Adhikarana अष्टाङ्गसंग्रह-शारीरस्थाने-पञ्चमोऽध्यायः अथाङ्गविभागो नाम पञ्चमोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथातोऽङ्गविभागं शारीरं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सम्प्रसूते गर्भेऽङ्गास्थिसिरामर्मपरिज्ञानार्थमध्यायारम्भः| तत्राश्रयत्वादङ्गविभागः प्रथममुच्यते कारणोपचारादध्यायस्य नाम|| १||
Adhikarana अङ्ग-प्रत्यङ्गानि (२) · Śloka २
सकलमपि शरीरमङ्गमित्युच्यते|
तत्र पुनः षडङ्गम्|
शिरेऽन्तराधिर्द्वौ बाहू सक्थिनी च|
नेत्रनाभिपाणिपादा दीनि त्वस्य प्रत्यङ्गानि||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अङ्गं शरीरम्| तस्य षट् शिरःप्रभृतीन्यङ्गान्यवयवाः| अन्तराधिः आजत्रोराकटेः| प्रत्यङ्गमवयवस्याप्यवयवः| नेत्रकर्णादीनि शिरसः| नाभिहृदयादीन्यन्तराधेः| प्राणिस्कन्धादीनि बाह्वोः| पादजङ्घादीनि सक्थ्नोः|| २||
Adhikarana महाभूतेभ्योऽङ्गनिर्वृत्तिः (३) · Śloka ३
महागुणमयेभ्यश्च खपवनतेजोजलभूम्याख्येभ्यो महा भूतेभ्यश्चेतनाधिष्ठितेभ्योऽभिनिर्वृत्तिरङ्गस्य||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तस्य चाङ्गस्य खादिभ्यो महाभूतेभ्योऽभिनिर्वृत्तिः| किम्भूतेभ्यश्चेतनेनात्मनाऽधिष्ठितेभ्यः| तानि च किम्भूतानि? महागुणमयानि| सत्त्वादय एव भूतभावेन परिणता आत्माधिष्ठिताश्च|| ३||
Adhikarana प्राणिनां सारुप्यासारूप्य त्वस्य कारणम् (४) · Śloka ४
भूतानामेव च दृष्टादृष्टविविधकर्मवशादनेकरूपात् सन्नि वेशषदाकृतिप्रमाणस्नेहदीप्तिस्वरादीनां सारुप्यमसा रूप्यं वा सूक्ष्मस्थूलतारतम्यभेदभिन्नमतिबहुप्रकारं निष्प द्यते||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र शरीरे तथा तेषामेव महाभूतानां सन्निवेशविशेषात् प्रकृतिप्रमाणादीनां साद्रुश्यमसादृश्यं च बहुप्रकारं निष्पद्यते| किम्भूतात् सन्निवेशविशेषात् ? दृष्टादृष्टनानाविधकर्मवशेनानेकरूपात्| दृष्टं कर्म मातृपितृभ्यां स्नेहकृतमाहारादि| अदृष्टमन्यजन्मकृतम्| शरीराणां किम्भूतं सारूप्यमसारूप्यञ्चाह-सूक्ष्मादितारतम्यभेदभिन्नमत एव च बहुप्रकारम्|| ४||
Adhikarana आकाशलक्षणम् (५) · Śloka ५
तत्र सत्त्बहुलमाकशम्||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिना प्रत्येकमपि महाभूतस्य त्रिगुणत्वे विशेषकथनम्|
Adhikarana वायोर्लक्षणम् (१) · Śloka १
रजोबहुलो वायुः|१|
Adhikarana अग्निलक्षणम् (१) · Śloka १
उभयबहुलोऽग्निः|१|
Adhikarana जललक्षणम् (१) · Śloka १
सत्त्वतमोबहुलमम्बु|१|
Adhikarana पृथिव्या लक्षणम् (१) · Śloka १
तमोबहुला भूः||१||
Adhikarana आकाशादीनां लिङ्गानि (६) · Śloka ६
तेषामप्रतिघातश्चलत्वमौष्ण्यं द्रवता काठिन्यमिति क्रमा ल्लिङ्गानि||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां महाभूतानां पञ्चानां सद्भावे अप्रतिघातादिक्रमेण लिङ्गम्|
Adhikarana आकाशादीनां विशेषाधिष्ठानम् (७) · Śloka ७
विशेषतश्च श्रोत्रादिष्विन्द्रियेष्ववस्थानम्||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां च महाभूतानां शब्दादिभिर्गुणैः क्रमेणैव एकैकप्रवृद्धैरन्वयः| तेन शब्दगुणमाकाशम्| शब्दस्पर्शगुणः पवनः| शब्दस्पर्शरुपगुणं तेजः| शब्दस्पर्शरूपरसगुणं जलम्| शब्दादिपञ्चगुणा पृथिवी|| ७||
Adhikarana आकाशादीनां गुणाः (८) · Śloka ८
शब्दस्पर्शरूपरसगन्धैरेकैकप्रवृद्धैरन्वयः||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां च महाभूतानां शब्दादिभिर्गुणैः क्रमेणैव एकैकप्रवृद्धैरन्वयः| तेन शब्दगुणमाकाशम्| शब्दस्पर्शगुणः पवनः| शब्दस्पर्शरूपगुणं तेजः| शब्दस्पर्शरूपरसगुणं जलम्| शब्दादिपञ्चगुणा पृथिवी|| ८||
Adhikarana आकाशजा भावाः (९) · Śloka ९
तत्राऽऽकाशजानि श्रोत्रं शब्दः सर्वस्त्रोतांसि विवि क्तता||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र शरीर आकाशजानि श्रोत्रादीनि| श्रोत्रमिन्द्रियम्| तथा शब्दः| आकाशभावाच्छब्दभावः| विविक्तता शारीराणां भावानां विभागः|| ९||
Adhikarana वायवीया भावाः (१०) · Śloka १०
वायवीयानि स्पर्शनं स्पर्शः प्रश्वासोच्छ्वासादिपरि स्पन्दनानि लाघवं च||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वायवीयानि स्पर्शनादीनि| स्पर्शनमिन्द्रियम्| स्पर्शोऽन्यस्पर्शनविषयः| एवं रूपादीनामपि वाच्यम्|| १०||
Adhikarana आग्नेया भावाः (११) · Śloka ११
आग्नेयानि दर्शनं रूपं पित्तमूष्मा पक्तिः सन्तापो मेधा वर्णो भास्तेजः शौर्य्यञ्च||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
आग्नेयानि दर्शनादीनि| दर्शनं चक्षुरिन्द्रियम्| पित्तं दोषः| उष्मा अग्निः| पक्तिस्तत्क्रिया| भा कान्तिः| तेजः प्रसिद्धम्||११||
Adhikarana आम्भसा भावाः (१२) · Śloka १२
आम्भसानि रसनं रसः स्वेदक्लेदवसाऽसृकशुक्र मूत्रादिद्रवसमूहः शैत्यं स्नेहश्च||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
आम्भसानि देहे रसनादयः| एको रसशब्दो रसविषयत्वज्ञापनार्थः| द्वितीयो धातुविशेषग्रहणार्थः|| १२||
Adhikarana पार्थीवा भावाः (१३) · Śloka १३
पार्थीवानि घ्राणं गन्धः केशनखास्थ्यादिमूर्तसमूहो धैर्य्य- स्थैर्य्यञ्च||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पार्थिवानि घ्राणादीनि| इति देहे पञ्चमहाभूतकार्ये चेतनश्चाप्यायात्यवहितमनसापि परीक्ष्यमाणो न किञ्चिल्लभ्यते|| १३||
Adhikarana मातृजाः भावाः (१४) · Śloka १४
तेशु मातृजानि मृदूनि त्वग्रक्तमांसमेदोमज्जनाभिहृदयामा शयगर्भाशययकृत्प्लीहाक्लोमान्त्रगुदादीनि||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मातृजानीति तेषु च महाभूतकार्येषु मध्ये किञ्चिद्गर्भस्य मातृजम्| किञ्चित् पितृजम्| किञ्चिच्चेतनजम्| चेतन आत्मा| ततः संक्रान्तमित्यर्थः| त्वगादीन्यन्यानि मृदूनि गर्भस्य मातृजानि विद्यात्| गर्भाशयः स्त्रीगर्भस्यैव|| १४||
Adhikarana पितृजाः भावाः (१५) · Śloka १५
पितृजानि स्थिराणि केशनखास्थिशुक्रसिरास्नाय्वा दीनि||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
केशादीन्यन्यानि च स्थिराणि पितृजानि|| १५||
Adhikarana आत्मजाः भावाः (१६) · Śloka १६
आत्मजानि नानायोनिषूत्पित्तिर्मनश्चेतनेन्द्रियाणि प्राणा पानौ धारणमाकृतिस्वरवर्णविशेषाः कामक्रोधलोभ भयहर्षधर्मशीलतास्मृतिबुद्धीच्छाद्वेषप्रयत्नाहङ्कार सुखदुःखायुरात्मज्ञानानि च||१६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
आत्मजानि पुनर्नानाविधयोन्युत्पत्यादीनि| आत्मना ह्यवदातानवदातकर्मकारणभूतेन योनिषु मृगसरीसृपादिषूत्पद्यते; अतः संस्कारेण निःश्रेयसाय| तथा मनः आत्मजम्| तद्धि न कुतश्चिदागच्छत्यात्मना नित्यसम्बन्धित्वात्| इन्द्रियाणि त्वात्मकृतान्येव| चेतनेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि| प्राणापानौ चात्मजौ| ताभ्यामेव ह्यात्मकारणाभ्यां जीव्यते| साधारणमवयवानां धारणमुत्साहेन देहावष्टम्भः| आकृत्यादीनां नानाविधा विशेषाः आकृतिः संस्थानम्| तस्यां हि भूतानि समवायिकारणम्| आत्मा त्वसमवायिकारणम्| कामादयः सर्व एव विज्ञानधर्मा आत्मभवाः| तथा सुखादयोऽप्यात्मनः कर्मफलत्वात्|| १६||
Adhikarana सात्म्यजा भावाः (१७) · Śloka १७
सात्म्यजान्यायुरारोग्यमनालास्यलोलुपत्वमिन्द्रियप्रसा दस्वरवर्णौजः सम्पत्प्रशस्तता प्रहर्षभूयस्त्वं मेधाबलं च||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सात्म्यजानि यानि देहिनो गर्भात् प्रभृति सात्म्यसेविन एव भवन्ति| स्वरादीनां सम्पत्परिपूर्णत्वम्| प्रशस्तता प्रशस्यत्वम्|| १७||
Adhikarana रसजा भावाः (१८) · Śloka १८
रसजानि कृत्स्नस्य देहस्य सम्भवो वृत्तिर्वृद्धिस्तृप्ति- रलौल्यं पुष्टिरुत्साहश्च||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रसजानि यानि रसेभ्यः परिणतेभ्यः सम्पद्यन्ते| देहस्य सम्भवो मातृजठरे| वृत्तिर्वृद्धिस्तत्रैव| जातस्य च|| १८||
Adhikarana शुद्धसत्त्वजा भावाः (१९) · Śloka १९
शुद्धसत्त्वजानि शौचमास्तिकत्वं, कृतज्ञता, दाक्षिण्यं, व्यवसायः, शौर्य्यं, गाम्भिर्यं बुद्धिर्मेधा, स्मृतिः शुक्ल वर्त्मरुचिर्भक्तिरभिषङ्गाभावस्तमोगुणो विपर्ययश्च||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शुद्धसत्त्वजानि यानि च वस्तूनि रजस्तमोभ्यामनपहतेन शुद्धेन सत्त्वेन भवन्ति| अस्ति परलोक इति विज्ञानं यस्याऽसावास्तिकस्तस्य भावः आस्तिकत्वम्| बुद्धिर्ग्रहणशक्तिः| मेधा प्रज्ञा| भक्तिर्देवतादि विषये| अभिषङ्गः सम्परित्यागाशक्तता तस्याऽभावः क्रोधाद्यनभिभव इति यावत्| तमोगुणानां वक्ष्यमाणानामज्ञानविषादादीनां वैपरीत्यमिति सत्त्वजानि|| १९||
Adhikarana राजसा भावाः (२०) · Śloka २०
राजसानि दुरुपचारताऽनार्यं शौर्य्यं मात्सर्यममित भाषित्वमहङ्कारो लोलुपत्वं दम्भो मानः क्रोधो हर्षः कामश्च||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
राजसानि तामसानि च रजस्तमोभ्यामुपहतेन सत्त्वेनैव भवन्ति| दुरुपचारः यस्य परिचारकादिभिर्दुःखेन चित्तं ग्रहीतुं पार्य्यते तस्य भावः| अनार्यं शौर्यं विषयकालादिना अनुचितम्| उचितं शौर्य्यं सात्त्विकत्वमेव| लोलुपो विषयकौतुकी तस्य भावः||२०||
Adhikarana तामसा भावाः (२१) · Śloka २१
तामसान्यज्ञानं विषादः प्रमादो निद्राऽऽलस्यं क्षुत्तृष्णा शोको मात्सर्यं विप्रतिपत्तिः परातिसन्धानं सत्त्वगुण- वैपरीत्यं च||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अज्ञानादीनि तामसानि| अज्ञानं मिथ्याज्ञानम्| विप्रतिपत्तिर्विरोधोऽन्येन| परातिसन्धानं परपक्षप्रतिबन्धः| सत्त्वजानां शौचास्तिकत्वादीनां वैपरीत्यम्|| २१||
Adhikarana मनसः उपप्लवौ देहस्य भूतात्मकताभिसन्धिश्च (२२) · Śloka २२
तत्र सत्त्वं मनस्तस्योपप्लवो रजस्तमश्च इत्येवम्भूतात्मकं देहमाहुः||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सत्त्वं किमुच्यत इत्याह-तत्रेत्यादि| सत्त्वं मनः इति पर्य्यायौ| तस्य सत्त्वस्य रजस्तमश्चोपप्लवौ| इत्यनेन प्रकारेण पृथिव्यादिविकारसमुदायात्मकं देहमाहुराचार्य्याः| तेनैतत् स्थितमस्मिन् दर्शने-आत्मा नित्यः अविकारः न जायते न च विनश्यति| सत्त्वादिसंयोगात्तु जातादिव्यपदेशं लभते| संयोगश्च तस्याविद्यास्वभावकृतः| अविद्याक्षयाध्यवलीने संयोगे शुद्धः सन् मुक्त इत्युच्यते| एकेन ह्यन्वयिना कर्त्रा विना बालत्वादीनां स्मृत्यादिना फलाभिसन्धानेन कार्य्याऽप्रवृत्तेर्देहादिकार्य्यस्य च सम्भवः| स च स्वतन्त्रोऽप्यात्मनैव तत्कर्म करोति| यस्य बन्धो वा मोक्षो वा फलमश्नुते, तस्य च स्वकर्मण एव करणात् कारणात् संयोगस्तद्विनाशौ बन्धमोक्षौ| न ह्यात्मना कर्त्रा विना शरीरस्य सम्भवः| तथा च भगवान् चरकः:- मृद्दण्डचक्रैश्च कृतं कुम्भकारादृते घटम्| कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्| यो वदेत्स वदेद्देहं सम्भूयकरणैः कृतम्| इति| तस्मादात्मा चेतनः कारणं नित्यः| अचेतनानि तु महाभूतानि अनित्यानि प्रतिक्षणप्रध्वंसीनि| तेषां हि नित्यत्वे भावानां वृद्ध्याद्यसम्भवः| न हि तदेकं वस्तु तथा चान्यथा च भवितुमर्हति| दृश्यते च| तस्मादनित्यानि भूतानि| तदधिष्ठितानि पुरुषाख्यां लभन्ते| एवमात्मनोऽनादिः संयोगः पुरुषसंयोगिभिरन्योन्यसापेक्षैर्भवति| तस्मात् स्थितमेवम्भूतात्मकं देहमाहुरिति||२२||
Adhikarana देहस्य प्रविभागः (२३) · Śloka २३
तस्य पुनः प्रविभागः-त्वचः कला दोषा धातवो मला बुद्धीन्द्रियाणि तदधिष्ठितानि कर्मेन्द्रियाण्यती न्द्रियमाशयाः प्राणायतनानि कण्डराजालानि कूर्चार ज्ज्वस्सीवन्योऽस्थिसङ्घाताः सीमन्ता अस्थीन्यस्थि सन्धयः स्नायूनि पेश्यः सिरा धमन्यः स्रोतांस्यूष्माणो मर्मणि केशश्मश्रुलोमानि प्रकृतिविकृतिभेदाश्च||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
स च देहस्त्वगादिभिरपोद्धारेण प्रविभज्यते| सुबोधम्|| २३||
Adhikarana त्वचोलक्षणं सङ्ख्या च (२४) · Śloka २४
तत्राऽसृजः पच्यमानस्य क्षीरस्येव सन्तानिकाः षट् त्वचो भवन्ति||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र देहे षट् त्वचो रक्तात् स्वोष्मणा पच्यमानात्क्षीरजालिकावत् भवन्ति| तास्तु कदलीदलवदन्तरे क्रमेण वर्तन्ते| तासां त्वचां प्रसादाद्रक्तस्य प्रसादः| त्वचो हि रक्तस्य प्रसन्नतां जनयन्ति| घनीभावस्याल्पीभावापादनाच्च|| २४||
Adhikarana त्वक्प्रसादफलम् (१) · Śloka १
त्वक्प्रसादाद्रक्तस्य प्रसादः||१||
Adhikarana उदकधरा त्वक् (२५) · Śloka २५
तासामुदकधरा चाद्या||२५||
Adhikarana असृग्धरा त्वक् (२६) · Śloka २६
द्वितीयाऽसृग्धरा||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
द्वितीयया रुद्धन्त्वस्रम्| तेन रक्तं न बहिः स्यन्दते| साऽसृग्धरा नाम इत्यादि सुबोधम्|| २६||
Adhikarana सिध्मकिलासाधिष्ठाना त्वक् (२७) · Śloka २७
तृतीया सिध्मकिलासाधिष्ठाना||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यदाश्रित्य यस्य भावस्तस्य तदधिष्ठानम्| सिध्म कुष्ठविशेषः| किलासं श्वित्रम्|| २७||
Adhikarana सर्वकुष्ठाधिष्ठाना त्वक् (१) · Śloka १
पञ्चमी पुनरलजीविद्रध्यधिष्ठाना||१||
Adhikarana प्राणधरा त्वक् (२८) · Śloka २८
षष्ठी तु प्राणधर|
यस्यां छिन्नायां ताम्यत्यन्धमिव च तमः प्रविशति यां चाधिष्ठायारूंषि जायन्ते|
पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
षष्ठी सर्वसामन्तर्मांसलग्ना| सा प्राणानन्तरवरुद्ध्याऽवतत्यावतिष्ठति| तदधिष्ठानानि हि विशेषेण कृष्णरक्तान्यरूंषि||२८||
Adhikarana मतान्तरेण त्वचां सप्तविधत्वम् (१) · Śloka १
अन्ये सप्त त्वचो वदन्ति||१||
Adhikarana भासिनी त्वक् (२९) · Śloka २९
तत्र प्रथमा भासिनी नाम या वर्णानामवभासिनी खादीनां च पञ्चानां छायानां सा व्रीहेरष्टादशभागप्रमाणा||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्ये त्वाचार्य्या भासिन्यादिभेदेन सप्तसंज्ञास्त्वचो वदन्ति| सुबोधम्| पञ्च छाया वक्ष्यमाणाः|| २९||
Adhikarana लोहिनी त्वक् (१) · Śloka १
द्वितीया लोहिनी नाम षोडशभागप्रमाणा|१|
Adhikarana श्वेता त्वक् (१) · Śloka १
तृतीया श्वेता नाम द्वादशभागप्रमाणा|१|
Adhikarana ताम्रा त्वक् (१) · Śloka १
चतुर्थी ताम्रा नामाऽष्टभागप्रमाणा|१|
Adhikarana वेदिनी त्वक् (१) · Śloka १
पञ्चमी वेदिनी नाम पाञ्चभागप्रमाणा|१|
Adhikarana रोहिणी त्वक् (१) · Śloka १
षष्ठी रोहिणी नाम व्रीहिप्रमाणा|१|
Adhikarana मांसधरा त्वक् (१) · Śloka १
सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा||१||
Adhikarana कलालक्षणम् (३०) · Śloka ३०
यस्तु धात्वाशयान्तरेषु क्लेदोऽवतिष्ठते स यथा स्व मूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुसारशेषो रसशेषोल्पत्वात् कलासंज्ञः||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उक्तास्त्वचः कला उच्यन्ते-यस्त्वित्यादि| धातूनां रक्तादीनामाशया यानि स्रोतांसि तेशां द्वयोर्धात्वाशययोर्मध्ये यः क्लेदः स स्वेन-स्वेन धातूष्मणा पक्वः श्लेष्मादिछन्नः सन् कलाख्या लभते| काष्ठसारवत् यथा काष्ठेऽन्तःसारो विभज्यते, तथा शरीरे कलाः| ताश्च स्वस्थानमजहत्यः शरीरं व्याप्नुवन्ति| स तु क्लेदो धातुसारशेषो न पूर्वधातुतां नाप्युत्तरधातुतां प्राप्नोत्यतः स्वल्पत्वात् कलासंज्ञः, आसां तु क्रमो धातुक्रमसम्भवविशेषात्| विशिष्टकार्यता तु स्वभावात्|| ३०||
Adhikarana सप्तकलाः (१) · Śloka १
ता धात्वाशयन्तरमर्यादाः सप्त कलाः||१||
Adhikarana मांसधर कला (३१) · Śloka ३१
तासां प्रथमा मांसधरा नाम|
यस्यां मांसे सिरास्नायु धमनीस्रोतसां भूमाविव पङ्कोदकेन बिसमृणालानां प्रता नानि भवन्ति||३१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तथाहि-प्रथमा रसविशेषजाऽपि मांसधर| यस्यां भूम्यामिवाधिष्ठाय मांसे कर्दमसदृशे सिरादीनां प्रतानानि मृणालप्रख्यानि भवन्ति|| ३१||
Adhikarana रक्तधरा कला (३२) · Śloka ३२
द्वितीया रक्तधर नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिराप्लीहयकृत्सु भवति|
मांसाच्च क्षतात् क्षतजं वृक्षादिव क्षीरिणः क्षीरं प्रवर्त्तते||३२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
द्वितीयायां शोणितं भवति| विशेषतो यकृदादिष्वेव तस्यां कलायां शोणितं भवति प्रभावाच्च मांसात् क्षतात् बहिः शोणितं प्रवर्त्तते| न हि तया विना मांसे रक्तं भवति| दृष्टान्तः स्फुटप्रतिपत्त्यर्थः|| ३२||
Adhikarana मेदोधरा कला (३३) · Śloka ३३
तृतीया मेदोधरा नाम|
मेदो हि तस्यामुदरेऽण्वस्थिषु च सरक्तं भवति|
तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख्यं मस्तुलुङ्गाख्यं च स्थूलास्थिषु च मज्जा||३३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तृतीयायां मेदःकर्तृ सरक्तं भवत्युदरेऽण्वस्थिषु| तामेवा ऽऽश्रित्य मेदो मस्तुलुङ्गत्वं याति मज्जत्वं च याति|| ३३||
Adhikarana श्लेष्मधर कला (३४) · Śloka ३४
चतुर्थी श्लेष्मधरा नाम|
तत्स्थेन हि श्लेष्मणा श्लेषिताः सर्वसन्धयो दृढा भवन्ति सोपाङ्गा साभ्यङ्गा||३४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुबोधम्| अक्षाश्चक्रनाभयः| सोपाङ्गः साभ्यङ्गाः|| ३४||
Adhikarana पुरीषधर कला (३५) · Śloka ३५
पञ्चमी पुरीषधरा नाम|
सा ह्यन्त्रामपक्वाशयाश्रिता कोष्ठान्तरुण्डुकस्थं मलं विभजति||३५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उण्डुकं पुरीषाधारः|| ३५||
Adhikarana पित्तधरा कला (ग्रहणी) (३६) · Śloka ३६
षष्ठी पित्तधर नाम पक्वामाशमध्यस्था|
सा ह्यन्त रग्नेरधिष्ठानतयाऽऽमाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य पित्ततेजस शोषयति पचति पक्वञ्च विमुञ्चति|
दोषाधिष्ठिता तु दौर्बल्यादाममेवाततोऽसावन्नस्य ग्रह णात् पुनर्ग्रहणीसंज्ञा|
बलं च तस्याः पित्तमेवाग्न्यभि धानमतः साऽग्निस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्त यति||३६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
षष्ठी पक्वामाशययोर्मध्ये स्थिता आमाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य्य पचति| पित्ततेजसा करणभूतेन| सैव वातादिदोषाधिष्ठानेन दौर्बल्यादाममेव विमुञ्चति यदेवाग्नेर्धारणं तदेव तस्या उपस्तम्भनम्| यदेवाग्नेरुपबृंहणं तदेवास्या उपबृःहणमित्येकयोगक्षेमा|| ३६||
Adhikarana शुक्रधर कला (३७) · Śloka ३७
सप्तमी शुक्रधरा नाम द्व्यङ्गुले दक्षिणे पार्श्वे बस्ति- द्वारस्याधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्तयति||३७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सप्तमी बस्तिद्वारस्य द्व्यङ्गुलमतिक्रम्य दक्षिणे पार्श्वे मूत्रमार्गमाश्रित्य वर्त्तते|| ३७||
Adhikarana दोषधातुमलातिदेशः (३८) · Śloka ३८
दोषा धातवो मलाश्च प्रागुदिताः||३८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दोषादयः प्राक् सूत्रस्थान उक्ताः|| ३८||
Adhikarana बुद्धीन्द्रियाणि (३९) · Śloka ३९
पञ्च बुद्धीन्द्रियाणि-श्रोत्रं स्पर्शनं दर्शनं रसनं घ्राणञ्च||३९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
श्रोत्रादीनि पञ्च बुद्धीन्द्रियाणि|| ३९||
Adhikarana बुद्धीन्द्रियाणां विषयाः (४०) · Śloka ४०
तेषां सभागतया क्रमाद्विषयः शब्दस्पर्शरूपरसगन्धाः||४०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषामिन्द्रियाणां सभागतया इन्द्रियस्य विशेषेणैकभूताधिक्यकारणत्वेन सादृश्यात्| यथा चक्षुस्तैजसं तैजसमेव रूपं गृह्णाति| श्रोत्रं नाभसं शब्दोऽपि नाभसः|| ४०||
Adhikarana बुद्धीन्द्रियाणामधिष्ठानानि (४१) · Śloka ४१
पञ्च बुद्धीन्द्रियाधिष्ठानानि-कर्णौ त्वगक्षिणी जिह्वा नासिके च||४१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इन्द्रियाधिष्ठानानि शरीरावयवाः|| ४१||
Adhikarana कर्मेद्रियाणि तेषां कार्यानि च (४२) · Śloka ४२
पञ्च कर्मेद्रियाणि वाक्पायूपस्थपाणिपादसंज्ञकानि||४२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्मेन्द्रियाणि पञ्च-वागेकं, द्वितीयं गुदं, तृतीयं मेढ्रम्, चतुर्थं पाणी, पञ्चमं पादौ|| ४२||
Adhikarana कर्मेन्द्रियाणां कर्माणि (४३) · Śloka ४३
तान्यपि च वचनोत्सर्गहर्षादानगमनार्थानि||४३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वागादीनां क्रमेण वचनादि कर्म| हर्षग्रहणमुपलक्षणम्| तथा चोपस्थं यथा हर्षार्थं तथा मूत्रोत्सर्गार्थमपि| हर्षशब्देन शुक्रं लक्ष्यते|| ४३||
Adhikarana मनसः अतीन्द्रियत्वम् (४४) · Śloka ४४
अतीन्द्रियन्तु मनः सर्वार्थैरन्वयात् तद्योगेन पञ्चेन्द्रिया णामर्थप्रवृत्तेः|
बुद्धिकर्मेन्द्रियोभयात्मकत्वाच्च||४४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अतीन्द्रियत्वमतिक्रान्तेन्द्रियस्वरूपत्वम्| हेतुत्रयेणातीन्द्रियत्वे उपपत्तिः| सर्वार्थैः सर्वैर्विषयैरनुगतं मनः न तथेन्द्रियम्| इन्द्रियाणि विशेषग्रहणार्थमिति तदपेक्षन्ते, न त्विन्द्रियान्तरम्| तथा तदुभयात्मकं तच्छक्त्यन्वयात्| तथा च यथा मनः पश्यति तथा क्रियाः प्रवर्त्तन्ते|| ४४||
Adhikarana सप्त आशयाः स्त्रीणामष्टमश्च (४५) · Śloka ४५
सप्ताशयाः क्रमादसृक्कफामपित्तपक्ववायुमूत्राधाराः|
स्त्रीणां पित्तपक्वाशययोर्मध्ये गर्भाशयोऽष्टमः||४५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
असृगाद्याशयाः कण्ठादयः क्रमेण महास्रोतसि वर्त्तन्ते सप्त| अष्टमः स्त्रीणामेव| स च पित्ताशयपक्वाशययोर्मध्ये भवति|| ४५||
Adhikarana आशयोष्वन्तर्भूता अवयवाः (४६) · Śloka ४६
तेषु सप्तसु प्रतिबद्धानि कोष्ठाङ्गानि हृदयकृत्प्लीहफुप्फु सोण्डुकवृक्कान्त्रादीनि||४६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषु चाशयेषु प्रतिबद्धानि हृदयादीनि कोष्ठाङ्गानि| आदिग्रहणादन्यानि नाभ्यादीनि सूक्ष्माणि गृह्यन्ते| तानि मृतशरीरे दृष्ट्वा कार्य्यकारणभावाद्विकल्पनीयानि| सुबोधमन्यत्|| ४६||
Adhikarana यकृत्प्लीहयोरुपत्तिः (१) · Śloka १
तत्र समानेनाध्मायमानस्य देहोष्मणा पच्यमामानस्य शोणितस्याच्छतो जायते यकृत् प्लीहा च|१|
Adhikarana फुप्फुसस्योत्पत्तिः (१) · Śloka १
रक्तफेनात् फुप्फुसम्|१|
Adhikarana उण्डुकस्योत्पत्तिः (१) · Śloka १
रक्तकिट्टादुण्डुकः|१|
Adhikarana वृक्कयोरुत्पत्तिः (१) · Śloka १
रक्तमेदः प्रसादाद् वृक्कौ|१|
Adhikarana अन्त्राणामुत्पत्तिः (१) · Śloka १
रक्तमांसप्रसादादाप्रमाणं||१||
Adhikarana स्त्रीपुंसयोरान्त्रप्रमाणमतानि (२) · Śloka २
सार्धत्रिव्यामानि पुंसाम्|
त्रिव्यामानि स्त्रीणाम्||२||
Adhikarana कालीयस्योत्पत्तिः (१) · Śloka १
रक्तस्यानिलयोगात् कालीयम्||१||
Adhikarana हृदयस्योत्पत्तिः स्वरूपञ्च (४७) · Śloka ४७
हृदयं पुनः श्लेष्मरक्तप्रसादात् सम्भवति पद्मकोश सङ्काशं सुषिरमधोमुखम्|
तद्विशेषेण चेतनायाः स्थानं सर्वभावानां च चेतनानुगतानाम्|
तस्य वामपार्श्वे प्लीहा फुप्फुसश्च्|
दक्षिणतो यकृत् क्लोम च||४७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चेतनानुगता भावाः स्मृत्यादयः| यत्र चेतनोऽन्वयी सक्तः||४७||
Adhikarana इन्द्रियसामान्योत्पत्तिः (४८) · Śloka ४८
तथा कफरक्तवाहिनां स्रोतसां महाभूतानां च प्रसादा- दिन्द्रियाणि||४८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अवयवविशेष इन्द्रियम्| कफादिवहानि यानि स्रोतांसि तेषां महाभूतानां चात्मीयाग्निना पाकपरिणामात्प्रसादाच्चक्षुरादीन्द्रियाणि भवन्ति| इन्द्रियाधिष्ठानानीन्द्रियाणीत्युच्यन्ते|| ४८||
Adhikarana नेत्रोत्पत्तिस्तत्स्वरूपञ्च (४९) · Śloka ४९
तेष्वपि च नेत्रे श्लेष्मणः प्रसादाच्छुक्लमण्डलं तत् पितृजम्|
असृजः कृष्णमण्डलं तन्मातृजम्|
मध्ये दृष्टि मण्डलं तदुभयात्मकम्||४९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेष्वपीन्द्रियेषु मध्ये नेत्रे यच्छुक्लमण्डलं तच्छ्लेष्मणः प्रसादाद्भवति| तच्च पैतृकं भवति| सुबोधम्|| ४९||
Adhikarana नेत्रमण्डलानि पटलानि च (५०) · Śloka ५०
पक्ष्मवर्त्मशुक्लकृष्णदृष्ट्याख्यानि पञ्च मण्डलानि|
तत्सन्धयश्चत्वारः|
द्वौ चापाङ्गकनीनयोः इति ते षट्|
षट् च पटलानि|
द्वे वर्त्मनी|
बाह्यं चाश्रितमग्न्यम्भसी|
द्वितीयं मांसं तृतीयं मेदश्चतुर्थमस्थि|
तेशां बहलत दृष्टेः पञ्चमांशेन||५०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पञ्च नेत्रे चक्रवदान्तरतः मण्डलानि| तेषां सन्धयः षट्| एकः पक्ष्मवर्त्मनोः| द्वितीयो वर्त्मशुक्लयोः| तृतीयः शुक्लकृष्णयोः| चतुर्थः कृष्णदृष्ट्याख्ययोः| पञ्चमो नेत्रापाङ्गयोः| षष्ठो नेत्रकनीनिकयोः| अपाङ्गः कर्णदिशि| कनीनिकं नासादिशि| षट् च नेत्रपटलानि भवन्ति| बाह्यमित्यादिना पटलानां क्रमः| तत्र च यद्बाह्यं पटलं तदूर्ध्वाधोभेदेन द्वे वर्त्मनी अग्न्यम्भसी चाश्रितम्| ताभ्यां तदाप्यायितम्| एवं सर्वत्र वाच्यम्| दृष्टिमण्डलस्य यावती विस्तीर्णता तस्याः पञ्चमेन भागेन पटलानां घनत्वम्||५०||
Adhikarana चतस्रो बन्धनरज्जवः (५१) · Śloka ५१
बन्धनगुणास्तु चत्वारः सिराकण्डरामेदःकफात्मकाः||५१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सिरादिमयाश्चत्वारो देहबन्धनरज्जवः| याभिर्महासन्धयो बध्यन्ते| तेषां सिराद्यनन्यतमत्वान्नाधिकनिर्देशः सुबोधम्|| ५१||
Adhikarana श्लेष्मणः सर्वसन्धिबन्धन- त्वातिदेशः (१) · Śloka १
श्लेष्मा तु परं सर्वसन्धिबन्धनमित्युक्तं प्राक्||१||
Adhikarana नेत्रतेजसः कर्मण्यत उपघाते च हेतुः (२) · Śloka २
नेत्राश्रितं तु तेजो बाह्यतेजसा स्वयोनिना योगाच्छ- स्रमिवाश्मना कर्मण्यं भवति|
अतियोगादुपहन्यते||२||
Adhikarana अम्भोमध्यगस्यापि नेत्रतेजसः न तेजस्त्वहानिः (१) · Śloka १
तच्च वैद्युतवद्बडवामुखवच्चाम्भोमध्यगमपि वीर्य्यो- त्कर्षात्तेजस्त्वं न जहाति|१|
Adhikarana जिह्वोत्पत्तिः (१) · Śloka १
मांसासृक्कफप्रसादात्तु जिह्वा जायते||१||
Adhikarana वृषणोत्पत्तिः (५२) · Śloka ५२
मांसासृक्कफमेदःप्रसादाद् वृषणाविति||५२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
जिह्वावृषणयोरिन्द्रियाधारेष्वनुपदेशः|| ५२||
Adhikarana दश प्राणायतनानि महामर्मसंज्ञा च (५३) · Śloka ५३
दश प्राणायतनानि मूर्धा जिह्वाबन्धनं कण्ठो हृदयं नाभिर्बस्तिर्गुदः शुक्रमोजो रक्तञ्च|
तेषामाद्यानि सप्त पुनर्महामर्मसंज्ञानि||५३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
प्राणानामायतनानि स्थानानि मूर्धादीनि आद्यानि सप्त गुदान्तानि महामर्माख्यानि| कण्ठो जिह्वाबन्धनस्याधः| सुबोधम्|| ५३||
Adhikarana षोडश कण्डराः तेशां स्थानानि च (५४) · Śloka ५४
षोडश कण्डराः|
तासां द्वे द्वे करचरणेषुचतस्रः पृथ- ग्ग्रीवापृष्ठयोः||५४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
षोडशेत्यादि द्वे-द्वे इति चतुर्षु करचरणेष्वष्टौ| पृथगिति ग्रीवायां चतस्रः| पृष्ठवंशे चतस्र इति पूर्वाभिः षोडश कण्डर मांसरज्जुप्रायाः|| ५४||
Adhikarana षोडश जालकानि तेषां स्थानानि च (५५) · Śloka ५५
षोडश जालानि, तेषां मांससिरास्नाय्वस्थिजानि चत्वा र्य्यैकैकत्र गुल्फे मणिबन्धे च परस्परगवाक्षितानि तानि स्थितानि||५५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एकैकत्रेति प्रत्येकं चतुर्षु गुल्फमणिबन्धनेषु चत्वारि मांसादिकानि जालकादीनि षोडश|| ५५||
Adhikarana षट् कूर्चास्तेषां स्थानानि च (५६) · Śloka ५६
षट् कूर्चाः हस्तपादग्रीवामेढ्रेषु||५६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
चत्वारो हस्तपादे प्रत्येकमेको ग्रीवायामेको मेढ्रे चेति षट् कूर्चाः| कूर्चाकृतयः स्नाय्वादिविशेषाः|| ५६||
Adhikarana चतस्रो मांसरज्जवः तेषां स्थानानि च (५७) · Śloka ५७
चतस्रो मांसरज्जवः पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं तासां द्वे बाह्ये|
द्वे चाभ्यन्तरस्थिते||५७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पृष्ठवंशस्यैकस्मिन् पार्श्वे त्वग्भाग एका, तद्वद् द्वितीये पार्श्वे, द्वे चाभ्यन्तर इति चतस्रो मांसरज्जवः|| ५७||
Adhikarana सप्त सीवन्यस्तेषां स्थानानि च (५८) · Śloka ५८
सप्त सीवन्यः|
ताः पञ्च शिरसि जिह्वामेहनयोरेकैका|
परिहार्याश्च शस्त्रेण||५८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शिरसि द्वे शङ्खावश्रित्य प्रवृत्ते द्वे कृकाटिके एका उपरिऋज्वी इति पञ्च| द्वे जिह्वामेढ्रयोरिति सप्त सीवन्यः शस्त्रेण परिहार्याः|| ५८||
Adhikarana चतुर्दशास्थिसङ्घाताः (५९) · Śloka ५९
चतुर्दशास्थिसङ्घाताः|
तेषामेकैको गुल्फजानुवङ्क्षण मणिबन्धकर्पूरकक्ष्यासु त्रिकशिरसोश्च||५९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
गुल्फादिमणिबन्धादित्रयभेदेन प्रत्येकं शाखायां त्रय इति द्वादश| त्रिके शिरसि चैकैक इत्यस्थिसङ्घाताश्चतुर्दश|| ५९||
Adhikarana अष्टादश सीमन्ताः (६०) · Śloka ६०
तद्वत्सीमन्ताः, ते तु पञ्च शिरसीत्यष्टादश||६०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तद्वदस्थिसङ्घातवत् गुल्फादिषु त्रिके चैकैकः| पञ्च शिरसीत्यष्टादश सीमन्ताः| सीमन्ताः सीवन्यश्च बहिस्त्वचः शिरसि न दृश्यन्ते|| ६०||
Adhikarana अस्थीनि तेषां स्थानानि च (६१) · Śloka ६१
त्रीणि षष्ट्यऽधिकान्यस्थिशतानि|
तेषां च चत्वारिंशच्छतं शाखासु|
सविंशं शतमन्तराधौ|
शतमुर्ध्वमिति||६१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अस्थ्नां शतनि त्रीणि षष्ट्याऽधिकानि|| ६१||
Adhikarana शाखास्थीनि (६२) · Śloka ६२
तत्रैकैकस्मिन् सक्थ्नि पञ्च पादनखाः प्रत्येकमङ्गुल्यां त्रीण्यस्थीनि तानि पञ्चदश|
पञ्च पादशलाकाः|
तत्प्रति बन्धकमेकम्|
द्वे द्वे कूर्चगुल्फजङ्घास्वेकैकं पार्ष्णजान् रुषु|
सर्वाणि च नखास्थ्यादीनि सक्थिवद् बाह्वोश्च||६२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां प्रत्येकं शाखानां पञ्च नखाः| पञ्चदशाङ्गुल्यस्थीनि| पञ्चाङ्गुलिलग्नशलाकाः| एकं शलाकाप्रतिबन्धनम्| कूर्चे द्वे| गुल्फे द्वे| जङ्घायां द्वे| एकं पार्ष्णौ| एकं जानुनि| एकमूराविति पञ्चत्रिंशत्| शाखानां चतुष्ट्वाच्चतुर्गुणानि चत्वारिंशच्छतमस्थ्नां शाखासु|| ६२||
Adhikarana अन्तराध्यस्थीनि (६३) · Śloka ६३
चतुर्विंशतिः परशुकाः|
तावन्त्येव स्थालकान्यर्बुदानि च|
त्रिंशत् पृष्ठे|
अष्टावुरसि एकैकं भागे त्रिके|
नितम्बयोश्च द्वे|
तद्वदक्षकांसांसफलकेषु||६३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पार्श्वकास्थालकार्बुदानि द्विसप्ततिरस्थीनि| त्रिंशदष्टावेकमेकं नितम्बयोर्द्वित्वाद् द्वे| अक्षकादीनामपि त्रयाणां द्वित्वाद् द्वे द्वे| इत्यन्तराधौ विंशकं शतमस्थ्नाम्| पार्श्वका दीर्घावक्रान्ता यत्र पृष्ठतो बध्यन्ते| यानि स्थालकानि तान्यपि| एषु यानि पृष्ठवंशारम्भ-कास्थिषु सम्बध्यन्ते तान्यबुर्दानि|| ६३||
Adhikarana मूर्द्धास्थीनि (६४) · Śloka ६४
तथा गण्डकर्णशङ्खेषु जत्रुतालुनोश्च|
त्रयोदश ग्रीवायाम्|
चत्वारि कण्ठनाड्याम्|
द्वे हनुबन्धने|
द्वात्रिंशद्दन्ताः|
तद्वदुलूखलानि च|
त्रीणि नासायाम्|
षट् शिरसि||६४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तथेत्येकैकम्| तत्र गण्डादीनां त्रयाणां द्वित्वाद् द्वे द्वे द्वे| एकमेकम्| त्रयोदश| चत्वारि| द्वे द्वयोः| द्वात्रिंशत् द्वात्रिंशत्| त्रीणि| षडिति शतं शिरसि| नासाग्रे पार्श्वयोर्द्वयोर्मध्य एकम्| शिरस्यग्रे कपालमेकम्| पृष्ठत् एकम्| पार्श्वयोर्द्वयोर्द्वाविति षट् कपालानि शिरसि|| ६४||
Adhikarana पञ्चविधान्यस्थीनि (६५) · Śloka ६५
तानि जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणमध्यशिरस्सु कपालसंज्ञानि|
दशनास्तु रुचकाः|
घ्राणकर्णग्रीवा क्षिकोशेषु तरुणानि|
पाणिपादपार्श्वपृष्ठेषु बलयानि|
शेषाणि नलकानीति|
नामानुगताकृतीनि पञ्चविधान्य स्थीनि|
तेषु हि सिराभिः स्नायुभिश्च निबद्धानि मांसानि||६५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कपालादिनामानि पञ्चान्वर्थाकृतीनि| तरुणानि मृदूनि| तेषु पञ्चविधेष्वस्थिषु सिरास्नाय्वभिर्मांसानि निबद्धानि मांसानि|| ६५||
Adhikarana सन्ध्यस्तासां स्थानानि च (६६) · Śloka ६६
दशोत्तरं शतद्वयमस्थिसन्धीनाम्|
तेशामष्टषष्टिः शाखासु|
एकोनषष्टिरन्तराधौ|
त्र्यशीतिरुर्ध्वम्||६६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अस्थिसन्धीन्याह|| ६६||
Adhikarana शाखागताः सन्धयः (६७) · Śloka ६७
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुलौ प्रत्येकं त्रयः|
द्वाव ङ्गुष्ठे|
ते चतुर्दश|
एकैको गुल्फजानुवङ्क्षणेषु||६७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां प्रत्येकं त्रय अङ्गुलीषु| द्वादश| त्रिष्वस्थिषु अङ्गुल्याः द्वे| शलाकायाः तृतीयः| अङ्गुष्ठमध्य एकः| शलाकायां द्वितीय इति चतुर्दश करे| गुल्फादिष्वेकैकः| एवं शाखाष्वष्टषष्टिः सन्धयः||६७||
Adhikarana अन्तराधिगताः सन्धयः (६८) · Śloka ६८
त्रयः कटिकपालेषु|
चतुर्विंशतिः पृष्ठवंशे|
तद्वत् पार्श्वयोः|
अष्टावुरसि||६८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
त्रयश्चतुर्विंशतिद्वयं अष्टावित्येकोनषष्टिरन्तराधौ| तद्वदिति पृष्ठवंशवत्| पार्श्व एकस्मिन् द्वादशान्यस्मिन् द्वादशपरशुकाश्रयत्वात् सन्धीनाम्|| ६८||
Adhikarana मूर्द्धगताः सन्धयः (६९) · Śloka ६९
अष्टौ ग्रीवायाम्|
त्रयः कण्ठनाड्याम्|
अष्टादश कण्ठ नाडीनिबद्धा हृदययकृत्क्लोमनाडीषु|
द्वात्रिंशद्दन्तमूलेषु|
एकैकः काकलनासामूर्द्धसु|
द्वौ द्वौ गण्डकर्णशङ्ख वर्त्मनेत्रहनुसन्धिषु|
द्वावुपरिष्टात् भ्रुवोः|
पञ्च शिरः कपालेषु||६९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अष्टौ त्रयः अष्टादशद्वात्रिंशदेकः एकः एकः गण्डादिषु द्वौ द्वौ षट्स्वेवं द्वादश द्वौ पञ्च इति त्र्यशीतिरुर्ध्वम्| तिसृषु हृदयादिनाडीष्वष्टादशसन्धयः| ते च कण्ठनाड्यां निबद्धाः अतएव शिरसि गणिताः| हन्वोः सन्धिर्हनुसन्धिः| द्वौ द्वौ गण्डादीनामित्येकैकस्मिन् गण्डादावेकैकः सन्धिर्ज्ञेयः| उपरिष्टाद्द्वाविति भ्रुवोरुर्ध्वे| शिरोवर्तुलतया शिरःकपालेषु पञ्च| द्वौ ललाटपार्श्वयोः| द्वौ कृकाटिकापार्श्वयोः| एक ऋजुः|| ६९||
Adhikarana सन्धीनामष्टविधत्वम् (७०) · Śloka ७०
तेऽङ्गुलिगुल्फलजानुमणिबन्धकूर्परेषु कोरसंज्ञाः|
कक्षा वङ्क्षणदन्तमूलेषूलूखसंज्ञाः|
अंसपीठगुदभगनितम्बेषु सामुद्गाः|
गीवापृष्ठवंशयोः प्रतराः|
शिरःकटीकपालेषु तुन्नसेवनीसंज्ञाः|
हनूभयतो वायसतुण्डाः|
कण्ठनेत्र- हृदययकृत्प्लीहक्लोमनाडीषु मण्डलसंज्ञाः|
श्रोत्रशृङ्गा टकेषु शङ्खावर्ताः|
इत्यस्थिसन्धयोऽष्टविधाः||७०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां सन्धीनां स्थानविशेषेण संज्ञाष्टकमनुगतार्थम्| श्रोत्रशृङ्गाटकं भ्रुव उपरि कर्णनिकटे| इत्यस्थ्याश्रितानां सन्धीनां दशोत्तरं शतद्वयमुक्तम्|| ७०||
Adhikarana स्नायुपेशीसिराश्रिताः सन्धयः (७१) · Śloka ७१
स्नायुपेशीसिराश्रितैस्तु सहस्रद्वयं न पुनः शस्त्रप्रणिधाने तेषु वाच्यमस्तीति पृथङ्नोच्यते||७१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
स्नाय्वाद्यैः सन्धिभिः सहस्रद्वयं भवति तच्छस्रकर्मानुपयोगान्नोक्तम्| सूक्ष्माः सिराः स्नायवः| पेश्यः पुनः स्नाय्वाकृतयो मांसमय्यः|| ७१||
Adhikarana स्नायवस्तेषां स्थानानि च (७२) · Śloka ७२
नव स्नायुशतानि|
तेषां षट् शतानि शाखासु|
त्रिंश च्छतद्वयमन्तराधौ|
ऊर्ध्वं सप्ततिः||७२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथ स्नाय्वानां विभाग उच्यते| प्रत्येकं शाखायां सार्द्धशतं स्नाय्वानामेवं शाखासु षट्शतानि|| ७२||
Adhikarana शाखागताः स्नायवः (७३) · Śloka ७३
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं षट्षट्|
तानि त्रिंशत्|
दश दश पादतलकूर्चगुल्फेषु त्रिंश ज्जङ्घायाम्|
दश जानुनि|
चत्वारिंदूरौ|
दश वङ् क्षणे||७३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तथा चैकस्मिन् सक्थ्नि पञ्च पादाङ्गुलीषु प्रत्येकं षट्| एवमङ्गुलीषु त्रिंशत्| पादतलादिषु त्रिषु दश-दश| एवं त्रिंशदेकीकृत्य षष्टिः| त्रिंशद्दश चत्वारिंशद्दश इति सार्धशतम्| बाहावङ्गुलीकरतलकूर्चमणिबन्धनप्रकोष्ठकूर्परप्रकाण्डकक्ष्यासु क्रमेणोक्तावयवाद्विज्ञेयम्|| ७३||
Adhikarana अन्तराधिगताः स्नायवः (७४) · Śloka ७४
चत्वारिंशत् कट्याम्|
विंशतिर्मुष्कमेढ्रबस्त्यन्त्रेषु|
अशीतिः पृष्ठे|
षष्टिः पार्श्वयोः|
अष्टादशोरसि|
चत्वार्यक्षकयोः|
अष्टावंसयोः||७४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्तराधौ चत्वारिंशद्विंशतिरशीतिः षष्ट्याष्टादश चत्वार्य्यष्टाविति त्रिंशदधिकान्यष्टौ शतानि भवन्ति| मुष्कादिषु चतुर्षु च विंशतिः साधारणानि| अक्षकयोर्द्वे द्वे| असंयोश्चत्वारिचत्वारि|| ७४||
Adhikarana मूर्द्धगताः स्नायवः (७५) · Śloka ७५
द्वे द्वे मन्यावटुनेत्रौष्ठतालुषु|
त्रिंशद् ग्रीवायाम्|
त्रीणि जत्रुणि|
चत्वारि हन्वोः|
पञ्च जिह्वायाम्|
द्वादशोत्तराध- रेशु दन्तमांसेषु|
षण्मूर्धनि||७५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शिरस्युच्यते-द्वे मन्ययोः| अवटौ द्वे| नेत्रयोर्द्वे| तालुनि द्वे-इति दश| त्रिंशत्त्रीणि चत्वारि पञ्च द्वादश षडिति मूर्धनि| अक्षकसन्धिर्जत्रुः हन्वोर्द्वे द्वे| उत्तराधरेषु दन्तमांसेषु षट्षडिति स्नाय्वानां नवशतानि| अवटुः कृकाटिका|| ७५||
Adhikarana स्नायूनां प्रकाशविशेषाः (७६) · Śloka ७६
तत्र शाखासु सन्धिषु च प्रतानवन्ति|
महास्नाय्वानि तु वृत्तानि तानि कण्डरासंज्ञानि|
बस्त्यामपक्वाशयान्त्रेषु सुषिराणि|
पार्श्वपृष्ठोरशिशरस्तु पृथूनि||७६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिना तेषां देशविशेषेणाकारविशेषा उच्यन्ते| प्रतानवन्त्यनेकप्रकाराणि| तेषामेव स्नाय्वानां वृत्तानां महतां च कण्डरासंज्ञा| सुबोधम्|| ७६||
Adhikarana स्नायूनां रक्षणम् (७७) · Śloka ७७
स्नायुबन्धनैर्हि सन्धिषु सुबद्धा तनुर्नौरिव सम्यगीहते|
तस्मादस्थिसिरादिभ्योऽपि तानि यत्नतो रक्षेत्||७७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एतैर्हि स्नायुनिबन्धनैस्तनुः सन्धिप्रदेशेष्ववबद्धा सती सम्यगीहते साधु कृत्वा चेष्टते| यथा नौः सन्धिषु प्रतिबद्धा सती सम्यगीहते| ततो हेतोस्तानि स्नाय्वानि यत्नतो रक्षेदस्थ्यादिभ्योऽपि|| ७७||
Adhikarana गूढशल्योद्धरणे स्नायूनां सम्य- ग्ज्ञानस्यावनिवार्यत्वम् (७८) · Śloka ७८
यश्च स्नाय्वानि बाह्यान्यभ्यन्तराणि च सम्यग् जानाति स गूढमपि शल्यमाहर्तुं समर्थो भवति||७८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुबोधम्| स्नाय्वज्ञाने चात्रैवोपयोगो वक्ष्यते|| ७८||
Adhikarana पेश्यस्तासां स्थानानि च (७९) · Śloka ७९
पञ्च पेशीशतानि|
तासां चत्वारि शतानि शाखासु षष्टिरन्तराधौ|
चत्वारिंशदूर्ध्वम्||७९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथ पेश्यः|| ७९||
Adhikarana शाखागताः पेश्यः (८०) · Śloka ८०
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं तिस्रः|
ताः पञ्चदश|
दश दश प्रपदे पादतले गुल्फे च, तथा पादस्योपरि कूर्चे सन्निविष्टाः|
विंशतिर्जङ्घायाम्|
पञ्च जानुनि विंशतिरूरौ||८०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अङ्गुलीषु पञ्चदश| प्रपदे पादतलस्याग्रभागे दश| तथा पादतले दश| गुल्फे दश| पादस्योपरि दश| ताश्च कूर्चनाम्नि मर्मणि सन्निविष्टाः| विंशतिर्जङ्घायाम्| जानुनि पञ्च| ऊरौ विंशतिरिति शतं सक्थ्नि| तद्वत्तिसृषु शेषासु शाखासु|| ८०||
Adhikarana अन्तराधिगताः पेश्यः (८१) · Śloka ८१
एकैका मेढ्रसेवन्योः|
द्वे वृषणयोः|
दश स्फिजोः|
तिस्रो गुदे, तास्तु वलीसंज्ञाः|
द्वे बस्तिशिरसि|
चतस्र उदरे|
नाभ्यामेका|
हृद्यामाशये च|
षट् यकृत्प्लीहोण्डु केषु|
पृष्ठे पञ्चोर्ध्वसन्निविष्टाः|
दश दीर्घाः पाऱ्श्वयोः|
दश वक्षसि|
तिस्रोंऽसाक्षकोपरितः||८१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अन्तराधौ तु एका मेढ्रे| एका सेवन्याम्| द्वे| दश| गुदे तिस्रो वलीसंज्ञाः| द्वे| चतस्रः| एका| द्वे हृद्यामाशये च साधारणम्| यकृदादिषु त्रिषु षट्| पृष्ठे पञ्च| तास्तु ऊर्ध्वं शिरसः सन्निविष्टाः| दश| दश| अंसाक्षकोपरितस्तिस्र इत्यन्तराधौ षष्टिः| पूर्वैः सह षष्ट्यधिकानि चत्वारि शतानि भवन्ति||८१||
Adhikarana मूर्द्धगताः पेश्यः (८२) · Śloka ८२
दश ग्रीवायाम्|
अष्टौ गण्डयोः|
अष्टौ हन्वोः|
एकैका गलकाकलजिह्वामूर्धसु|
द्वे द्वे तालुललाटयोः|
नासौष्ठ- कर्णेषु च||८२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊर्ध्वाङ्ग उच्यते-दशाष्टवष्टावेकैकैकैका द्वे-द्वे-द्वे-द्वे-द्वे इति चत्वारिंशत्| काकलं कण्ठमध्यम्| काकलस्याधो नालम्| मूर्धा शिरः| नासायां द्वे| ओष्ठयोः कर्णयोश्च प्रत्येकमेका| इति पुं<सम्< दिव्=""><स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३६">पुं<सम्< दिव्=""><स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३६">पुṁ<सम्< दिव्=""><स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३६"> <दिव् इद्="व्य_त्रन्स्_३७" च्लस्स्="हिद्देन्">पñचप्ēśīśअत्āनि||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३७">पञ्चपेशीशतानि|| <दिव् इद्="व्य_त्रन्स्_३८" च्लस्स्="हिद्देन्">८२||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३८">८२|| <ब्र्><ब्र्> <ह्र् च्लस्स्="दोउब्लेळिने"> <दिव् इद्="व्य_त्रन्स्_३७" च्लस्स्="हिद्देन्">पञ्चपेशीशतानि||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३७"> <दिव् इद्="व्य_त्रन्स्_३८" च्लस्स्="हिद्देन्">८२||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३८"> <ब्र्><ब्र्> <ह्र् च्लस्स्="दोउब्लेळिने"> <दिव् इद्="व्य_त्रन्स्_३७" च्लस्स्="हिद्देन्">पञ्चपेशीशतानि||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३७"> <दिव् इद्="व्य_त्रन्स्_३८" च्लस्स्="हिद्देन्">८२||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३८"> <ब्र्><ब्र्> <ह्र् च्लस्स्="दोउब्लेळिने"> पञ्चपेशीशतानि|| ८२||
Adhikarana स्त्रीणामधिकाः पेश्यस्तासां स्थानानि च (८३) · Śloka ८३
स्त्रीणां तु विंशतिरधिक|
तत्र दश स्तनयोः|
तासां यौवने परिवृद्धिर्भवति|
दश योनौ||८३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
स्त्रीणां विंशतिः पेश्योऽधिकाः| तासां मध्याद्दश स्तनयोः| तासां बालभावे सद्भावमात्रम्| यौवने वृद्धिः| योनौ दश|| ८३||
Adhikarana योनिगर्भाशयस्वरूपं तद्गताः पेश्यश्च (८४) · Śloka ८४
तासामभ्यन्तराश्रिते द्वे|
मुखाश्रिते वृत्ते द्वे|
तिस्रो गर्भ मार्गाश्रयाः|
यस्यां गर्भस्तिष्ठति|
योनिस्तु शङ्खना भ्याकृतिस्त्र्यावर्ता|
तस्यास्तृतीय आवर्ते पित्तपक्वा शयान्तरे रोहितमत्स्यमुखाकारा गर्भशय्या|
तस्यां शुक्रार्त्तवप्रदेशिन्यस्तिस्रः पेश्यः||८४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तासां विभागः| द्वे अभ्यन्तरे महास्रोतसि प्रवृत्ते| द्वे योनिमुखाश्रये वृत्ताकारे| तिस्रो गर्भमार्गमाश्रिताः| तिस्रश्च गर्भाशयेशुक्रार्त्तवप्रवेशिन्यो गर्भशय्यायां प्रतिबद्धाः| सा च योनौ शङ्खनाभ्याकृत्या तृतीय आवर्ते निबद्धा| रोहितमत्स्यमुखाकारा गर्भशय्या|| ८४||
Adhikarana पेशीनां स्वरूपं प्रयोजनञ्च (८५) · Śloka ८५
ताभिर्हि शरीरे तनुबहलस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिर मृदुश्लक्ष्णकर्कशाभिः सन्ध्यस्थिसिरास्नाय्वनि प्रच्छ दितानि||८५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इत्यनन्तरोक्ताभिः पेशीभिस्तनुत्वादिगुणयुक्ताभिः शरीरे सन्ध्यस्थिसिरास्नाय्वनि प्रच्छादितानि|| ८५||
Adhikarana सिराधमनीमुखानां केशादी नाञ्च संख्यानम् (८६) · Śloka ८६
सिराधमनीमुखानां त्वणुशे विभज्यमानानामेकोन त्रिंशच्छतसहस्राणि नव च शतानि षट्पञ्चाशतानि भवन्ति|
ताभिरिदं शरीरं गवाक्षितं पिनद्धमाततञ्च|
तावन्ति च केशश्मश्रुलोमानि||८६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सिराः नातिस्थूला रज्ज्वाकार अन्तस्सुषिरा वातादिवहाः| धमन्यस्तद्विशेषा एव वक्ष्यमाणलक्षणाः| ताभिः शरीरं गवाक्षितं जालवत् पिनद्धं बद्धं यन्त्ररज्जुवदाततं विस्तारितं पटतन्तुवत्| केशादीनि च तावन्त्येव|| ८६||
Adhikarana सिराधमनीनां कर्म (८७) · Śloka ८७
तासां हि मुखानि तत्प्रतिबद्धान्यतस्तानि ताभिराप्याय्यन्ते|
तैश्च ताः स्वदेमभिवहन्ति|
तथाऽभ्यङ्गलेपादिवीर्य्यं त्वचि विपक्वमन्तर्नयन्ति स्पर्शञ्च गृह्णन्ति||८७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अणुशो विभज्यमानानां सूक्ष्मैर्भागैः क्रमेण विभागं गच्छन्तीनां तासां सिराधमनीनां मुखानि सर्वत्र प्रसृतानि तत्प्रतिबद्धानि केशाद्यनुबद्धादि| अतो हेतोस्तानि केशादीनि ताभिः सिराधमनीभिराप्याय्यन्ते| तैश्च केशाद्यनुबद्धैर्मुखैरेताः स्वेदमभिवहन्त्यभ्यङ्गादि वीर्यं त्वचि विपक्वं सदन्तर्नयन्ति| स्पर्शं गृह्णन्ति||८७||
Adhikarana स्रोतसां सङ्ख्येयत्वादि (८८) · Śloka ८८
स्रोतांसि पुनरसङ्ख्येयान्येव|
तथापि तु सिरादीनि यथा- स्थूलं यथोपयोगं चान्यत्रोपदेक्ष्यन्ते||८८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
स्रोतांसि मार्गाः यैरन्नसारो धातुतां याति| सौक्ष्म्यात् प्रतानवत्त्वाच्चापरिसङ्ख्येयानि सिरादीनि| सिराधमनीस्रोतांस्यसङ्ख्यान्यपि यथाप्रधानं यथोपयोगं च यानि प्रधानानि, यानि चिकित्सार्थमुपयुज्यन्ते तान्यन्यत्र सिराविभागादावुपदेक्ष्यन्ते|| ८८||
Adhikarana प्रकरणोपसंहारः (८९) · Śloka ८९
इत्येवं परिसङ्ख्याताः शरीरे मूर्तिमन्तः स्थिरा भावाः||८९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इति शरीरे मूर्त्ताः कठिनाः स्पर्शनेन्द्रियाधिगम्या भावास्त्वगादयः परिसङ्ख्याता यथोक्तेन भेदेन|| ८९||
Adhikarana शरीरे उदकांशाः (९०) · Śloka ९०
द्रवास्तु यत्तदतियोगेन च्यवमानं पुरीषमनुबध्नाति|
तथा मूत्रं रुधिरमन्यांश्च शरीरे धातून्|
यच्च सर्वशरीरगतं बाह्या त्वग्विभर्ति|
यच्च त्वगन्तरे व्रणगतं लसीका शब्दवाच्यम्|
यच्चोष्मानुबद्धं रोमकूपेभ्योऽभिनिष्प तत्स्वेदवाच्यम्|
तदुदकम्||९०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
द्रवास्तु भवन्तीति शेषः| ते चोदकमूत्रादयः| तत्रोदकं देहे यत् कर्त्तृकर्मभूतमतियोगेन च्यवमानं पुरीषमनुबध्नाति| तत्प्रसादाद्ध्यतीसारे वेगानां गतसङ्ख्यत्वम्| तथातियोगेन च्यवमानं मूत्रप्रमेहे| रक्तपित्ते च रुधिरमिति| अन्यांश्च शरीरे धातून् पित्तश्लेष्मादीनतियोगेन प्रवर्तमानाननुबध्नाति| तदुदकमिति सम्बन्धः| सुबोधम्|| ९०||
Adhikarana स्वस्थशरीरे रसादीनां मानम् (९१) · Śloka ९१
तस्याद्यस्य चाहारसारस्य रसाख्यस्य रक्तस्य शकृतः श्लेष्मणः पित्तस्य मूत्रस्य वसायाः मेदसो मज्ज्ञश्च स्वेन स्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख्याप्रवृद्धिः||९१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तस्येत्युदकस्य रसाख्यस्याद्याहारसारस्य च रक्तादीनां च मज्जान्तानामष्टानां स्वेनस्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख्याप्रवृद्धिर्विज्ञेया| स्वेनस्वेनेत्यञ्जलिप्रमाणेकान्त्यस्यैनाञ्जलित्वम्| तत्पूर्वाणां क्रमेणैकैकाञ्जलिवृद्धिः| मज्जा एकोऽञ्जलिः द्व्यञ्जलिर्मेदः| वसा त्र्यञ्जलि| यावदुदकस्य दशाञ्जलयो देहे|| ९१||
Adhikarana शुक्रस्य परिमाणमम् (१) · Śloka १
अर्द्धाञ्जलिः शुक्रस्य||१||
Adhikarana मस्तिष्कमोजसोः परिमाणम् (९२) · Śloka ९२
तावदेव मस्तिष्कमोजश्च||९२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
ओजश्शुक्रमस्तिष्काणि प्रत्येकं स्वेनाञ्जलिप्रमाणेनार्धाञ्जलानि| सुबोधम्|| ९२||
Adhikarana स्तन्ययोर्मानं तत्सम्भवश्च (९३) · Śloka ९३
स्त्रीणां रजसोऽञ्जलयश्चत्वारः|
स्तन्यस्य द्वौ|
उभयमपि चैतद्रसप्रसादात्मकमिति|
समधातोः परिमाणमिदम्|
अतो वृद्धिक्षयौ यथास्वं लक्षणैर्विभावयेदपरांश्चापरिसङ्ख्यातान्मूर्तोमूर्तान् भावान्|
तद्यथा-मांसकर्णादिमलान् वायुबुद्धिस्मृत्यादींश्च||९३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उभयं रजः स्तन्यलक्षणं रसस्य धातोः प्रसादात् सम्भवति| इदं यथोक्तं परिमाणं समधातोर्नीरुजो विज्ञेयम्| अन्यस्य त्वेतेषां वृद्धिक्षयौ दोषभेदीयप्रदर्शितैर्यथास्वं लक्षणैर्विभावयेत्| अपरांश्च मूर्त्तान् मांसकर्णमलादीन् अमूर्त्तांश्च वायुबुद्धिस्मृत्यादीन् भावान्यथास्वं लक्षणैर्विभावयेदिति सम्बन्धः|| ९३||
Adhikarana रसादीनां मानविषये धान्वन्तरी- याणाम्मतम् (९४) · Śloka ९४
धान्वन्तरीयाः पुनः पठन्ति|
विलक्षणानि हि शरीराणि नित्यमेव च चला दोषधातुमलाः|
तस्मादुदकादीनामपि समत्वं मांसादिवत् परिमाणतो निर्देष्टुमशक्यम्|
केवलं स्वास्थ्यमात्रेणानुमानतो लक्षयेत् इति||९४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
धान्वन्तरीयाः सौश्रुताः| सुबोधम्| दोषादीनामव्यवस्थितरूपत्वाद् दुर्ज्ञानं प्रमाणम्| केवलं स्वास्थ्यमात्रेणानुमानात् लक्षयेदिति|| ९४||
Adhikarana सर्वावयवानां परमाणुभेदे- नासङ्ख्येयत्वम् (९५) · Śloka ९५
सर्व एव त्ववयवाः परमाणुभेदेनातिसौक्ष्म्यादसङ्ख्येयतां यान्ति||९५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
इदं च विज्ञेयम्| स्थूलया दृष्ट्या अङ्गप्रत्यङ्गानां सङ्ख्यादिकमुक्तम्| सर्व एवावयवाः परमाणुभेदेन त्वतिसौक्ष्म्याद्धेतोरसङ्ख्येयतां यान्ति| ते च परमाणवः प्रतिक्षणं सजातीयविजातीयसंयोगविभागाभ्यां शरीरभावेन वर्त्तते| अन्यथा यो व बाल आसीत् स एव युक्त्वं प्रतिपन्न इत्येकस्यापि नानात्वायोगात्|| ९५||
Adhikarana परमाणूनां संयोगविभागे वायुः कारणम् (९६) · Śloka ९६
तेषां संयोगविभागे परमाणूनां कर्मप्रेरितो वायुः कार णम्||९६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषां परमाणूनां संयोगविभागे दैवपौरुषकर्मप्रेरितो वायुः तत्क्रियत्वात् कारणम्| ग्रन्थविस्तरभयाद्वातस्योत्पत्तिर्न दर्श्यते| केवलमेतावद्विज्ञेयम्| कर्मचोदितवायुवशात् संयुक्ताः परमाणवः कार्य्यद्रव्यमारभन्ते द्व्यणुकादिक्रमेण| वायुकारणादेव च परमाणूनां विभागात् संयोगविनाशेन कार्यद्रव्यविशेषः|| ९६||
Adhikarana भेदाभेदाभ्यां गृहीतेन शरीरेण यथा- क्रमं बन्धमोक्षयोः प्राप्तिः (९७) · Śloka ९७
तदेतदङ्गमभेदेन भेदतश्च गृह्यमाणं बन्धाय मोक्षाय च भवतीति||९७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अत उपसंहरति-तदेतदनुक्रान्तरूपमङ्गं शरीरमभेदेनैकत्वेन ग्राह्यमाणं रामणीयकादुपादेयत्वेन बन्धाय जन्ममरणप्रवृत्तिपरम्पराप्रवृत्तये भवति| तदेवानन्तरोक्तेन प्रकारेण भेदेन ग्राह्यामाणं निस्सारं जुगुप्सितवास्तुसमारब्धत्वेन हेतुना मोक्षाय रागादिनिमित्तक्रियाकलापपरिहाराद्भवति|| ९७||
Adhikarana अवयवशः यथावरं शरीरज्ञानफलम् (९८-५) · Śloka ५
भवति चात्र- इति सर्वावयशो यो जानाति कलेवरम्|
अहितेषु स मोहेन न कदाचित् प्रवर्तते||९८||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थानेऽङ्ग- विभागो नाम पञ्चमोऽध्यायः||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
भवति चात्रेति श्लोकेनोपसंहारे तन्त्ररीतिः| इत्यनेन प्रकारेण सर्वावयवशः सर्वमवयवं यः पुरुषः कलेवरं शरीरे जानाति सोऽहितेषु उभयलोकविरुद्धेषु मोहान्न प्रवर्त्तते| गृहीतवस्तुतत्त्वः- सन्निहितानि परित्यज्य हितेष्वेव प्रवर्त्तते इत्यर्थः|| ९८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थाने पञ्चमोऽध्यायः