Skip to content

१६. वातशोणितनिदानम्

Adhikarana अथ वातशोणितनिदानं नाम षोडशोऽध्यायः | प्रतिज्ञा (१) · Śloka

अथातो वातशोणितनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातहेतुत्वसामान्याद्वातव्याध्यनन्तरं वातशोणितनिर्णयायाध्यायारम्भः| असृजा रुद्धो वायुर्वातशोणितम्|| १||

Adhikarana वातशोणितस्य निदानसम्प्राप्तिपर्यायाः (२) · Śloka

निदानसम्प्राप्तिपर्य्यायाः- विदाह्यन्नं विरुद्धञ्च तत्तच्चासृक्प्रदूषणम्| भजतां विधिहीनञ्च स्वप्नजागरमैथुनम्| प्रायेण सुकुमाराणामचङ्क्रमणशीलिनाम्| अभिघातादशुद्धेश्च नृणामसृजि दूषिते| वातलैः शीतलैर्वायुवृद्धकृद्धो विमार्गगः| तादृशेनासृजा रुद्धः प्राक्तदेवप्रदूषयेत्| आढ्यरोगं ख्रुडं वातबलासं वातशोणितम्| तदाहुर्नामभिः||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कथमित्याह-विदाहीत्यादि| सुकुमारा अत्यर्थमृदुशरीराऽवयवाः सर्वक्लेशाऽसमर्था उक्तः (शा. - ५५६)| ते पुनर्बाला एवेत्येके| प्रागिति क्रमाद्धात्वन्तरमपि प्रदूषयेत्| तच्च वातशोणितमाचार्य्या आढ्यरोगादिभिराहुः (च. चि. - २८/११)||२||

Adhikarana वातशोणितस्य स्थानं स्वभावश्च (३) · Śloka

तच्च पूर्वं पादौ प्रधावति| विशेषाद्यानयनाद्यैः प्रलम्बौ||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्च वातशोणितं प्रथमं पादौ प्रधावति| यानयानाद्यैः प्रलम्बौ पादौ विशेषात् प्रधावति|| ३||

Adhikarana वातशोणितस्य पुर्वरूपम् (४) · Śloka

तस्य लक्षणम् भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता| जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु| कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः| भूत्वा भूत्व प्रणश्यन्ति मुहुराविर्भवन्ति च||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तस्य च वातास्रस्य कुष्ठसदृशमतिश्लक्ष्णखरस्पर्शाद्युक्तं (अ. सं. नि. - ५३१) पूर्वरूपं भवति| अत्र तु सादादीन्यपि भवन्ति|| ४||

Adhikarana वातशोणितस्य प्रसरणप्रकारः (५) · Śloka

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि| आखोरिव विषं क्रुद्धं कृत्स्नं देहं प्रधावति|५|

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana उत्तानगम्भीरभेदाभ्यां वातशोणितस्य द्वैविध्यम् (५) · Śloka

त्वङ्मांसाश्रयमुत्तानं तत्पूर्वं जायते ततः| कालान्तरेण गम्भीरं सर्वन् धातूनभिद्रवत्||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्च द्विविधम्| पूर्वमेव यावत्त्वङ्मांसाश्रयं तावदुत्तानमुच्यते| ततः क्रमेण सर्वान् धातूनपि गच्छद् गम्भीराख्यं लभते|| ५||

Adhikarana उत्तानवातशोणितस्य लक्षणम् (६) · Śloka

कण्ड्वादिसंयुतोत्ताने त्वक्ताम्रा श्यावलोहिता| सायामा भृशदाहोषा||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अथोत्तानलिङ्गमाह- कण्ड्वादित्यादिना||६||

Adhikarana गम्भीरवातशोणितस्य लक्षणम् (७) · Śloka

गम्भीरेऽधिकपूर्वरुक| श्वयथुर्ग्रथितः पाको वायुः सन्ध्यस्थिमज्जसु| भिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान्| करोति खञ्जं पङुं वा शरीरे सर्वतश्चरन्||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

गम्भीरेत्यादिना गम्भीरलिङ्गम्| गम्भीरे श्वयथुः| उत्तानश्वयथोरप्यधिकरुग्भवति| तथा ग्रथितः कठिनः| खञ्जो विकलैकपादः पङ्गुरुभयपादविकलः|| ७||

Adhikarana वाताधिकस्य वातशोणितस्य लक्षणम् (८) · Śloka

वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्| शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः| धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्| शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातेऽधिकेत्यादि वाताधिकलिङ्गम्||८||

Adhikarana रक्ताधिकवातशोणितस्य लक्षणम् (९) · Śloka

रक्ते शोफोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते| स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तेऽधिके वाताऽस्रे शोफादिकं लिङ्गम्|| ९||

Adhikarana पित्ताधिकवातशोणितस्य लक्षणम् (१०) · Śloka १०

पित्ते विदाहः सम्मोहः स्वेदो मूर्च्छा मदः सतृट्| स्पर्शाऽक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तेऽधिके वाताऽस्रे विदाहादिलिङ्गम्|| १०||

Adhikarana कफाधिकवातशोणितस्य लक्षणम् (११) · Śloka ११

कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतताः| कण्डूर्मन्दा च रुक्||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्तैमित्यादिफेऽधिके|| ११||

Adhikarana द्वन्द्वसन्निपातयोर्वातशोणितयोर्लक्षणम् (१२) · Śloka १२

द्वन्द्वसर्वलिङ्गञ्च सङ्ह्करे||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सङ्करे संसर्गे सन्निपाते च यथासङ्ख्येन द्वन्द्वसर्वलिङ्गम्| यथास्वलिङ्गं च भवति|| १२||

Adhikarana साध्यवातास्रलक्षणम् (१३) · Śloka १३

एकदोषानुगं साध्यं नवं ||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्च वातशोणितमेकदोषजं नवं सत् साध्यम्|| १३||

Adhikarana याप्यवातास्रलक्षणम् (१४) · Śloka १४

याप्यं द्विदोषजम्||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

००

Adhikarana असाध्यवातास्रलक्षणम् (१५) · Śloka १५

त्रिदोषजं त्यजेत् स्राविस्तब्धमर्बुदकारि च||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

त्रिदोषजं त्यजेदसाध्यत्वात्| स्रावित्य्वादियुक्तं च| अर्बुदं स्थिरं घनं सव्रणमधिकमांसम्|| १५||

Adhikarana आवृतवातरक्तव्यापत् (१६) · Śloka १६

रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः| निविश्यान्योन्यमाऽऽवार्य्यवेदनाभिर्हरत्यसून्||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वायुः शाखासन्धिषु निविश्य रक्तस्य मार्गमाशु निहन्ति| ते च वायुरक्ते परस्परमावार्य्यवेदनाभी रुजाभिः पुरुषस्यासून् हरतः| न केवलमेषैवावरणविधा| यावद्वक्ष्यमाणेन (६५१) प्रकारेणानेकधापि सम्भवति| तां च प्रदर्शयितुं प्रथमं पञ्चसु वायुविशेषेषु निदानं लक्षणं च सैव च| वायौ पञ्चात्मक इत्यादिना प्रदर्शयतो वायोः सवेगत्वादावरणं सिद्धम्|| १६||

Adhikarana प्राणवायोः कोपनकारणानि तद्विकारांश्च (१७) · Śloka १७

वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः| अत्याहाराभिघाताध्ववेगोदीरणधारणैः| कुपितश्चक्षुरादीनामुपघातं प्रवर्त्तयेत्| पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तेषु च प्राणो रौक्ष्यादिभिः कुपितश्चक्षुराद्युपघातं पीनसादींश्च यथाकोपं बहुनुपद्रवान् कुरुते|| १७||

Adhikarana उदानस्य प्रकोपकारणानि तद्विकारांश्च (१८) · Śloka १८

उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः| गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान्| कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपीनसान्| कुर्याच्च गलगण्डादीन्ताँस्ताञ्जत्रूर्ध्वसंश्रयान्||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उदानः क्षवथुधारणादिभिर्विकृतः कण्ठरोधादीनन्याँश्च जत्रूर्ध्वजान् यथाकोपं गदान् कुर्यात्|| १८||

Adhikarana व्यानस्य कोपनकारणानि तद्विकारांश्च (१९) · Śloka १९

व्यानोऽतिगमनस्थानक्रोडाविषमचेष्टितैः| विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः| पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान्| सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः| कुष्ठं वीसर्पमन्याँश्च कुर्यात्सर्वाङ्गगाङ्गदान्||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

व्यानोऽतिगमनातिस्थानादिभिर्दूषितः पुंस्त्वभ्रंशादीन्याँश्च सर्वाङ्गगान् गदन् कुर्य्यात्| पुंस्त्वं शुक्रम्| सर्वाङ्गरोग उभय पक्षवधः|| १९||

Adhikarana समानस्य कोपनकारणानि तद्विकारांश्च (२०) · Śloka २०

समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः| करोत्यकालशयनजागराद्यैश्च दूषितः| शूलगुल्मग्रहण्यादीन्पक्वामाशयजाङ्गदान्||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

समानो विषभोजनादिभिर्दूषितः शूलादीन् पक्वामाशयजान् गदान् करोति| अकाले बहु वाऽल्पं वा भुक्तं तु विषमाशनम्|| २०||

Adhikarana अपानस्य कोपनकारणानि तद्विकारांश्च (२१) · Śloka २१

अपानो रूक्षगुर्वन्नवेणाघातातिवाहनैः| यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः| कुपितः कुरुते रोगान्कृच्छ्रान्पक्वाशयाश्रयान्| मूत्रशुक्रप्रदोषाऽर्शोगुदभ्रंशादिकान् बहून्||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अपानो रूक्षादिभिर्यानयानादिभिश्चातिसेवितैः कुपितः मूत्रदोषादिकान् पक्वाशयाश्रितान् अतिकृच्छ्रान् रोगान् कुरुते| सर्वत्र चादिग्रहणान्यागमाऽविरुद्धेनानुमानेन यथासम्भवं व्याख्येयानि|| २१||

Adhikarana सामवायोर्लक्षणम् (२२) · Śloka २२

सर्वञ्च मारुतं सामं तन्द्रास्तैमित्यगौरवः| स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः| कटूरूक्षाभिलाषेण तद्विधोपशयेन च| युक्तं विद्यात्||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वं च प्राणादिकं मारुतं तन्द्रादिभिरन्वितं सामं विद्याद्वैद्य इति शेषः|| २२||

Adhikarana निरामवायोर्लक्षणम् (२३) · Śloka २३

निरामं तु तन्द्रादीनाम् विपर्य्ययात्||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तन्द्रादिवैपरीत्यान्निरामम्||२३||

Adhikarana वाताऽऽवरणप्रकाराः (२४) · Śloka २४

वायोराऽऽवरणं चाऽतो बहुभेदं प्रवक्ष्यते||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अतोऽन्तरं वायोः पित्तादिविशेषात् बहुभेदमाऽऽवरणं वक्ष्यते||२४||

Adhikarana पित्तावृतस्य वातस्य लक्षणम् (२५) · Śloka २५

लिङ्गं पित्तावृते दाहस्तृष्णाशूलं भ्रमस्तमः| कटुकोष्णाम्ललवणैर्विदाहः शीतकामता||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

दाहादिकं पित्ताऽवृते लिङ्गम्|| २५||

Adhikarana कफावृतस्य वातस्य लक्षणम् (२६) · Śloka २६

शैत्यगौरवशूलानि कट्वाद्यपशयोऽधिकम्| लङ्घनायासरूक्षोष्णकामता च कफावृते||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शैत्यादिकं कफावृते|| २६||

Adhikarana रक्तावृतस्य वातस्य लक्षणम् (२७) · Śloka २७

रक्तावृते सदाहार्त्तिस्त्वङ्मांसान्तरजा भृशम्| भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च||२७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सदाहत्वगार्त्त्यादि रक्तावृते|| २७||

Adhikarana मांसावृतस्य वातस्य लक्षणम् (२८) · Śloka २८

मांसेन कठिनः शोफो विवर्णः पिटकास्तथा| हर्षः पिपीलिकानां च सञ्चार इव जायते||२८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कठिनः शोफादिमांसेन|| २८||

Adhikarana मेदसावृतस्य वातस्य लक्षणम् (२९) · Śloka २९

चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः| आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

चलत्वादियुतः शोफ आढ्यवातनामा कृच्छ्रसाध्यो मेदसावृते|| २९||

Adhikarana अस्थ्यावृतस्य वातस्य लक्षणम् (३०) · Śloka ३०

स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति| सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते||३०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उष्णस्पर्शाद्यभिनन्दनाद्यस्थ्यावृते||३०||

Adhikarana मज्जावृतस्य वातस्य लक्षणम् (३१) · Śloka ३१

मज्जावृते विनमनं जृम्भणं परिवेष्टनम्| शूलञ्च पीड्यमाने च पाणिभ्यां लभते सुखम्||३१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अङ्गविनमनादिकं मज्जावृते|| ३१||

Adhikarana शुक्रावृतस्य वातस्य लक्षणम् (३२) · Śloka ३२

शुक्रावृतेऽतिवेगो वा न वा निष्फलताऽपि वा||३२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अतिवेगादिकं शुक्रावृते| शुक्रफलसंसर्गः||३२||

Adhikarana अन्नावृतस्य वातस्य लक्षणम् (३३) · Śloka ३३

भुक्ते कुक्षौ रुजाजीर्णे शाम्यत्यन्नावृतेऽनिले||३३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अन्नावृतेऽनिले भुक्ते कुक्षिरुजादि||३३||

Adhikarana मूत्रावृतस्य वातस्य लक्षणम् (३४) · Śloka ३४

मूत्राऽप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्||३४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

मूत्रावृते मूत्राऽप्रवृत्यादिलिङ्गम्||३४||

Adhikarana विडावृतस्य वातस्य लक्षणम् (३५) · Śloka ३५

विडावृते विबन्धोऽधः स्वे स्थाने परिकृन्तति| व्रजत्याऽऽशु जरां स्नेहो भुक्तो चाऽऽनह्यते नरः| शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्||३५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

विशा पुरीषेणाऽवृते विबन्धादि||३५||

Adhikarana सर्वधात्वावृतस्य वातस्य लक्षणम् (३६) · Śloka ३६

सर्वधात्वावृते वायौ श्रोणिवङ्क्षपृष्ठरुक्| विलोमो मारुतोऽस्वास्थ्यं हृदयं पीड्यतेऽति च||३६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

श्रोणिरुगादि यौगपद्येन सर्वधात्वावृते लिङ्गमिति|| ३६||

Adhikarana पित्तावृतस्य प्राणवायोर्लक्षणम् (३७) · Śloka ३७

भ्रमो मूर्च्छा रुजा दाहः पित्तेन प्राण आवृते| विदग्धेऽन्ने च वमनम् ||३७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सामान्येन वायोराऽऽवरणमुक्त्वा प्राणादिभेदेनोच्यते| भ्रमादियुक्तं पित्तेन प्राणाख्ये वायावावृते भवति|| ३७||

Adhikarana पित्तावृतस्योदानस्य लक्षणम् (३८) · Śloka ३८

उदाने विभ्रमादयः| दाहोऽन्तर्रुजाभ्रंशश्च||३८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तेनोदान आवृते विभ्रमन्तर्दाहादयः| विभ्रमो मोहप्रायः||३८||

Adhikarana पित्तवृतस्य व्यानस्य लक्षणम् (३९) · Śloka ३९

दाहो व्याने तु सर्वगः| क्लमोऽङ्गचेष्टासङ्गाश्च सन्तापः सहवेदनः||३९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तेन व्याने आवृते सर्वाङ्गीणदाहादि लक्षणम्|| ३९||

Adhikarana पित्तावृतस्य समानस्य लक्षणम् (४०) · Śloka ४०

समान ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट्| दाहश्च स्यात्||४०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अग्न्युपहत्वादिदाहान्तं पित्तेन समाने आवृते|| ४०||

Adhikarana पित्तावृतस्याऽपानस्य लक्षणम् (४१) · Śloka ४१

अपाने तु मले हारिद्रवर्णता| रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु||४१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

हारिद्रपुरीषत्वादिपित्तेनाऽपानाख्येऽनिले आवृते रूपम्|| ४१||

Adhikarana कफावृतस्य प्राणादिपञ्चकस्य लक्षणम् (४२) · Śloka ४२

श्लेष्मणा त्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः| ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससंग्रहः| उदाने गुरुगात्रत्वमरुचिर्वक्स्वरग्रहः| बलवर्णप्रणाशश्च व्याने पर्वाऽस्थिवाग्ग्रहः| गुरुताऽङ्गेषु सर्वेषु स्खलितञ्च गतौ भृशम्| समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता| अपाने सकफं मूत्रशकृतोः स्यात्प्रवर्त्तनाम्||४२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

श्लेष्मणेत्यादिना पित्तवत् क्रमेणोच्यते| क्षवथ्यादीनां संग्रहः| सुबोधमन्यत्|| ४२||

Adhikarana द्वाविंशतिविधं वायोराऽऽवरणम् (४३) · Śloka ४३

इति द्वाविशतिविधं वायोराऽऽवरणं विदुः||४३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एवं द्वाभ्यां दोषाभ्यां रक्तादिभिः षड्भिर्धातुभिरन्नेन मूत्रेण विशा सर्वधातुभिः पुनः प्राणादिपञ्चकस्य पित्तेन तद्वत् कफेनेति द्वाविशतिविधं वायोराऽऽवरणमुक्तम्|| ४३||

Adhikarana प्राणादीनामन्योऽऽवरणस्य प्रकाराः (४४) · Śloka ४४

प्राणादयस्तथान्योन्यमाऽऽवृण्वन्ति यथाक्रमम्| सर्वेऽपि विंशतिविधं विद्यादाऽऽवरणञ्च तत्||४४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वेऽपि प्राणादयः परस्परेण यथाक्रममाऽऽवृण्वन्ति| तच्चाऽन्योन्यावरणं विंशतिविधं विद्यात्| तथा च प्राणादीनामन्यतमः शेषाणां चतुर्णां क्रमेणाऽऽवरको भवति| एवं पञ्च प्राणादयः| यतः प्रत्येकं चतुरो भेदान् यान्त्यतो विंशतिविधमाऽऽवरणम्|| ४४||

Adhikarana प्राणावृतस्योदानस्य लक्षणम् (४५) · Śloka ४५

निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः| हृद्रोगी मुखशोषश्च प्राणेनोदन आवृते||४५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र च प्राणेनोदान आवृते निःश्वासरोधादिकं भवति|| ४५||

Adhikarana उदानावृतस्य प्राणस्य लक्षणम् (४६) · Śloka ४६

उदानेनावृते प्राणे वर्णौजोबलसंक्षयः||४६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एवमुदानेनावृते प्राणे बलादिक्षयः|| ४६||

Adhikarana आवरणविज्ञानोपसंहारः (४७) · Śloka ४७

दिशानया च विभजेत् सर्वमावरणं भिषक| स्थानान्यवेक्ष्य वातानां वृद्धिहानिञ्च कर्मणाम्||४७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अनयैव दिशाऽनुक्तमावरणं स्वबुद्ध्या वैद्यो विभजेत्| कथमित्याह-वातानां प्राणादीनां दोषभेदीयोक्तेन (अ. सं. सू. - २०) प्रकारेण स्थानान्यवेक्ष्य तथा कर्मणां ष्ठीवनादीनां वृद्धिं हानिं चावेक्ष्य| तेनैवं भवत्यस्य वायोरयं प्रदेशस्तत्र स्थितस्य चेदं कर्माऽऽम्नातं तच्च सम्प्रयत्नेन रूपेण वृद्धं वा हीनं वा यदा दृश्यते तदाऽनुमीयतेऽनेनाऽऽवृतोऽयमिति| न केवलमेतदेवाऽऽवरणं यावदेभ्योऽन्यदप्यधिकमस्तीत्याऽऽह||४७||

Adhikarana वायोरावरणस्याऽसङ्ख्येयत्वम् (४८) · Śloka ४८

प्राणादीनाञ्च पञ्चानां मिश्रमाऽऽवरणं मिथः| पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः| मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा| तारतम्यविकल्पाच्च यात्यावृत्तिरसङ्ख्यताम्||४८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्राणादीनामित्यादि| प्राणादयो द्व्यादिसंयोगेन मिश्राः कदाचिदाऽऽवार्य्या भवन्ति| कदाचिदाऽऽवारका इत्यावृत्तिरसंख्यतां यातीति सम्बन्धः| तथैव पित्तादिमिश्रा अपि द्वौ दोषौ| षड्धातवो रक्तादयः| अन्नं शकृन्मूत्रं सर्वधातुश्चेति| तैश्च पित्तादीनि द्व्यादिसंयोगेन मिश्रैः अनेकधा प्राणादिमिश्रणादिभिः| सर्वेषु संयोगेषु किञ्चिदधिकतरं किञ्चिदधिकतममिति| एवमनेकधा विकल्पनाऽऽवृतिरसङ्ख्यतां याति|| ४८||

Adhikarana वातावृत्त्या वेदनप्रकारः (४९) · Śloka ४९

तां लक्षयेदवहितो यथास्वं लक्षणोदयात्| शनैश्शनैश्चोपशयाद्गूढामपि मुहुर्मुहुः||४९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

ताञ्चाऽनेकविधामावृत्तिं यथास्वं लक्षणैर्दोषाणां लक्षयेत्| गूढान्तु शनैश्शनैर्मुहुश्चोपशयेन लक्षयेत्|| ४९||

Adhikarana विकृताऽविकृतयोः प्राणोदानयोः स्वरूपम् (५०) · Śloka ५०

विशेषाज्जीवितं प्राण उदानो बलमुच्यते| स्यात्तयोः पीडनाद्धानिराऽऽयुषश्च बलस्य च||५०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र च प्राणोदानौ यत्नतो रक्षेत्| कुत इत्याह-विशेषादित्यादि| सुबोधम्|| ५०||

Adhikarana वातावृतस्य वत्सरादनन्तरमसाध्यत्वम् (५१) · Śloka ५१

आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः| प्रयत्नेनापि दुःसाध्या भवेयुर्वाऽनुपक्रमाः||५१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

आवृताश्च वायवोऽनुपलक्षिता लक्षिताश्चाप्युपेक्षिता अतीतसंवत्सराः सन्तः प्रयत्नेनाप्युपचर्य्यमाणा दुःसाध्या एव व भवेयुः| अतोऽवश्यमुपलक्षयेत्|| ५१||

Adhikarana आवृतवायूनामुपेक्षणाज्जायमाना उपद्रवाः (५२-५३) · Śloka ५३

विद्रधिप्लीहहृद्रोगगुल्माऽग्निसदनादयः| भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्||५२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावंष्टाङ्गसंग्रहसंहितायां वातशोणित निदानं नाम षोडशोऽध्यायः||५३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

आवृतानां वायूनामुपेक्षणाद्विद्रध्यादयो भवेयुरतो नोपेक्षेतेति| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने षोडशोऽध्यायः