Adhikarana अथाऽर्शसाञ्चिकित्सितन्नाम दशमोऽध्यायः अध्यायप्रतिज्ञा (१) · Śloka १
अथातोऽर्शसां चिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
क्रमप्राप्तानामर्शसां चिकित्साप्रदर्शनार्थमध्याय आरभ्यते ||१||
Adhikarana उत्पीड्य दहनम् (२) · Śloka २
अथ खलु बलवन्तमर्शोभिरुपद्रुतं यथार्हस्नेहोपस्निग्धस्विन्नमनिलवेदनावृद्धिशमनार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तं शुचिं कृतस्वस्त्ययनं मुक्तविण्मूत्रमव्यथं समे शुचौ विविक्ते देशे साधारणे व्यभ्रे कालेशय्यायां समे फलके वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपर्व- कायमुत्तानमुन्नतकटीदेशं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिसन्धिमलज्जार्हैराप्तपरिचारकैः सुपरिगृहीतं कृत्वा ततोऽस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुसुखं शनैः पायौ प्रणिदध्यात्|
प्रवाहणप्रविष्टं चार्शोऽभि- वीक्ष्य पिचुप्लोतकयोरन्यतरेणावगुण्ठितया शलाकयोत्पीड्य यथोक्तविधिनाऽग्निक्षाराभ्यामुपाचरेत्सम्यङ्निर्वापयेच्च||२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथेत्यादि गद्यं सङ्कीर्णवस्तुसुख़ावबोधाय | बलवन्तमित्यबलस्य क्षारप्रतिषेधप्रदर्शनम् | यथार्हस्नेहो दोषाद्यपेक्षया | प्रत्यादित्यगुदमादित्याभिमुख़मुपविष्टं सन्तमुत्तानं निषण्णस्य ग्रीवां सक्थिनी चैकेन यन्त्रणशाटकेन परिवेष्टितम् | सर्वं सुबोधत्वान्न व्याख़्यायते | अनुसुख़ं सुख़ानुगुण्येन यन्त्रकमुभयपार्श्वच्छिद्रं यन्त्रविधावुक्तम् | प्रवाहणेन तस्मिन् यन्त्रे पार्श्वच्छिद्रेण प्रविष्टमर्शोऽभिसमीक्ष्य दहेदिति सम्बन्धः | पिचुः कार्पासलेशः | प्रोतकश्चैलख़ण्डम् | यथोक्तेन सूत्रस्थानप्रदर्शितेन विधिना | निर्वापयेत् संशमयेत् | अग्निदग्धानि स्निग्धशीतेन | क्षारदग्धान्यम्लेन || २ ||
Adhikarana संस्थानभेदानुसारं विधिभेदः (३) · Śloka ३
महान्ति प्राणवतश्छित्वा दहेत्|
छत्राकाराण्यूर्ध्वविस्तृतानि क्षारसूत्रेण बद्ध्वा||३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
महान्त्यर्शांसि प्राणवतः पुरुषस्य प्रथमं शस्त्रेण छिन्द्यात्ततो दहेत् | क्षारलिप्तसूत्रेण बध्यादिति सम्बन्धः || ३ ||
Adhikarana दाहोत्तरं कर्म (४) · Śloka ४
ततो यन्त्रमपनीयोत्थाप्यातुरं स्वभ्यक्तगुदजघनवङ्क्षणं यथाकालमुष्णोदककोष्ठेऽवगाहयेत्|
ततो निवातमगारं प्रवेश्याचारिकमुपदिशेत्||४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तत इति दग्धेष्वर्शःसु शीते काले उष्णेनोष्णे शीतेनोदकेन| कोष्ठो जलाधारः| तत इत्यवगाहनस्य पश्चात्| आचारिकमुष्णोदकोपचारी स्यादित्यादि||४||
Adhikarana दहनविकल्पाः (५) · Śloka ५
सावशेषं पुनर्दहेत्|
एवं सप्तरात्रात् सप्तरात्रादेकैकमुपक्रमेत्|
बहुषु तु प्राग्दक्षिणं ततो वामं वामात्पृष्ठाग्रजम्|
एकाहात्तु सर्वाणि दहतोऽतियोगोक्तो दोषः|
तत्र शुष्काण्यग्निना क्षारेण वा साधयेत्|
क्षारेणैव मृदुनाऽऽर्द्राणि|
एष सर्वप्रदेशेष्वर्शसां दहनविकल्पः|
तृतीये तु गुदबलौ प्रत्याख़्यायोपचरेन्न वेत्येके||५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सावशेषमर्शः| वामादनु पृष्ठजं तत अग्रजम्| अग्निक्षारयोरतियोगः सूत्रोक्तः| मृदुः क्षारः सूत्रोक्तः| सर्वप्रदेषु नासाकर्णादिषु| तृतीया बली प्रवाहिणी| एके आचार्या नोपचरेदित्याहुः||५||
Adhikarana सम्यग्दाहादिलक्षणानि (६) · Śloka ६
अथ सम्यग्दग्धे वातानुलोम्यमन्नाभिरुचिरग्नेर्दीप्तिर्लाघवमिन्द्रियप्रसादो यथोक्तोपद्रवनिवृत्तिर्बलवर्णोपपत्तिश्च|
असम्यग्दाहे तु क्षारग्निकर्मणोर्विधिमीक्षेत||६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
वातानुलोम्यादि सम्यग्योगलक्षणम् | उपद्रवाः कासपिपासादयः | असम्यग्दाहो हीनादिलक्षणः सूत्रस्थानात् ज्ञातव्यः |
Adhikarana बस्तिवेदनाद्युपद्रवाणां चिकित्सा (७) · Śloka ७
बस्तिवेदनायां कुष्ठशतपुष्पादेवदारूसुरभिपुनर्नवागरुकल्केन नाभेरधः सर्वमालिम्पेत्|
मूत्रपुरीषप्रतीघाते वरणालम्बुसैरण्डपुनर्नवाश्वदंष्ट्रासुरभीसुषवीकषायं सुखोष्णं स्वभ्यक्तपृष्ठकटीवंक्षणगुदस्य परिषेकेऽवगाहे वा योजयेत्|
क्षीरं सस्नेहं तैलमेव वा|
दग्धेषु चार्शः सु शकृत् छैथिल्यार्थं त्रिवृद्वास्तुकोपोदकाचञ्चुपर्णीशाकयुक्त- मन्नमश्नीयात्||७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
बस्तिवेदनायां कुष्ठादिकल्केन नाभेरधो लेपः | सुरभिर्गन्धसुरा | सुबोधम् || ७ ||
Adhikarana सार्वदैहिकी चिकित्सा (८) · Śloka ८
अनिलानलरक्षणोत्तेजनार्थं देहपुष्टये च स्नेहादीन् सम्यगासेवेत|
संशोधनाः प्रलेपाद्याः कषायास्तैलयुक्तयः|
व्रणाधिकारमालोच्य योक्तव्या हतनामसु||८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अनिलस्य रक्षार्थं कोपात् | अग्नेरुत्तेजनार्थम् | संशोधनादिकं व्रणप्रतिषेधोक्तप्रकारेण यथायोग्यं प्रयुञ्जीत | हतनाम दुर्नाम |
Adhikarana अनवचरणीयशस्त्रक्षाराग्नेः कर्म (९) · Śloka ९
अथानवचारणीयशस्त्रक्षाराग्नेर्वातकफोल्बणानि दोषसम्पूर्णत्वान्निर्गतानि सस्तम्भकण्डूशोफशूलानि क्षारचित्रककुष्ठबिल्वमूलकसिद्धेन तैलेन वा कृष्णाहिबिडालौष्ठजलौकः सूकरवसाभिर्वाभ्यज्य पिण्डेन स्वेदयेद् द्रवस्वेदेन वा|
धूपयेच्च सघृतशमी पत्रार्कमूलमानुषकेशाहिनिर्मोकबिडालचर्मभिः|
कुञ्जरवराहवृषशकृत्सक्तुसर्जरसैर्वा|
सुरसाबृहतीपिप्पल्यश्वगन्धाभिर्वा सघृताभिः|
अरिष्टशिग्रुपत्रकुलत्थवचाभिर्वा|
प्रदिह्याच्चस्नुहीक्षीरयुक्तेन हरिद्राचूर्णेन|
गोमूत्रपिष्टैर्वा कुक्कुटशकृन्निशापिप्पलीगुञ्जामूलैः|
गोपित्तपिष्टाभिर्वा दन्तीचित्रकसुवर्चिकाभिः|
सुधाक्षीरपिष्टैर्वा गुडकृष्णासैन्धवकुष्ठशिरीषबीजैः|
तद्वच्च गजास्थितुत्थभल्लातकलाङ्गलीकुलीरशृङ्गीवचाभयाहिङ्गुकुष्ठबिल्वशिग्रुमूलकबीजनिम्बाश्वमारपत्रपीलुमूलैः बस्तमूत्रपिष्टैर्वा सुधाकाण्डार्कक्षीरतुम्बप्रसवकरञ्जैः|
पिप्पल्यादिभिर्वानुवासानद्रव्यैः|
एभिर्हि प्रदिग्धान्यर्शांसि दुष्टमसृक्सञ्चितं पिच्छां च विमुच्य प्रशाम्यन्ति|
एभिश्च तैलान्यभ्यङ्गार्थमुपकल्पयेत्||९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथेर्त्यादि सुबोधम् | पिण्डस्वेदः सूत्रे प्रदर्शितः | तद्वद् द्रवस्वेदः | सुबोधम् | हरिद्राचूर्णस्नुहीक्षीराभ्यां प्रदेहः | गजास्थिप्रभृतीनि सुधाक्षीरेण पिष्टानि | गुडा सुधा पिच्छा मण्डप्रायम् | एभिरिति गुडकृष्णासैन्धवादिभिर्यथालाभम् || ९ ||
Adhikarana कासीसादितैलम् (१०) · Śloka १०
तथा कासीससैन्धवालपिप्पलीकुष्ठशुण्ठीविडङ्गविदारीलाङ्गलीकरवीरार्द्रकस्वर्णक्षीरीदन्तीचित्रकालर्कसुधापयोभिस्तैलञ्चतुर्गुणमूत्रविपक्वमप्रदूषयद्गुदमभ्यङ्गात् क्षारवदर्शांसि शातयति||१०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
कासीसादीनां स्नेहाच्चतुर्थांशत्वम् | लाङ्गली गर्भपातनी |
Adhikarana अभ्यङ्गादिनाऽर्शःशातनम् (११) · Śloka ११
तैलाभ्यक्तं वा पायुप्रदेशं पक्वेष्टकाशकलैस्तीक्ष्णकोटिभिरग्निवर्णैर्महिषीमूत्रनिर्वापितैर्निष्पीडयन् द्विकालं सप्तदिनानि स्वेदयेत्|
अनन्तरञ्च यथोक्तेनावगाहनेन|
ततो गते सप्तरात्रे पूजीकरञ्जपल्लवकल्केन ससैन्धवेन स्नुहीपयसा वर्तिं कृत्वा नातिशुष्कां गुदो विदध्यात्|
कृतविण्मूत्रं चावगाहे स्थापयेत्|
प्रातः सायं चैष विधिः प्रत्यहमेकान्तरं वा यावत् त्रिरात्रम्|
ततो देवदालीक्षारहरीतकीः शीलयेत्|
एवमर्शांसि शीर्यन्ते||११||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
द्विकालमेव महिषीमूत्रनिर्वापणादुष्णैः || ११ ||
Adhikarana हरीतकीपाकविधिः (१२) · Śloka १२
अथ हरीतकीपाकविधिः|
सजालमूलं जीमूतकमन्तर्धूमं दहेत्|
तस्य भस्मनोर्द्धाढकं गोमूत्रपात्रद्वयेनैकविंशतिकृत्वो गालयेत्|
ततस्तेन क्षारमूत्रेण कुटजचित्रकव्याधिघातचूर्णप्रसृतत्रयान्वितेन पथ्याशतद्वयमाघनीभावात् पचेत्|
अवतीर्णञ्च तमवलेहं व्योषरजःप्रसृतयुक्तं घृतभाविते भाजने निदध्यात्|
स लेहः सावलेहविजयाद्वयोपयोगमभ्यस्यमानो गुदजजठरजघनवङ्क्षणशूलगरानाहगुल्मपाण्डुरोगाश्मरीशर्कराश्वासकासान् नियच्छति||१२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
एकविंशतिकृत्वः एकविंशतिवारान् द्वे पले प्रसृतः | प्रसृतत्रयं षट्पलानि | सहावलेहेन यद्वर्तते हरीतकीद्वयं तत्तथोक्तम् | तदुपयोगमिति क्रियाविशेषणम् | अनेन पथ्याशतद्वयमपि लेहेनान्वितं प्रयोज्यमित्युक्तं भवति || १२ ||
Adhikarana पुनः पुनः शोधनं स्रावणञ्च (१३) · Śloka १३
सदा च पत्रभङ्गोदकेन कोष्णेनाम्बुना वा शौचमाचरेत्|
अप्रवर्त्तमानञ्च रुधिरमुच्छूनकठिनेष्वर्शः सु जलौकाभिः सूचीकूर्चेन वा प्रवर्तयेत्||१३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुबोधम् | पत्रभङ्गं भङ्गपत्रमाहुः | उच्छूनकठिनत्वं रक्तविस्रावणहेतुः | सूचीकूर्चः शस्त्रविधावुक्तः || १३ ||
Adhikarana अग्निसादादौ विधिः (१४) · Śloka १४
अग्निसादे गुदशोफशूलार्तौ च हिङ्ग्वर्धकर्षं सौवर्चलयवक्षारेन्द्रयवपिप्पलीनां पृथक्कर्ष मूर्वार्धपलं पाठापलं शुण्ठीद्विपलं चैकत्र चूर्णितमुष्णाम्बुसर्पिर्मद्याद्यैरुपयोज्यम्|
त्रिलवणादिचूर्णं वा|
हिङ्ग्वतिविषावष्ठस्वर्जि काक्षारबिड्लवणानि वा द्विगुणोत्तराणि प्रयोजयेत्|
प्राणदां वा तक्रानुपानां सगुडाम्|
प्रातः प्राग्भक्तं वा निरन्नो वा तक्रमहरहस्तस्मिन् जीर्णे तक्रे सायं तक्रपेयां ससैन्धवां पिबेत्|
तक्रेणैव वा लाजासक्तूनवलिह्यात्|
पीलूनि वा तक्रानुपानानि प्रातः पक्षं पक्षार्धं वा प्रयोजयेत्|
कटुकिकामूलकल्कं वा प्रातस्तक्रेण|
शुण्ठीचित्रकपुनर्नवाक्वाथसिद्धं वा क्षीरम्|
गोमूत्रपरिस्रुते वा बहुकृत्वो जीमूतकक्षार उषिता हरीतकीः|
गोमूत्रार्धद्रोणसिद्धं वा क्षौद्रवदभयाशतम्|
वासिष्ठहरीतकीर्वा|
भल्लातकानि वा रसायनोपदेशेन पुनर्नवालम्बुसां वा शोफोक्तविधिना गुडार्द्रकं वा||१४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
हिङ्ग्वादिकमुष्णाम्ब्वादीनामन्यतमेन योजयेदग्निसादादिषु | त्रिलवणादिकं गुल्मे वक्ष्यते | हिङ्ग्वतिविषादिकमप्युष्णाम्ब्वादिभिरेव | सगुडां हरीतकीं तक्रानुपानां कृत्वा | अहरहः केवलं प्रातः प्राग्भक्तं वा तक्रम् | सुबोधम् | कटुकिका प्रसिद्धा | शुण्ठ्यादिक्वाथेन सह सिद्धं क्षीरम् | जीमूतकक्षारोदके पूर्ववत् स्रुते उषिता हरीतक्या मृदुभावात् | क्षौद्रेण युक्तं क्षौद्रवत् | वासिष्ठहरीतक्यः कासविधावुक्ताः | पुनर्नवालम्बुसे रसायनोदेशेन ||
Adhikarana विविधास्तक्रप्रयोगाः (१५) · Śloka १५
सक्तुमन्थं वा भल्लातकचूर्णयुक्तं नातिलवणं तक्रेण|
तक्रेण वाषाढकार्तिकमार्गशीर्षाणां मासानामन्यतमस्मिन् पुष्ययोगे समुद्धृतं चित्रकमथवा मस्तुयूषक्षीरघृततैलाद्यन्यतमेन|
चित्रकमूलक्वाथं वा लेहतां गतं समधुगुडं तक्राशी शीलयेत्|
कलशे वान्नश्चित्रकमूलत्वक्लिप्तशुष्के जातं दधि कालशेयं वा पानभोजनेषु|
एवं भार्ङ्ग्यास्फोतगुडूचीपञ्चकोलेषु तक्रकल्पः|
घृतघटे वा हपुषोपकुञ्चिकाधानकाजमोदाजाजीशठीकारवीयवानीचित्रकपिप्पलीद्वयपिप्पलीमूलचूर्णासुतं जातं तक्रम्|
तक्रमेव वातिमन्दवह्निनः सत्ताहमर्धमासं वा मासमपि वा कालाद्यपेक्षया रूक्षं सस्नेहमम्लमनम्लं वा सान्नमनलं वा शीलयेत्|
ततस्तक्रसिद्धानि क्रमशोऽर्शोघ्नलघुदीपनीयद्रव्यधान्यपिशितशाकोपकल्पितानि पेयायूषरसव्यञ्जनानि|
तक्रं हि परमौषधमनिलकफार्तीनां विशेषाज्जठराश्रितानाम्|
तत्रापि विशेषेण दुर्नाम्नाम्|
न हि तद्विहतान्यर्शांसि पुनः प्ररोहन्ति|
भूमावपि तन्निषिच्यमानमहरहः समूलमुच्छिनन्ति तृणजालमप्स्वपि च शैवालम्|
तद्विशोधितेषु पुनर्देहस्रोतः सूपचीयमानोऽन्नरसः पुष्टिबलवर्णौजसामाशु वृद्धये सम्पद्यते||१५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तक्रेण नातिलवणं भल्लातकचूर्णयुक्तं सक्तुमन्थं योजयेत् | तक्रेण मस्त्वादिभिर्वा आषाढादिगृहीतत्वादियुक्तं चित्रकम् | चित्रकमूलक्वाथोऽघनो घनत्वापादनेनावलेहीभूतः | मधुगुडयुक्तः तक्राशिनो योज्यः | आदौलिप्तः पश्चाच्छुष्को लिप्तशुष्कः तथाविधे घटे जातं दधिं तक्रं वा | चित्रकमूलवत् भार्ङ्ग्यादिष्वपि कल्पः | आस्फोत अर्कः | हपुषादिचूर्णं दोषाद्यपेक्षं तक्रसंस्कारादियोग्यं घृतकुम्भ आसुतं जातम् | केवलमेव वा तक्रं मन्दाग्नेः कालापेक्षया | द्विविधोऽपि कालो विवक्षितः | तत इति हपुषादिक्रप्रयोगात् | केवलाद्वा तक्रप्रयोगादनन्तरम् | क्रमश इति पेयादिक्रमेण | अर्शोघ्नत्वेनैव तक्रमाहात्म्यं सुबोधम् ||
Adhikarana मद्यपेन सेव्यम् (१६) · Śloka १६
मद्यपश्च सेवेत चव्यचित्रकाजाजीचूर्णानुविद्धं सीधुं गौडं वा|
सौवर्चलहपुषान्वितां वा सुराम्||१६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
मद्यपश्च वक्ष्यमाणानासवानपि सेवेत | चव्यादिचूर्णानुविद्धं गौडं सीधुं वा | सुरां सौवर्चलहपुषान्विताम् || १६ ||
Adhikarana अभयारिष्टः (१७) · Śloka १७
अभयापलाष्टकं द्विगुणामलकमिन्द्रवारुणीपलपञ्चकञ्च द्विगुणकपित्थमध्यं लोध्रविडङ्गैलवालुकपिप्पलीमरिचानि द्विपलांशानि जर्जरितान्युदकभारे विपाच्य पादशेषं रसं पूतशीतं गुडतुलाद्वयेन धातकीपलाष्टकेन संयोज्य घृतभाजनेऽर्धमासस्थं प्रातरन्नकाले वोपयुञ्जीत|
अयमभयारिष्टोऽर्शोग्रहणीपाण्डुहृद्रोगकामिलायक्ष्मविषमज्वरप्लीहगुल्मोदरश्वयथुकुष्ठकृमिग्रन्थ्यर्बुदघ्नोऽग्निरुचिवर्णकरश्च||१७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अभयाद्यं सुबोधम् | इन्द्रवारुणी गवाक्षी | जर्जरितानि तानि सर्वाणि क्षुण्णानि | भारं पलशतानि विंशतिः | पादश्चतुर्थो भागः ||
Adhikarana दन्त्यरिष्टः, दुरालभरिष्टः (१८) · Śloka १८
दन्तीचित्रकत्रिफलादशमूलानि पालिकान्युदकद्रोणे साधयित्वा पादशेषे पूतशीते तस्मिन् गुडतुलार्धधातकीकुडवञ्च प्रक्षिप्य घृतभाजने मासमुषितो दन्त्यरिष्टः समानः पूर्वेण|
दुरालभायाः प्रस्थमभयामलकवृषपाठाचित्रकदन्तीमहौषधीनां प्रत्येकं द्विपलमम्भसां द्रोणे पूर्ववत्सिद्धं पूतशीतं शर्करातुलयोन्मिश्रं मधुघृतप्रियङ्गुपिप्पलीचविकाकल्कलिप्ते घृतकुम्भे पक्षं निधापयेत्|
अयं दुरालभारिष्टः समानः पूर्वेण||१८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दन्त्यरिष्टः सुबोधं | दुरालभारिष्टश्च सुबोधः | कुम्भलेपोऽर्धाङ्गुलमात्रः पूर्ववदिति दन्त्यरिष्टवत् || १८ ||
Adhikarana आमलकारिष्टः (१९) · Śloka १९
नवामलकपलशतं पिप्पलीनागपुष्पकुडवद्वयं पालिकानि चव्यचित्रकक्रमुकलोध्रपाठामरिचविडङ्गमञ्जिष्ठैलवालुकपिप्पलीमूलान्यर्धपलांशकानि दार्वीशताह्वेन्द्राह्वाशारिवाद्वयमुस्तकुष्ठान्यैकध्यञ्च जलद्रोणद्वयेऽर्धावशेषं साधयेत्|
स रसः पूतशीतः समद्राक्षास्वरसः सितापलशतद्वयेन क्षौद्रार्धप्रस्थेन पृथक्कार्षिकेण च त्वगेलालोध्रकुटन्नटाम्बुसेव्यक्रमुकरकेसरचूर्णेन युक्तो गुड-शर्कराधूपिते घृतभाण्डे प्रक्षिप्य पक्षमुपेक्षितोऽयमामलकारिष्टः समानः पूर्वेण|
अकालवलीपलितखलतिशमनश्छ||१९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
आमलकारिष्टः सुबोधः | शुष्कस्य कुडवं चतुष्पलाम् | माक्षिकस्यार्धप्रस्थः षोडशपलानि || १९ ||
Adhikarana गुग्गुल्वासवः (२०) · Śloka २०
गुग्गुलुपलचतुष्टयमामलकप्रस्थं धातकीप्रस्थमभया शतमक्षशतञ्च गुडपलशतद्वयं पालिकानि पञ्चकोलाकाजाजमोदाचतुर्जातककट्फलमुस्तमरिचानि दशपलिकानि च ख़ण्डद्राक्षादाडिमानि सर्वमैकध्यमम्भसाप्लाव्यालोड्य च पुराणे जतुसृते द्रोणक्षमे भाजने निःक्षिप्य स्थापयेत्|
गन्धवर्णरसोपपन्नं चासवमभिसमीक्ष्य तं कुम्भमिक्षुरसस्य पूरयेत्|
एष षण्मासस्थितो गुग्गुल्वासवः समानः पूर्वेण||२०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
गुग्गुल्वासवो नाम सुबोधः | आप्लाव्येति बहुनाम्भसा संयोज्यालोड्येत्यूर्ध्वमधश्च सम्मिश्र्य | द्रोण इतीक्षुरसेन पूरणाद् द्रोणो भाण्डो भवति || २० ||
Adhikarana अमद्यपेन सेव्यम् (२१) · Śloka २१
अमद्यपो वा पिबेच्च शृतशीतमल्पमुदकं शृतं धान्यनागराभ्याम्|
लघुना पञ्चमूलेन वा|
पञ्चकोलकाजाजीकारवीगजशौण्डीबिल्वशलाटुपाठातुम्बुरुधान्यकैर्वा|
एभिश्च फलाम्लान्यमकस्निग्धान्पेया यूषरसादीन् कुर्यात्|
एभिरेव घृतं साधयेत्|
पिबेद्वा मस्तुधान्याम्लं मधुशुक्तोदकं वा||२१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अमद्यप इत्यादि सुबोधम् | पञ्चकोलादिभिर्वा शृतमम्बु पिबेत् | कारवी शतपुष्पा | गजशौण्डी हस्तिपिप्पली | बिल्वशलाटुर्बालबिल्वम् | एभिश्च धान्यनागरकादिभिरम्भः | साधनैरम्भप्रयोगवत् | पेयादीनन्नप्रकारान् कुर्यात् | तांश्च फलैर्दाडिमतिन्तिणीकादिभिरम्लान् यमकेन स्नेहद्वयेन यथायोग्येन स्निग्धान् | एभिरेव च धान्यनागरकादिभिर्घृतं साधयेत् | अथवार्शसो मस्त्वादिकं पिबेत् | मधुशुक्ताभ्यां सम्मिश्रमुदकं तत्तथोक्तम् || २१ ||
Adhikarana करञ्जशुक्तः, पीलुशुक्तः (२२) · Śloka २२
पूतीकरञ्जत्वक्पलशतद्वयं शुष्कमुदकद्रोणे क्वाथयेत्|
पादशेषे च तस्मिन् पूतशीते गुडपलान्यशीतिं व्योषार्धप्रस्थचूर् णञ्चदत्वा यवपल्ले घृतकुम्भस्थं मासं निधापयेत्|
एतत् करञ्जशुक्तमभ्यस्यमानमलमनलजननमर्शोगुल्मानाहप्लीहगरोदरघ्नञ्च|
पीलुतुलां तुल्यगुडां मस्तुनस्तक्रस्य वा द्रोणेऽभिषुणुयात्|
तत्र पालिकानामभयातिविषापाठामुस्तकटुकादेवदारूहिंस्राजीरकारूश्करचव्याजमोदैलाचित्रकगजपिप्पलीव्योषविडङ्गशताह्वाहरेणुचिरिबिल्वत्वक्कुष्ठकुटजबीज त्रिवृत् पिप्पलीमूलोपकुञ्चिकानां चूर्णं क्षिप्त्वा पूर्ववन्निधापयेत् तदधिकगुणं पूर्वस्मात्||२२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
करञ्जशुक्तः सुबोधः | यवपल्लः यवराशिः | पीलुफलशुक्तः सुबोधः | पूर्ववदिति यवपल्ले घृतकुम्भे मासं निधापयेत् || २२ ||
Adhikarana गण्डीरकाञ्जिकम् (२३) · Śloka २३
सुतक्षितानामिक्षुगण्डिकानां द्रोणमुदकद्रोणेन घृतभाविते भाजनेऽभिषुणुयात्|
आवपेच्चात्र जर्जरीकृता यवानीयवानककुस्तुम्बरीपृथ्वीकाः पृथक्कुडवांशास्तथा द्विपलोन्मितास्तेजोवतीपञ्चकोलकाजाजीरकद्वयकारवीः क्षौद्रकुडवं च प्रक्षिप्य ततो दशरात्रेण सञ्जातान् तस्मान्मात्रां सौवर्चलार्द्रकभूस्तृणैः सुरभीकृतं भुञ्जानः पिबेत्|
पुनः पुनश्चात्र पानीयं प्रक्षिपेदिक्षुगण्डिकादिकञ्च सम्भारम्|
तत् गण्डीराख्यं काञ्जिकं परं रुचिकरमग्निदीपनमर्शोग्रहणीविकारोदरगरकृमिगुल्ममदात्यय पाण्डुरोगघ्नम्||२३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
सुतक्षितानामित्यादिना गण्डीराख्यं काञ्जिकं सुबोधम् | सुतक्षितानां जर्जरितानामिक्षुणाणिकानां द्रोणः पञ्चपलशतानि द्वादशपलसहितानि | जर्जरीकृताः क्षुण्णाः | यवानकं यवानीभेदः | पृथ्वीका हिङ्गुपत्रिका | कुस्तुम्बरी धातकी | मात्रां स्तोकम् | सूक्ष्मैः पत्रैर्भूस्तृणः | यथा यथा हीयते तथा तथा पानीयमिक्षुगण्डिकादयश्च तत्रैव घटे प्रक्षेप्तव्याः || २३ ||
Adhikarana रूक्षकोष्ठार्शसि घृतानि, पाठादिघृतम् (२४) · Śloka २४
रूक्षकोष्ठश्चार्शसो नगरक्षारकृष्णाजाजीधान्यकारवीगर्भं फलाम्लं सफाणितं सर्पिः पिबेत्|
गुल्मोक्तानि वा घृतानि|
किंशुकक्षारोदकेन वा विपक्वं व्योषगर्भम्|
पाठामरिचपञ्चकोलकक्षारयवानीकुस्तुम्बरूहरीतकीबिल्वविडङ्गसैन्धवगर्भचतुर्गुणेन दध्ना विपक्वं सर्पिः प्रवाहिकागुदभ्रंशपिच्छास्रावानाहगुल्मपायुपार्श्ववङ्क्षणवेदनाग्रहणीदोषहृद्रोगमूत्रकृच्छ्रघ्नम्||२४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रूक्षकोष्ठस्यार्शसस्य स्नेहप्रयोगः सुबोधः | नागरादिचूर्णयुक्तं दाडिमाद्यम्लं फाणितेन क्षुद्रगुडेन संयुक्तं सर्पिः पिबेत् | व्योषगर्भकिंशुकक्षारोदकसिद्धं घृतम् | पाठादिगर्भं दध्ना सह सिद्धं घृतम् || २४ ||
Adhikarana चाङ्गेरीघृतम् (२५) · Śloka २५
पिप्पलीपाठानागरगोक्षुरकाणां त्रिपलिकानां निर्यूहे गण्डीरमरिचपञ्चकोलकान्यर्धपलिकानि कल्कीकृत्य षड्गुणेन दध्ना चत्वारिंशत् घृतपलानि तुल्यचाङ्गेरीरसानि पाचयेत्|
तत् सर्पिः समानं पूर्वेण|
शोफोदरश्वासकासहिध्माघ्नं च||२५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
पिप्पल्यादिघृतं पूर्वेण पाठादिना समानम् | निर्यूहः क्वाथः | गण्डीरो महान् कन्दप्रायः कार्तिकेयपुरादौ गिरिराजभूमिषु प्रसिद्धः | चरकपाठे तु गण्डीरादिकं पिष्ट्वा कषाये विनयेत् | षड्गुणं दधि घृतादिति || २५ ||
Adhikarana बद्धवर्चसादौ विशेषः (२६) · Śloka २६
बद्धवर्चांसि चार्शांस्युदावर्तवदुपाचरेत्|
भिन्नवर्चांसि चार्शांस्यतीसारवत्|
अतिप्रवृत्तरक्तानि रक्तपित्तातिसारवत्|
अशुद्धञ्च कालबलापेक्षी स्रवद्रुधिरमुपेक्षेत|
उभौ च तत्रानुबध्येते श्लेष्मानिलो वा|
तत्र पित्तश्लेष्मोल्बणं पाचनदीपनद्रव्यैरुपेक्षया च संशोध्य शमयेत्|
पित्तानिलोल्बणमन्तर्बहिरूर्ध्वमधश्च यथाग्निस्नेहैः|
केवलपित्तोल्बणमुष्णकाले विशेषतश्च दुर्बलस्य स्तम्भनैः||२६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उदावर्तस्योपचारोऽत्रैव वक्ष्यते | अतिप्रवर्त्तमानरक्तान्यर्शांसि रक्तपित्तवद्रक्तातिसारवच्चोपाचरेत् | अशुद्धं स्रवद्रक्तमुपेक्षेत न स्तम्भयेत् | सुबोधम् | अन्तरित्यादीनां स्नेहैरिति सम्बन्धः | अन्तःपानादिना बहिरभ्यङ्गादिना | ऊर्ध्वमिति मुख़ेनाध इति गुदेन | केवलेत्यादिकं स्तम्भनैः |
Adhikarana श्लेष्मोल्बणे कर्म कुटजप्रयोगौ, कुटजावलेहः, कुटजावलेहः ( अपरः ) (२७) · Śloka २७
अथ श्लेष्मोल्बणे कुटजत्वग्विश्वभेषजक्वाथं पिबेत्|
तण्डुलोदकेन वा कुटजत्वक्फलातिविषारसाञ्जनानि सक्षौद्राणि|
कुटजत्वक्पलशतमार्द्रं दिव्याम्बुना क्वाथयेत्|
मुक्तरसे च पूते तस्मिन् पालिकान् सुश्लक्ष्णपिष्टान् प्रियङ्गुसमङ्गामोचरसान् कुटजबीजत्रिपलञ्च प्रक्षिप्य मृद्वग्निना पुनः साधयेदादर्वीलेपात्|
अयमवलेहश्छगलीक्षीरेण पेयामण्डेन वा सहाजक्षीरभुजः प्रयुक्तो रक्तजान्यर्शांस्यतीसारं रक्तपित्तञ्चोर्ध्वमधो वा प्रवृत्तमपहरति|
कुटजत्वक्पलशतमुदकद्रोणे अष्टभागशेषं साधयेत्|
परिस्राव्य तदुदकं कल्कीकृतैर्व्योषरसाञ्जनमोचरसमुस्ताधातकीफलबिल्वशलाटुदाडिमशलाटुत्वक्समङ्गालोध्रद्वयैः पलाशैः पलैश्च कुटजत्वचो दशभिस्तथा विंशत्या घृतस्य गुडस्य च त्रिंशता संसृष्टमधिश्रयेत्|
अथावलेहतां गतमवतारितं सप्ताहमर्धमासं मासं वा धान्यमध्ये सुगुप्तं निहितमुपयुक्तमाशु सर्वार्शोग्रहणीदोषश्वासकासानपोहति||२७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथेत्यादि सुबोधम् | वत्सकत्वगादीनि तण्डुलोदकेन सक्षौद्राणि | कुटजावलेहनं सुबोधम् | अतीसारमिति रक्तातीसारम् | द्वितीयोऽपि कुटजावलेहः सुबोधः || २७ ||
Adhikarana मोचरसादीनां पानम् (२८) · Śloka २८
मोचरससमङ्गातिललोध्रचन्दननीलोत्पलानि वा छागपयसा पिबेत्|
|२८|
Adhikarana शूले पाठायोगः (२८) · Śloka २८
|
शूले तु बिल्वयवानीनागररसाञ्जनदुरालभावत्सकबीजानामन्यतमेनापि युक्तं पाठाचूर्णं शृतेन कोष्णेनाम्भसा तक्रेण वा|
|२८|
Adhikarana शूले घृतयोगौ (२८) · Śloka २८
|
शूले रक्तातिप्रवृत्तौ च लोध्रधातकीकुटजत्वगिन्द्रयवकेसरनीलोत्पलकल्कसिद्धं सर्पिर्दुग्धिकानिदिग्धिकाकल्कसिद्धं वा||२८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
| लोध्रादिसिद्धं सर्पिरिति | दुग्धिकानिदिग्धिकाभ्यां वा सिद्धं सर्पिः शूले रक्तातिप्रवृत्तौ च पिबेत् || २८ ||
Adhikarana वातोल्बणे रक्तार्शसि विशेषः बलादिग़ृतम् (२९) · Śloka २९
वातोल्बणे तु रक्ते बलातिबलाबिल्वत्रिफलाहस्तिपिप्पलीन्यग्रोधकरञ्जपत्रमधुकतिन्दुकोत्पलैः कार्षिकैर्घृतप्रस्थमजाक्षीरे दशगुणे पचेत्|
तत् परं रक्तार्शोघ्नम्|
|२९|
Adhikarana पाठादिकं घृतम् (२९) · Śloka २९
|
पाठालोध्रह्रीबेरोत्पलचव्यचन्दनसमङ्गातिविषाबिल्वधातकीमधुकदेवदारूदार्वीत्वङ्मुस्तामांसीनागरयवक्षारचित्रककल्केन चाङ्गेरीस्वरसेन च साधितं सर्पिर्दोषत्रयघ्नमर्शोऽतिसरप्रवाहिकाबस्त्यानाहगुदभ्रंशपिच्छास्रुतिग्रहणीपाण्ड्वामयज्वरमूत्रकृच्छ्रारोचकदुर्नामशूलेषु योज्यम्|
|२९|
Adhikarana बलादिसर्पिः (२९) · Śloka २९
|
बलादार्व्यवाक्पुष्पीगोक्षुरकपृश्निपर्णीनामश्वत्थोदुम्बरन्यग्रोधप्लक्षबदरीवेतसप्रवालानां च द्विपलोन्मितानां कषायेण जीवन्तीकटुकापञ्चकोलेन्द्रयवदेवदारूशाल्मलीपुष्पवीराचन्दनाञ्जनकट्फलमुस्तश्यामास्थिरातिविषासङ्गाव्याघ्रीमोचरसबिल्वकमलोत्पलकिञ्जल्कानां चार्धकर्षोन्मितानां कल्केन चाङ्गेरीषु निषण्णकस्वरसप्रस्थाभ्यां च घृतप्रस्थं पाययेत्|
तत् समानं पूर्वेण||२९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
| बलादिसर्पिः सुबोधम् || २९ ||
Adhikarana रक्तस्तम्भनोपचाराः (३०) · Śloka ३०
रक्तस्तम्भनाय च शीताभ्यङ्गप्रदेहसेकावगाहादीन् प्रयुञ्जीत|
तदशान्तौ यथोदितानि घृतानि कवोष्णान्यवपीडकयोजनया पाययेत्|
कवोष्णानामेव च घृततैलक्षीररसकानथवा स्निग्धोष्णैर्मांसरसैर्भोजयित्वा घृतमण्डेन कोष्णेनानुवासयेत्|
शीतवीर्यद्रव्यसिद्धेन वा यथास्वं स्नेहेन|
शाल्मलीपुष्पयवासकुशकाशमूलन्यग्रोधोदुम्बराश्वत्थशुङ्गां द्विपलांशात् क्षीरप्रस्थेन त्रिगुणोदकेन साधयित्वा क्षीरावशेषमवतारयेत्|
स निर्यूहः शाल्मलीनिर्याससमङ्गाचन्दनोत्पलेन्द्रयवप्रियङ्गुपद्मकेसरकल्कगर्भो घृतक्षौद्रशर्करोपेतः पिच्छाबस्तिर्गुदभ्रंशप्रवाहिकारक्तस्रुतिज्वरघ्नः||३०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
रक्तस्तम्भनायेत्याद्यपि सुबोधम् | अवपीडकसंज्ञं योजनाद्वयं रोगानुत्पादनीये पूर्वयुक्तम् | शीतवीर्यैः | सिद्धेन यथास्वं दोषापेक्षयान्यतमेन स्नेहेनानुवासयेदिति सम्बन्धः | शाल्मलीपुष्पादिना पिच्छाबस्तिः सुबोधः || ३० ||
Adhikarana पेयायोगाः (३१) · Śloka ३१
अपि च- लाजैः पेया पीता चुक्रीकाकेसरोत्पलैः सिद्धा|
हन्याशु रक्तरोगं तथा बलापृश्निपर्णीभ्याम्|
ह्रीबेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्|
वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्|
गृञ्जनकसुरससिद्धां दद्याद्यमकेन भर्जितां पेयाम्|
रक्तातिसारग्रहणीप्रवाहिकाशोफनिग्रहणीम्||३१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
लाजैरित्यादिना पेयाः सुबोधाः | तथेति हरन्त्याशु रक्तरोगमित्यर्थः | ह्नीबेरादिकषायसाधितायां सनवनीतायां पेयायां वृक्षाम्लादीनामम्लत्वे विकल्पः | गृञ्जनकादिपेया रक्तातीसारादिनिग्रहणी || ३१ ||
Adhikarana ख़डयोगाः (३२) · Śloka ३२
काश्मर्यामलकानां सकच्छुराणां ख़डान् फलाम्लांश्च|
गृञ्जनकशाल्मलीनां दुग्धीकाचुक्रिकाणां च|
न्यग्रोधशृङ्गिकानां ख़डांस्तथा कोविदारपुष्पाणाम्|
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽपि||३२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
काश्मर्यादिविहितानां ख़डानां फलाम्लानां प्रयोगः | ख़डः फलयूषः || ३२ ||
Adhikarana शाल्यादिभोजनम् (३३) · Śloka ३३
सिद्धं पलाण्डुशाकं तक्रेणोपोदकां सबदराञ्च|
रुधिरस्रुतौ प्रदद्यान्मसूरसूपं सतक्राम्लम्|
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्|
भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्|
शशहरिणलावमांसैः सकपिञ्जलयोगकैः सुसिद्धैश्च|
शालीनद्यान्मधुरैरम्लैरीषत्समरिचैर्वा||३३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शाल्यादिकं भोजनं पयसा शृतेनाद्यात् | सतीनादीनां वा यूषैः शशादीनां मांसैः सुसिद्धैः शालीनद्यात् || ३३ ||
Adhikarana अतिस्राविषु दक्षरसादीनां प्रयोगः (३४) · Śloka ३४
दक्षशिखितित्तिरसैर्द्विककुल्लोपाकजैश्च मधुराम्लैः|
अद्याद्रसैरतिवहेष्वर्शः स्वनिलोल्बणशरीरः|
छगलीपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसश्च|
धन्वविहगमृगाणां रसो निरम्लः कदम्लो वा|
रसखडशाकयवागूघृतयुक्तः केवलोऽथवा जयति|
रक्तमतिवर्तमानं शृतं च पलाण्डुरुपयुक्तः|
छागान्तराधितरुणं सरुधिरमुपसाधितं बहुपलाण्डु||३४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अतिवहेष्वर्शःसु द्विककुल्लोपाकजै ससैर्मधुराम्लैरद्यादनिलोल्बणशरीरः सन् | सुबोधम् | द्विककुदुष्ट्रः | लोपाको लोमधुनः | विहङ्गानां मृगाणां च रसो निरम्ल ईषदम्लो वा रक्तं निहन्ति | किम्भूतः पलाण्डुरत आह-रसख़डादिभिर्युक्तः केवलो वा सुबोधम् || ३४ ||
Adhikarana विट्शोणितसङ्क्षये विशेषः (३५) · Śloka ३५
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये योज्यम्|
नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात्|
दधिसरमथिताभ्यासाद्गुदजाः शाम्यन्ति रक्तवहाः|
नवनीतघृतं छागं सपयोमांसं सषष्टिकः शालिः|
तरुणश्च सुरामण्डस्तरुणीव सुरा जयत्यस्रम्|
प्रायेण वातबहुलान्यर्शांसि भवत्यतिस्रुते रक्ते|
दृष्टेऽपि हि कफपित्ते तस्मादनिलोऽधिकं जेयः|
दृष्ट्वा शोणितपित्तं प्रबलं कफवातरूपमल्पञ्च|
शीताः क्रियाः प्रयोज्या यथेरिताः पित्तरोगेषु||३५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
व्यत्यासः पर्यायकरणम् | नवनीतेत्यादि सुबोधम् | पित्तरोगाः सर्व एव ज्वरादयः || ३५ ||
Adhikarana उदावर्तचिकित्सा (३६) · Śloka ३६
उदावर्ते तु दोषविलयनाय शीतज्वरघ्नतैलाभ्यक्तस्विन्नस्य श्यामात्रिवृत्पिप्पलीनिकुम्भनीलिनीचूर्णं गोमूत्रपरिपीतं द्विगुणलवणगुडेन कराङ्गुष्ठाकारां वर्तिं कृत्वा घृताभ्यक्तगुदस्य गुदे वातविण्मूत्रानुलोमनार्थं निदध्यात्|
पिप्पलीमदनफलसर्षपागारधूमैर्वा समूत्रगुडैः|
तुम्बीकरघाटकणासिद्धार्थकसैन्धवजीमूतकैर्वा एतेषामेव वा चूर्णं नाड्या प्रधमेत्|
तद्विघाते त्वानुलोमिकौषधतैलमूत्राम्ललवणक्षारयुक्तं सुतीक्ष्णमास्थापनं दद्यात्||३६||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उदावर्त इत्यादिनोदावर्तचिकित्सा | शीतज्वरनाशनैस्तैलैर्योऽभ्यक्तः | पश्चाच्च स्विन्नस्तस्य गोमूत्रपरिपीतं गोमूत्रं दत्वा पुनः पुनः शोषितम् | पिप्पल्यादिभिः | समूत्रगुडैर्वा | नाड्या विधमेत् गुद इति प्रकरणाल्लभ्यते | तद्विघाते वर्त्या मलस्याप्रवृत्तावम्लानि काञ्जिकादीनि || ३६ ||
Adhikarana कल्याणकक्षारः (३७) · Śloka ३७
त्रिफलात्रिकटुत्रिलवणदन्तीचित्रकभल्लातकानि जर्जरितानि सस्नेहमूत्राणि शरावद्वयकोष्ठे मृल्लिप्ते गोमयाग्निना विपचेत्|
स कल्याणकाख्यः क्षारः क्षीरमांसरसाशिना घृतेन पीतोऽन्नपाने वा प्रणीतोऽर्शोगुल्मपाण्डुहृद्रोगोदावर्तग्रहणीमूत्रविबन्धाश्मरीकृमिश्वयथुहिध्माश्वासकासशूलानाहप्लीहमेहापहः||३७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
त्रिफलादिकस्य क्षारः कल्याणकाख़्यः सुबोधः || ३७ ||
Adhikarana वैरेचनिकक्षारः (३८) · Śloka ३८
वैरेचनिकमूत्रफलानि सहिंस्रार्कमूलदशमूलगुडाद्वीपिद्विपुनर्नवानि सर्वैश्च तुल्यानि पञ्चलवणानि क्षारः पुर्ववत् कृतः काङ्कायनोक्तोऽधिकगुणः पूर्वस्मात्||३८||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
विरेचनौषधादीनां क्षारः सुबोधः | काङ्कायननाम्ना मुनिना उक्तः ||३८||
Adhikarana हिङ्ग्वादिमहाक्षारः (३९) · Śloka ३९
हिङ्गुपाठात्र्यूषणत्रिफलाकटभीबिल्वमधयायोरजः कटुकापञ्चकोलकमुस्तकुष्ठक्षारद्वयमुष्ककमधुकोग्रगन्धाविडङ्गमूर्वाजमोदेन्द्रयवगुडूचीदेवदारूणि कार्षिकाणि|
पृथक्पलांशानि पञ्चलवणान्यैकध्यमापोथ्य घृततैलकुडवेन दधिकुडवेन च संयोज्य कल्याणकविधिना दग्धो महाक्षारस्तत्तुल्यः|
सर्वगरविषनिबर्हणश्च|
प्राग्भक्तं वा वितरेत् घृतगुडयवक्षारान्||३९||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
हिङ्ग्वादिको महाक्षारः सुबोधः | आपोथ्य जर्जरीकृत्य सुबोधम् || ३९ ||
Adhikarana भोजनं पानञ्च (४०) · Śloka ४०
दाडिमरसं वा सयवानीपाठामहौषधलवणगुडतक्रम्|
यमकस्नेहभृष्टान् वा सक्तुयुक्तान् करञ्जप्रसवान्|
दधिदाडिमाम्लबदरतिन्तिणीकमातुलुङ्गलवणसुरां यमकसंस्कृताम्|
त्रिवृद्दन्तीगुडचित्रकचाङ्गेरीबालमुलकलोणीकासुवर्चलोपोदकाचञ्चुपर्णीवीरावास्तुकपल्लवास्तथा दक्षशिख़िश्वाविड्गोधामार्जारष्ट्रलोपाककूर्मशल्यकमांसान् मांसरसान् यवप्रायं चान्नं भोजनार्थे|
पानार्थे तु सपिप्पलीचूर्णं गौडमच्छसुरां सलवणानासवांश्च दीपनीयवातहरानारनालं मस्तु वा संस्कृतम्||४०||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
यवान्यादिभिस्तक्रान्तैर्युक्तो दाडिमरसः | करञ्जप्रसवः करञ्जपत्राङ्कुरः | दध्याद्यन्यतमेन संस्कृतान् त्रिवृताद्यन्यतमपल्लवान् | दक्षादिमांसान् मांसरसान्यवभूयिष्ठं चान्नमुदावर्तिनो भोजनार्थे शस्तम् | पानार्थ इत्यादि सुबोधम् || ४० ||
Adhikarana अनुबन्धे चिकित्सा (४१) · Śloka ४१
अनुबन्धे तु भूयो मदिरामस्तुमूत्रयुक्तं विरेकम्|
सपिप्पलीं वा घृतभृष्टां सगुडां हरीतकीं सकुम्भनिकुम्भां वा|
द्विविधोपक्रमणीयोदितान् वा तर्पणप्रयोगान्|
त्रिवृच्चूर्णं वा त्रिफलारसानुविदधम्|
अभयामलकविडङ्गान् वा समत्रिवृतान् सगुडान् माणिभद्रकाख्यान्|
मिश्रकस्नेहं सुकुमारकं नीलिनीघृतं वा कल्पोदितानि वा विरेचनान्यवचारयेत् गुदाश्रये हि दोषेऽपहृते व्याधयोऽपि तज्जाः प्रशाम्यन्ति||४१||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अनुबन्धोऽनन्तरोक्तया चिकित्सयाऽनुपशमः | दन्त्या वा द्रवन्त्या वा | पिप्पलीभिर्वा सह हरीतकीघृतेन भृष्टा विरेके शस्यते | तर्पणप्रयोगः सक्तुप्रयोगः समत्रिवृतं अभयादीनामेकम् | माणिभद्रवटकान् कुष्ठचिकित्सिते वक्ष्यमाणान् सगुडानवचारयेदिति सम्बन्धः | मिश्रकस्नेहो गुल्मे वक्ष्यते | गुदाश्रय इत्यादिना विरेचनप्रयोगे हेतुमाह || ४१ ||
Adhikarana रूक्षजेषु शूलादिषूपक्रमः (४२) · Śloka ४२
रूक्षतया च विड्वातविबन्धेन शूलोदावर्तसम्भवः|
तस्मात्तत्राशुतरं स्नेहनमनुवासनं विदध्यात्|
पिप्पलीमदनबिल्ववचामधुकशतपुष्पाशठीकुष्ठपुष्करमूलद्वीपिदेवदारुभिः श्लक्ष्णपिष्टैर्द्विगुणपयस्तैलं सिद्धमर्शोगुदभ्रंशयोनिशूलवङ्क्षणानाहगुदशोफोत्थानप्रवाहिकापिच्छास्रावोरूकटीपृष्ठदौर्बल्यवैवर्ण्यमूत्रकृच्छ्रनिषूदनं वातमूत्रशकृत्पित्तश्लेष्मानुलोमकरं च|
वातानुलोम्ये हि सति ध्रुवमनलो याति दीप्तिमर्शांसि चातः सङ्कोचमिति||४२||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
उदावर्तस्य शूलस्य च रूक्षतया यो विड्वातविबन्धस्तेन सम्भवो यतस्ततः शीघ्रतरं स्नेहनमनुवासनं विदध्यात् | पिप्पल्यादिकल्कः स्नेहाच्चतुर्थांशेन | तैलाद् द्विगुणं क्षीरम् | वातानुलोम्येत्यादिनान्येषामप्यानुलोम्यकरणात् प्रयोगमनुशास्ति || ४२ ||
Adhikarana संक्षेपतः उपक्रमादिक् (४३) · Śloka ४३
भवन्ति चात्र- अर्शांसि शस्त्रक्षाराग्निलेपाभ्यङ्गैरुपाचरेत्|
दृश्यान्यदृश्यानि पुनः सदाऽन्तःपरिमार्जनैः|
अल्पकालोत्थितेष्वल्पलिङ्गदोषेषु चौषधम्|
नात्युच्छ्रितेषु मृदुषु क्षारोऽस्रस्रुतिमत्सु च|
उच्छ्रितेष्वल्पमूलेषु शस्तं शस्त्रं कुनामसु|
युक्तेषु स्थैर्यकाठिन्यकार्कश्यैः शस्त्रपावकौ|
योज्यो महत्सु वा क्षारः पाटयित्वा विकुट्य वा|
सूचीकूर्चेन तद्वच्च बडिशं तेषु शस्त्रकम्||४३||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
दृश्यान्यर्शांसि शस्त्रैरुपाचरेत् | अदृश्यान्यन्तःपरिमार्जनैर्वमनादिभिः | अल्पकालोत्थितत्वादिकयुक्तेषु कुनामस्वर्शःसु औषधम् | नात्युच्छ्रितत्वादियुक्तेषु क्षारः | उच्छ्रितत्वादियुक्तेषु शस्त्रम् | स्थैर्यादियुक्तेषु शस्त्रपावकौ योज्यौ | महत्सु च यदा क्षारो योज्यस्तदा विपाट्य सूचीकूर्चेन विकुट्य वा || ४३ ||
Adhikarana यन्त्रदोषास्तेषां परिहार्यत्वम् (४४) · Śloka ४४
अतिस्थूलादिदीर्घे तु यन्त्रके मर्मघट्टनम्|
अणुच्छिद्रे महद्रूपमेकदेशेऽवशिष्यते|
अतिच्छिद्रेऽधिकं रूपादवतीर्णं प्रवाहणात्|
स्थूलान्त्रमपि हिंस्याच्च यथोक्तं योजयेदतः||४४||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अतिस्थूलेत्यादिना यन्त्रदोषा उच्यन्ते | मर्मणो गुदस्य घट्टनम् | अणुच्छिद्रे यन्त्रमहतोऽर्शस एकदेशोऽवशिष्यते न दृश्यत इत्यर्थः | अतिच्छिद्रे पुनः प्रवाहणात् प्रेरणाद्रूपादर्शसोऽधिकमप्यवतीर्णं यतो भवत्यतस्तद्यन्त्रं स्थूलान्त्रमपि हिंस्यादतो यथोक्तं यन्त्रं शीलयेत् || ४४ ||
Adhikarana अर्शस्सु सदा हितद्रव्याणि (४५) · Śloka ४५
शुष्केषु भल्लातकमग्र्यमुक्तम्भैषज्यमार्द्रेषु तु वत्सकत्वक्|
सर्वेषु सर्वर्तुषु कालशेयमर्शस्सु बल्यञ्च मलापहञ्च|
भित्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च|
तदन्नपानौषधमर्शसेन सेव्यं विवर्ज्यं विपरीतमस्मात्||४५||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
शुष्केष्वित्यादि सुबोधम् | कालशेयं तक्रम् | विबन्धान् भित्वा यदनुलोमनायान्नपानौषधं स्यात्तत् सेव्यम् | तद्विपरीतं वर्ज्यम् ||४५||
Adhikarana अर्शादीनां परस्परनिदानभूतत्वम् (४६-४७) · Śloka ४७
अर्शोऽतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः|
सन्नेऽनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतोऽग्निम्||४६||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थानेऽर्शसां चिकित्सितन्नाम दशमोऽध्यायः||४७||
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अर्शःप्रभृतयः परस्परेण निदानभूताः | रोगश्च रोगस्य हेतुर्भवतीत्युक्तम् | ते च सर्वे मन्देऽग्नौ यतो भवन्त्यतो विशेषतोऽग्निं रक्षेदिति || ४६ || इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने दशमोऽध्यायः