसूचकाः दक्षिणाः प्राणिनः (१२) · Śloka १२

शिवा श्यामा पिङ्गला कोकिलाऽरला चुच्छुन्दरी सूकरी गृहगोधिकैकशफाश्छ स्त्रीनामानो दक्षिणाः| शिखी चषकश्येनगजाजकपयश्छ||१२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शिवादयो दक्षिणाः शिवा इति सम्बन्धः| शिवा प्रसिद्धा| श्यामा पिङ्गला| अरला चेति पक्षिविशेषाः| चुच्छुन्दरी गन्धमूषिका| गृहगोधिका मुसली| एकशफा वडवादिः| स्त्रीनामानः शिख्यादयश्छ दक्षिणाः शिवाः| शिखी मयूरः| चषकः प्राणिविशेषस्तत्संज्ञकः|| १२||

Adhikarana प्रवेशे पशुपक्षिणामवस्थानम् (१३) · Śloka १३

प्रवेशे तु विपरीताः||१३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ये वामा उक्तास्ते प्रवेशे दक्षिणाः शुभाः| ये च दक्षिणा उक्तास्ते प्रवेशे वामाः|| १३||

Adhikarana श्वशृगालयोस्वस्थानम् (१) · Śloka

सर्वत्र च दक्षिणाद्वामगमनमिष्टं श्वशृगालयोः||१||

🔊 Audio coming soon

Adhikarana मृगविहङ्गयोरवस्थानम् (१४) · Śloka १४

विपरीतं मृगविहङ्गयोः||१४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मृगविहङ्गयोर्विपरीतं वामाद्दक्षिणगमनम्| सर्वत्र प्रस्थानादिषु|

Adhikarana सर्वथा दर्शनीयाः प्राणिनः (१५) · Śloka १५

सर्वथापि दर्शनं भरद्वाजचाषभासनकुलानाम्||१५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वथा सर्वप्रकारां पुरः पश्छात् प्रवेशे प्रस्थाने चेत्येवमादि भरद्वाजादीनां दर्शनम्|| १५||

Adhikarana कीर्त्तनीयाः प्राणिनः (१६) · Śloka १६

शशसर्पाजाऽविगोधाजाविकसूकराणान्तु कीर्तनमिष्टम्| न दर्शनं विरुतं वा||१६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शशादीनां कीर्त्तनं पर्य्यायेणापि कीर्त्तनमेवैषां शस्तं न दर्शनम्| दर्शनं विरुतं चैव नो कीर्त्तनमिति विपरीतार्थः|| १६||

Adhikarana ऋक्षवानरयोः कीर्त्तनमिष्टम् (१) · Śloka

विपरीतमृक्षवानरयोः||१||

🔊 Audio coming soon

Adhikarana सर्वथा अशिवाः प्राणिनः (१७) · Śloka १७

सर्वमपि त्वनिष्टं सरटकुक्कुटविडालोलूकानाम्||१७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सरटादेएनां सम्बन्धि सर्वमनिष्टदर्शनं विरुतं केएर्तनं च || १७||

Adhikarana व्याधिविशेषे छेदभेदरुद्धप्रवत्तनादि शब्दाः दूतस्य शुभावहाः (१८) · Śloka १८

तथा ग्रन्थ्यर्बुदादिषु छेदशब्द इष्टो गुल्मोदरादिषु भेदशब्दोऽतीसाररक्तपित्तादिषु रुद्धशब्दोऽश्मर्य्युदरादिषु प्रवर्त्तनशब्द इति| एवमन्येऽपि ध्वनयो योज्याः||१८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

ग्रन्थादिषु छेदनशब्द इष्टः| गुल्मादिषु भेदशब्दः| रक्तपित्तादिष्वित्यत्रादिग्रहणेन वमनविरेचनबस्त्यादीनां ग्रहणम्| एवमन्ये ध्वनयो योज्याः| तथा पाण्डुरोगे शूनशब्दः| कासे क्षतशब्दः| श्वासे छिन्नः| यक्ष्मिणः संस्थितः इत्येवमादिः|| १८||

Adhikarana सर्वत्रैव शुभावहाः शब्दाः (१९) · Śloka १९

सर्वत्रैव च स्थिरस्थावरवर्द्धमानत्राताऽचलध्रुवक्षेम- शिवा-दयः शब्दाः धन्यवादित्रस्वराश्छ श्रेष्ठाः||१९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्थिरादिशब्दा धन्यानां च वादित्राणां ध्वनयः सर्वत्र श्रेष्ठाः|

Adhikarana चिकित्साप्रतिषेधकाः शब्दाः (२०) · Śloka २०

क्षतहतपतिताक्रोशप्रहारच्छेदभेददाहहाहाप्रतिषेधादिशब्दा- श्छिकित्साप्रतिषेधाय||२०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

क्षतादयः प्रस्तुतप्रतिषेधाय भवन्ति| शब्दा इति क्षतादिभिरभिसम्बध्यते| तेन क्षतादिपर्य्यायाणामपि ग्रहणम्| आ-मा-नो-न प्रतिषेधशब्दाः| आदिग्रहणेन निवृत्त्यादिपर्य्यायाणां ग्रहणम्| अथवा प्रतिषेध इत्ययं शब्द आदिर्येषां शब्दानां ते प्रतिषेधादयः| प्रतिषेधप्रकारा इत्यर्थः|| २०||

Adhikarana दिगादिविशेषेषु चिकित्साप्रतिषेधकाः शब्दाः (२१) · Śloka २१

दीप्तायां च दिशि क्रूराः पक्षिमृगध्वनयो वृक्षे वा रूक्ष- शुष्के सवल्लीकण्टके| तद्विधे वा देशे||२१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

दीप्तेत्यादिकं चिकित्सप्रतिषेधायेत्यनेन सम्बध्यते| दीप्तां दिशं प्रति क्रूराणां मृगाणां पक्षिणां च ध्वनयः| प्राच्यादिप्रत्ययहेतुत्वेनाऽनुमितैकाऽपि सती दिग्व्यवहारर्थमधिष्ठातृदेवताविशेषनियमवशात् प्रविभक्तैवाऽष्टधा विभज्यते| तत्र विषुवति सूर्य्यो यत उदेति सा सहस्राक्षाधिष्ठिता ऐन्द्रीनाम दिक्| तदभिमुखस्य दक्षिणे पार्श्वे वैरस्यता क्रान्तमूर्तिर्याम्या नाम| तस्यैव पश्छात् पत्या यादसामालिङ्गिता वारुणी नाम| तस्यैव वामतो राजराजस्वीकृता कोउबेरी नाम| तासामन्तरालेषु विदिशः| तत्र दक्षिणपूर्वा चैत्रभानवी| दक्षिणपाश्छिमा नैऋती पश्छिमोत्तरा पावनी| उत्तरपूर्वा ऐशानीति| आसामष्टानां कुकुभां भगवन् सहस्रश्मिः पूर्वादिक्रमेणाहोरात्रभागेष्वष्टास्वेवावरोधवेश्मस्विव दक्षिणः कामी क्रमेणैव भोक्तृत्वमनुभवति| तत्र पूर्वे दिनस्यायामे शातक्रतवीमाशामवलम्बते भगवान्| द्वितीये जातवेदसीम्| तृतीये समदर्शिलाञ्छिताम्| चतुर्थे रक्षोमालिनीम्| प्रथमे निशायामे वरुणाश्वासिताम्| द्वितीये समीकरणनायिकाम्| तृतीये पुण्यजाताक्षिप्ताम्| चतुर्थे वृक्षध्वजपालितामिति| तासाञ्च सम्प्रति रविर्यामुपभुङ्क्ते सा स्वाधीनभर्तृकेव दीप्ता| यामुपभुज्य यातः सा प्रोषितभर्तृकेवाङ्गरिता| यां यास्यति सा वासकसज्जेव धूमिता| शेषाः परित्यक्ततत्समागमाषाः प्रव्रजिता इव शान्ताः तत्रात्मानमवधिं कृत्व दिशि दीप्ता यां क्रूरमृगपक्षिवाचः| क्रूरा मृगाः क्रव्यादाः शृगालसिंहादयः पक्षिणो गृध्रोलूकादयः | क्रव्यादाः क्रूराः| फलशाल्यादिभुजो मृगपक्षिणः सौम्याः| तद्विधे देशे रोउक्ष्यादियुक्ते|| २१||

Adhikarana चिकित्साप्रतिषेधकं दर्शनम् (२२) · Śloka २२

दर्शनञ्च तृणपललकाष्ठभारकर्पूरकलोष्ठादीनाङ्कण्टकोर्ध्वपादयानशयनादिभग्नोपस्कररिक्तकुम्भकमद्य- वसातैलतिलगर्भिणीश्वपाकव्यसनिमृतानाञ्च||२२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तृणादीनां दर्शनं चिकित्साप्रतिषेधाय| पललस्तिलकल्कः| ऊर्ध्वगाः पादा येषां यानादीनाम्| उपस्कर उपकरणद्रव्यम्| श्वपाकश्छण्डालः लुब्धकः| व्यसन्यतिदुःखी| मृतं शवम्|

Adhikarana वैद्यस्य आतुरगृहप्रवेशसमये चिकित्साप्रतिषेधकाः (२३) · Śloka २३

प्रवेशे चातुरगृहात्पूर्वोक्तमाङ्गल्यनिर्गमः| प्रविष्टस्य तु भिषजो न सत्कारो लाभतुष्टिस्तुतयश्छाशुभाः||२३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पूर्वोक्तानि मङ्गलानि घृतादीनि| तेषामाऽऽतुरगृहान्निर्गमो वैद्यस्य प्रविशतः|| २३||

Adhikarana आतुरस्य चिकित्साप्रतिषेधकानि ग्रहनक्षत्राणि (२४) · Śloka २४

आतुरस्य वक्रानुवक्रा ग्रहागर्हितस्थानस्थाः||२४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

आतुरस्य वक्रानुवक्रादिचिकित्साप्रतिषेधाय ध्रुवं प्रतिबन्धाय| राशिचक्रे स्पष्टगते ये प्रतिनिवृत्त्य गन्तुं प्रवृत्तास्ते वक्राः| ततोऽपि पुनव्यावृत्ताः स्पष्टमार्गमनुप्राप्ता अनुवक्राः गर्हिते स्थाने तिष्ठन्तीति गर्हितस्थानस्थाः| गर्हितस्थानमनुपचयराशिलक्षणम्| अनुपचयाश्छ राशयः| स्वजन्मनक्षत्रराशोः प्रथमद्वितीयचतुर्थपञ्चमसप्तमाष्टमनवमद्वादशराशयः| उपचयास्त्रिषडेकादशदशमाः| तत्राश्विन्यादीनां सप्तविंशतिः सपादनक्षत्रद्वयविभागेन क्रमेण मेषवृषभमिथुनकर्कटकसिंहकन्यातुलावृश्छिकधनुमकरकुम्भमीनाख्या द्वादशराशयः|| २४||

Adhikarana केत्वादिभिर्जन्मर्क्षाभिभवः (२५) · Śloka २५

केतुशनिराहुभिर्जन्मर्क्षाऽऽभिभवः||२५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

केत्वादिभिर्जन्मर्क्षाऽऽभिभवः| जन्मर्क्षो जन्मराशिः| तस्मिन् सन्निपातस्तदाऽऽभिभवः|| २५||

Adhikarana गृहदारादिषु गर्हित लक्षणप्रादुर्भावः (२६) · Śloka २६

गृहदारशयनासनवाहनमणिरत्नोपकरणेषु वा गर्हित- लक्षणप्रादुर्भावश्छिकित्साप्रतिषेधाय||२६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

गृहदारादिषु गर्हितानामशुभानां लक्षणानां प्रादुर्भावः|| २६||

Adhikarana स्वप्नप्रकरणम् (शुभाशुभहेतुः सप्तविधः स्वप्नः) (२७) · Śloka २७

स्वप्नस्तु स्वयमन्येन वा दृष्टः शुभाशुभहेतुः सप्त- विधो दृष्टः श्रुतोऽनुभूतः प्रार्थितः सङ्कल्पितो भाविको दोषजश्छ||२७||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

सामान्येनादृष्टपूर्वदर्शनः स्वप्नश्छ शुभाशुभहेतुः| स्वयं दृष्ट उपभोक्त्राऽऽन्येन वा| तमुद्दिश्य दृष्टः| स च दृष्टादिभेदेन सप्तविधः| दृष्टश्छ क्षुषा गॄहीतस्य स्वापे दर्शनम्| श्रुतस्याख्यायिकारूपेण स्वापे दर्शनं श्रुतः| अनुभूतः स्वसंवेदनादिना| प्रार्थित आकाङ्क्षितः| इदं कथं नु मे स्यात् इति कल्पितः सङ्कल्पितः | इदं मयाऽवश्यकर्त्तव्यमित्यस्य दर्शनं भाविकः| स्वभावादागतः| दोषजो वातादिसामर्थ्यान्नभोगमनादिः|| २७||

Adhikarana अफलाः सफला अल्पफलाश्छ स्वप्नाः (२८) · Śloka २८

तत्राद्यः पञ्चविधोऽफलः| यथा यथास्वप्रकृतिः विस्मृतो दिवाऽतिह्रस्वोऽतिदीर्घो नाऽतिसुप्तदृष्टश्छ||२८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्राऽऽद्याः-दृष्टश्रुतानुभूतप्रार्थितसङ्कल्पिताः पञ्च अफलाः| भाविकदोषजोउ सफलोउ| दोषजोऽपि यथा स्वप्रकृतिर्निष्फलः| यथा वातप्रकृतेर्कतजः| पित्तप्रकृतेः पित्तजः| एवं कफेऽपि वाच्यम्| तथा दिवा दृष्टश्छ निष्फलः| विस्मृतादिरूपोऽपि निष्फलः| विस्मृतो यः साधु न स्मर्य्यते|| २८||

Adhikarana रात्रेः पूर्वपरभागविशेषेण फलविशेषः (२९) · Śloka २९

पूर्वरात्रेऽल्पं चिराच्च फलं करोति| गोसर्गे महत्स- द्यश्छ||२९||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

निशादोउ दृष्टः सफलोऽपि शुभाशुभश्छिरात्फलमल्पं च करोति| गोसर्गो रात्रेः क्षयः तस्मिन् सद्यः फलं महाफलं च|| २९||

Adhikarana महत्फलजनकस्वप्नोपायाः (३०) · Śloka ३०

निद्रया च पुनरनुपहतः प्रतीपैर्वा वचोभिर्दानयमनियमादिभिर्वा||३०||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शुभश्छ स्वप्नः स्वप्नादनन्तरं निद्रयाऽनुपहतो महत्फलं ददाति सद्यश्छ| तथा प्रतीपैर्दृष्टस्वप्नप्रतिकूलैर्वचोभिर्नोपहतः| अथवा स सर्वं स्वप्नो दानादिभिर्महत् सद्यश्छ फलं ददाति| यमः इन्द्रियाणां विषयेभ्यो निवृत्तिः| नियमः सद्दृत्तम्| आदिग्रहणेन मणिमन्त्रादीनां ग्रहणम्|| ३०||

Adhikarana तत्र ज्वरादिसम्भवे मरण सूचकाः स्वप्नाः (१) · Śloka

तत्र यः प्रेतैः सह मद्यं पिबन् शुनाऽऽकृष्यते स हन्यते ज्वरेण||१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

Adhikarana रक्तपित्ते स्वप्नः (२) · Śloka

यो लाक्षारक्ताऽऽभमम्बरं पश्यति| यो वा रक्त- देहमाल्यवस्त्रो हसन्नार्य्या ह्नीयते, स रक्तपित्तेन||२||

🔊 Audio coming soon

Adhikarana यक्ष्मणि स्वप्नः (१) · Śloka

यो याम्यां दिशं खरोष्ट्रमहिषवराहान्यतमेन स यक्ष्मणा|१|

🔊 Audio coming soon

Adhikarana गुल्मे स्वप्नः (१) · Śloka

यस्य कण्टकिनी लता वंशस्तालो वा हृदि जायते स गुल्मेन|१|

🔊 Audio coming soon

Adhikarana शिरच्छेदे स्वप्नः (१) · Śloka

यस्य शिरसि स शिरोरोगेण वा शिरच्छेदेन|१|

🔊 Audio coming soon

Adhikarana कुष्ठे स्वप्नः (१) · Śloka

यस्य नग्नस्याज्यावसिक्तस्याग्निमनर्चिषं जुह्वतो जायन्ते पद्मान्युरसि स कुष्ठेन|१|

🔊 Audio coming soon

Adhikarana प्रमेहे स्वप्नः (१) · Śloka

यश्छण्डालैः सह स्नेहं पिबति स प्रमेहेण|१|

🔊 Audio coming soon

Adhikarana उन्मादे स्वप्नः (१) · Śloka

यो रक्षोभिः सह नृत्यन्नप्सु निमिज्जति स उन्मादेन|१|

🔊 Audio coming soon

Adhikarana अपस्मारे स्वप्नः (१) · Śloka

यो मत्तः सोऽपस्मारेण|१|

🔊 Audio coming soon

Adhikarana नेत्ररोगजनकः स्वप्नः (१) · Śloka

यश्छन्द्रसूर्य्ययोरुपरागं पश्यति तस्य नेत्ररोग उपजायते||१||

🔊 Audio coming soon

Adhikarana नेत्रविनाशजनकः स्वप्नः (३१) · Śloka ३१

यस्तयोः पतनं तस्य नेत्रविनाशः||३१||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्रेत्यादिना स्वप्नविशेषान् दर्शयति| सुबोधम्| प्रेता निकृष्ट भूतविशेषाः| यस्य हृदि कण्टकीलतादिकं जायते स गुल्मेन हन्यत इति सम्बन्धः| यस्य पुनः कण्टकीलतादिकं शिरसि जायते स शिरोरोगेण हन्यते| शस्त्रेण कर्त्रा शिरःच्छेदेन करणभूतेन हन्यते| सर्वत्र तृतीयान्तं हन्यत इति सम्बध्यते| उपरागो राहुच्छायया| तयोरिति चन्द्रसूर्य्ययोः|| ३१||

Adhikarana व्याधितस्य मारकाः स्वस्थस्य जीवितसन्देहकराः स्वप्नाः छर्दिजनकश्छ स्वप्नः (३२) · Śloka ३२

यः शष्कुलीरपूपान्वाऽभ्यवहृत्य प्रतिबुद्धश्छर्दयति||३२||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

शुष्कुली तिलकृता छर्दयति| तदेव यत्स्वप्ने जग्धम्|| ३२||

Adhikarana स्वस्थातुरयोरिष्टफलाः स्वप्नाः (३३) · Śloka ३३

यस्य शिरसि लतादयो जायन्ते| वयांसि च निलीयन्ते| मोउढ्यं वा भवति| यो गृध्रोलूककाकाद्यैः प्रेतपिशाचरक्षोद्रविडान्ध्रस्त्रीचन्डालाद्यैर्वा परिवार्य्यते| दक्षिणाभुमुखं वा स्त्रिया नृत्यन्नाकृष्यते| अन्तावसायिभिर्वा स्वयं वा दिग्वासा याति शून्याटवीम् वा| कपिरथेन प्रेतैः प्रव्रजितैर्वा परिष्वज्यते| नग्नो वा रक्तां स्रजं धारयति| पङ्कदिग्धो हसति नृत्यति वा| वेत्रवंशकण्टकतृणगहने संसृज्यते पतति वा| पांसूपधानायां भुवि वल्मीकभस्मश्मशानश्वभ्रायतनेषु| पङ्ककूपकलुषोदकेषु वा मज्जति| स्रोतसा वा ह्नियते| रक्तकुसुमवनां भूमिं गुहामन्धकाराचितां पापकर्मालयं सम्बाधं जननीं वा प्रविशति| मत्स्येन वा ग्रस्यते| श्मश्रुकर्म च यो गात्रवृद्धिं विवाहं चानुभवति| शैलासादाग्रात् पतत्याऽऽरोहति वा यूपपुष्पाढ्यशाल्मलीकोविदारकिंशुकपारिभद्रकान्| यो वा पराजीयते बध्यते छर्दयति विरिच्यते हृष्यति लभते वा हिरण्यलोहलवणतैलपिण्याककार्पासान्| अश्नाति पक्वान्नम्| पिबति मद्यम्| स्नेहं वाऽभ्यज्यति| निर्भर्त्स्यते वा कुपितैः पितृभिः| चन्द्राऽर्कतारादीपदेवतानेत्रदर्शनान्यनुपततो न श्यतो वा पश्यति| वक्रं वा बाहुमङ्गं वा विभिद्यमानम्| पुरुषाण् वा नग्नान् कषायवाससोऽसौम्यान् दण्डपाशहस्तान् कृष्णान्रक्ताक्षाण्| स्त्रियं वा कृष्णशुक्लदर्शनां दीर्घकेशस्तनीं कालरात्रिरूपाम्| ते व्याधिताः पञ्चतामाप्नुवन्ति| स्वस्थास्तु जीवितसन्देहमिति||३३||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

लतादयो लतावंशतालः| वयांसि पक्षिणः| गृध्रादिभिः परिवारणम्| आन्ध्रद्रविडोउ दाक्षिणात्यजनपदनामनी| अन्तावसायिनश्छण्डालादयः| वेत्रं काष्ठविशेषः| वल्मीकादिषु वा पतति| वल्मीकं पिपीलिकास्थानम्| सम्बाधं सङ्कटम्| जननी माता| वयोवृद्धिर्यथा बाल्ये योउवनं वार्धकं वा| यूपादीन् वा आरोहति| चन्द्रादीन् पततो नश्यतो वा यः पश्यति| एवमेतच्छाष्कुल्यपूपादिकं दृष्ट्वा व्याधिता निश्छितं पञ्चत्वं प्राप्नुवन्ति| स्वस्थास्तु जीवितसन्देहमिति|| ३३||

Adhikarana दारुणस्वप्नसम्भवहेतुः (२) · Śloka

भवन्ति चात्र- मनोवहानां पूर्णत्वात् स्रोतसां प्रबलैर्मलैः| दृश्यन्ते दारुणाः स्वप्ना विनाशाभिमुखात्मभिः|२|

🔊 Audio coming soon

Adhikarana शुभफलप्रदः स्वप्नः (२) · Śloka

अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः| पश्येत्सौम्यं शुभं तस्य शुभमेव फलं भवेत्||२||

🔊 Audio coming soon

Adhikarana आयुरारोग्यादिदायकाः प्रशस्ताः स्वप्नाः (३४) · Śloka ३४

देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान्| साधून् यशस्विनो वह्निमिद्धंस्वच्छाञ्जलाशयान्| कन्याः कुमारकान् गोउरान् शुक्लवस्त्रान् सुतेजसः| नराशनं दीप्ततनुं समन्ताद् रुधिरोक्षितम्| यः पश्येल्लभते यो वा छत्रादर्शविषामिषम्| शुक्लाः सुमनसो वस्त्रममेध्याऽऽलेपनं फलम्| शैलं प्रासादासफलवृक्षसिंहनरद्विपान्| आरोहेद् गोऽश्वयानञ्च तरेन्नदह्रदोदधीन्| पूर्वोत्तरेण गमनमगम्यागमनं मृतिः| सम्बाधान्निस्सृतिः स्पर्शास्तारकाऽऽचलभास्वताम्| रोदनं पतितोत्तानं द्विषतां चावमर्दनम्| यस्य स्यादायुरारोग्यं वित्तं स बहुशोऽश्नुते||३४||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

भवन्ति चात्रेति पद्यारम्भे तन्त्ररीतिः| मनोवहानामित्यादि सुबोधम्| देवानित्यादिना शुभाः स्वप्ना उच्यन्ते| देवानित्यादेर्यः पश्येदिति सम्बन्धः तथा छत्रादीनि यो लभते| शैलादींश्चऽऽरोहेत्| नद्यादींश्च तरेत्| पूर्वोत्तरगमनादिकञ्च यस्य स्यात् स आयुरादिकमश्नुते| नराशनो राक्षसः पुष्पाणि उक्षितं सिक्थम्| सुमनसः हृदो गम्भीरः| अगम्याः सकुल्यान्त्यजातिश्च| मृतिर्मरणम्||३४||

Adhikarana अशुभः स्वप्नः (२) · Śloka

पितृदेवद्विजातीनां क्रुद्धभीतकृशात्मनाम्| मलिनाम्बरपुष्पाणां दर्शनं न प्रशस्यते|२|

🔊 Audio coming soon

Adhikarana शुभः स्वप्नः (२) · Śloka

तेषामेव तु तुष्टानां शुद्धपुष्पाम्बरात्मनाम्| दर्शनं शस्यते स्वप्ने तैश्च सम्भाषणं शुभम्||२||

🔊 Audio coming soon

Adhikarana स्वप्नदर्शनोत्तरमनुष्ठानम् (३५) · Śloka ३५

दृष्ट्वा स्वप्नान् दारुणान् शोभनान् वा| प्रातः स्नातः सर्षपानग्निवर्णान्| हृत्वा सावित्र्या सर्पिषाक्तांस्तिलान् वा| पूतः पापैर्मुच्यते व्याधिभिश्च||३५||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

पितृप्रभृतीनां शुभानामपि कृद्धाद्यात्मनां सतां मलिनाम्बरपुष्पधारिणां च दर्शनं नेष्यते| तेषामेव पित्रादीनां तुष्टादिगुणानां दर्शनं शस्यत इति सम्बन्धः| तैरतितुष्टादिगुणैः पित्रादिभिः|

Adhikarana आतुरस्यारोग्यलक्षणम् (३६) · Śloka ३६

मङ्गलाचारसम्पन्नः परिवारस्तथाऽऽतुरः| श्रद्धधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः| सत्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु| चिकित्सायामनिर्वेदस्तदाऽऽरोगस्य लक्षणम्||३६||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

मङ्गलाचारसम्पन्नादिकमारोग्यलक्षणम्| प्रभूतानां द्रव्याणां संग्रहस्तथोक्तः| सत्त्वलक्षणानि शौचास्तिक्यादीनि||३६||

Adhikarana शारीरस्थाननामनिरूपणम् (३७-३८) · Śloka ३८

इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम्| शरीरस्य ततः स्थानं शारीरमिदमुच्यते||३७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने दूतादिविज्ञानीयो नाम द्वादशोऽध्यायः||३८||

🔊 Audio coming soon

Hide commentary

शशिलेक व्याख्या (इन्दु कृत)

स्थाननाम निरूप्यते| अस्मिन् स्थाने शरीरस्य जन्मनः प्रभृतिमरणं यावद्यतः सम्यगुदाहृतं प्रदर्शितम्| अतः स्थानं शारीरमुच्यत इति||३७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायां अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थाने द्वादशोऽध्यायः