Adhikarana तिमिरप्रतिषेधाध्यायः||१३|| (२-३) · Śloka ३
अस्मादनन्तरं तिमिरिप्रतिषेध उच्यते अथातस्तिमिरप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
)||३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ननु, दृष्टिरोगविज्ञानादनन्तरं दृष्टिरोगप्रतिषेधो ज्ञाप्यः| उपपन्नमाह भवान्| किं तु दृष्टितोगचिकित्सितस्य बहुवक्तव्यत्वात् पृथगध्यायो वक्तुं युक्तः| तत्रापि क्रमप्राप्तस्तिमिरप्रतिषेध इति तिमिरप्रतिषेधारम्भ एव युक्तः| काचादीनां त्वल्पवक्तव्यत्वादत्रैवाभिधानम्| ततो बहुवक्तव्यत्वात् पृथगध्यायो लिङ्गनाशस्य| इति सर्वं युक्तम्|
Adhikarana तिमिरस्य शीघ्रं साधनम् (१) · Śloka १
तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया|
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद् द्रुतम्||१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिमिरमुपेक्षया काचत्वं याति| काचोऽप्युपेक्षित आन्ध्यं गच्छति| अतः कारणान्नेत्ररोगेषु मध्ये तिमिरं दारुणं शीघ्रं साधयेत्|
Adhikarana तिमिरहरं जीवन्त्यादिघृतम् (२-४) · Śloka ४
तुलां पचेत् जीवन्त्या द्रोणेऽपां पादशेषिते|
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत्||२||
प्रपौण्डरीककाकोलीपिप्पलीरोध्रसैन्धवैः|
शतह्वामधुकद्राक्षासिरादारुफलत्रयैः||३||
कर्षिकैर्निशि तत्पीतं तिमिरापहरं परम्|
|४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्याः पलशतमपां द्रोणे पादावशेषितं पचेत्| तत्क्वाथे घृतप्रस्थं द्विगुणक्षीरं प्रपौण्डरीकादिभिः कर्षपरिमाणैः कल्कितैर्विपाचयेत्| निशि पीतं तत्परं तिमिरापहम्|
Adhikarana काचतिमिरादिहरं द्राक्षादिघृतम् (४-६) · Śloka ६
|
द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः||४||
सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः|
पचेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः||५||
हन्ति तत्काचतिमिररक्तराजीशिरोरुजः|
|६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा द्राक्षादिभिः पिचून्मितैः-कर्षांशैः, जीर्णस्य-पुराणघृतस्य प्रस्थं समक्षीरं पचेत्| तच्च काचादीन् हन्ति|
Adhikarana शुक्रतिमिरादिहरं पटोलादिघृतम् (६-१०) · Śloka १०
|
पटोलनिम्बकटुकादार्वीसेव्यवरावृषम्||६||
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्|
प्रस्थमामलकानं च क्वाथयेन्नल्वणेऽम्भसि||७||
तदाढकेऽर्धपलिकैः पिष्टैः प्रस्थं घृतात्पचेत्|
मुस्तभूनिम्बयष्ट्याह्वकुटजोदीच्यचन्दनैः||८||
सपिप्पलीकैस्तत्सर्पिघ्राणकर्णास्यरोगजित्|
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत्||९||
विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत्|
|१०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पटोलादिकं पर्पटान्तं पृथक् पलोन्मितमामलकानां प्रस्थं नल्वणे-द्रोणेऽम्भसि, क्वाथयेत्| तदाढके मुस्तादिभिः सपिप्पलीकैः पिष्टैः-कल्कितैः, अर्धपलिकैर्घृतप्रस्थं विपाचयेत्| तच्च घृतं घ्राणादिरोगजित्, विद्रध्यादिरोगजित्, विशेषेण शुक्रादिघ्नम्| एतत्पटोलाद्यं घृतम्|
Adhikarana तिमिरघ्नं त्रिफलाघृतम् (१०-१२) · Śloka १२
|
त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके||१०||
तेन तुल्यपयस्केन त्रिफलापलकल्कवान्|
अर्धप्रस्थो घ्रुतात्सिद्धः सितया माक्षिकेण वा||११||
युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम्|
|१२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिफलायाः पलाष्टकं जलाढके पादशेषं क्वाथ्यम्| तेन क्वाथेन तुल्यक्षीरेण त्रिफलापलकल्कयुक्तो घृतार्धप्रस्थः पक्वः शर्करया माक्षिकेण वा युतं तत्तिमिरी पिबेत्| घृतेन वा तेन युक्तं त्रिफलाक्वाथं दोषदूष्यादिवशात् पिबेत्| एतच्च त्रिफलाघ्रुतमुच्यते|
Adhikarana तिमिरघ्नं महात्रैफलघ्ऱृतम् (१२-१४) · Śloka १४
|
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः||१२||
पालिकैः ससिराद्राक्षैर्घृतप्रस्थं पचेत्समैः|
अजाक्षीरवरावासामार्कवस्वरसैः पृथक्||१३||
महात्रैफलमित्येतत्परं दृष्टिविकारजित्|
|१४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यष्ट्यादिभिः पालिकैः सहसिताद्राक्षैरजाक्षीरादिभिः पृथक्स्वरसैः समैः प्रस्थप्रमाणैः सर्पिःप्रस्थं विपाचयेत्| एतन्महात्रैफलं सुष्ट्रु दृष्टिविकारजित्|
Adhikarana तिमिरघ्नं त्रैफलघृतलेहो गारुत्मतदृष्टिकरः (१४-१६) · Śloka १६
|
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि||१४||
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम्|
मासमेकं हिताहारः पिबन्नामलकोदकम्||१५||
सौपर्णं लभते चक्षुरित्याह भगवान्निमिः|
|१६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रैफलेन च सर्पिषा त्रिफलां यष्टीयुक्तां माक्षिकेण च परिप्लुतां रात्रौ लिहानो मासमेकं हिताशी सन्नामलकोदकं पिबन् गारुत्मतं चक्षुर्लभत इति भगवान्निमिराह|
Adhikarana तिमिरघ्नं त्रिफलाक्वाथः (१६-१७) · Śloka १७
|
ताप्यायोहेमयष्ट्याह्वसिताजीर्णाज्यमाक्षिकैः||१६||
संयोजिता यथाकामं तिमिरघ्नी वरा वरा|
|१७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताप्यादिभिः संयोजिता त्रिफला यथाकामं वरा तिमिरघ्नी स्यात्|
Adhikarana तिमिरघ्नं अपूपसूपसक्तवः (१७-१८) · Śloka १८
|
सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी||१७||
अपूपसूपसक्तून् वा त्रिफलाचूर्णसंयुतान्|
|१८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा त्रिफलाक्वाथं ससर्पिष्कं तिमिररोगहरमभ्यसेत्| अपूपादीन् वा त्रिफलाचूर्णसंयुतान् शीलयेत्|
Adhikarana तिमिरघ्नं पायसादिभक्षणम् (१८-१९) · Śloka १९
|
पायसं वा वरायुक्तं शीतं समधुशर्करम्||१८||
प्रातर्भक्तस्य वा पूर्वमद्यात्पथ्यां पृथक् पृथक्|
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः||१९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पायसं त्रिफलायुतं व शीतं समधुशर्करं प्रातरद्यात्| भक्तस्य पूर्वं वा| हरीतकीं वा मृद्वीकाशर्कराक्षौद्रैः पृथक् पृथक् युतामनारतं तिमिरातुरोऽद्यात्|
Adhikarana तिमिरघ्नं चूर्णाञ्जनम् (२०-२२) · Śloka २२
स्रोतोजांशांश्चतुःषष्टिं ताम्रायोरूप्यकाञ्चनैः|
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान्||२०||
ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्|
रसस्कन्धकषायेषु सप्तकृत्वः पृथक् पृथक्||२१||
वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः|
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम्||२२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रोतोजात् चतुःषष्टिमंशांस्ताम्रादिभिः प्रत्येकमेकां-शैर्युतानन्धमूषोदरस्थितान् ध्मापयित्वा सम्यगावृत्तं-आवर्तितं शिलायां, ततः-अनन्तरं, मधुरादिगणक्वाथेषु तन्निषेचयेत् पृथक् पृथक् सप्तवारान्| ततो वैडूर्यमुक्ताशङ्कानां त्रिभिर्भागैर्युतमेतच्चूर्णाञ्जनं सर्वतिमिरघ्नं प्रयुञ्जीत|
Adhikarana तिमिरघ्नं मांस्याद्यञ्जनम् (२३-२४) · Śloka २४
मांसीत्रिजातकायःकुङ्कुमनीलोत्पलाभयातुत्थैः|
सितकाचशङ्ख़फेनकमरिचाञ्जनपिप्पलीमधुकैः||२३||
चन्द्रेऽश्वनीसनाथे सुचूर्णितैरञ्जयेद्युगुलमक्ष्णोः|
तिमिरार्मरक्तराजीकण्डूकाचादिशममिच्छन्||२४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मांस्यादिभिः सूक्ष्मरजीकृतैश्चन्द्रेऽश्विनीयुक्ते सत्यक्षियुग्ममञ्जयेत् तिमिरादिशान्तिमिच्छन्| आर्ये मुख़चपले|
Adhikarana तिमिरघ्नं मरिचादिचूर्णम् तिमिरघ्नं मनोह्वाद्यञ्जनम् (२५-२) · Śloka २
मरिचवरलवणभागौ भागौ द्वौ कणसमुद्रफेनाभ्याम्|
सौवीरभागनवकं चित्रायां चूर्णितं कफमयजित्||२५||
|
मनोह्वातुत्थकस्तूरीमांसीमलयरोचनाः|
दशकर्पूरसंयुक्तमशीतिगुणमञ्जनम्||१||
पिष्टं चित्राश्विनीपुष्ये षड्विधे तिमिरे हितम्|
प्रसादनं च दृष्टेः स्याच्चक्षुषेणावभाषितम्]||२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मरिचसैन्धवयोर्द्वौ भागौ, पिप्पलीसमुद्रफेनयोर्द्वौ भागौ, सौवीराञ्जनस्य भागा नव, एतच्चित्रायां चूर्णितं कफामयजित्| गीतिरार्या|
Adhikarana तिमिरघ्नं विदेहपतिकृतमञ्जनम् (२६-२७) · Śloka २७
द्राक्षामृणालीस्वरसे क्षीरमद्यवसासु च|
पृथक् दिव्याप्सु स्रोतोजं सप्तकृत्वो निषेचयेत्||२६||
तच्चूर्णितं स्थितं शङ्खे दृक्प्रसादनमञ्जनम्|
शस्तं सर्वाक्षिरोगेषु विदेहपतिनिर्मितम्||२७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्राक्षादिस्वरसेषु पृथक् पृथक् दिव्यजले च स्रोतोञ्जनं सप्तकृत्वो निषेचयेत्| तच्चूर्णिकृतं शङ्के स्थितं दृष्टिप्रसादकृदञ्जनं सर्वाक्षिरोगेषु श्रेष्ठं विदेहपतिनिर्मितम्|
Adhikarana तिमिरघ्नं भास्करचूर्णम् (२८-३१) · Śloka ३१
निर्दग्धं बादराङ्गारैस्तुत्थं चेत्थं निषेचितम्|
क्रमादजापयः सर्पिःक्षौद्रे तस्मात् पलद्वयम्||२८||
कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः|
पटुरोध्नशिलापथ्याकणैलाञ्जनफेनकैः||२९||
युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्|
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलतः||३०||
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा|
|३१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बादरङ्गारैस्तुत्थं निर्दग्धं पूर्ववत् क्रमेण छागक्षीरघृतमाक्षिके निषेचितं, तस्मात्-निर्दग्धाच्च तुत्थात् पलद्वयं, ताप्यादिभिः कार्षिकैर्यष्टीपलेन च युक्तं, मूषान्तर्ध्मापितं चूर्णितं, काचादीन् हन्ति| सुसेवितोऽयं भास्करश्चूर्णो विशेषेण तिमिरंहन्ति| यथा रविरन्धकारमित्युपमाश्लेषोऽलङ्कारः|
Adhikarana भास्कराञ्जनम् (३१-३३) · Śloka ३३
|
त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम्||३१||
शुल्बतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम्|
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम्||३२||
तिमिरान्तकरं लोके द्वितीय इव भास्करः|
|३३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बुजङ्गस्य-सीसकस्य त्रिंशद्भागाः, गन्धपाषाणस्य भाग पञ्चकं, शुल्बतालकयोर्द्वौ द्बौ भागौ, वङ्गस्य-त्रपुण एको भागः, अञ्जनाद्भागत्रयमन्धमूषाध्मातं विपक्वमञ्जनं द्वितीयो भास्कर इवलोके तिमिरान्तकरम्| भुजङ्गादीनां शोधितनामत्र प्रयोगः, न तु मारितानाम्|
Adhikarana तिमिरघ्नं तुत्थं गरुडसमचक्षुःकरम् (३३) · Śloka ३३
गोमूत्रे छगणरसेऽम्लकाञ्जिके च स्त्रीस्तन्ये हविषि विषे च माक्षिके च|
यत्तुत्थं ज्वलितमनेकशो निषिक्तं तत्कुर्याद्गरुडसमं नरस्य चक्षुः||३३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्तुत्थं नरस्य गरुडनयनतुल्यं नयनं कुर्यात्| कतमम् ? यद्दीप्तं सत् गोमूत्रादिष्वनेकशः-सप्तकृत्वो, निषिक्तम्| प्रहर्षिणीवृत्तम्|
Adhikarana तिमिरघ्नं सीसशलाका (३४-३५) · Śloka ३५
श्रेष्ठाजलं भृङ्गरसं सविषाज्यमजापयः|
यष्टीरसं च यत्सीसं सप्तकृत्वः पृथक् पृथक्||३४||
तप्तं तप्तं पायितं तच्छलाका नेत्रे युक्ता साञ्जनाऽनञ्जना वा|
तैमिर्यार्मस्रापपैच्छिल्यपैल्लं कण्डूं जाड्यं रक्तराजीं च हन्ति||३५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यत्सीसं तप्तं तप्तं त्रिफलाक्वाथादिकं पृथक् पृथक् स्पतकृत्वः पायितं तस्य सीसस्य शलाका नयने युक्ता सहाञ्जनाऽञ्जनेन रहिता वा तैमिर्यादीन् हन्ति| शालिनीवृत्तम्| द्रव्यशलाकेयमिति प्रथिता|
Adhikarana तिमिरघ्नं रसेन्द्राद्यञ्जनम् (३६) · Śloka ३६
रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम्|
ईषात्कर्पूरसंयुक्तमञ्जनं तिमिरापहम्||३६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पारदसीसकौ समांशौ, तयोः सममञ्जनं, षोडशांशकर्पूरयुतमिदमञ्जनं तिमिरापहं भवति|
Adhikarana तिमिरघ्नं गृध्राञ्जनम् (३७) · Śloka ३७
यो गृध्रस्तरुणरविप्रकाशगल्ल- स्तस्यास्यं समयमृतस्य गोशकृद्भिः|
निर्दग्धं समधृतमञ्जनं च पेष्यं योगोऽयं नयनबलं करोति गार्ध्रम्||३७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यो गृध्रस्तरुणरविप्रकाशगल्लस्तस्य समयमृतस्यास्यं मुखं, गोशकृद्भिः-गोमयकरीषैः, निर्दग्धं-भस्मासात्कृतं, तस्य सममञ्जनं-स्रोतोजं, समधृतं-समभागं, पेष्यं-चूर्णयितव्यम्| अयं योगो नयनयोः-नेत्रयोः, बलं गार्ध्रं-गृध्रतुल्यं, करोति|
Adhikarana तिमिरघ्नं कृष्णसर्पास्याद्यञ्जनम् (३८) · Śloka ३८
कृष्णसर्पवदने सहविष्कं दग्धमञ्जननिःसृतधूमम्|
चूर्णितं नलदपत्रविमिश्रं भिन्नतारमपि रक्षति चक्षुः||३८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृष्णसर्पस्य वदने सहविष्कमञ्जनमनिःसृतधूमं दग्धं मांसीपत्रकमिश्रितं चूर्णीतमुपयुक्तं सत् चक्षुर्भिन्नतारमपि रक्षति| भिन्नतारमपीत्यनेन शक्त्यतिशयमस्याह| न तु भिन्नतारस्य कथञ्चिद्रक्षणं स्यात्| अन्यत्राप्येवंविधो न्यायोऽयमनुसरणीयः| स्वागतावृत्तम्|
Adhikarana तिमिरघ्नं अन्धदृष्टिप्रदं कुक्कुटपुरीषम् (३९-४०) · Śloka ४०
कृष्णसर्पं मृतं न्यस्य चतुरश्चापि वृश्चिकान्|
क्षीरकुम्भे त्रिसप्ताहं क्लेदयित्वा प्रमन्थयेत्||३९||
तत्र यन्नवनीतं स्यात्पुष्णीयात्तेन कुक्कुटम्|
अन्धस्तस्य पुरीषेण प्रेक्षते ध्रुवमञ्जनात्||४०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षीरकुम्भे मृतं कृष्णसर्पं न्यस्य वृश्चिकांश्च चतुरस्त्रिसप्ताहं क्लेदयित्वा विलोडयेत्| तस्मिन् यन्नवनीतं भवेत्, तेन नवनीतेन कुक्कुटं पुष्णीयात्| तस्य कुक्कुटस्य पुरीषेणान्धोऽप्यञ्जनान्निश्चितमीक्षते|
Adhikarana तिमिरघ्नं अन्धदृष्टिप्रदं रसक्रिया (४१) · Śloka ४१
कृष्णसर्पवसा शङ्खः कतकात् फलमञ्जनम्|
रसक्रियेयमचिरादन्धानं दर्शनप्रदा||४१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृष्णसर्पस्य वसा शङ्खः कतकफलं सौवीराञ्जनम्| इयं रसक्रिया द्रागेवान्धानां दृष्टिप्रदा|
Adhikarana तिमिरघ्नं प्रतीसाराख्यमञ्जनम् (४२) · Śloka ४२
मरिचानि दशार्धपिचु- स्ताप्यात्तुत्थात्पलं पिचुर्यष्ट्याः|
क्षीरार्द्रदग्धमञ्जन- मप्रतिसाराख्यमुत्तमं तिमिरे||४२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दश मरिचानि, वट्टमाक्षिकादर्धकर्षं, तुत्थात्पलं, मधुयष्टिकायाः कर्षः, एतत्सर्वं क्षीरार्द्रं पश्चाद्दग्धमप्रतिसारसंज्ञमञ्जनमतिश्रेष्ठं तिमिरे| गीतिरार्या|
Adhikarana तिमिरघ्नं अक्षबीजादिगुटिका (४३) · Śloka ४३
अक्षबीजमरिचामलकत्वक्- तुत्थयष्टिमधुकैर्जलपिष्टैः|
छाययैव गुटिकाः परिशुष्का नाशन्यन्ति तिमिराण्यचिरेण||४३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अक्षबीजादिभिर्जलपिष्टैर्गुटिकाः छाययैव परिशुष्काः-न त्वातपेन, तिमिराणि लघु नाशयन्ति| स्वागतावृत्तम्|
Adhikarana तिमिरघ्नं षण्माक्षिको योगः (४४) · Śloka ४४
मरिचामलकजलोद्भव- तुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः|
षण्माक्षिक इति योग- स्तिमिरार्मक्लेदकाचकण्डूहन्ता||४४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मरिचादिभिः क्रमवृद्धैः षण्माक्षिक इति योगस्तिमिरादिघ्नः| षण्माक्षिक इति कोऽर्थः ? कीदृशः समासः ? ब्रूमः| माक्षिकशब्देनादिलोपाख्यया तन्त्रयुक्त्या वट्टमाक्षिक इत्युच्यते| षट्पूरणो वट्टमाक्षिको यस्मिन्निति समासः| तेनास्मिन् योगे षष्ठो वट्टमाक्षिक इत्यवतिष्ठते| गीतिरार्या|
Adhikarana तिमिरघ्नं चूर्णाञ्जनम् (४५) · Śloka ४५
रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतोञ्जनं ताम्रमयः सशङ्खम्|
कुचन्दनं लोहितगैरिकं च चूर्णाञ्जनं सर्वदृगामयघ्नम्||४५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रत्नादिभिश्चूर्णाञ्जनम्| रत्नान्यत्र वज्रमरकतादीनि यथालाभं ग्राह्याणि| लोहितगैरिकं-लोहितं गैरिकम्, केचित्तु लोहितं-कुङ्कुममाहुः| एतच्चूर्णाञ्जनमशेषदृष्टिरोगहरम्| उपजातिवृत्तम्|
Adhikarana तिमिरघ्नं तिलतैलादिनस्यम् (४६) · Śloka ४६
तिलतैलमक्षतैलं भृङ्गस्वरसोऽसनाच्च निर्यूहः|
आयसपात्रविपक्वं करोति दृष्टेर्बलं नस्यम्||४६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिलतैलमक्षतैलं च समांशं मार्कवस्वरसोऽसनाच्च क्वाथश्चेत्ययसः पात्रे विपक्वं दृष्टेर्बलमेतन्नस्यं करोति| आर्या|
Adhikarana दोषानुरोधेन स्नेहाद्युपचारः (४७) · Śloka ४७
दोषानुरोधेन च नैकशस्तं स्नेहास्रविस्रवणरेकनस्यैः|
उपाचरेदञ्जनमूर्धबस्ति- बस्तिक्रियातर्पणलेपसेकैः||४७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषवशाच्च स्नेहादिभिर्मुहुर्मुहुरेनं-नेत्ररोगिणमुपक्रमेत्| मूर्धबस्तिः-गण्डूषादिविध्युक्तः (हृ.सू.अ. २२)| बस्तिःबस्तिविध्युक्तः (हृ.सू.अ. १९)| उपजातिवृत्तम्|
Adhikarana अतःपरं प्रतिदोषं साधनम् (४८) · Śloka ४८
|
सामान्यं साधनमिदम् प्रतिदोषमतः शृणु||४८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इदं-अनन्तराभिहितं, सामान्यं चिकित्सितम् सं-अतः-अनन्तरं, प्रतिदोषं साधनं शृणु|
Adhikarana वातजे तिमिरे दशमूलादिघृतम् (४९-५०) · Śloka ५०
किं तत् ? इत्याह वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्|
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः||४९||
त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्|
एरण्डतैलसंयुक्तं योजयेच्च विरेचनम्||५०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-[तत्र-] तेषु तिमिरादिषु मध्ये, वातोत्थे तिमिरे दशमूलक्वाथेन घृतं क्षीरे चतुर्गुणे त्रिफलाकल्कपक्वं पिबेत्| अनन्तरं त्रिफलापञ्चमूलानां क्वाथं क्षीरेण संयुतमेरण्डतैलान्वितं विरेचनं योजयेत्|
Adhikarana वातजे तिमिरे त्रिफलादिविरेचनम् (५१-५४) · Śloka ५४
समूलजालजीवन्तीतुलां द्रोणेऽम्भसः पचेत्|
अष्टभागस्थैते तस्मिंस्तैलप्रस्थं पयःसमे||५१||
बलात्रितयजीवन्तीवरीमूलैः पलोन्मितैः|
यष्टीपलैश्चतुर्भिश्च लोहपात्रे विपाचयेत्||५२||
लोह एव स्थितं मासं नावनादूर्ध्वजत्रुजान्|
वातपित्तायमयान् हन्ति तद्विशेषाद्दृगाश्रयान्||५३||
केशास्यकन्धरास्कन्धपुष्टिलावण्यकान्तिदम्|
|५४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूलजालयुताया जीवन्त्याः पलशतं जलद्रोणे पचेत्| तस्मिन् जलेऽष्टभागशेषे क्षीरतुल्ये तैलप्रस्थं बलात्रितयादिभिः पलोन्मितैर्मधुयष्टिकापलैश्चतुर्भिर्लोहपात्रे विपाचयेत्| लोहभाण्ड एवं मासं स्थितं तन्नस्येनोर्ध्वजत्रुजान् रोगान् हन्ति| विशेषेण दृष्ट्याश्रयान् वातपित्तरोगान् पराकरोति| केशादिषु पुष्टिलावण्यकान्तिकरम्|
Adhikarana वातजे तिमिरे जीवन्तीतैलनस्यं केशास्यादिकान्तिदं च (५४-५५) · Śloka ५५
|
सितैरण्डजटासिंहीफलदारुवचानतैः||५४||
घोषया बिल्वमूलैश्च तैलं पक्वं पयोन्वितम्|
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिजित्||५५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्लैरण्डमूलादिभिस्तैलं सक्षीरं पक्वं नस्येन सर्वजत्रूर्ध्वरोगादिजित्|
Adhikarana वातजे तिमिरे सितैरण्डादितैलनस्यम् (५६) · Śloka ५६
वसाऽञ्जने च वैयाघ्री वाराही वा प्रशस्यते|
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्||५६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वैयाघ्री वाराही वा वसाऽञ्जने शस्यते| गृध्रसर्पकुक्कुटोत्था वा वसा पृथङ् मधुयष्टिकायुता श्रेष्ठा|
Adhikarana वातजे तिमिरे वैयाघ्र्यादिवसाञ्जनम् वातजे तिमिरे स्रोतोञ्जनमं प्रत्यञ्जने (५७) · Śloka ५७
प्रत्यञ्जने च स्रोतोजं रसक्षीरघृते क्रमात्|
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम्||५७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रत्यञ्जने च स्रोतोञ्जनं मांसरसादिषु क्रमेण तप्तं तप्तं सप्तकृत्वः निषिक्तं पूर्ववद्योज्यम्| एतच्च परं तिमिरहृत्|
Adhikarana वातजे तिमिरे एवं तिमिराशान्तौ तर्पणम् (५८) · Śloka ५८
न चेदेवं शमं याति ततस्तर्पणमाचरेत्|
|५८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यद्येवं तिमिरं न शाम्येत् ततस्तर्पणमाचरेत्-कुर्यात्|
Adhikarana वातजे तिमिरे शताह्वादिघृतमं तर्पणम् (५८-५९) · Śloka ५९
|
शताह्वाकुष्ठनलदकाकोलीद्वयष्टिभिः||५८||
प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः|
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम्||५९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शतपुष्पादिभिर्घृतमष्टगुणक्षीरं पक्वं श्रेष्ठं तर्पणम्|
Adhikarana वातजे तिमिरेऐणेयमेदोतेजः तर्पणम् (६०) · Śloka ६०
मेदसस्तद्वदैणेयाद्दुग्धसिद्धात् खजाहतात्|
उद्धृतं साधितं तेजो मधुकोशीरचन्दनैः||६०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथैव कृष्णहरिणान्मेदसो दुग्धे सिद्धात् खजेनालोडितात् तेज उद्धृत्य मधिकोशीरचन्दनैः सह पक्वं तर्पणमुत्तमम्|
Adhikarana वातजे तिमिरे श्वाविदादिवसा तर्पणम् (६१) · Śloka ६१
श्वाविच्छल्यकगोधानां दक्षतित्तिरिबर्हिणाम्|
पृथक्पृथगनेनैव विधिना कल्पयेद्वसाम्||६१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्वाविदादीनां पृथगनेनैव विधिना वसां कल्पयेत्|
Adhikarana वातजे तिमिरे पुटपाकः (६२) · Śloka ६२
प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्|
|६२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुटपाकं तु प्रसादनं स्नेहनं च-तर्पणपुटापाकविध्युक्तं (हृ.सू.अ. २४/१४-१६), प्रयोजयेत्|
Adhikarana वातजे तिमिरे वातपीनसवन्निरूहादि (६२) · Śloka ६२
|
वातपीनसवच्चात्र निरूहं सानुवासनम्||६२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्र च-वातजे तिमिरे, वातपीनस इव निरूहमनुवासनं च प्रयोजयेत्
Adhikarana पित्तजे तिमिरे जीवनीयादिघृतस्निग्धस्य सिराव्यधः (६३) · Śloka ६३
पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः|
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम्||६३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तजे तिमिरे जीवनीयैः फलत्रिकेन च पक्वं सर्पिः पाययित्वा ततः स्निग्धस्य सतः सिरां व्यधयेत्|
Adhikarana पित्तजे तिमिरे शर्करादिविरेचनम् (६४) · Śloka ६४
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचयेत्|
|६४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शर्करादिभिः समाक्षिकैर्विरचयेत्|
Adhikarana पित्तजे तिमिरे नेत्रादिषु सिशीताः सेकलेपादयः (६४) · Śloka ६४
|
सुशीतान् सेकलेपादीन् युञ्ज्यान्नेत्रास्यमूर्धसु||६४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नेत्रास्यशिरःसु चातिशिशिरन् सेकलेपादीन् युञ्ज्यात्|
Adhikarana पित्तजे तिमिरे सारिवादिवर्तिः अञ्जने (६५-६६) · Śloka ६६
सारिवापद्मकोशीरमुक्ताशाबरचन्दनैः|
वर्तिः शस्ताऽञ्जने, चूर्णस्तथा पत्रोत्पलाञ्जनैः||६५||
सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगैरिकैः|
||६६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सारिवादिभिर्वर्तिरञ्जने शस्ता| तथा पत्रादिभिश्चूर्णोऽञ्जनं शस्तम्|
Adhikarana पित्तजे तिमिरे पत्रादिचूर्णः अञ्जने (६७) · Śloka ६७
|
सौवीराञ्जनतुत्थकशृङ्गीधात्रीफलस्फटिककर्पूतम्|
पञ्चांशं पञ्चांशं त्र्यंशमथैकांशमञ्जनं तिमिरघ्नम्|
|६७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सौवीराञ्जनादिकमञ्जनं शस्तम्| कियत्कियत्प्रमाणम् ? इत्याह-पञ्चांशमित्यादि| तदेवं पञ्च भागाः सौवीराञ्जनस्य, पञ्चैव तुत्थकस्य, शृङ्ग्यामलकानां भागास्त्रयः, स्फटिककर्पूरस्य भाग एकः, इति स्थितम्| एवमेतदञ्जनं तिमिरहृत् कुर्यात्| गीतिरार्येयम्|
Adhikarana पित्तजे तिमिरे सौवीराञ्जनादि अञ्जने (६७) · Śloka ६७
|
नस्यं चाज्यं शृतं क्षीरजीवनीयसितोत्पलैः||६७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षीरेण चतुर्गुणेन जीवनीयादिभिराज्यं-घृतं, पक्वं नस्ये श्रेष्ठम्|
Adhikarana पित्तजे तिमिरे जीवनीयादिघृतनस्यम् (६८-६९) · Śloka ६९
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम्|
विध्येत्सिरां पीतवतो दद्याच्चानु विरेचनम्||६८||
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्|
|६९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मोत्थतिमिरेऽमृतादिभिः पक्वं घृतं पीतवतः सिरां विध्येत्| विरेचनं च पूगादिभिः क्वाथं दद्यात्|
Adhikarana कफजे तिमिरे अमृतादिघृतम् (६९-७०) · Śloka ७०
|
ह्नीबेरदारुद्विनिशाकृष्णाकल्कैः पयोन्वितैः||६९||
द्विपञ्चमूलनिर्यूहे तैलं पक्वं च नावनम्|
|७०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ह्नीबेरादिभिः कल्कितैः पयोन्वितर्द्विर्पञ्चमूलक्वाथे तैलं पक्वं नावनं हितम्|
Adhikarana कफजे तिमिरे पूगादिविरेचनम् (७०-७१) · Śloka ७१
|
शङ्खप्रियङ्गुनेपालीकटुत्रिकफलत्रिकैः||७०||
दृग्वैमल्याय विमला वर्तिः स्यात्|
|७१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शङ्खादिभिर्दृग्वैमल्याय विमलाख्येयं वर्तिर्हिता स्यात्|
Adhikarana कफजे तिमिरे ह्रीबेरादितैलनस्यम् (७१) · Śloka ७१
कोकिला पुनः|
कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः||७१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृष्णलोहादिभिः कोकिलाख्या वर्तिः|
Adhikarana कफजे तिमिरे विमला वर्तिः (७२-७३) · Śloka ७३
शशगोखरसिंहोष्ट्रद्विजा लालाटमस्थि च|
श्वेतगोवालमरिचशङ्खचन्दनफेनकम्||७२||
पिष्टं स्तन्याजदुग्धाभ्यां वर्तिस्तिमिशुक्रजित्|
|७३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शशादिजा द्विजाः-दन्ताः, एषामेव लालाटं-ललाटे भवमस्थि, तथा श्वेतगोवालादीनि, स्त्रीक्षीरच्छागदुग्धाभ्यां पिष्टा वर्तिस्तिमिरशुक्रहरेत्यर्थः|
Adhikarana कफजे तिमिरे कोकिला वर्तिः (७३) · Śloka ७३
|
रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत्||७३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तजे तिमिरे पित्तवदुपक्रमः| [शीतैः-] शीतवीर्यैः शीतस्पर्शैरन्नपानौषधसेकलेपादिभिश्च, रक्तं प्रसादयेत्|
Adhikarana कफजे तिमिरे शशद्विजादिवर्तिः (७४) · Śloka ७४
द्राक्षया नलदरोध्रयष्टिभिः शङ्खताम्रहिमपद्मपद्मकैः|
सोत्पलैश्छगलदुग्धवर्तितै- रस्रजं तिमिरमाशु नश्यति||७४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्राक्षादिभिश्छागलीदुग्धपिष्टैः शीघ्रं रक्तोत्थं तिमिरं नश्यति|
Adhikarana रक्तजे तिमिरे पित्तवत् (७५) · Śloka ७५
संसर्गसन्निपातोत्थे यथादोषोदयं क्रिया|
|७५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-संसर्गजे सन्निपातजे च तिमिरे यथादोषोद्रेकं चिकित्सितम्|
Adhikarana रक्तजे तिमिरे शीतैः रक्तप्रसादनम् (७५-७६) · Śloka ७६
|
सिद्धं मधूककृमिजिन्मरिचामरदारुभिः||७५||
सक्षीरं नावनं तैलं पिष्टैर्लेपो मुखस्य च|
|७६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधूकादिभिः सक्षीरं तैलं सिद्धं नावनं हितम्| मधूकादिभिरेव जलेन पिष्टैर्मुखलेपो हितः|
Adhikarana रक्तजे तिमिरे द्राक्षादिभेषजम् (७६-७७) · Śloka ७७
|
नतनीलोत्पलानन्तायष्ट्याह्वसुनिषण्णकैः||७६||
साधितं नावने तैलं शिरोबस्तौ च शस्यते|
|७७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नतादिभिः साधितं तैलं नावने शिरोबस्तौ च शस्यते|
Adhikarana संसर्गसन्निपातजे यथादोषम् (७७-७८) · Śloka ७८
|
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्||७७||
तत्स्रुतं सघृतं भूयः पचेत्क्षौद्रं घने क्षिपेत्|
शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्||७८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उशीरक्वाथे पिप्पलीसैन्धवं रजीकृतं दद्यात्| तच्च स्रुतं सत् घृतान्वितं पुनः पचेत्| घने चास्मिन् शीते च क्षौद्रं क्षिपेत्| एतत् सर्वोत्थे तिमिरे हितमञ्जनम्|
Adhikarana संसर्गसन्निपातजे मधूकादितैलं नस्यम् (७९-८१) · Śloka ८१
अस्थीनि मज्जपूर्णानि सत्त्वानां रात्रिचारिणाम्|
स्रोतोजाञ्जनयुक्तानि वहत्यम्भसि वासयेत्||७९||
मासं विंशतिरात्रं वा ततश्चोद्धृत्य शोषयेत्|
समेषशृङ्गीपुष्पाणि सयष्ट्याह्वानि तान्यनु||८०||
चूर्णितान्यञ्जनं श्रेष्ठं तिमिरे सान्निपातिके|
|८१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रात्रिचारिणां प्राणिनामस्थीनि मज्जपूर्णानि स्रोतोञ्जनयुक्तानि जले वहति मासं विंशतिर्वा निशा वासयेत्| ततः-पश्चात्, उद्धृत्य शोषयेत्| तनि च मेषशृङ्गीपुष्पैर्युतानि मधूकेन च, चूर्णितानि सान्निपातिके तिमिरेऽञ्जनं श्रेष्ठम्|
Adhikarana संसर्गसन्निपातजे मधूकादिर्मुखलेपः (८१-८२) · Śloka ८२
|
काचेऽप्येषा क्रिया मुक्त्वा सिरां, यन्त्रनिपीडिताः||८१||
आन्ध्याय स्युर्मला दद्यात्स्राव्ये त्वस्रे जलौकसः|
|८२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काचेऽप्ययेषा-पूर्वोदिता क्रिया, सिरां हित्वा| सिराऽपि कस्मान्नानुमीयते ? इत्याह-यन्त्रेत्यादि| सिरोपयोगियन्त्रनिपीडिता मला आन्ध्याय यतः स्युः| स्राव्ये तु रक्ते जलौकसो दद्यात्|
Adhikarana संसर्गसन्निपातजे नतादितैलं नस्ये शिरो बस्तौ च (८२-८३) · Śloka ८३
|
गुडः फेनोऽञ्जनं कृष्णा मरिचं कुङ्कुमाद्रजः||८२||
रसक्रियेयं सक्षौद्रा काचयापनमञ्जनम्|
|८३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुडादयो रसक्रिया क्षौद्रान्वितेयं काचयापनमञ्जनम्|
Adhikarana नकुलान्धे तिमिरविधिः (८३) · Śloka ८३
|
नकुलन्धे त्रिदोषोत्थे तैमिर्यविहितो विधिः||८३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नकुलान्धे त्रिदोषजे तिमिरविहितो विधिः कार्यः|
Adhikarana रात्र्यन्धे तार्क्ष्यादिरसक्रिया (८४) · Śloka ८४
रसक्रिया घृतक्षौद्रगोमयस्वरसद्रुतैः|
तार्क्ष्यगैरिकतालीसैर्निशान्धे हितमञ्जनम्||८४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घृतादिद्रुतै रसाञ्जनादिभिर्निशान्धे रसक्रिया हितमञ्जनम्|
Adhikarana रात्र्यन्धे मरिचाञ्जनम् (८५) · Śloka ८५
दघ्ना विघृष्टं मरिचं रात्र्यन्धेऽञ्जनमुत्तमम्|
|८५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दध्ना विघृष्टं मरिचं रात्र्यन्धे श्रेष्ठमञ्जनम्|
Adhikarana रात्र्यन्धे कौन्त्यादिवर्तिः (८५-८६) · Śloka ८६
|
करञ्जिकोत्पलस्वर्णगैरिकाम्भोजकेसरैः||८५||
पिष्टैर्गोमयतोयेन वर्तिदोषान्धनाशिनी|
|८६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-करञ्जिकादिभिर्गोमयरसेन पिष्टैर्वर्तिर्नक्तान्ध्यहृत्|
Adhikarana रात्र्यन्धे कालानुसार्यादयो वर्तयः (८६-८७) · Śloka ८७
|
अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवैः||८६||
कालानुसारीत्रिकातुत्रिफलालमनःशिलाः|
सफेनाश्छागदुग्धेन रात्र्यन्धे वर्तयो हिताः||८७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजामूत्रेण पिष्टैः कौन्त्यादिभिर्वा वर्तिर्निशान्ध्यघ्नी| सं-कालानुसार्यादयोऽजाक्षीरेण पिष्टा वर्तयो निशान्धे हिताः|
Adhikarana रात्र्यन्धे पिप्पल्यञ्जनम् (८८) · Śloka ८८
सन्निवेश्य यकृन्मध्ये पिप्पलीरदहन्पचेत्|
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठमञ्जनम्||८८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पलीर्यकृन्मध्ये सन्निवेश्यादहन् पचेत्| ततः पिप्पल्यः शुष्का मधुघृष्टा रात्र्यन्धे परमञ्जनम्|
Adhikarana रात्र्यन्धे माहिषप्लीहयकृद्भक्षणम् (८९) · Śloka ८९
खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा|
|८९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-माहिषे च प्लीहयकृती तैलसर्पिषा सह भक्षयेत्|
Adhikarana रात्र्यन्धे जीवन्त्यादिपल्लवभक्षणम् (८९-९०) · Śloka ९०
|
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत्||८९||
तथाऽतिमुक्तकैरण्डाशोफाल्यभीरुजानि च|
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम्||९०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्याश्च पल्लवानि सर्पिषा पक्वानि भुञ्जीत| तथा अतिमुक्तकादीनि पत्राणि घृतसिद्धानि खादेत्| अगस्तिपत्रैः सर्पिः सिद्धं पाने च पूजितम्|
Adhikarana धूमराम्लपित्तोष्णविदग्धासु जीर्णसर्पिर्विरेचनम् शीतलेपश्च (९१) · Śloka ९१
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा|
स्निग्धं वेरेचयेच्छीतैः शीतोर्दिह्याच्च सर्वतः||९१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अम्लपित्तोष्णैर्विदाहो-विदग्धत्वं, अम्लपित्तोष्णविदाहः| धूमराख्यश्चाम्लपित्तोष्णविदाहश्च तस्मिन्| तत्र धूमराख्यः-"शोकज्वरादि" (अ. १२/२९) इत्यादि लक्षणः| "भृशमम्लाशनात्" (अ. १२/२८) इत्यादिनाऽम्लविदग्धा| "भवेत्पित्तविदग्धाख्या" (अ. १२/१६) इति पित्तविदग्धा| "उष्णतप्तस्य" (अ. १२/२६) इत्यादिना उष्णाविदग्धेति| तस्मिन् धूमराख्याम्लपित्तोष्णविदाहेऽतिपुराणसर्पिषाऽभ्यक्तं स्निग्धं शीतैर्विशोधयेत्| शीतैश्च सर्वतो लेपयेत्|
Adhikarana धूमराम्लपित्तोष्णविदग्धासु गोशकृद्रसाञ्जनम् धूमराम्लपित्तोष्णविदग्धासु स्वर्णगैरिकादिरसक्रिया (९२) · Śloka ९२
गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्|
स्वर्णगैरिकतालीसचूर्णावापा रसक्रिया||९२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोशकृदादिभिर्वपक्वमञ्जनं शस्यते| स्वर्णगैरिकादीनां चूर्णैरावापो यस्यां सा, एवंविधा रसक्रिया व शस्यते|
Adhikarana धूमराम्लपित्तोष्णविदग्धासु मेदादिघृततैलं नस्यम् (९३) · Śloka ९३
मेदाशाबरकानन्तामञ्जिष्ठादार्वियष्टिभिः|
क्षीराष्टांशं घृतं पक्वं सतैलं नावनं हितम्||९३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मेदादिभिः क्षीराष्टांशं घृतं तैलसहितं पक्वं नावनं हितम्|
Adhikarana धूमराम्लपित्तोष्णविदग्धासु क्षीरसर्पिस्तर्पणम् (९४) · Śloka ९४
तर्पणं क्षीरसर्पिः स्यादशाम्यति सिराव्यधः|
|९४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षीरोद्भवम् सर्पिस्तर्पणं हितम्| एवमशाम्यति सिराव्यधः कार्यः|
Adhikarana धूमराम्लपित्तोष्णविदग्धासु एवमशान्तौ सिराव्यधः तिमिररोगिवदवलोकने कारणानि (९४-९६) · Śloka ९६
|
चिन्ताभिघातभीशोकरौक्ष्यात् सोत्कटकासनात्||९४||
विरेकनस्यवमनपुटपाकादिविभ्रमात्|
विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात्||९५||
अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत्|
|९६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चिन्तादिभिरतिमिरवानपि तिमिररोगीव पश्येत्|
Adhikarana तिमिररोगिवदवलोकने यथादोषमौषधम् (९६) · Śloka ९६
|
यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम्||९६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-[ तत्र- ] तस्मिंश्च तिमिररोगिसदृशदर्शने, यथायोगं दोषदूष्यदेशादीन् वीक्ष्यौषधं प्रयुञ्जीत|
Adhikarana सूर्यो परागाद्युपहतेक्षणे सन्तर्पणम् सूर्यो परागाद्युपहतेक्षणे सुवर्णाञ्जनम् (९७) · Śloka ९७
सूर्योपरागानलविद्युदादि- विलोकनेनोपहतेक्षणस्य|
सन्तर्पणं स्निग्धहिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम्||९७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सूर्योपरागादिविलोकनेनोपहतदर्शनस्य स्निग्धहिमादि सन्तर्पणं कार्यम्| आदिशब्देनातिसूक्ष्मातिभासुरादिपरिग्रहः| सुर्वणं च घृतेन घृष्टमञ्जनं हितम्| उपाजातिवृत्तम्|
Adhikarana नेत्ररक्षणं सर्वदा कर्तव्यम् (९८) · Śloka ९८
चक्षूरक्षायां सर्वकालं मनुष्यै- र्यत्नः कर्तव्यो जीविते यावदिच्छा|
व्यर्थो लोकोऽयं तुल्यरात्रिंदिवानां पुंसामन्धानां विद्यमानेऽपि वित्ते||९८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नेत्ररक्षायां सदा यत्नो विधेयो यावज्जीविताभिलाषित्वम्| यस्मादन्धानां तुल्यरात्रिंदिवानां पुंसां विद्यमानेऽपि धने लोक एव निरर्थकः स्यात्| रात्रिंदिवशब्दोऽत्राचतुरादिसूत्रे निपातितः| वैश्वदेवीवृत्तम्|
Adhikarana नेत्ररक्षणकरं त्रिफलादि (९९) · Śloka ९९
त्रिफला रुधिरस्रुतिर्विशुद्धि- र्मनसो निर्वृतिरञ्जनं सनस्यम्|
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा||९९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिफलादिकं सदैव-सर्वकालं, नेत्ररक्षा स्यात्|
Adhikarana नेत्ररक्षणकरं अहिताशननिवृत्त्यादि (१३) · Śloka १३
अहितादशनात्सदा निवृत्ति- र्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च|
मुनिना निमिनोपदष्टमेतत् परमं रक्षणमीक्षणस्य पुंसाम्||१००||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर स्थाने तिमिरप्रतिषेधो नाम त्रयोदशोऽध्यायः||१३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अहितादाहारात् सततं निवृत्तिः, अतिभासुराद्यालोकनाच्चोपरतिः, इत्येतन्निमिनाम्रा मुनिना परमं नृणां नयनस्य रक्षणमुदितम्| औपच्छन्दसिकं(के) वृत्तम्(त्ते)| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायाम् सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने तिमिर- प्रतिषेधो नाम त्रयोदशोऽध्यायः समाप्तः|| १३||