Skip to content

१२. उदरनिदानम्

Adhikarana अथोदरनिदानं नाम द्वादशोऽध्यायः | प्रतिज्ञा (१) · Śloka

अथात उदरनिदानं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शोफानाहजठरविकृतिसामान्याद्विद्रध्याद्यनन्तरमुदर-निर्णयायाऽध्यायारम्भः|| १||

Adhikarana उदरस्य निदानं सम्प्राप्तिश्च (२) · Śloka

रोगाः सर्वेऽपि मन्देऽग्नौ सुतरमुदराणि तु| अजीर्णान्मलिनिश्चान्नैर्जायन्ते मलसञ्चयात्| ऊर्ध्वाधो धातवो रुध्वा वाहिनीरम्बुवाहिनीः| प्राणाग्न्यपानान्सन्दूष्य कुर्य्युस्त्वङ्मांससन्धिगाः| आध्माप्य कुक्षिमुदरम्||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वेषामपि ज्वरादीनामग्निमान्द्यसम्भवादुदराणामतिशयः| अतोऽजीर्णहेतुकान् मलिनान्नहेतुकाच्च वातादिसञ्चयादुदराणि जायन्ते| ऊर्ध्वाध इत्यादिकया सम्प्राप्त्या मला उदरं कुर्य्युरिति सम्बन्धः| धावतो वातादयः| अम्बुवाहिनीः सिरा ऊर्ध्वाधो देहे रुध्वा प्राणादींश्च सन्दूष्य त्वङ्मांसस्य मध्यमाश्रिताः|| २||

Adhikarana उदरप्रभेदाः (३) · Śloka

अष्टधा तच्च भिद्यते| पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तच्चोदरं वातादिभिः सन्निपातेन प्लीहादिभिश्चाष्टधा|| ३||

Adhikarana उदररोगिसामान्यलक्षणम् (४) · Śloka

तेनार्त्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः| नष्टचेष्टाबलाहारः कृशाः प्रध्मातकुक्षयः| स्युः प्रेतरूपाः पुरुषाः ||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सुबोधम्|| ४||

Adhikarana उदरपूर्वरूपाणि (५) · Śloka

भाविनस्तस्य लक्षणम्| क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते| जीर्णाजीर्णं न जानाति सौहित्यं सहते न च| क्षीयते बलतः शश्वत् श्वसित्यल्पेऽपि चेष्टिते| वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः| रुग्बस्तिसन्धौ तततालध्वल्पा भोजनैरपि| राजीजन्मवलीनाशो जठरे||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

लघुभोजनादिभिरपि जठरे ततता राजीजन्मवलीणां नाशश्च भवतीति पूर्वरूपम्|| ५||

Adhikarana उदरसामान्यलक्षणम् (६) · Śloka

जठरेषु तु| सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता| दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवः||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सर्वेषु जठरेषु तन्द्रादि साधारणं लिङ्गम्|| ६||

Adhikarana असञ्जातजलस्योदरस्य लक्षणम् (७) · Śloka

सर्वं त्वतोयमरुणमशोफं नातिभारिकम्| गवाक्षितं सिराजालैः सदा गुडुगुडायते| नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति| मारुतो हृत्कटीनाभिपायुवंक्षणवेदनः| सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम्| नाऽतिमन्धोऽनलो लौल्यन्न च स्याद्विरसं मखम्||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अरुणताद्यतोयसम्भवलिङ्गम्| भारिकं गुरु| गुडुगुडुरित्यव्यक्तः शब्दः| मारुतो वेगं कृत्वा नश्यतीति सम्बध्यते| नश्यति नोपलभ्यत इत्यर्थः| नातिमन्द इत्यादिना सलिलसम्भवेऽतिमन्दत्वं दर्शितम्| न च लौल्यं स्यात्| विरसं च मुखं न स्यात्| यथा सलिल इत्यर्थात्|| ७||

Adhikarana वातोदरलक्षणम् (८) · Śloka

तत्र वातोदरे शोफः पाणिपन्मुष्कसन्धिषु| कुक्षिपार्श्वोदरकटी पृष्ठरुक्पर्वभेदनम्| शुष्ककासोऽङ्गमर्दोऽधो गुरुता मलसंग्रहः| श्यावारुणत्वगादित्वमकस्माद् ह्नासवृद्धिमत्| सतोदभेदमुदरं तनुकृष्णसिराततम्| आध्मातदृतिवच्छब्दमाहतं प्रकरोति च| वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतो गतिः||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पाणिशोफादिवातोदरलिङ्गम्|| ८||

Adhikarana पित्तोदरलक्षणम् (९) · Śloka

पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट्कटुकास्यता| भ्रमोऽतीसारः पीतत्वं त्वगादावुदरं हरित्| पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते| धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

ज्वरादिकं पित्तोदरे|| ९||

Adhikarana श्लेष्मोदरलक्षणम् (१०) · Śloka १०

श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्| निद्रोत्क्लेशाऽरुचिश्वासकासशुक्लत्वगादिताः| उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्| चिराभिवृद्धिकठिनं शीतस्पर्शं गुरु स्थिरम्||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अङ्गसदनादिकं श्लेष्मोदरे|| १०||

Adhikarana सन्निपातोदरस्य निदानादि (११) · Śloka ११

त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः| गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः| कोष्ठं प्राप्य विकुर्वाणाः शोफमूर्च्छाभ्रमान्वितम्| कुर्य्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्| बाधते तच्च सुतरां शीतवाताभ्रदर्शने||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

त्रिदोषकोपनैरित्यादिना सन्निपातोदरस्य निदानादिकमुच्यते| तैस्तैरित्यादि सर्वरोगनिदानोक्तैः (अ. सं. नि. -३०)| तच्च सन्निपातोदरं शीतादिकाले सुतरां बाधते|| ११||

Adhikarana प्लीहोदरस्य निदानादि (१२) · Śloka १२

अत्याशितस्य संक्षोभाद्यानपानादिचेष्टितैः| अतिव्यवायभाराध्वगमनव्याधिकर्शनैः| वामपार्श्वाश्रितः प्लीहाच्युतः स्थानाद्विवर्धते| शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अत्याशितस्येत्यादिना प्लीहोदरमुच्यते| अतिभुक्तवतो यानादिचेष्टतैः संक्षोभादितव्यवायादिकर्शनैश्च स्थानाच्च्युतः प्लीहा विवर्धते| अथवा रसादिभ्यो धातुभ्यो रक्तं विवृद्धं वृद्धिं प्राप्तमाश्रयत्वात्तं प्लीहानं विवर्धयेत्|| १२||

Adhikarana प्लीहोदरस्य संस्थानं लक्षणञ्च (१३) · Śloka १३

सोऽष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्| क्रमेण वर्द्धमानश्च कुक्षावुदरमावहेत्| श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः| पाण्डुत्वमूर्च्छर्ज्ञच्छर्दीभिर्दाहमोहैश्च संयुतम्| अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

श्वासादिभिः संयुतमुदरमावहेदिति सम्बन्धः|| १३||

Adhikarana प्लीहोदरे दोषाधिक्यज्ञानोपायः (१४) · Śloka १४

उदावर्तरुगाऽऽनाहैर्मोहतृड्दहनज्वरैः| गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत्र प्लीहोदरे उदावर्त्तादिभिर्लिङ्गैः क्रमाद्वातादीन् मलान् विद्यात्तेनोदावर्तादिभिर्लिङ्गैर्वाताधिकं प्लीहोदरं भवति| मोहादिभिः पित्ताधिकं भवति| गौरवादिभिः कफाधिक्यम्|| १४||

Adhikarana यकृदुदरम् (१५) · Śloka १५

प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम्||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्लीहसमानत्वाद्यकृतस्तदुदरस्यापि निदानादिभिरनधिकता||१५||

Adhikarana बद्धोदरस्य सम्प्राप्तिः (१६) · Śloka १६

पक्ष्मबालसहान्नेन भुक्तैर्बद्धायने गुदे| दुर्नामभिरुदावर्त्तैरेन्नैर्वान्त्रोपलेपिभिः| वर्चः पित्तकफान्रुध्वा करोति कुपितोऽनिलः| अपानो जठरं ||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पक्ष्मबालैरित्यादिना बद्धोदरमाह| पक्ष्मादिभिर्गुदे बद्धमार्गे कुपितोऽनिलाऽपानाख्यो वर्चः प्रभृतीन् रुध्वा जठरं कुरुत इति सम्बन्धः|| १६||

Adhikarana बद्धोदरस्य लक्षणम् (१७) · Śloka १७

तेन स्युर्दाहज्वरतृट्क्षवाः| कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्| मलसङ्गोऽरुचिश्छर्दिरुदरं मूढमारुतम्| स्थिरं नीलारुणसिराराजीनद्धमराजि वा| नाभेरुपरि च प्रायो गोपुच्छाकृति जायते||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तेन जठरेण पुरुषस्य दाहादयः स्युः| सुबोधम्|| १७||

Adhikarana छिद्रोदरनिदानसम्प्राप्तिलक्षणम् (१८) · Śloka १८

अस्थ्यादिशल्यैः सान्नैश्च भुक्तैरत्यशनेन वा| भिद्यते पच्यते चान्त्रं तच्छिद्रैश्च स्रवन् बहिः| आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः| तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः| शेषश्चापूर्य्य जठरं घोरमावहेत्| वर्धते तदधो नाभेराशु चैति जलात्मताम्| उद्रिक्तदोषरूपञ्च व्याप्तञ्च श्वासतृड्भ्रमैः| छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अस्थ्यादिशल्यैरित्यादिना छिद्रोदरस्य निदानादिकमाह| तच्छिद्रैश्छिन्नपक्वान्त्रच्छिद्रैः| स्रवन् किञ्चित् गुदात् बहिरेति| किञ्चिज्जठरमापूर्य्य तिष्ठति| वातादिदोषान्वयेन यानि रूपाणि तत्र तान्युद्रिक्तानि भवन्ति| व्याप्तमतिशयेन युतम्| आचार्याः (चरकाचार्याः) इदं छिद्रोदरं नाम्ना आहुः| अपरे आचार्याः (सुश्रुताचार्याः) छिद्रोदरस्यैव परिस्रावीति नाम मन्यते|| १८||

Adhikarana जलोदरनिदानसम्प्राप्तिलक्षणानि (१९) · Śloka १९

प्रवृत्तस्नेहपानादेः सहसाऽऽमाम्बुपायिनः| अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा| रुध्वाम्बुमार्गाननिलः कफश्च जलमूर्च्छितः| वर्द्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ| ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्| कासश्वासारुचियुतं नानावर्णसिराततम्| तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथुः| दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभितत्||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

प्रवृत्तस्नेहपानादेरित्यादिना दकोदरमाह| तदम्बु कफानिलावुदराश्रयौ वर्धयेतम्| ततस्तृष्णान्वितत्वादियुक्तमुदरं स्यात्| आवृत्ता नाभिर्यत्र|| १९||

Adhikarana उपेक्षायां सर्वोदराणां जलोदरत्वप्राप्तिः (२०) · Śloka २०

उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः| पाकाद् द्रवा द्रवीकुर्य्यः सन्धीन् स्रोतोमुखान्यपि| स्वेदश्च बाह्यस्रोतस्सु विहतस्तिर्य्यगाऽऽस्थितः| तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्| गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्| मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति| तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततोऽधिकम्| सिरान्तर्धानमुदकं जठरोक्तं च लक्षणम्||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

उपेक्षयेत्यादिना सर्वोदरेषूदकरूपापतौ हेतुरुच्यते| उपेक्षया वातादयः स्थानाच्च्युताः पाकेन च स्वयं द्रवाः सन्ध्यादिकं द्रवेयुः| स्वेदश्च बाह्यविहतस्तदुदकमाप्याय्य पिच्छां कुर्य्यात्| तदा भवेदित्यादि सुबोधम्|| २०||

Adhikarana वाताद्युदराणां यथोत्तरं कृच्छ्रत्वम् (२१) · Śloka २१

वातपित्तकफप्लीहसन्निपातदकोदरम्| कृच्छ्रं यथोत्तरं||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

वातोदरात् पित्तोदरं कृच्छ्रम्| ततः कफोदरम्| ततः प्लीहोदरम्| ततः सन्निपातेन| तत उदकेनेति यथोत्तरार्थः|| २१||

Adhikarana असाध्योदरम् (२२) · Śloka २२

पक्षात्परं प्रायोऽपरे हतः| सर्वञ्च जातसलिलं रिष्टोक्तोपद्रवान्वितम्||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

अपरे बद्धच्छिद्रोदरे प्रायः पक्षादूर्ध्वं हतो मारयतः| प्रायोग्रहणं पक्षादधरेऽपीति प्रतिपत्त्यर्थम्| जातसलिलत्वादियुक्तं सर्वमुदरं हन्ति|| २२||

Adhikarana सर्वस्यैवोदरस्य कृच्छ्रतमत्वादि (२३) · Śloka २३

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

जातसलिलत्वादियुक्तं सर्वमुदरं हन्ति|| २३||

Adhikarana साध्योदरलक्षणम् (२४-१२) · Śloka १२

बलिनस्तदजाताम्बुयत्नसाध्यं नवोत्थितम्||२४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने उदरनिदानंनाम द्वादशोऽध्यायः||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

बलिनः पुरुषस्याजाताम्बु चाऽभिनवोत्थितं सद्यत्नेन साध्यं भवति|| २४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने द्वादशोऽध्यायः