Adhikarana अथ विसर्पचिकित्सितन्नाम विंशोऽध्यायः | अध्यायप्रतिज्ञा (१) · Śloka १
अथातः विसर्पचिकित्सितं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्शयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
क्रमप्राप्तस्य विसर्पस्य चिकित्सं प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana पुर्वरूपेष्वेवोपचारक्रमः (२) · Śloka २
पुर्वरूपेष्वेव सर्वविसर्पाणां लङ्घनं रूक्षणं सिरामोक्षण मुल्लेखनं विरेचनञ्च कुर्यात्|
न तु कदाचिदपि स्नेहनम्||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
विसर्पाणामाशु बाधावहत्वात् पूर्वरूपदर्शन एव लङ्घनादिकं कुर्यात्| रूक्षं यत्किञ्चित्| उल्लेखनं वमनम्|| २||
Adhikarana निरामे क्षीणकफे उपचाराः (३) · Śloka ३
निरामेषु क्षीणकफेषु च शीतवीर्याणि सर्पीषि तिक्त कत्रायमाणाघृतादीनि पाने दद्यात्|
तत्र मदनेन्द्रयवपटोल पिचुमन्दमधुकेक्षुरसान् वमनेऽवचारयेत्|
द्राक्षात्रिवृत्त्रि फलात्रायमाणा विरेचने|
मुस्तदेवदारुकुष्ठशताह्वावाराहीधान्याककृष्णगन्धावं शार्तगलान् लेपसेकेष्वनिलजे ह्रस्ववढ्रवल्लीकण्टक पञ्चमूलानि च|
निरामे क्षीणकफे च तिक्तकादीनि शीतवीर्याणि घृतानि क्वाथादिना दद्यात्|
विसर्पे च यदा वमनं तदा मदना दिभिरेव|
विरेचनं द्राक्षादिभिः||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
मुस्तादीनि लेपे सेके च| (नि) 'गृष्टिर्विष्वक्सेनकान्ता वाराही वरमालिका|' कृष्णगन्धा शोभाञ्जनः| आर्तगलः सहचरो नीलः| हिन्ताल इति केचित्| अनिलजे ह्रस्वपञ्चमूलम्| वढ्रपञ्चमूलं कण्टकपञ्चमूलं च लेपसेकेशु| चशब्दोऽनिले मुस्तादिसमुच्चयाय||३||
Adhikarana पित्तविसर्पे (४) · Śloka ४
पित्ते तु कमलोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटक कशेरुकशर्कराह्रीबेरकुचन्दनमुक्तामणिगैरिकपयस्या प्रपौण्डरीकमधुपद्मघृतक्षीराणि न्यगोधादि च||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्ते कमलादि न्यग्रोधादि च लेपसेकेषु| पङ्ककर्दमः प्रसिद्धः| अमृणालमुशीरं मृणालं विसाङ्कुरं वा| ह्रीबेरं वालकम्| पयस्या क्षीरिका|| ४||
Adhikarana श्लेष्मविसर्पे (५) · Śloka ५
श्लेष्मण्यजगन्धाश्वगन्धासरलकालैकैषिकागरुचोच रास्नावचाशीतशिवेन्द्रवल्लीगोमूत्राणि वरणादि च||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
श्लेष्मणि विसर्पे अजगन्धादीनि वरणादिगणं च| सरलं देवदारुसमं पीडाख्यम्| काला मञ्जिष्ठा| एकैषिका मांसी| शीतशिवो मिसिः| इन्द्रवल्ली शाकविशेषः|| ५||
Adhikarana संसर्गजविसर्पे (६) · Śloka ६
संसर्गे यथादोषबलं विकल्पयेत्||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एतदेव पृथग्दोषचिकित्सितं दोषबलानुगुण्येन विकल्पयेत्| संसर्गो यत्र दोषयोर्मिश्रीभावमात्रम्| न त्वग्निविसर्पादिप्रादुर्भावः यस्माद् द्वन्द्वजेष्विति पुनर्वक्ष्यति| तत्राग्निविसर्पादयोऽभिमताः| अन्यथा विशेषेणेत्यादिना निर्धारणं न युज्यते|| ६||
Adhikarana प्रलेपादिविशेषः (७) · Śloka ७
तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रक्षा विशीताः प्रलेपपरिषेकाः|
पित्ते तनवः सुशीताः सघृता वस्त्रान्तरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तत्र कफस्थानाश्रिते सामे विसर्पे पित्तस्थानगते वा सामे विसर्पे रूक्षा विशीताश्च प्रलेपाद्या हिताः| विशीता इति स्पर्शेऽम्बुवत् शीतानां प्रतिषेधः| उष्णप्रतिषेधो विसर्पत्वादेव| तेनानुष्णाशीतत्वमभिमतम्| पित्तेऽधिके यदा लेपादयो युज्यन्ते तदा तनव इत्यादिकाः| वस्त्रान्तरिता इल्यङ्गे वस्त्रं दत्वा वस्त्रान्तरितो लेपः शीतो लघुश्च| ऊष्माणञ्च न निगृह्णातीत्यवगन्तव्यम्| अन्ये प्रयोज्याः पूर्वदत्तांस्त्यक्त्वा|| ७||
Adhikarana संसर्गविशेषेषु कर्म (८) · Śloka ८
द्वन्द्वजेषु यथायथं दोषांश्चिकित्सेत्|
विशेषेणाग्निविसर्पे महातिक्तकं पिबेत्|
ग्रन्थिविसर्पे रक्तपित्तसंसर्गमवेक्ष्य प्राघ्लङ्घनादीनि विरेचनान्तानि शमनानि च योजयेत्|
ततो वातश्लेष्महरं कर्म||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
द्वन्द्वजेषु दोषानुगुण्येन चिकित्सेत्| सुबोधम्| ग्रन्थिविसर्पे प्राग्लङ्घनादीनि विसर्पपूर्वरूपोक्तानि योजयेत्| तेशु योजितेषु वातश्लेष्मघ्नं कर्म|| ८||
Adhikarana सशूलेषु ग्रन्थिषु (९) · Śloka ९
शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रन्थीनामुप नाहनम्|
वातकफविसर्पोक्तैश्च लेपस्तैरेव वा सिद्धेन तैलेन तोयेन वा परिषेकः|
लिम्पेद्वा शुष्कमूलकस्य कल्केन नक्तमालत्वचा वा|
बिभीतकेन वा विजया क्षनागबलाग्निमन्थभूर्जग्रन्थिवंशपत्राणां वा||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शूले ग्रन्थीनामुत्कारिकाबन्धः| उत्कारिका पिष्टपिण्डी| उपनाहो बन्धः| तैरिति वातश्लेष्मोक्तैः| सुबोधम्| विजयादीनां वा कल्केन| विजया हरीतकी|| ९||
Adhikarana ग्रन्थिभेदनम् (१०) · Śloka १०
दन्तीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थि भिरुष्णोर्लेपः शिलामपि भिनत्ति|
दीर्घकालप्रसक्ते तु ग्रन्थौ त्रिफलां प्रयुञ्जीत|
मधुपिप्पलीर्Vवा|
मुस्तासक्तु भल्लातकानि वा|
शीधुमधुशर्करां वा|
मातुलुङ्गरसा नुविद्धां मदिरां वा|
गिरिजतु वा गुल्मभेदनं वा|
तप्त लोहोपलादिपीडनं वा|
जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
दन्त्यादिभिरुष्णैः प्रदेहः शिलामपि भिनत्ति| किं पुर्नर्ग्रन्थिमित्यर्थः| दीर्घत्यादि सुबोधम्| प्राधान्यमुखेन प्रयोगः| गिरिजतु शिलाजतु| जत्रोरुर्ध्वगते ग्रन्थिविसर्पे तीक्ष्णानि धूमानि वमनानि च||१०||
Adhikarana क्षारादिभिर्दारणम् (११) · Śloka ११
तथाप्यभेदे क्षारेणाग्निना वा दहेत्|
पाटयित्वा वा शस्त्रेण परिशोधयेत्|
एवं पर्यायेण रक्तपित्ते वातश्लेष्मणि चोत्तिष्ठेत्||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
तथापीत्यादिना सामान्येन ग्रन्थिविसर्पे विदग्धं पाकाभिमुखं रक्तं तदपनयनं ग्रन्थीनां स्वेदौषधत्वात्तद्योग्यतापादनाय| पर्यायेण परिवृत्त्या| पुना रक्तापित्ते पुनर्वातश्लेष्मणि च उत्तिष्ठेत चिकित्सायां यत्नं कुर्यात्|| ११||
Adhikarana पर्यागते विसर्पे (१२) · Śloka १२
सर्वस्मिन् विसर्पे पर्यागते विदारिते च व्रणवत्|
तैलञ्च दार्वीविडङ्गकम्पिल्लकैः ग्रन्थिव्रणसाधनं साधयेत्||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पर्यागतेऽतिपाकम्प्राप्ते व्रणवदुपाचरेदिति सम्बन्धनीयम्| दार्व्या-दिभिश्च तैलं साधयेत् पचेत्| तद्धि ग्रन्थिजानां व्रणानां साधनं उपशमोपायः|| १२||
Adhikarana कर्दमविसर्पे विशेषः (१३) · Śloka १३
कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौ कोभिरसृगवसेचयेत्|
असृक्प्रक्लेदाद्धि त्वङ्मांससि रास्नावसंक्लेदो भवति|
पिबेच्च कषायघनपटोलपिचु मन्दानाम्|
चन्दनोत्पलयोः|
पटोलादिवर्गस्य वा|
घृत मिश्रं वा दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रि फलात्रायमाणानाम्|
विरेकार्थञ्च त्रिवृच्चूर्णं सर्पिषा पयसा द्राक्षारसेन घर्मा म्भसा वा पाययेत्|
त्रायमाणाशृतं पित्तोद्दृतौ क्षीरमिति||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्दमाख्ये विसर्पे वमनादीन् शीघ्रतरं योजयेत्| सुतरामित्यशेषेण श्लेष्मदोषनिर्हरणाय| कृतेषु वमनादिषु जलौकोभी रक्तमवसेचयेत्| असृक्प्रक्लेदादित्यनेन रक्तस्रावहेतुः| घनमुस्तचन्दनपटोलादिकृताश्चत्वारः पाचनकषायाः| पञ्चमो दार्व्यादीनां घृतमिश्रः| घनो मुस्तम्| पिचुमन्दो निम्बः| तिक्ता तटुका| अरिष्टो निम्बः| घृतादीनामन्यतमेन त्रिवृच्चूर्णं विरेकाय| घर्माम्बूष्णोदकम्| पित्तस्योद्दृत्तावन्याधिक्ये त्रायमाणाश्रुतं क्षीरम्|| १३||
Adhikarana सामान्योपदेशः (१४-२०) · Śloka २०
भवति चात्र- श्रेष्ठास्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः|
यच्च नासावसंसृष्टो रक्तपित्तेन जायते|
न घृतं बहुदोषाय देयं यन्न विरेचनम्|
तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्||१४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने विसर्प चिकित्सितन्नाम विंशोऽध्यायः||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गतानुगतिका| अत्र विसर्पेऽसृक्स्रुतिरेव श्रेष्ठोऽन्योपक्रमेभ्यो यतो विसर्पस्याश्रयो रक्तम्| यच्च यस्माच्चासौ विसर्पो रक्तपित्तेनासंसृष्टो न जायते| तत्कारणमपि रक्तस्याश्रयो भवति| अपि च बहुदोषाय विसर्पिणे यद् घृतं न विरेचयति तत् कदाचिन्न देयम्| तेन ह्यविरेचनेन घृतेन प्राप्तस्तम्भः स दोषास्त्वगादिकं पचेदिति|| १४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने विंशोऽध्यायः