Adhikarana अथ सिद्धबस्तिकल्पो नाम पञ्चमोऽध्यायः, प्रतिज्ञा (१) · Śloka १
अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः|
इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सिद्धबस्तीन् प्राधान्यात् पृथग्दर्शयितुमध्याय आरभ्यते|| १||
Adhikarana सिद्धबस्तिस्वरूपम् (२) · Śloka २
सिद्धबस्तीन् प्रयुञ्जीत सर्वदा सर्वदेहिनाम्|
निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
प्रथमेन श्लोकेन सिद्धबस्तीनां सामान्यं रूपमुच्यते|| २||
Adhikarana माधुतैलिको बस्तिः (३) · Śloka ३
मधुतैले समे कर्षः सैन्धवाद् द्विपिचुर्मिसः|
एरण्डमूलक्वाथेन निरूहो माधुतैलिकः|
रसायनं प्रमेहाऽर्शः कृमिगुल्माऽन्त्रवृद्धिनुत्|
सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मध्वित्यादिना बस्तय उच्यन्ते| मधुतैले समे सूत्रोक्तप्रकारेण| सैन्धवात् कर्षः| मिसिः शतपुष्पा| तस्या द्विपिचुर्द्विकर्षः| इत्येतदेरण्डमूलक्वाथेन निरूहः संज्ञया माधुतैलिकः| सुबोधम्| एष एवाऽनन्तरोक्तो माधुतैलिको मधुयष्ट्या युक्तश्चक्षुष्यो रक्तपित्तजिच्च भवति || ३||
Adhikarana यापनाख्यो बस्ती (४) · Śloka ४
यापनो घनकल्केन मधुतैलरसाज्यवान्|
पायुजानूरूबृषणबस्तिमेहनशूलजित्|
प्रसृतांशैर्घृतक्षौद्रवसा तैलैः प्रकल्पयेत्|
यापनं सैन्धवार्धाक्षहपुषाऽर्धपलान्वितम्||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
घनस्य मुस्तस्य कल्केन युक्तो निरूहो मध्वादिभिश्च यापनाऽऽख्यो भवति| स तु पाय्वादिशूलजित्| द्वितीयं यापनं घृतादिभिः| प्रत्येकं प्रस्रुतांऽशैः| सैन्धवस्याऽर्धकर्षेण हपुषाऽर्धपलेनाऽन्वितं प्रकल्पयेत्|| ४||
Adhikarana युक्तरथाख्यो बस्तिः (५) · Śloka ५
एरण्डमूलनिष्क्वाथो मधुतैलं ससैन्धवम्|
एष युक्तरथो बस्तिः सवचापिप्पलीफलः||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एरेण्डेत्यादिना वचादित्रययुक्तो बस्तिर्नाम्ना युक्तरथः|| ५||
Adhikarana दोषहरः बस्तिः (६) · Śloka ६
सक्वाथो मधुषड्ग्रन्था शताह्वा हिङ्गुसैन्धवः|
सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सक्वाथ एरण्डमूलक्वाथो मध्वादियुक्तो बस्तिः| शिवः श्रेष्ठः षड्ग्रन्था वचा|| ६||
Adhikarana सिद्धबस्तिः (७) · Śloka ७
पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु|
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सिद्धबस्तिरिति नाम्ना स्मृत आर्चार्यैः पञ्चमूलादिश्लोकेन||७||
Adhikarana कफव्याध्यादिहरो बस्तिः (८) · Śloka ८
द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्|
गोमूत्रे तेन पिष्टैश्च पाठातोयदवत्सकैः|
सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च|
युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु|
शुक्राऽनिलविबन्धेषु बस्त्याटोपे च पूजितः||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
दिपञ्चमूलादीनि गोमूत्रे पाचयेत्| तेन पक्वेन बस्तिः| पिष्टैः पाठादिभिर्युतः क्षौद्रादिभिश्च| कफव्याध्यादिषु पूजितः| द्वे पञ्चमूले प्रथमे विल्बादिर्बृहत्यादिश्च| फलं मदनफलम्|| ८||
Adhikarana श्रेष्ठो यापनो बस्तिः (९) · Śloka ९
मुस्तापाठाऽमृतैरण्डबलारास्नापुनर्नवम्|
मञ्जिष्ठाऽऽरग्वधोशीरत्रायमाणाऽक्षरोहिणीः|
कनीयः पञ्चमूलञ्च पालिकं मदनाऽष्टकम्|
जलाढके पचेत्तच्च पादशेषं परिस्रुतम्|
क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्|
सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः|
पिष्टैर्यष्टीमिसिश्यामाकलिङ्गकरसाञ्जनैः|
बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्द्धनः|
वाताऽसृङ्मोहमेहाऽर्शोगुल्मविण्मूत्रसंग्रहम्|
विषमज्वरवीसर्पवर्ध्माऽऽध्मानप्रवाहिकाः|
वङ्क्षणोरूकटीकुक्षिमन्याश्रोत्रशिरोरुजः|
हन्यादसृग्दरोन्मादशोफकासाऽश्मकुण्डलान्|
चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मुस्तादिको बस्तिः सुबोधः| सह पादेन चतुर्भागेन जाङ्गलरसेन वर्तत इति तथोक्तः | एष च मुस्तादिः यापनानां राजा तद्गुणे साऽतिशय इत्यर्थः| रसायनफलत्वाद् रसायनम्|| ९||
Adhikarana सुकुमारादीनां हितो बस्ति (१०) · Śloka १०
पृथक् पलांशं विपचेत् पञ्चमूलमगोक्षुरम्|
क्षीराढके चतुर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम्|
क्षौद्रतैलाऽज्यसिन्धूत्थयुक्तं बस्तिः सुपूजितः|
विशेषाद् बालवृद्धस्त्रीसुकुमारसुकात्मनाम्|
तद्वत् सहाचरबलासारिवादर्भसाधितम्|
क्षीरं बस्तिस्थाऽभीरू गुडूचीबृहतीद्वयैः|
सिद्धं पयो मागधिकायष्टीमधुककल्कवत्||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अगोक्षुरं पञ्चमूलं चत्वारि द्रव्याणि| चतुर्थस्थं पादशेषं क्वथितम्| एष बस्तिः सर्वहितोऽपि बालादिषु विशेषात् पूजितः| अगोक्षुरे गोक्षुररहितम्| यष्ट्यादीन्यनन्तरं बस्तिपठितानि| यष्टिमित्यादीनि| सहाचरादिसिद्धं क्षीरम्| तद्वदिति पूर्ववत्| कल्कादियुक्तं तत् पूर्वस्मिन्नेव विषये| अभीर्वादिसिद्धं पयो मागधिकादिकल्कवत् तथा पूर्वगुण इत्यर्थः|| १०||
Adhikarana वृष्याः बस्तयः विधिश्च (११) · Śloka ११
पञ्चमूलं बृहत्यादि प्रतिद्रव्यं पलोन्मितम्|
द्विपलं शालिगोधूमयवमाषं सयष्टिकम्|
तैः सिद्धं छागलं क्षीरं कुक्कुटाण्डरसः सिता|
साऽऽज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत् परम्|
कल्पोऽयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि|
रसः कुलीरमांसस्य चटकाऽण्डरसान्वितः|
सशर्कराघृतमधुर्बस्त्रिर्वृष्यतमो मतः|
बस्तसूकरजैर्मुष्कैः कुलीरचटकाऽऽमिषैः|
सिद्धं पयोबस्तशुक्रमुच्चटेक्षुरकं मधु|
तैर्घृताढ्योऽल्पलवणो बस्तिर्वृष्यतमः परम्|
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः|
अतो दशदशाऽहेन यस्तु बस्तीन् निषेवते|
वाजीव पुष्टः स वृषो गच्छति प्रमदाशतम्|
एते माक्षिकसंयुक्ताः कुर्वन्त्यतिVवृषं नरम्|
नाऽतियोगं न चाऽयोगं स्तम्भिनस्ते च कुर्वते||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
बृहत्यादिपञ्चमूलादिना सिद्धं छागलं क्षीरं कुक्कुटाण्डरसादिना युक्तो बस्तिः परं शुक्रकृत्| अस्मिन्नेव च बस्तौ कुक्कुटरस स्थाने शिख्यादीनामन्यतमस्याऽण्डरसयोगात्त्रयो बस्तयो भवेयुः| अण्डेषु च रसोऽन्तर्भवति| कुलीरमांसस्य रसः चटकाण्डरसेन युक्तः सशर्करादिश्च बस्तिर्वृष्यतमः| कुलीरो मत्स्यः कर्कटाख्यः| बस्तमुष्कादिना सिद्धं पयोबस्तशुक्रादिना युक्तं घृताढ्योऽल्पलवणश्च बस्तिर्वृष्यतमः| परमत्यर्थम्| बस्तः छगलः| मुष्को बृषणः| (नि) 'उच्चटा सोमवल्ली च प्रचला तरला तथा| महौषधी सर्वगमा वृद्धिदा वर्धिता पुरा||' इक्षुरकं गोक्षुरकः| एषु च वृष्यबस्तिषु दीयमानेष्वात्मगुप्तादिभिः सिद्धेन पयसा भोज्यम्| अतो वृष्यादिकाद्दशाहेन प्रतिदिसमेकोपयोगेन दश बस्तीन् यो निषेवते स वृषोऽक्षीणशुक्रो वाजिवच्च पुष्टः प्रमदाशतं गच्छति| एते वृष्या बस्तयो माक्षिकयुक्ता अतिवृषं नरं कुर्वन्ति| एते चाऽतियोगं न कुर्वते| आहिताश्च नाऽयोगं कुर्वते|| ११||
Adhikarana यापनेष्वनुवासनस्याऽनाऽ ऽवश्यकता (१२) · Śloka १२
निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः|
यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम्||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वबस्तिषु सामान्येनाऽन्तराऽन्तराऽनुवासनमुक्तं 'निरूहान्मरुतो भयम्' इत्यादिना| तत् प्रतिषेधार्थमाह-निरूहा इत्यादि| ये निरूहास्ते प्रायेणैकान्तलेखनाः| ये च स्नेहबस्तयस्ते प्रायेणैकान्तबृंहणाः| तच्चोभयमपि लेखनत्वं बृंहणत्वं च यतो यापनेष्वतस्तेष्वनुवासनं नेष्यते कारणाऽभावात्| तस्मिन्निरूहा अप्येते बृंहणत्वेनाऽनुवासनं नाऽपेक्षत इति|| १२||
Adhikarana यापनानां व्यापत्प्रतिकाराश्च (१३) · Śloka १३
मृदुत्वान्न निवर्त्तन्ते यस्य त्वेते प्रयोजिताः|
समूत्रैर्बस्तिभिस्तीक्ष्णैराऽऽस्थाप्यः क्षिप्रमेव सः|
शोफऽग्निनाशपाण्डुत्वशूलाऽर्शःपरिकर्त्तिकाः|
स्युर्ज्वराश्चाऽतिसाराश्च यापनात्यर्थसेवनात्|
अरिष्टक्षारशीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया|
युक्त्य तस्मान्निषेवेत यापनान्न प्रसङ्गतः||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एते च यापनाः स्वभावादेव मृदुत्वाद्धेतोर्यदि कस्यचिन्नप्रत्याऽऽगच्छन्ति ततः सोऽन्तर्बस्तिः क्षिप्रमेव तीक्ष्णैर्बस्तिभिः समूत्रैराऽऽस्थाप्यः| यापनानामत्यर्थसेवनाच्छोफादयः स्युः| तेषु च शोफादिष्वरिष्टादिभिर्दीपनी क्रियेष्टा| तस्मादुक्ताद्धेतोर्यापनान् युक्त्या सुखसंवाहनलक्षणया सेवेत| न त्वतिप्रसङ्गतः|| १३||
Adhikarana यापनेषु निष्परिहार्यत्वम् (१४) · Śloka १४
मृद्वल्पौषधसंयोगात् पादहीनप्रमाणतः|
अल्पकालोपयोगाच्च तेषु निष्परिहारता|
द्रव्येषु यापनीयेषु सिद्धान् स्नेहान् पृथक्पृथक्|
बस्तीन् सर्वेषु वा युञ्ज्यात् परिहारविवर्जितान्||१४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तेषु च यापनेष्वनेन प्रकारेण निष्परिहारता सुखोपायोग्यत्वं भवति| केनेत्याऽऽह-मृद्वित्यादि| मृदुनोऽल्पमानस्य चौषधस्य संयोगात्| तथा सूत्रे यत्र-यत्र यत् प्रमाणमुक्तं तत्र-तत्र यापानानां पादहीनं प्रमाणम्| ततोऽल्पञ्च कालमुपयोगादिति| अथवा सर्वेषु विशेषेण पुरुषेषु पृथग् यापनीयद्रव्यासिद्धान् स्नेहान् निष्परिहारान् युञ्ज्यात्|| १४||
Adhikarana पुत्रदो रसायनश्च बस्तिः (१५) · Śloka १५
सहाचराऽभीरुबलारास्नागोक्षुरकात् पृथक्|
तुलां जलद्रोणशते पचेद् द्रोणाऽवशेषिते|
पूतशीते विसद्राक्षातवक्षीरीनिदिग्धिकाः|
महासहाक्षुद्रसहायष्टीमधुमधूलिकाः|
जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम्|
खर्जूरतालमज्जात्मगुप्तातामलकीकणाः|
पटोलमेदात्वक्पत्रशीतपाक्योदनाह्वयाः|
कल्कीकृत्य क्षिपेत्तस्मिन् पृथक्च प्रस्थसम्मितम्|
रसं वराहमहिषबस्तमुष्कोद्भवं तथा|
शिखिकुक्कुटहंसाण्डसम्भवं तैलसर्पिषी|
धात्रीबिदारीस्वरसं गव्यक्षीराऽऽढकद्वयम्|
ब्रह्मभेरीमृदङ्गादिनिनादैः साधितं च तत्|
सितच्छत्रकृतच्छायं सितवस्त्रावगुण्ठितम्|
आरोपितं गजस्कन्धे पूजयित्वा वृषध्वजम्|
कृत्वा स्वस्त्ययनं दद्यात्स्नेहबस्तिमयन्त्रणम्|
प्राप्तस्तेनाऽतिवृषतां श्रमयेद्वनिताशतम्|
निर्वलीपलितः कान्तश्चिरञ्जीवी भवेत्स च|
नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः|
व्यापन्नार्त्तवशुक्राणां पुत्रदाता रसायनम्||१५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सहाचरादीनां पञ्चशतानि पलानि| जलस्य द्रोणशतम्| क्वथितशेषो द्रोणः| पूते शीते च बिसादि कल्कीकृत्य सूत्रविधानेन क्षिपेत्| वराहादीनां मुष्करसं पृथक् प्रस्थसम्मितम्| निनादशब्दस्य ब्रह्मादिभिः सम्बन्धः| ब्रह्मनिनादो वेदघोषः| सुबोधम्| अभीरुः शतावरी| मधूलिका गुडतृणः शरद्यन्यतमकाण्डः| उदीच्यं वालकम्| मृणालं विसाङ्कुरम्| (नि०) 'चूडामणिः शीतपाकी शिखण्डी कृष्णला तथा| उच्यटा ताम्रका गुञ्जा चतस्रः काकसाह्वया|' ओदनपाकी नीलसहचरः| वराहःसूकरः| बस्तः छागलः| धात्र्याऽऽमलकम्| बिदारी दारिका| ब्रह्मवेदः भेरीदुन्दुभिः| तेनेति स्नेहबस्तिना सहाचराद्येनाऽतिवृषतां प्राप्तो वनिताशतं श्रमं नयेत्| स च निर्वलीपलितत्वादिनान् भवेत्| एष च बस्तिर्नष्टशुक्रादीनां हितः| पुत्रदाता रसायनं च|| १५||
Adhikarana अतिदेशेनाऽनुक्तनिर्देशः (१६) · Śloka १६
एवं च बस्तयोऽन्येऽपि कल्प्याः पाक्याश्च नैकशः|
शतं वारान् सहस्रं वा पाचयेत् सम्भवे सति||१६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एवञ्चाऽनया दिशाऽन्येऽपि स्वबुद्ध्या बृंहणा बस्त्यः कल्प्याः| यथासम्भवं चाऽनेकशः पाक्याश्च शुक्रकरौषधैः|| १६||
Adhikarana सपरिहाराः स्नेहबस्तयः वातघ्नाः स्नेहबस्तयः| (१७) · Śloka १७
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः|
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्|
गुडूच्यैरण्डपूतीकभार्ङ्ह्गीवृषकरोहिषम्|
शतावरीं सहचरं काकनासां पलांशकम्|
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्|
वहे विपाच्य तोयस्य द्रोणशेषेण तेन च|
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः|
अनुवासनमित्येतत् सर्ववातविकारनुत्|
आनूपानां वसा तद्वज्जीवनीयोपसाधिता|
शताह्वायवबिल्वाम्लैस्तैलं सिद्धं समीरणे|
सैन्धवेनाऽग्निवर्णेन तप्तं चाऽनिलजिद्घृतम्||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
दशमूलेत्यादिना स्नेहबस्तयो वक्ष्यन्ते| ये दोषघ्नाः सपरिहाराश्च| परिहारा येषां विद्यन्ते| यन्त्रणां विना बाधावहा इत्यर्थः| दशमूलादीनां प्रत्येकं पृथक् पलम्| यवादीनां द्वे पले प्रत्येकमिति क्वाथे जीवनीयादिकल्कैरन्वितं सिद्धं तैलमनुवासनं सर्ववातविकारनुत्| आनूपानां वराहादीनां मत्स्यवर्गत्रितयोक्तानां प्राणीनां यथासम्भवं वसा जीवनीयैरुपसाधिता| तद्वदनुवासनं सर्ववातविकारनुद् भवति| शताह्वादिसिद्धं तैलं समीरणेऽनुवासनम्| अतीवाऽनले तप्तेन सैन्धवेन तप्तं घृतमनिलजिदनुवासनम्|| १७||
Adhikarana बृंहणत्वादिगुणमनुवासनम् (१८) · Śloka १८
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्|
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्|
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्|
पिष्ट्वा तैलं घृतं क्षीरे साधयेत चतुर्गुणे|
बॄंहणं वातपित्तघ्नं बलशुक्राग्निवर्द्धनम्|
रजःशुक्राऽऽमयहरं पुत्रीयं चाऽनुवासनम्||१८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जीवन्त्याद्ये स्नेहाच्चतुर्गुणं क्षीरम्| कल्कः स्नेहाच्चतुर्थाशेन| एतत्तैलघृतमनुवासनं बृंहणात्वादिगुणम्|| १८||
Adhikarana पित्तघ्नमनुवासनम् (१९) · Śloka १९
शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षीरे चतुर्गुणे|
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्||१९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शीतस्पर्शैः शीतवीर्यैरेव च केवलशीतस्पर्शवीर्यैर्द्रव्यैर्घृतं सिद्धम्| घृतात् क्षीरे चतुर्गुणे तैलं पादेन समं यस्य| एतदनुवासनं पित्तघ्नम्|| १९||
Adhikarana कफघ्नान्यनुवासनानि (२०) · Śloka २०
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा|
ह्नीबेरं मधुकं भार्ङ्गी देवदारु सकट्फलम्|
नागरं पुष्करं मेदा चविका चित्रकः शठी|
विडङ्गाऽतिविषे श्यामा हरेणुर्नीलिनी स्थिरा|
बिल्वाऽऽजमोदचपला दन्ती रास्ना च तैः समैः|
साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्|
वर्ध्मोदावर्तगुल्माऽर्शः प्लीहमेहाऽऽद्यमारुतान्|
आनाहमश्मरीं चाऽऽशु हन्यात् तदनुवासनम्|
साधितं पञ्चमूलेन तैलं बिल्वादिनाऽथवा|
अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः|
फलैरष्टगुणे चाऽम्ले सिद्धमन्वासनं कफे||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सैन्धवादिभिः समैः साध्यं तिलतैलमेरण्डतैलं वा| तदनुवासनं कफरोगनुद वर्ध्मादींश्च हन्यात्| निचुलं दीर्घपत्रो वेतसः| ह्नीबेरं वालकम्| कट्फलं सोमवल्कः| श्यामा त्रिवृत्| चपला पिप्पली| बिल्वादिना वा पञ्चमूलेन साधितं तैलमनुवासनं श्लेषमहरं भवति| अथवा कफघातिभिर्द्रव्यैः शीतशिवशतपुष्पेत्यादिना शोधनादिगणे पठितैः| स्नेहादष्टगुणेऽम्ले काञ्जिकादौ सिद्धं तैल मनुवासनं श्लेष्महरम्|| २०||
Adhikarana सकफादिषु निरूहः (२१) · Śloka २१
शूलाऽऽनाहे तु तद्युक्तो निरूहः पटुमूत्रवान्||२१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यदा तु सकफस्य शूलमाऽऽनाहश्च भवति तदा तेन कफहरद्रव्यसिद्धेन तैलेन युक्तो योग्यो निरूहः पटुना लवणेन मूत्रेण च युक्तो विधेयः|| २१||
Adhikarana बस्त्युपयोगिफलानामधिकारविशेषः (२२) · Śloka २२
पृच्छतिस्म मुनिमित्यथ धीमा- नग्निवेश इह किन्तु फलानाम्|
बस्तिकर्मणि हितं सततं स्या- त्तं पुनर्वसुरिति प्रशशास|
इह कुष्ठहिता गरागरी हितमिक्ष्वाकुफलं प्रमेहिणाम्|
कुटजस्य फलं हृदामये प्रवरं कोशफलं तु पाण्डुषु|
उदरे कृतवेधनं हितं मदनं सर्वगदाऽविरोधि च|
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णापिच्छिलम्|
कफपित्तहृदाऽऽशुकारि य- न्निरपायं पवनाऽनुलोमि च|
प्रवरं तदतः फलादिषु स्मृतमास्थापनयोजनास्विति||२२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पृच्छतीत्यादिना फलानां मध्याद्बस्तिकर्मणि किं हितं स्यादिति| अथेत्यग्निवेशप्रश्ने| तमग्निवेशं पुनर्वसुरिति प्रशशास| किमित्याऽऽह-इहेत्यादि| उभयत्राऽपीहेत्यायुर्वेदे| सुबोधम्| (नि०) 'जीमूतको देवताऽस्तिक्तकोशा गरागरी| प्रोक्ताऽऽखु विषहावेणी देवतालि च ताडकः|| कटुकाऽऽलाबुनी तुम्बी लम्बापिण्डफला तथा| इक्ष्वाकुः क्षत्रियवरस्तिक्तबीजा महाफला||' कुटजफलमिन्द्रयवम्| कोशफलं धामार्गवाख्याया राजकोशातक्याः फलम्| कृतवेधनं घाण्डोलिकाख्यायः| केशातक्याः फलम्| तदिति मदनम्| सर्वगदाऽविरोधित्वे हेतुर्मधुरादिगुणत्वेन| वातादिहित्वे च| पिच्छिलं मार्दवापादनम्| आशु स्वं कर्म करोतीत्याऽऽशुकारी| निरपायमयोगादिना अपायनं करोत्यतो मधुरत्वादिहेतोस्तत् फलादिषु मदनफलादिषु शोधनादिगण पठितेषु बस्तिद्रव्येषु प्रवरं श्रेष्ठमाऽऽस्थापनानां योजनासु स्मृतमाऱ्चार्यैः|| २२||
Adhikarana चिकित्सायां बस्तेः प्राधान्यम् (२३) · Śloka २३
अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयाम्बभूव भूयः|
इदमतिगहनं सहान्यशिष्यै- रवनिगतोऽञ्जलिमग्रतो निधाय|
चित्रकर्मगुणकृद् गुरुणोक्तो बस्तिरूर्ध्वमथ चैति न नाभेः|
शीघ्रमापतति चाऽनु स देहात् सर्वतः कथमपोहति दोषान्|
ऊचे गुरुस्तिमितमारुतवश्यमेतत् देहस्य यद्बहिरुपाश्रितमन्तरे वा|
दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानपि रोगपूगान्|
शाख़ागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वाऽवयवाङ्गजाश्च|
ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति|
विट्श्लेष्मपित्तादिमलाचयानां विक्षेपसंहारकरो हि वायुः|
तस्याऽतिवृद्धस्य शमाय नान्य- द्बस्तेः समं भेषजमस्ति यस्मात्|
शाम्यन्ति यत्नेन जितेऽनिले च तदीरिताः पित्तकफादयोऽपि|
तस्माच्चिकित्साऽर्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके||२३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अथाऽनन्तरं मुनिवृषभे पुनर्वसौ फलकल्पनावाक्यं निगद्य उक्त्वा| स्थितवतिवाक्याद् विरतेऽग्निवेशेऽञ्जलिमग्रतो निधाय अवनौ निपत्य| भूयः पुनर्विज्ञापयाम्बभूवाऽन्यैर्भेलादिभिः शिष्यैः सह| किमित्याह-चित्रेत्यादि| गुरुणा भवता बस्तिर्विचित्रकर्मकृतविचित्रगुणकृच्चोक्तः| अथ च बस्तिर्नाभेरूर्ध्वं नैति| न च बहुकालं देहे तिष्ठति| अपि तु शीघ्रमाऽऽपतति| एवं स्वरूपः स कथं दोषानपोहति| इति विज्ञापना| एवं विज्ञप्तो गुरुः पुनर्वसुस्तमग्निवेशमित्यूचे| किमित्याह- देहस्य यत्किञ्चिद्बहिराश्रितं कान्तिवर्णगमनग्रहणादि| यच्चान्तराश्रितं धात्वादि| तत्सर्वं मारुतवश्यं वातवशाद् भवति| तस्य तु सर्वशरीरोगकारकरणभूतस्य वायोर्बस्तिर्दुष्टस्य सतोऽनुलोमतां जनयद्विषमानपि कृच्छ्रानपि रोगपूगान् व्याधिसङ्घान् हिनस्ति| अपि च ये रोगाः शाख़ागताः सन्ति ये च कोष्ठगता ये च मर्मादिजास्तेषां रोगाणां जन्मनि वायोः परमन्यो हेतुर्नास्ति| विडाऽऽदिमलाचयानाञ्च वायुरेव विक्षेपसंहारौ करोति यस्मात्| यस्माच्च तस्य वायोरतिवृद्धस्य शमायऽन्यद् भेषजं बस्तिसमं नास्ति| यस्माच्चैतेन बस्तिनाऽनिले वायौ जिते तदीरिताः पित्तादयोऽपि शाम्यन्ति| तस्माद्धेतोराचार्याः चिकित्साऽर्धमिति नाम्ना बस्तिं ब्रुवन्ति| एक आचार्याः बस्तिं सर्वां चिकित्सां ब्रुवन्ति| बस्तिरेव चिकित्सेत्यर्थः| शाख़ा रक्तादये धातवः| तथा कोष्ठो महास्रोतः| मर्म हृदयादि| ऊर्ध्वाङ्गं शिरः| अङ्गशब्देन देहपर्यायेणोर्ध्वादीनां सम्बन्धः| पित्तादीत्यादिशब्देन स्वेदादीनां ग्रहणम्| कफादय इति रसादीनां ग्रहणम्|| २३||
Adhikarana प्राधन्ये युक्तयः (२४) · Śloka २४
यच्च पक्वाशयस्थोऽपि दोषानापादमस्तकम्|
वीर्येण बस्तिरादत्ते स्वस्थोऽर्को भूरसानिव|
यत्तत्रौषधवीर्यं हि तदपानेन वायुना|
पर्याप्तमचिरादेव समानः प्रतिपद्यते|
समानादुत्तरं चैवं व्यानाद्याः पवनाः क्रमात्|
ते तृप्ताः प्रकृतिं याताः शरीरानुग्रहे स्थिताः|
प्रसह्य पित्तश्लेष्माणौ यथास्थानं निवेश्य च|
सन्तर्पयन्ति परितः स्वान् स्वान् भूतगुणांस्तनौ|
व्यानस्तिर्यगपानोऽधः प्राणश्चोर्ध्वं प्रकर्षति|
यथास्वमेव नाडीभिर्हारिणीभरिवोदकम्|
एवं वातैः सिराभिश्च वपुर्बस्तिः सुयोजितः|
व्याप्नुवत्प्रसभं हन्ति सकृच्छानपि यक्ष्मणः||२४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यच्चेत्यादिनाऽपरो हेतुर्बस्तेरतिशये| पक्वाशायस्थितोऽपि बस्तिरापादमस्तकं स्थितान् दोषान् वीर्यैवाऽऽदत्ते| यथा स्वस्थ आकाशस्थोऽर्को भूरसान् दूरस्थानप्यादत्ते| यत्तत्रेत्यादिना पूर्वोक्ते युक्तिः| तत्रेति बस्तौ यदौषधानां वीर्यं तदपानाऽऽख्येन वायुना समन्तात् प्राप्तमचिरादेव वीर्यं समानाख्यः प्राप्नोति| समानस्य पश्चाद्व्यानोदानप्राणाः| क्रमेण पञ्च वायवः इत्यौषधवीर्येण तृप्ताः प्रकृतिं स्वरूपं याताः| तनौ शरीरे स्वान् स्वान् वायव्यान् भूतगुणांस्तैर्गुणैस्तर्पयन्ति| परितः समन्तात्| किम्भूताः ? आह-शरीराऽनुग्रहे स्वास्थ्यसंवाहने स्थिताः| किं कृत्वा? आह-प्रसह्य पित्तश्लेष्माणौ यथास्वं स्थाने निवेश्य| तर्पयन्ति परितश्च| बस्तिं व्यानस्तिर्य्यगपकर्षति| अपनाश्चाऽधः| प्राणश्चोर्ध्वमपकर्षति यथात्मीयनाडीभिः| यथाऽन्यः कश्चिद्धारिणीभिः केदारेशूदकमपकर्षति| हारिण्यः केदारजलसञ्चरणवीथयः| एवमित्यादिनानिगमनम्| बस्तिः सुप्रयोजितः| सन् वातैर्हेतुभिः सिराभिश्च वपुर्व्याप्नुवत् सकृच्छ्रानपि यक्ष्मणो व्याधीन् प्रसभं हन्ति|| २४||
Adhikarana बस्तिगुणसंग्रहः (२५-२६) · Śloka २६
बस्तिस्तस्मात् सर्वकर्मप्रधानं सर्वातङ्कान् हन्ति निःशेषतश्च|
स्रोतांस्यन्तः शोधयित्वा च कुर्या- दोजस्तेजः शुक्रमेधाग्निदीप्तिम्||२५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रह- संहितायां कल्पस्थाने सिद्धबस्तिकल्पोनाम पञ्चमोऽध्यायः||२६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तस्मात् सर्वकर्मणां वमनादीनां बस्तिः प्रधानम्| निःशेषतश्च सर्वानातङ्कान् हन्ति| अन्तःस्रोतांस्यणूनि शोधयित्वा ओजःप्रभृतींश्च कुर्यात्|| २५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां कल्पस्थाने पञ्चमोऽध्यायः