Adhikarana अथोदरचिकित्सितन्नाम सप्तदशोऽध्यायः अध्यायप्रतिज्ञा (१) · Śloka १
अथात उदरिचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रैयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
क्रमप्राप्तस्योदरस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana सर्वोदरेषु विरेचनन्तत्र हेतुश्च (२) · Śloka २
सर्वमेवोदरमतिमात्रदोषसञ्चयानुबन्धेन स्रोतोमुख़नि रोधाद्व्याकुलानिलतया यत्प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुञ्जीत|
मूत्रक्षीरान्यतरयुक्तमेरण्डतैलमह रहर्मासमेकं द्वौ वा|
क्षीरहारो वा गव्यं वा माहिषं वा मूत्रम्|
उष्ट्रीक्षीरवृत्तिर्वा स्यात्||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वमित्यादिनोदरिणोऽभीक्ष्णं विरेचनोपयोगहेतुरतिमात्रो यो दोषाणां सञ्चयस्तस्यानुबन्धेन कर्त्रा स्रोतोमुख़निरोधः| अनिलस्य व्याकुलत्वमनेकरूपमवस्थानम्| मूत्रेत्यादिना विरेचनप्रयोगः| गव्यां माहिषं वा मूत्रं क्षीराहारः| अथवा सर्वाहारपानपरित्यागेनोष्ट्रीक्षीरवृत्तिः स्यात्|| २||
Adhikarana शोफशूलादिसहिते विशेषः (३) · Śloka ३
शोफशूलानाहतृण्मूर्छापरीतो विशेषेण पयोऽनुपानं गो मूत्रेण प्राणदां पिबेत्|
पिप्पलीसहस्रं व स्नुहीक्षीरभावितं सेवेत|
तद्भावितेन वा कृष्णाभयाचूर्णेन कासरम्|
सैन्धवाजमोदयुक्तं वा नैम्बं तैलम्|
अथवाऽऽर्द्रक रसानुविद्धं सिद्धं वा||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शोफादिपरीत उदरी अनन्तरोक्तं कुर्याद्विशेषेण तु प्राणदां हरीतकीं गोमूत्रेण सह पिबेत्| पीतायां पश्चात् क्षीरं पेयम्| पिप्पलीसहस्रं क्रमेण सेवेत तद्भावितेन स्नुहीक्षीरभावितेन पिप्पली हरीतकीचूर्णेन सह कासरम्| तच्च गुग्गुलुपर्यायप्रसिद्धम्| निम्बस्रुतं तैलं सैन्धवाजमोदाभ्यां युक्तम्| अथवाऽऽर्द्रकस्य रसेनानुविद्धं तेन स्तोकेन कृतसंस्कारं तत्सिद्धं वा|| ३||
Adhikarana हरीतकीग़ृतम् (४) · Śloka ४
हरीतकीचूर्णप्रस्थयुक्तमाढकं ग़ृतस्याङ्गारेष्वभिविलाप्य ख़जेनाभिमथ्य सुगुप्तं यवपल्ले मासं स्थापयेत्|
तत श्चोद्धृत्य परिस्राव्य हरीतकीक्वाथाम्लवदधिप्रतीवापं विपाचयेत्||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
हरीतकीचूर्णप्रस्थेन युक्तं ग़ृतस्याढकमग्नौ विलाप्य ख़जेन मथितं सदनु गुप्तं यवपल्ले यवराशौ निधापयेत्| ततश्च यवपलान्मासादूर्ध्वमुद्धृतं वस्त्रेण च परिस्राव्य स्नेहसमं हरीतकीक्वाथं तावदेव चाम्लं दधि दत्वा पचेदिति|| ४||
Adhikarana सुधाक्षीरग़ृतम् (५) · Śloka ५
अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीती भूतमभिमथ्य तन्नवनीतं महावृक्षक्षीरेणैव सह साध येत्||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथवा गव्ये पयसि सुधाक्षीरं दत्वा विपचेत्| क्षीरस्य ग़नत्वं यावत्ततः शीतीभूतं क्षीरं दण्डेनाभिमथ्य नवनीतं गृह्णीयात्| तच्च नवनीतं सुधाक्षीरेण समेन सह विपाचयेदिति द्वितीयं ग़ृतम्||५||
Adhikarana चविकादिग़ृतम् (६) · Śloka ६
अथवा चविकाचित्रकदन्त्यतिविषाकुष्ठसारिवाविडङ्ग- त्रिफलाकटुरोहिणीद्विहरिद्राशङ्ख़िनीत्रिवृद्दीप्यकानर्धकार्षि- कान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्र- क्षीरग़ृतत्रिकुडवं चैकध्यं पाचयेत्|
एतानि तिल्वक- चतुर्थानि सर्पीषि पीतान्युदरगुल्मविद्रध्यष्ठीलानाहकु- ष्ठोन्मादापस्मारान्निग़्नन्ति||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथवा चविकेत्यादिना तृतीयम्| एतानि त्रीणि सर्पीषि येषां तिल्वकसर्पिश्चतुर्थं तानि चत्वारि पीतान्युदरादीन् ग़्नन्ति| तिल्वकग़ृतम् वातव्याधावुक्तम्|| ६||
Adhikarana दशमूलषट्पलं ग़ृतम् (७) · Śloka ७
यावशूकपञ्चकोलषट्पलेन वा मस्तुदशमूलक्वाथा ढकद्वयेन च सिद्धण् सर्पिःप्रस्थं प्रयोजयेत्||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पलं यवक्षारस्य पलपञ्चकं पञ्चकोलानां मुस्तुन आढकं दशमूलक्वाथस्याढकम्| ग़ृतस्य प्रस्थ इति दशमूलषट्पलम्|| ७||
Adhikarana यवकोलादिग़ृतम् (८) · Śloka ८
यवकोलकुलत्थपञ्चमूलकषायेण वा सुरासौवीरक युक्तं सर्पिः||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यवादीनां क्वाथो ग़ृतसमः सुरासौवीरकं मिश्रीभूतं ग़ृतसममित्युदरिणो ग़ृतानि|| ८||
Adhikarana स्नेहोत्तरं विरेचनम् (९) · Śloka ९
सर्पिष्पानस्रस्ते च दोषे बलवान् विरेचनार्थं मूत्रासवा रिष्टसुराः स्नुहीक्षीरयुक्ताः शीलयेत्|
विरेचनद्रव्य कषायं नागरदेवदारुप्रगाढम्|
त्रिलवणादिचूर्णं वा द्वित्रि गुणानुलोमनद्रव्यम्||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवं सर्पिष्पानेन दोषे स्रस्ते प्राप्तशैथिल्ये बलवान् पुरुषो विरेचनार्थं मूत्रादिकं स्नुहीक्षीरयुक्तं शीलयेत्| अथवा शोधनादिगणनिर्दिष्टानां विरेचनद्रव्याणां कषायं शुण्ठीदेवदारुचूर्णप्रगाढं शीलयेत्| प्रगाढं ग़नम्| गुल्मोक्तं वा त्रिलवणादिचूर्णं द्विगुणैरन्यभागापेक्षयाऽनुलोमिकद्रव्यैः कुम्भनिकुम्भादिभिः कृतं शीलयेत्| अथवा त्रिगुणानुलोमिकद्रव्यं त्रिलवणादिकम्|| ९||
Adhikarana पटोलमूलादिप्रयोगः (१०) · Śloka १०
पटोलमूलरजनीविडङ्गत्रिफलाः कर्षांशाः|
कम्पिल्ल कनीलिनीफलत्रिवृत्तानां क्रमाद् द्वित्रिचतुर्भिः कर्षैर्युक्ता श्चूर्णयित्वा मूत्रेण पिबेत्|
जीर्णे च पेयामण्डपो रसाशी वा स्यात्|
ततः षड्रात्रं सव्योषेण पयसाश्नीयात्|
ततः सप्तमेऽहनि पुनश्चूर्णं पिबेत्|
अनेन विधिना चूर्ण मिदमुदराणि जातोदकान्यपि निबर्हयति|
गुल्मभेदनानि च प्रयुञ्जीत||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पटोलमूलादिकं प्रत्येकं कार्षिकम्| कम्पिल्लकं कर्षद्वयम्| नीलिनीफलं कर्षत्रयम्| त्रिवृता कर्षचतुष्टयम् चूर्णयित्वा गोमूत्रेण पिबेत्| तस्मिन् जीर्णे पेयामण्डपो वा स्याद्रसोदनाशी वा इत्येकमहः कृत्वा षड्रात्रमनौषध एव सव्योषेण पयसा भोजनमश्नीयात्| ततः सप्तमे दिवसे पूर्वप्रस्थानेन पुनः पटोलादिचूर्णं पिबेत्| पुनः षड्रात्रविधानेनाचूर्णक्षयम्| जातोदकान्यपि चिरकालप्ररूढत्वात्| सुबोधम्|| १०||
Adhikarana मूत्रवर्त्तिः (११) · Śloka ११
वमनविरेचनशिरोविरेचनवत्सकादिवचाहरिद्रादिवर्गद्रव्या णि पृथक्पालिकानि सूक्ष्मकल्कीकृतानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणे मृद्वग्निना ग़ट्टयन् पाचयेत्|
अविदग्धकल्कं च तत्सिद्धमवतार्य शीती भूतमङ्गुष्ठमात्रा गुलिका वर्तयित्वा यथा बलं त्रिचतुरो मासानुपयोजयेत्|
एषा मूत्रवर्तिर्महारोगश्वासकासपी नसप्रसेकश्वयथुगुल्मपाण्डुकृमिकोष्ठारोचकाविपाको दावर्तेषु परममगदम्||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वमनादिद्रव्याणि सूत्रनिर्दिष्टानि पृथक्पालिकानि| लवणानि च पृथक्पालिकानि| वज्रवृक्षक्षीरस्य प्रस्थमित्येतत् सर्वमूत्रगणे प्रक्षिप्य ग़ट्टयंश्चालयन्मृद्वग्निना| एषा मूत्रवर्तिरुदरे त्रींश्चतुरो वा मासान् बलापेक्षया प्रयोज्या| एषा च महारोगादीनां परमौषधम्| वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः| अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः|| सुबोधम्|| ११||
Adhikarana विरेचनोत्तरा उपचाराः (१२) · Śloka १२
कृतविरेचनश्च क्षामदेहोऽन्तरान्तरा क्षीरमौष्ट्रकं गव्यमाजं वा व्योषयुक्तं शीलयेत्|
दोषशेषविजयाय च शील येच्चविकानागरं क्षीरेण पिष्टम्|
सुरदारुचित्रकं वा सुरुङ्गां वा पुनर्नवं वा त्रिफलादन्तीरौहीतकनिर्यूहं वा व्योषक्षारोपेतं तत् स्नुहीक्षीरग़ृतयुक्तम्||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
क्षामदेहश्च क्षामत्वनाशनाय व्योषोपेतमौष्ट्रकादिक्षीरं शीलयेत्| विरेचनाद्दोषशेषस्य पाचनार्थं चविकादिप्रयोगान् शीलयेत्| पुनर्न-वान्तं क्षीरेण पिष्टम्| सुरुङ्गा मूर्वा| व्योषक्षारोपेतं वा त्रिफलादि-निर्यूहम्| तदेव स्नुहीक्षीरग़ृतयुक्तम्|| १२||
Adhikarana पुराणान्नादिसेवनम् (१३) · Śloka १३
पुराणमन्नं तक्रमरिष्टांश्च तांस्तान् क्षीरञ्च दन्तीचित्रकवि डङ्गचविकात्रिकटुकोपेतम्|
तुल्यार्द्रकरसं वा क्षीरं शीलयेत्|
पिप्पलीवर्धमानं वा सेवेत|
शिलाजतुं वा क्षीराशीं गुग्गुलुं वा|
पुनः पुनश्च स्नेहयेद्विरेचयेच्च|
आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत|
सलिलं तु वर्ज येत्|
आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पुराणं चान्न तक्रादींश्च तांस्तानर्शश्चिकित्सिताद्युक्तान्| दन्त्यादिचूर्णोपेतं क्षीरं तुल्यार्द्रकरसं वा क्षीरं पिप्पलीवर्धमानं वा रसायनविधानेन सेवेत| शिलाजतु वा क्षीराशी सेवेत| गुग्गुलुं वा| सुबोधम्| आत्ययिकाः साबाधाः| सलिलमुदरी पाने विवर्जयेत्| यथास्वमित्यात्मीयचिकित्सया|| १३||
Adhikarana वातजे विशेषः (१४) · Śloka १४
वातकृतेषु पार्श्वशूलोपस्तम्भहृद्ग्रहेषु बिल्वक्षाराम्भसा तैलं पाचयेत्|
स्योनाकाग्निमन्थतिलकुतलकदल्यपा मार्गाग्न्यतमक्षारेण वा विपक्वं तैलम्||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वातकृतेषूदरिणः पार्श्वशूलादिषु बिल्ववृक्षक्षारस्रुतेनाम्भसा तैलं विपाचयेत्| स्योनाकादीनामन्यतस्य वा क्षीरेण विपक्वं तैलम्|| १४||
Adhikarana आवरणे विशेषः (१६) · Śloka १५
कफे पित्ते वा वातेनावृते ताभ्यां वा वाते बलवान् वातगुल्मोक्तक्रमेणैरण्डतैलं पिबेत्||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एरण्डतैलं च वातगुल्मविधानेन पिबेत्| कस्मिन् विषय इत्याह-कफे वातेनावृते| ताभ्यामिति कफपित्ताभ्यां वात आवृते| बलवानिति अबलस्यैरण्डतैलप्रतिषेधः|| १६||
Adhikarana लेपसेकौ (१७) · Śloka १७
लिम्पेच्च जठरमुदरिणां शिग्रुपलाशार्काश्वकर्णगज पिप्लीदेवदारुभिर्मूत्रपिष्टैः सुख़ोष्णैः|
वृश्चिकालीकुष्ठ षड्ग्रन्थाद्विपुनर्नवधान्यनागरपञ्चमूलक्वाथैर्मूत्रैश्च परिषेच येत्|
प्रततमेव च स्वेदयेत्||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शिग्र्वादिभिश्च मूत्रपिष्टैः सुख़ोष्णैरुदरिणो जठरं लिम्पेत्| वृश्चिकाल्यादिक्वाथैर्मूत्रैः परिषेचयेत्|| १७||
Adhikarana आध्मानाद्रक्षणम् (१८) · Śloka १८
विरिक्तस्य चास्य सदाम्लानमुदरं साल्वलादिभिरुपनद्धं ग़नेन वाससा वेष्टयेत्|
एवमेनमनवकाशो वायुर्न पुन राध्मापयति|
तथापि पुनः सविरित्कस्याध्मानेऽम्ल लवणान् सुस्निग्धान् निरूहान् दद्यात्|
सोपस्तम्भे तु वायौ तीक्ष्णोष्णान्||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विरिक्तस्येत्यादि सुबोधम्| म्लानं विरेकात् त्यक्तकाठिन्यम्| साल्वल इति पद्मकादिस्वेदनाम| एवमिति वेष्टनेन| एतदिति जाठरम्| तथापीत्यादि सुबोधम्| तीक्ष्णोष्णानिति निरूहान्| स्तम्भ एवोपस्तम्भः इति सामान्येनोदरिणां चिकित्सा|| १८||
Adhikarana वातोदरे चिकित्सा (१९) · Śloka १९
अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्य स्वेदि ताङ्गतिल्वकग़ृतेन बहुशोऽनुलोमयेत्|
कृतायां च संसर्ग्यां बलार्थं क्षीरमवचारयेत्|
निवर्तयेच्च प्रागुत्क्लेशात् क्रमेण|
ततो यूषरसादिभिर्मन्दाम्ललवणैः समिद्धानल-मुदावर्तिनं पुनः स्निग्धस्विन्नमास्थापयेद्विदार्यादिक्वाथेन चित्राफलतैलप्रगाढेन|
तीक्ष्णोष्णाधो भागिकद्रव्ययुक्तेन वा दाशमूलिकेन|
दीप्ताग्निं च बद्धमलमस्थिसन्धित्रिकपार्श्वादिशूलस्फुर- णाक्षेपयुक्तं रूक्षमनुवासयेद्वातहराम्लसिद्धाभ्यां तिलो- रुबूकतैलाभ्यां|
भोजयेच्चैनं जाङ्गलरसेन विदार्यादि- शृतेन वा पयसा|
सरलमधुशिग्रुमूलकबीजस्नेहाश्च पानाभ्यञ्जनेन शूल- ग़्नाः|
स्वेदयेच्चाभीक्ष्णं जठरम्|
अविरेच्यस्य तु पयः सर्पिर्यूषरसबस्त्यभ्यङ्गसमभक्तौ- षधैः संशमयेत्||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथेत्यादि सुबोधम्| संसर्गी पेयादिक्रमः| क्षीरेण बले लब्धे दोषोत्क्लेशात् पूर्वं क्षीरं निवर्तयेत्| न तु ज़टित्यपि तु क्रमेण| मन्दं स्तोकमम्लं दाडिमादि लवणं च येषाम्| विदाऱ्यादिगणक्वाथश्चित्राफलतैलेन प्रगाढो ग़नः| चित्राफलानि द्रवन्तीफलानि तेषां तैलम्| अधोभागिकद्रव्याणि च विरेचनद्रव्याणि| तानि तीक्ष्णानि दाशमूलिके सम्मिश्र्यास्थापयेत्| दीप्ताग्नित्वादियुक्तं रूक्षमनुवासयेत्| केनेत्याह-वातहराम्लद्रव्यसिद्धतिलतैलोरुबूकतैलभ्याम्| ऊरुबूक एरण्डः| एनं चानुवासनार्हमुदरिणं जाङ्गलानां रसेन भोजयेत्| विदार्यादिगणसिद्धेन वा क्षीरेण| सरलादिस्रुताश्च स्नेहाः पानेन चाभ्यञ्जनेन च शूलग़्नाः| सरलस्य देवदारुसदृशस्य पीडाख़्यस्य स्नेहः| शेषयोर्बीजम्| सुबोधम्| अविरेच्यस्याल्पाग्निक्रूरकोष्ठादेरुदरिणः पयःप्रभृतिभिर्दोषं संशमयेत्| समभक्तमौषधं सान्नमिति पूर्वं प्रदर्शितम्| इति वातोदरम्|| १९||
Adhikarana पित्तोदरे चिकित्सा (२०) · Śloka २०
पित्तोदरिणं मधुरविपक्वेन सर्पिषोपस्नेह्य श्यामा त्रिवृत्त्रिफलाविपक्वेनानुलोम्येन मधुग़ृतसिताढ्येन न्यग्रो धादिनिर्यूहेणास्थापयेदनुवासयेच्च|
दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत्|
सञ्जा तबलाग्निं च स्निग्धं पुनः क्षीरेण सत्रिवृत्कल्केनोरुपूग शृतेन वा|
सातलात्रायमाणाभ्यां वाऽऽरग्वधेन वा|
सश्लेष्मणि पित्ते समूत्रेण|
सवाते तिक्तग़ृतान्वितेन पयसा पुनः पुनर्विरेचयेत्|
बस्तिकर्म चाचरेत्|
एभिरेव क्षीरैर्विदार्यादिशृतेन वा भोजयेत्|
पायसेन चोपनाहयेदुदरम्||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तोदरे प्रथमं मधुरद्रव्यसिद्धेन ग़ृतेन स्नेहनं तदन्ते श्यामादिविपक्वेन विरेचनम्| एनमिति पित्तोदरिणं न्यग्रोधादिगणक्वाथेन प्रभूतमाक्षिकादिनास्थापयेदनुवासयेच्चेति प्रकरणानन्यग्रोधादिसिद्धेनैव स्नेहेन| दुर्बलं तु पित्तोदरिणं स्नेहविरेचनास्थापनाद्विनैव प्रागेवानुवास्य क्षीरबस्तिभिः कल्पे वक्ष्यमाणैः शोधयेत्| स्नेहादिविधाने च सूत्रस्थानस्य स्मर्तव्यम्| सञ्जातबलाग्निमित्यादि सुबोधम्| पुनरित्यस्य स्निग्धमित्यनेन सम्बन्धः| सश्लेष्मणि पित्ते समूत्रेण पुनः पुनर्विरेचयेत्| एवमेरण्डशृतं सत्रिवृत्कल्कमेकं क्षीरम्| द्वितीयं सातलात्रायमाणाभ्यां शृतम्| त्रूतीयमारग्वधशृतम्| मूत्रेण सह चतुर्थम्| तिक्तग़ृतेन सह पञ्चममिति सुबोधम्| एषां क्षीराणामन्यतमेन विदार्यादिगणसिद्धेन वा क्षीरेणान्नं भोजयेत्| अस्य च पित्तोदरिणः पायसेन क्षीरसिद्धेनान्नेनोदरमुपनाहयेत् बध्नीयाद्वातादिहरणायेति पित्तोदरम्|| २०||
Adhikarana श्लेष्मोदरे चिकित्सा (२१) · Śloka २१
श्लेष्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीर विपक्वेनानुलोम्य कटुक्षारयुक्तैः कफहरैराहारैः संसर्ज्य त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवा सयेच्च|
कुलत्थयूषेण व्योषवता क्षीरेण वा भोजयेत्|
स्त्यानकफोदरं क्षारमरिष्टांश्च तीक्ष्णान् पाययेत्|
सततं च स्वेदयेत्|
किण्वसर्षपमूलबीजकल्कैर्जठरमुपनाह येत्||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
श्लेषमोदरे वत्सकादिगणशृतेनाज्येन स्नेहः| ततः स्वेदः| तदनन्तरं सुधाक्षीरसिद्धेनाज्येन विरेचनम्| ततः कट्वादिभिः संसर्ज्य पेयादिक्रमं कृत्वा त्रिकट्वादिभूयिष्ठेन मुष्ककादिक्वाथेनास्थापयेत्| तत्सिद्धेन तैलेन पश्चादनुवासयेत्| सुबोधम्| स्त्यानकफोदरं ग़नश्लेष्मजठरम्| किण्वादिकल्कैर्जठरमुपनाहयेत् बध्नीयात्| किण्वं सुराग़नम्| इति श्लेष्मोदरम्|| २१||
Adhikarana सन्निपातोदरे चिकित्सा (२२) · Śloka २२
सान्निपातिकमुदरं प्रत्याख़्याय चिकित्सेत्|
सर्वमे-वेत्येके सर्वस्य सर्वात्मकत्वात् कृच्छ्रतमत्वाच्च|
दोषो-द्रेकतस्तु प्रतिकुर्वीत|
सप्तलाशङ्ख़िनीनिर्याससिद्धेन च सर्पिषा विरेचयेन्मा समर्धमासं वा|
महावृक्षक्षीरमूत्रसिद्धेन वा|
अथवाजगन्धाजशृङ्गीदन्तीद्रवन्तीस्वादुकण्टकपुनर्नवाज़र सीवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादिनी भार्ङ्गीकुष्ठकुटिलरास्नाकल्कगोमूत्रसंसृष्टेन सैन्धवलव णितेन स्निग्धेनास्थापयेत्||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
संसर्गजं तु यावत् सम्भाव्यते तावदुक्तमेव| सन्निपातोदरमसाध्यमिति चिकित्सायाः प्रत्याख़्यानं कृत्व चिकित्सेत्| येनासिद्धावयशसा योगो न भवति| चिकित्सा च प्राणेषु कण्ठगतेष्वप्यवश्यं कर्तव्या| एके आचार्या एवं मन्यन्ते यथा न केवलं सन्निपातोदरमेव प्रत्याख़्याय चिकित्सेत् यावत्सर्वमप्युदरं प्रत्याख़्याय चिकित्सेत्| कुत इत्याह-सर्वस्योदरस्य सर्वदोषात्मकत्वात् स्वभावेनातिकृच्छ्रतमत्वाच्चेति| यदा तु प्रतिक्रिया क्रियते तदा दोषोद्रेकमपेक्ष्यः| सुबोधम्| सप्तला सातला| (नि)शङ्ख़िनी तिक्तका चित्रा यवतिक्ताक्षिपीतका| निर्यासोऽत्र क्वाथः| मासमर्धमासं वेति पूर्वापराभ्यां सम्बध्यते| महावृक्षक्षीरं सुधाक्षीरम्| अथवाजगन्धदिक्वाथेन मदनफलादिकल्कगोमूत्रभ्यां संसृष्टेन सैन्धवेन च स्नेहयोगाच्च स्निग्धेनास्थापयेत्| स्वादुकण्टकोऽत्र गोक्षुरकः| (नि) नक्राहिदंष्ट्रिका काली वृश्चिकात्युष्ट्रधूमकः| मूषिकपर्णी द्रवन्ती| क्षुद्रसहा मुद्गपर्णी| वृक्षादिनी वटरुहा कामिन्योरोहिणी च सा| वृक्षादिनीत्यन्वर्थनामा| गृध्रनख़ी तिन्दुकी| कुटिलं तगरम्|| २२||
Adhikarana अनुपशान्तौ विषप्रयोगः (२३) · Śloka २३
तथा चानुपशाम्यति निचयात्मके सर्वत्र च जठरे ज्ञातीना श्राव्य मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाय येत्|
पानभोजनेषु वा विषं निक्षिपेत्|
इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पेण दंशयित्वा वल्लीफलानि वा मूलकं वा|
एवं ह्यस्य दोषसङ्ग़ातः स्थिरो लीन उन्मार्गगो विषे णाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते|
तेनागदतां व्रजति|
भवान्तरं वा|
हृतदोषं च शीताम्बुपरिषिक्तं क्षीरयवागूं पाययेत्|
ततस्त्रिवृद्वास्तुकमण्डूकपर्णीकालशाकयवशाकानामन्यतमं स्वरससाधितमनम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुङ् मासमेकमश्नीयात्|
तत्स्वरसमेव च तृषितः पिबेत्|
ततः शाकैर्निहृते दोषे परतो दुर्बलाय कारभं क्षीरं प्रयु ञ्जीत||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवमनन्तरोक्तेन चिकित्सितेन निययात्मके सन्निपातोदरे अशाम्यत्यातुरस्य ज्ञातीना श्राव्य श्रावयित्वा मद्येनाश्वमारादिकल्कं पाययेत्| सर्वत्र च जठरे अशाम्यतीदं सर्वं कुर्यादित्यर्थः| पानभोजनेषु वा स्थावरं विषं निक्षिपेदातुरस्य| कृष्णसर्पेण दष्टामिक्षुगण्डिकां वा भक्षयेदातुरो वल्लीफलानि वा कूष्माण्डादीनि कृष्णसर्पेण दंशयित्वा भक्षयेत्| तथा वा मूलकम्| एवं कृतेऽस्यातुरस्य स्थिरत्वादियुक्तो दोषसङ्ग़ातः प्रमाथिना स्वभावेन विषेणाश्वेव बहिः प्रवर्तते| तेन प्रवृत्तेन कदाचिदगदतां निर्व्याधितां व्रजति| क्षीणत्वाद्वा भवान्तरं जन्मान्तरं वा व्रजति| पञ्चतां यातीत्यर्थः| हृतदोषमिति विषेण त्रिवृतादिशाकानामन्यतमम्| स्वरसेन साधितमिति त्रिवृच्छाकं त्रिवृच्छाकस्य स्वरसेन साधितं वास्तुकशाकं वास्तुकस्वरसेनैव साधितमिति सर्वत्र योज्यम्| अम्लादिवर्जितं किञ्चिदेव स्विन्नमद्यात्| किञ्चिदस्विन्नमेव हरितकप्रकारेण| अनन्नभुगिति शाकवृत्तिरेव माससेकं स्यात्| तृषितस्तु भुज्यमानस्यैव शाकस्य स्वरसं पिबेत्| सुबोधम्| कारभमौष्ट्रमिति वाताद्युदराणि|| २३||
Adhikarana प्लीहोदरे चिकित्सा (२४) · Śloka २४
प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ सिरां विध्येत्|
रुधिरस्यन्दनार्थञ्च पाणिना प्ली हानं विमर्दयेत्|
पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्ति क्षारं पयसा पाययेत् हिङ्गुं सुवर्चिकां वा|
पलाशक्षा रोदकेन वा यवक्षारम्|
पारिजातकेक्ष्वाक्वपामार्गक्षारं वा तैलसंसृष्टम्|
सौभाञ्जनकनिर्यूहं वा पिप्पलीचित्रकसैन्धवचूर्णयुक्तम्|
अम्ल स्रुतं वा बिडमागधिकाढ्यं पूतिकरञ्जक्षारम्|
अग्निसादे तु त्रिलवणादिं क्षारानरिष्टांश्च पिबेत्|
ग़ृतं षट्पलं महा षट्पलं रोहीतकषट्पलं वा||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
प्लीहोदरे स्नेहस्वेदावनुबन्धदोषानुगुण्येनैव| सिराव्यधे सूत्रोक्तप्रकारः सिरायाश्चावगमः| रक्तस्यन्दनाय प्लीहानं मर्दयेद्यथा ततो रक्तं स्यन्दति| नद्यादिशुक्तिप्रतिषेधाय समुद्रग्रहणम्| हिङ्गु पयसा पाययेत्| सुवर्चिकां वा| यवक्षारं पलाशवृक्षक्षारोदकेन पाययेत्| पारिजातकादीनां क्षारस्तैलेन संसृष्टः| पारिजातकं रोहित रोहितकम्| (नि) इक्ष्वाकुः कटुकालाबुनी तुम्बा लम्बीक्ष्वाकुश्च शब्दितः| सौभाञ्जनकषायं वा पिप्पल्यादियुक्तम्| अथवा पूतिकरञ्जस्य नक्तमालस्य क्षारमम्लेन काञ्जिकमद्यादिना स्रुतं गालितं बिडपिप्पलीभ्यामालोडितं पिबेत्| सुबोधम्| महाषट्पलं दशमूलषट्पलम्| रोहीतकषट्पलमनन्तरमेव रोहीतकत्वगित्यादिना पठितम्| सुबोधम्|| २४||
Adhikarana रोहीतकषट्पलं ग़ृतम् (२५) · Śloka २५
रोहीतकत्वक्पलानि पञ्चविंशतिं कोलप्रस्थद्वयं च तोये क्वाथयेत्|
तेन क्वाथेन तथा पालिकैः पञ्चकोलकैस्तैः सर्वैश्च तुल्यया रोहीतकत्वचा कल्कीकृतैर्ग़ृतप्रस्थं साध येत्|
तत्परं प्लीहहितम्||२५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
(नि)पारिजातश्च रोहीतः प्लीहग़्नो रक्तपुष्पकः| कोलं बदरम्| पञ्चकोलतुल्यत्वाद्रोहीतकत्वग्भ्यो गर्भे पञ्चपलानि भवन्ति||२५||
Adhikarana रोहीतकरसः (२६) · Śloka २६
रोहीतकलताः ख़ण्डशः कल्पिताः हरीतकीश्च तोये गो मूत्रे व सप्तरात्रमनुसुयात्|
स रसः प्लीहगुल्मोदरकृमि मेहकामिलार्शांसि साधयति||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
द्व्यङ्गुलमात्रकल्पितानां रोहीतकलतानां हरीतकीनां च रोहीतकसमानानां सप्तरात्रं दोषाद्यपेक्षया तोये वा मूत्रे वासुतानां यो रसः स प्लीहोदरादीन् साधयति|| २६||
Adhikarana अग्निकर्म (२७) · Śloka २७
एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्म विधिनाऽग्निकर्म कुर्यात्||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवमित्यादिना प्लीहोदरे अग्निकर्मप्रदर्शनम्| पिच्छा मण्डप्रायं पूर्वं प्रदर्शितमुदरे| उदकोऽस्वच्छम्| वातकफोल्बण एव न वाताद्युल्बणेऽग्निकर्म| इति वातप्लीहोदरम्|| २७||
Adhikarana पित्तोल्बणे प्लीहोदरे (२८) · Śloka २८
पित्तोल्बणे तु जीवनीयग़ृतक्षीरबस्तिविरेचनानि प्रयु ञ्जीत|
पुनः पुनश्च रुधिरमवसेचयेत्|
यकृदाख़्येऽ प्ययमेव क्रियाविभागः||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तोल्बणे प्लीह्नि जीवनीयैः सिद्धं ग़ृतं प्रयुञ्जीत| क्षीरबस्तयश्च विरेचनानि च| यकृदाख़्योदरेऽप्ययमेव प्लीहोक्तक्रियाविभागो विधेयः|| २८||
Adhikarana बद्धोदरे कर्म (२९) · Śloka २९
बद्धोदरे स्विन्नाय सतैललवणमूत्रं तीक्ष्णं निरूहमनु वासनं च दद्यात्|
स्रंसनानि चान्नान्युदावर्तहराणि च तीक्ष्णं च विरेचनं यच्च किञ्चिद्वातग़्नम्||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
बद्धोदरे तु स्विन्नाय कृतस्वेदायातुराय तैलादियुक्तं तीक्ष्णं निरूहं दद्यादनु च तथाविधमेवानुवासनं स्रंसनान्यनुलोमनानि| सुबोधम्|| २९||
Adhikarana छिद्रोदरे दकोदरे च (३०) · Śloka ३०
छिद्रोदरे स्वेदवर्ज्यं कफोदरवदाचरेत्|
दकोदरे तु पूर्व मुदकदोषहरणार्थं रूक्षतीक्ष्णौषधान् समूत्रान् निर्यूह चूर्णक्षारान् कफग़्नानि दीपनीयानि चान्नपानानि योज येत्||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
छिद्रोदरे स्वेदं विना सर्वं दकोदरचिकित्सितं विधेयम्| उदकोदरे पूर्वमेव तीक्ष्णादिगुणद्रव्यनिर्यूहादीन् दीपनं कफग़्नं चान्नपानं योजयेदुदककृतानां दोषाणां विकाराणामपहरणार्थम्| निर्यूहः क्वाथः| क्षारो भस्म|| ३०||
Adhikarana बद्धोदरादौ शस्त्रकर्म (३१) · Śloka ३१
एवमसिद्धौ बद्धच्छिद्रदकोदरेषु अश्मर्यामिव सुहृदां प्रका श्य शस्त्रमवचारयेत्|
तत्र बद्धच्छिद्रोदरयोः स्निग्ध स्विन्नस्याधोनाभेश्चतुरङ्गुलानि वामतोऽपहायोदरं पाट यित्वा चतुरङ्गुलप्रमाणमान्त्राणि निष्कास्य निरीक्ष्य बद्ध गुदोदरस्यान्त्रप्रतिरोधकरं बालं मलोपलेपमश्मानं चाप हरेत्|
परिस्राविणि शल्यमुद्धत्यान्त्रपरिस्रावं विशोध्य तच्छिद्रं मर्कोटकैर्दंशयेत्|
लग्नेषु च शिरस्सु कायमपन येत्|
ततो मधुग़ृताभ्यामभ्यज्यान्त्राणि यथास्थानं स्थाप यित्वा बाह्यं व्रणमुदरस्य सीव्येत्|
यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात्|
अथ निवातमागरं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत्||३१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एवमित्युक्तक्रियया सिद्धौ त्रिषु बद्धाद्युदरेषु पृथग्विधक्रियोपयोगाय शस्त्रमवचारयेत् आतुरसुहृत्प्रकाशनमश्मरीवत्| नाभेदधोऽधरभागे नाभितश्चत्वार्यङ्गुलानि परित्यज्य चतुरङ्गुलमात्रं पाटयेत्| तेन चान्त्राणि तथा परीक्ष्य़ाणि यथा सन्निवेशं न त्यजन्ति| गुदबन्धहेतुमान्त्रस्य प्रतिरोधकं बालादिकमपहरेत्| परिस्रासविणीति छिद्रोदरे| तच्छिद्रं मर्कोटैर्वैद्यो दंशयेत्| सुबोधम्| क्षीरेणैव वृत्तिर्यस्य तम्|| ३१||
Adhikarana दकोदरे विशेषः (३२) · Śloka ३२
दकोदरे सर्वेषु च जातोदकेषु जठरेषु वातहरतैला भ्यक्तस्योष्णोदकस्विन्नस्याप्तैः परिगृहीतस्याकक्ष्यातः पटवेष्टितोदरस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय व्रीहि मुख़ेनाङ्गुष्ठोदरमात्रमवगाढं विद्ध्वा नाडीम् निधाय दोषो दकमर्धमात्रमवसिञ्चेत्|
ततो नाडीमुद्धृत्य तैललवणे नाभ्यज्य व्रणं बन्धनेनोपचरेत्||३२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दकोदरनाम्न्युदरे सर्वेषु चोदरेषु चिरकालप्ररूढत्वाज्जातोदकेषु वातहर इत्यादिनोदकस्रावणविधिः| अवगाढमन्तःप्रविष्टम्| अङ्गु-ष्ठोदरमात्रमिति प्रमाणम्| व्रीहिमुख़ं नाम शस्त्रम्| तच्चोदकं सर्वं न स्रावयेत्सकृदपि त्वर्धमात्रमवसिञ्चेत्| अवसिञ्चनमवस्रावणम्| नाडीयन्त्रविधावुक्ता|| ३२||
Adhikarana अर्धमात्रावसेचने हेतुः (३३) · Śloka ३३
सहसा सर्वस्मिन् विस्राविते तृष्णाज्वरोऽङ्गमर्दोऽती सारः श्वासः कासः पाददाहो व जायते|
पूर्यते च सुरराम्|
अतस्तृतीयचतुर्थपञ्चमषष्ठाष्टमद्वादशषोडश रात्राणामन्यतममन्तरं कृत्वा दोषोदकमल्पशो विस्रा वयेत्||३३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सहसेत्यादिनार्धमात्रावसेचने हेतुः| सुतराञ्च पुनरुदकेन जठरं पूर्यते दुष्टत्वात्| तस्माद्दोषाद्यपेक्षया त्रिरात्रान्तरितं वा चतुरन्तरितं वा एवं पञ्चादिकमपि| पूरणप्रत्ययान्तानां त्रयादीनामाचार्येण प्रयोगः कृतः| तथाविधानां रात्रिशब्देन सामानाधिकरण्येन पूरणमात्रेण रात्रेरेकत्वात् समाहारो न सिद्ध्यति| न च विवक्षितार्थप्रतीतिस्तस्माच्चिन्त्यमेतत्|| ३३||
Adhikarana स्रावणोत्तरं कर्म (३४) · Śloka ३४
निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्य तरेण गाढतरं वेष्टयेत्|
तथा नाध्मापयति वायुः|
लङ्ग़ यित्वा च यवागूमल्पस्नेहलवणां मात्रया पाययेत्|
ततः परं षण्मासान् क्षीरवृत्तिर्भवेत्|
ततो मासत्रयं क्षीर पेयां पिबेत्|
अन्यच्च मासत्रयमल्पलवणमल्पक्षीरं श्या माकं कोरदूषं वा भुञ्जीतेति|
भवति चात्र प्रयतो वत्सरेणैवं विजयेत जलोदरम्|
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः||३४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुबोधम्| लङ्ग़यित्वा प्राप्तलङ्ग़नेन तु सर्वत्र| गतानुगतिका प्रयतोऽतियत्नवान् संवत्सरेणोक्तप्रकारेण जलोदरं विजयेत| किम्भूत इत्याह-वर्ज्येष्वत्यर्थोष्णाम्लदिषु यन्त्रितस्तदप्राप्तिलक्षणयन्त्रपरः सन्| दिष्टे पथ्यत्वेनोद्दिष्टे क्षीरादौ नातियन्त्रितोऽर्थान्नाप्ययन्त्रितः अदिष्टेपीष्टाप्रतिषिद्धे जितेन्द्रियो न त्विन्द्रियवश्यः|| ३४||
Adhikarana सामान्योपदेशः (३५) · Śloka ३५
सर्वमेवोदरं प्रायो दोषसङ्ग़ातजं यतः|
अतो वातादिशमनी क्रिया सर्वत्र शस्यते|
वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते|
तस्माद्भोज्यानि योज्यानि दीपनानि लग़ूनि च|
सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च|
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः|
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्|
पिबेदिक्षुरसं चानु जठराणां निवृत्तये|
स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा|
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु|
गुडं तिलकृतं शाकं वारि पानावगाहयोः|
आयासाध्वदिवास्वप्नयानयानानि च त्यजेत्||३५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वस्मिंश्चोदरे वातादिशमनी क्रिया इष्यते| यतः सर्वमेवोदरं प्रायेण सन्निपातजमेव| सुबोधम्| एषामित्युदरिणाम्| तथेत्युक्तप्रकारेण| सर्वश्चोदर्यत्यर्थोष्णादिगुणं च त्यजेत्|| ३५||
Adhikarana पाने तक्रप्रशंसा (३६) · Śloka ३६
नात्यच्छसान्द्रमधुरं पाने तक्रं प्रशस्यते|
सकणालवणं वाते पित्ते सोषणशर्करम्|
यवानीसैन्धवाजाजीमधुव्योषैः कफोदरे|
त्र्यूषणक्षारलवणैः संयुक्तं निचयोदरे|
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः|
प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः|
सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे|
गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्|
तक्रं वातकफर्तानाममृतत्वाय कल्पते||३६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
नात्यच्छादिगुणं च तक्रं पाने प्रशस्यते| तच्च तक्रं पिप्पलीलवणयुक्तं वाते| मरिचशर्कराभ्यां पित्ते| यवान्यादिभिर्युक्तं तक्रं कफोदरे| सन्निपातोदरे त्र्यूषणादिभिस्तक्रम्| मध्वादिभिः प्लीहोदरे| हपुषादिभिर्बद्धोदरे| छिद्रोदरे पिप्पलीमाक्षिकयुक्तं तक्रम्| सलिलोदरे व्योषयुक्तम्| गौरवादियुक्तानां वातश्लेष्मार्तानां तक्रममृतत्वाय कल्पते सम्पद्यत इत्यर्थः|| ३६||
Adhikarana प्रयोगान्ते क्षीरपानम् (३७-१७) · Śloka १७
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्|
स्थैर्यकृत्सर्वधातूनां बल्यं दोषानुबन्धहृत्|
भेषजापचिताङ्गानां क्षीरमेवामृतायते||३७||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थान उदर चिकित्सितन्नाम सप्तदशोऽध्यायः||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सर्वेषां च प्रयोगाणामनु क्षीरं पश्चात् प्रयोगे निष्पन्ने शस्यते यतस्तत् क्षीरं स्थैर्यकृत्वादियुक्तं तथा तेन प्रयोगभेषजेन येषामपचितमङ्गं शरीरं तेषां क्षीरममृतायते| अमृतमिवाचरति जीवितदानेनेति|| ३७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह व्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने सप्तदशोऽध्यायः