Adhikarana शिरोरोगप्रतिषेधाध्यायः||२४|| वातजे शिरोभितापे वातव्याधिविधिः (२-१) · Śloka १
अथैतच्चिकित्सितं व्याख्यातुमाह अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
) शिरोभितापेऽनिलजे वातव्याधिविधिं चरेत्|
|१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पवनजे शिरोभितापे वातव्याधिचिकित्सितं कुर्यात्|
Adhikarana वातजे शिरोभितापे अभ्यक्तशिरसो रात्रौ घृतपानादि वातजे शिरोभितापे माषादीनां भक्षणम् वातजे शिरोभितापे पिण्डोपनाहस्वेदाः वातजे शिरोभितापे वातघ्नादिसिद्धक्षीरेण सेचनम् वातजे शिरोभितापे स्निग्धं नस्यादिकम् (१-४) · Śloka ४
|
घृतमक्तशिरा रात्रौ पिबेदुष्णपयोनुपः||१||
माषान् कुलत्थान् मुद्गान् वा तद्वत्खादेद्धृतान्वितान्|
तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत्||२||
पिण्डोपनाहस्वेदाश्च मांसधान्यकृता हिताः|
वातघ्नदशमूलादिसिद्धक्षीरेण सेचनम्||३||
स्निग्धं नस्यं तथा धूमः शिरःश्रवणतर्पणम्|
|४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभ्यक्तशिरा रात्रौ घृतं पिबेत्| पश्चादुष्णं क्षीरं पिबेत्| माषादीन् घृतान्वितान् खादेत्, तद्वत्-उष्णपयोनुपः सन्| तिलानां तैलं कल्कं वा क्षीरेण सह पाययेत्| पिण्डस्वेदा उपनाहस्वेदाश्च मांसयुक्तैर्धान्यैः कृता हिताः| वातहरदशमूलादिना सिद्धेन क्षीरेण सेचनं हितम्| स्निग्धं च नस्यादिकं हितम्|
Adhikarana वातजे शिरोभितापे वरणादिसिद्धघृतेन नस्यम् वातजे शिरोभितापे वरणादिपक्वघृतस्य पानम् (४-६) · Śloka ६
|
वरणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत्||४||
क्षीरावशिष्टं तच्छीतं मथित्वा सारमाहरेत्|
ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः||५||
वर्गेऽत्र पक्वं क्षीरे च पेयं सर्पिः सशर्करम्|
|६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वरणसैर्येकेत्यादिगणे(हृ.सू.अ. १५/२१) जर्जरिते क्षीरमर्धोदकं पचेत्| तत् क्षीरावशिष्टं शीतीभूतं मथित्वा सारमाहरेत्| अनन्तरं तद्धतं मधुरद्रव्यैः पक्वं नस्यं श्रेष्ठम्| सं-अस्मिन्नेव वरणादौ वर्गे क्षीरे च घृतं पक्वं सशर्करं पेयम्|
Adhikarana वातजे शिरोभितापे कार्पासमज्जादिना नस्यम् वातजे शिरोभितापे पित्तरक्तान्वये शर्करादिघृतेन नस्यम् (६-७) · Śloka ७
|
कार्पासमज्जा त्वङ्मुस्ता सुमनःकोरकाणि च||६||
नस्यमुष्णाम्बुपिष्टानि सर्वमूर्धरुजापहम्|
शर्कराकुङ्कुमशृतं घृतं पित्तासृगन्वये||७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कार्पासमज्जादीन्युष्णजलेन पिष्टानि सर्वमूर्धरुजाघ्नं नस्यम्| स०-शर्कराकुङ्कुमशृतं सर्पिः पित्तासृगुत्थे [नस्यं] हितम्|
Adhikarana वातजे शिरोभितापे कुष्ठादिभिः प्रलेपः वातजे शिरोभितापे अत्र रक्तस्रावो न कार्यः वातजे शिरोभितापे इत्यशान्तौ चले कफे च दाहः अर्धावभेदकेऽप्येषा क्रिया (८-९) · Śloka ९
प्रलेपः सघृतैः कुष्ठकुटिलोत्पलचन्दनैः|
वातोद्रेकभयाद्रक्तं न चास्मिन्नवसेचयेत्||८||
इत्यशान्तौ चले दाहः कफे चेष्टो यथोदितः|
अर्धावभेदकेऽप्येषा तथा दोषान्वयात्क्रिया||९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुष्ठादिभिः सघृतैः प्रलेपः| कुटिलं-तगरम् स०-अस्मिंश्च वातोद्रेकभयाल्लोहितं नावसेचयेत्| स०-एवमप्यनुपशमे वायौ दाह इष्टः| कफे च यथोक्तमुष्णमिष्टम्| स०-अर्धावभेदकेऽप्येषा एव क्रिया दोषान्वयात्-दोषानुरोधाच्चा, यथास्वं कार्या|
Adhikarana अर्धावभेदके शिरीषबीजादिनस्यम् अर्धावभेदके प्रपुन्नाटादिलेपः सूर्यावर्तेऽप्येषा क्रिया रक्तस्रावश्च (१०-११) · Śloka ११
शिरीषबीजापामार्गमूलं नस्यं बिडान्वितम्|
स्थिरारसो वा, लेपे तु प्रपुन्नाटोऽम्लकल्कितः||१०||
सूर्योवर्तेऽपि तस्मिंस्तु सिरयाऽपहरेदसृक्|
|११|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शिरीषबीजादिभिर्नस्यं स्यात्| शालिपर्णीक्वाथो वा नस्यम्| प्रपुन्नाटबीजमम्लेन पिष्टं लेपः| स०-सूर्यावर्तेऽप्येष एवोपक्रमः| तस्मिंश्च सिरया रक्तं स्रावयेत्|
Adhikarana पित्तजे शिरोभितापे सिराव्यधः अर्धावभेदके शीताः शिरोमुखालेपादयः अर्धावभेदके जीवनीयघृतक्षीरयोः पानं नस्यं च रक्तजे शिरोभितापेऽप्येषा क्रिया शङ्खके प्रत्याख्यायैषा क्रिया (११-१३) · Śloka १३
|
शिरोभितापे पित्तोत्थे स्निग्धस्य व्यधयेत्सिराम्||११||
शीताः शिरोमुखालेपसेकशोधनबस्तयः|
जीवनीयशृते क्षीरसर्पिषी पाननस्ययोः||१२||
कर्तव्यं रक्तजेऽप्येतत् प्रत्याख्याय च शङ्खके|
|१३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूर्धाभितापे पित्तसम्भवे स्निग्धस्य सतः सिरां मोक्षयेत्| तथा शिरोमुखालेपादयः शीता हिताः| जीवनीयैः शृते क्षीरघृते पाननस्ययोर्हिते| स०-रक्तेजेऽप्येतच्चिकित्सितं कार्यम्| शङ्खके च प्रत्याख्यायैष एवोपक्रमः कार्यः|
Adhikarana कफजे शिरोभितापे वमनम् कफजे रूक्षादिद्रव्यैः स्वेदादयः कफजे उपवासः सन्निपातजे शिरोभितापे मिश्रः क्रमः (१३-१४) · Śloka १४
|
श्लेष्माभितापे जीर्णाज्यस्नेहितः कटुकैर्वमेत्||१३||
स्वेदप्रलेपनस्याद्या रूक्षतीक्ष्णोष्णभेषजैः|
शस्यन्ते चोपवासोऽत्र निचये मिश्रमाचरेत्||१४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मणा शिरोभितापे पुराणघृतेन स्नेहितः कटुकैर्वमेत्| स्वेदादयो रूक्षादिद्रव्यैः शस्यन्ते| उपवासश्चात्र हितः| स०-सन्निपाते मिश्रमाचरेत्|
Adhikarana कृमिजे सन्निपातजे शिरोभितापे शोणितेन नस्यम् कृमिजे कृमिनिर्हरणम् कृमिजे विडङ्गादिसिद्धेन सर्षपादितैलेन नस्यम् (१५-१७) · Śloka १७
कृमिजे शोणितं नस्यं तेन मूर्च्छन्ति जन्तवः|
मत्ताः शोणितगन्धेन निर्यान्ति घ्राणवक्त्रयोः||१५||
सुतीक्ष्णनस्यधूमाभ्यां कुर्यान्निर्हरणं ततः|
विडङ्गस्वर्जिकादन्तीहिङ्गुगोमूत्रसाधितम्||१६||
कटुनिम्बेङ्गुदीपीलुतैलं नस्यं पृथक् पृथक्|
|१७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृमिजे शोणितं नस्यं देयम्| तेन-शोणितनस्येन, जन्तवो मूर्च्छन्ति| रक्तगन्धेन च मत्ता घ्राणेन वक्त्रेण च निर्गच्छन्ति| अनन्तरं तीक्ष्णनस्यधूमाभ्यां निर्हरणं कुर्यात्| स०-विडङ्गादिभिः साधितं सर्षपतैलं निम्बतैलमिङ्गुदीतैलं पीलुतैलं वा पृथक् पृथक् नस्यं हितम्|
Adhikarana कृमिजे कृमिज्जिन्नस्यम् कृमिजे नस्यभेषजैर्धूमः (१७-१८) · Śloka १८
|
अजामूत्रद्रुतं नस्यं कृमिजित् कृमिजित्परम्||१७||
पूतिमत्स्ययुतैः कुर्याद् धूमं नावनभेषजैः|
|१८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजामूत्रद्रुतं हिङ्गु नस्यं परं कृमिघ्नम्| स०-पूतिमत्स्यान्वितैर्नस्यद्रव्यैर्धूमं कुर्यात्|
Adhikarana कृमिजे रक्तं न निर्हरेत् शिरःकम्पे वाताभितापक्रमः (१८-१९) · Śloka १९
|
कृमिभिः पीतरक्तत्वाद्रक्तमत्र न निर्हरेत्||१८||
वाताभितापविहितः कम्पे दाहाद्विना क्रमः|
|१९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्र च रक्तं न विस्रावयेत्| कुतो हेतोः ? इत्याहकृमिभिः पीतरक्तत्वात्| स०-कम्पे वाताभितापोक्तो विधिर्दाहाद्विना|
Adhikarana उपशीर्षके नवे वातव्याधिक्रिया उपशीर्षके पक्वे विद्रधिक्रिया विद्रधौ,पिटिकायां , अर्बुदे च आमपक्वे यथायोग्यं कर्म (१९-२०) · Śloka २०
|
नवे जन्मोत्तरं जाते योजयेदुपशीर्षके||१९||
वातव्याधिक्रियां, पक्वे कर्म विद्रधिचोदितम्|
आमपक्वे यथायोग्यं विद्रधीपिटिकार्बुदे||२०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उपशीर्षके नवे जन्मोत्तरं जाते वातव्याधिचिकित्सितं कुर्यात्| पक्वे च विद्रधिविहितं कर्म कुर्यात्| स०-आमे पक्वे च विद्रधौ पिटिकायामर्बुदे च यथास्वं कर्म कुर्यात्|
Adhikarana अरूंषिकायां रक्तस्रावः अरूंषिकायां अश्वशकृद्रसैर्लेपः अरूंषिकायां पटोलादिपत्रैर्लेपः (२१-२२) · Śloka २२
अरुंषिका जलौकोभिर्हृतास्रा निम्बवारिणा|
सिक्ता प्रभूतलवणैर्लिम्पेदश्वशकृद्रसैः||२१||
पटोलनिम्बपत्रैर्वा सहरिद्रैः सुकल्कितैः|
गोमूत्रजीर्णपिण्याककृकवाकुमलैरपि||२२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अरुंषिका जलौकोभिर्निःस्रुतरक्ता निम्बजलेन सिक्ता वाजिशकृद्रसैः प्रभूतलवणैर्लिम्पेत्| पटोलनिम्बपत्रैर्निशान्वितैः सुपिष्टैर्वा गोमूत्रादिभिर्वा| कृकवाकुः-कुक्कुटः|
Adhikarana अरूंषिकायां कपालभृष्टकुष्ठलेपः अरूंषिकायां इन्द्रलुप्ते च मालत्यादितैलेनाभ्यङ्गः (२३-२४) · Śloka २४
कपालभृष्टं कुष्ठं वा चूर्णितं तैलसंयुतम्|
रूंषिकालेपनं कण्डूक्लेददाहार्तिनाशनम्||२३||
मालतीचित्रकाश्वघ्ननक्तमालप्रसाधितम्|
चाचारूंषिकयोस्तैलमभ्यङ्गः क्षुरघृष्टयोः||२४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुष्ठं चूर्णितं कपालभृष्टं तैलसंयुतं रूंषिकालेपनं कण्ड्वादिहितम्| स०-मालत्यादिप्रसाधितं तैलं चाचारुंषिकयोः क्षुरघृष्टयोरभ्यङ्गः|
Adhikarana अरूंषिकायां अशान्तौ वमनादिभिः शिरःशुद्धिः दारुणके शिरावेधः दारुणके मृजानस्यमूर्द्धबस्तीनां शीलनम् दारुणके प्रियालादिभिर्लाक्षादिभिश्च लेपः दारुणके कोद्रवक्षारजलेन प्रक्षालनम् (२५-२७) · Śloka २७
अशान्तौ शिरसः शुध्द्यै यतेत वमनादिभिः|
विध्येच्छिरां दारुणके लालाट्यां, शीलयेन्मृजाम्||२५||
नावनं मूर्द्धबस्तिं च, लेपयेच्च समाक्षिकैः|
प्रियालभिजमधुककुष्ठमाषैः ससर्षपैः||२६||
लाक्षाशम्याकपत्रैडगजधात्रीफलैस्तथा|
कोरदूषतृणक्षारवारिप्रक्षालनं हितम्||२७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशान्तौ सत्यां मूर्ध्नः शोधनाय वमनादिभिर्यतेत| स०-दारुणके लालाट्यां शिरां विध्येत्| मृजां शुद्धिं नस्यं मूर्द्धबस्तिं च शीलयेत्| प्रियालादिभिः समाक्षिकैर्लेपयेच्च| लाक्षादिभिः क्षौद्रयुतैर्लेपः| कोद्रवतृणक्षारजलेन प्रक्षालनं हितम्|
Adhikarana इद्रलुप्ते सिरां विध्वा प्रच्छाय कासीसादिभिर्लेपयेत् इद्रलुप्ते हस्तिदन्तमषीलेपः (२८-३१) · Śloka ३१
इन्द्रलुप्ते यथासन्नं सिरां विध्वा प्रलेपयेत्|
प्रच्छाय गाढं कासीसमनोह्वातुत्थकोषणैः||२८||
वन्यामरतरुभ्यां वा गुञ्जामूलफलैस्तथा|
तथा लाङ्गलिकामूलैः करवीररसेन वा||२९||
सक्षौद्रक्षुद्रवार्ताकस्वरसेन रसेन वा|
धत्तूरकस्य पत्राणां भल्लातकरसेन वा||३०||
अथवा माक्षिकहविस्तिलपुष्पत्रिकण्टकैः|
तैलाक्ता हस्तिदन्तस्य मषी चाचौषधं परम्||३१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इन्द्रलुप्ते यथासन्ने देशे सिरां विध्वा [गाढं-] सुष्टु, प्रच्छाय-प्रछानं कृत्वा, कासीसादिभिर्लेपयेत्| वन्यदेवदारुभ्यां वा लेपयेत्| स०-हस्तिदन्तमषी तैलाक्ता चाचानामौषधं परम्|
Adhikarana इद्रलुप्ते शुक्लरोमोद्गमे मेषविषाणमषीलेपः इद्रलुप्ते आरोमोद्भूतेर्जलसेको वर्ज्यः (३२) · Śloka ३२
शुक्लरोमोद्गमे तद्वन्मषी मेषविषाणजा|
वर्जयेद्वारिणा सेकं यावद्रोमसमुद्भवः||३२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सितरोमोद्गमे मेषविषाणजा मषी तैलाक्ता श्रेष्ठा| सं-जलसेकं च वर्जयेत् यावद्रोमोद्भूतिः|
Adhikarana खलतौ, पलिते , वल्यां ,हरिल्लोम्नि च शोधनं नस्यवक्रशिरोभ्यङ्गप्रदेहाश्च इद्रलुप्ते बृहत्यादितैलेन नस्यम् इद्रलुप्ते निम्बतैलेन नस्यम् (३३-३४) · Śloka ३४
खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम्|
नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत्||३३||
सिद्धं तैलं बृहत्याद्यैर्जीवनीयैश्च नावनम्|
मासं वा निम्बजं तैलं क्षीरभुङ्नावयेद्यतिः||३४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-खलत्यादिषु शोधितमातुरं नस्यादिभिरुपाचरेत्| स०-बृहत्यादिभिर्जीवनीयैश्च पक्वं तैलं नस्यं हितम्| निम्बोद्भवं वा तैलं मासं क्षीरभुङ्नावयेत्, यतिः-संयमी ब्रह्मचर्यपरः|
Adhikarana पलिते नील्यादितैलेन नस्यम् पलिते क्षीरादितैलेन नस्यम् (३५-३८) · Śloka ३८
नीलीशिरीषकोरण्टभृङ्गस्वरसभावितम्|
शेल्वक्षतिलरामाणां बीजं काकाण्डकीसमम्||३५||
पिष्ट्वाऽऽजपयसा लोहाल्लिप्तादर्काशुतापितात्|
तैलं स्रुतं क्षीरभुजो नावनात् पलितान्तकृत्||३६||
क्षीरात्साहचराद् भृङ्गरजसः सौरसाद्रसात्|
प्रस्थैस्तैलस्य कुडवः सिद्धो यष्टिपलान्वितः||३७||
नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः|
|३८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नील्यादिस्वरसेन भावितं शेल्वादीनां बीजं काकाण्डकीतुल्यं छागदुग्धेन पिष्ट्वा लोहाल्लिपाद् रविरश्मिभिस्तापित्तात्तैलं स्रुतं क्षीराशिनो नस्यं पलितान्तकरम्| स०-क्षीरात् प्रस्थेन, सहचररसात् प्रस्थेन, भृङ्गराजरसात् प्रस्थेन, सुरसारसात् प्रस्थेन, तैलस्य कुडवः पक्वो मधुयष्टीपलयुतः शैले भाण्डे बीजसारस्य वा भाण्डे मेषशृङ्गे वा स्थितो नस्यम्|
Adhikarana पलिते दुग्धिकाकरवीरकलेपः हरिल्लोमवलीषु क्षीरादीनां वक्त्रलेपः (३८-४०) · Śloka ४०
|
क्षीरेण श्लक्ष्णपिष्टै वा दुग्धिकाकरवीरकौ||३८||
उत्पाट्य पलितं देयावाशये पलितापहौ|
क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः||३९||
कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः|
|४०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुग्धिकाकरवीरकौ क्षीरेण सूक्ष्मपिष्टौ पलितमुत्पाट्य तत्स्थाने देयौ पलितघ्नौ| स०-क्षीरादयो वक्त्रस्य लेप इन्द्रलुप्तवलीषु हितः|
Adhikarana केशबृंहणरञ्जकस्तिलादीनां मूर्द्धलेपः केशसंवर्धनानि मांस्यादीनि (४०-४२) · Śloka ४२
|
तिलाः सामलकाः पद्मकिञ्जल्को मधुकं मधु||४०||
बृंहयेद्रञ्जयेच्चैतत् केशान् मूर्द्धप्रलेपनात्|
मांसी कुष्ठं तिलाः कृष्णाः सारिवा नीलमुत्पलम्||४१||
क्षौद्रं च क्षीरपिष्टानि केशसंवर्धनं परम्|
|४२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिलादिकं शिरःप्रलेपनात् केशान् रञ्जयेत् पुष्णीयाच्च| स०-मांस्यादीनि क्षीरपिष्टानि परं केशसंवर्धनानि|
Adhikarana केशरञ्जनं अयोरजआदि केशरञ्जनं माषकादियवागूः (४२-४४) · Śloka ४४
|
अयोरजो भृङ्गरजस्त्रिफला कृष्णमृत्तिका||४२||
स्थितमिक्षुरसे मासं समूलं पलितं रजेत्|
माषकोद्रवधान्याम्लैर्यवागूस्त्रिदिनोषिता||४३||
लोहशुक्लोत्कटा पिष्टा बलाकामपि रञ्जयेत्|
|४४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लोहचूर्णादिकमिक्षुरसे मासं स्थितं समूलं पलितं रजेत्| स०-माषादिभिर्यवागूस्त्रिदवसोषिता लोहशुक्लोत्कटा पिष्टा बलाकामपि रञ्जयेत्| किं पुनः पलितं न निहन्ति?|
Adhikarana सर्वशिरोरोगे पलिते च प्रपौण्डरीकादितैलम् (४४-४५) · Śloka ४५
|
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः||४४||
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन च|
सर्वान् मूर्धगदान् हन्ति पलितानि च शीलितम्||४५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रपौण्डरीकादिभिर्धात्रीरसे सिद्धं तैलं नावनेनाभ्यञ्जनेन च सर्वान् शिरोरोगान् हन्ति| शीलितं च पलितानि हन्ति|
Adhikarana सर्वशिरोरोगे पलिते च वन्यादियमकेन नस्यम् (४६) · Śloka ४६
वरीजीवन्तिनिर्यासपयोभिर्यमकं पचेत्|
जीवनीयैश्च तन्नस्यं सर्वजत्रूर्ध्वरोगजित्||४६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शतावरीजीवन्तिक्वाथेन क्षीरेण जीवनीयैश्च यमकं पचेत्| तत् नस्येन सर्वजत्रूर्ध्वरोगजित्|
Adhikarana सर्वशिरोरोगे पलिते च मायूरं घृतम् (४७-४९) · Śloka ४९
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्|
दशमूलवलारास्नामधुकैस्त्रिपलैर्युतम्||४७||
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्|
कल्कितैर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगजित्||४८||
तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः|
|४९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मयूरं पक्षादिवर्जितं त्रिपलप्रमाणैर्दशमूलादिभिर्युतं जले पक्त्वा तस्मिन् जले कल्कितैर्मधुरद्रव्यैः क्षीरसमं घृतप्रस्थं पचेत्| पानादिभिरभ्यस्तं-शीलितं, तत्-घृतं, सर्वजत्रूर्ध्वरोगजित्| एतन्मायूराख्यं घृतम्|
Adhikarana सर्वशिरोरोगे पलिते च महामायूरं घृतम् (४९-५६) · Śloka ५६
|
एतेनैव कषायेण घृतप्रस्थं विपाचयेत्||४९||
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः|
जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः||५०||
समङ्गाचविकाभार्गीकाश्मरीकर्कटाह्वयैः|
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः||५१||
मृणालबिसखर्जूरयष्टीमधुकजीवकैः|
शतावरीविदारीक्षुबृहतीसारिवायुगैः||५२||
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः|
रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः||५३||
पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः|
मधूकाक्षोटवाताममुञ्जाताभिषुकैरपि||५४||
महामायुरमित्येतन्मायूरादधिकं गुणैः|
धात्विन्द्रियस्वरभ्रंशश्वासकासार्दितापहम्||५५||
येन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्|
|५६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एतेनैव क्वाथेन घृतप्रस्थं विपाचयेत्| चतुर्गुणेन क्षीरेणैभिः-जीवन्त्यादिभिः, कल्कैः कार्षिकैरेतन्महामायुरं मायूराद्गुणैरधिकं धात्वादिभ्रंशघ्नं च| योन्यादिदोषेषु शस्तम्| वन्ध्यासुतप्रदम्|
Adhikarana सर्वशिरोरोगे पलिते च मूषकादिभिरेवं कल्पयेत् जत्रूर्ध्वजा एकत्रिंशच्छतद्वयमिता व्याधयः (५६-५७) · Śloka ५७
|
आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत्||५६||
जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम्|
परस्परमसङ्कीर्णं विस्तरेण प्रकाशितम्||५७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूषिकादिभिरेव कल्पयेत्| स०-जत्रूर्ध्वजानां रोगाणां शतद्वयमेकत्रिंशदधिकमन्योन्यमसङ्कीर्णं विस्तरेण प्रकाशितम्|
Adhikarana मूलप्रहारिणां रोगाणां त्वरितमुपक्रमः (५८) · Śloka ५८
ऊर्ध्वमूलमधःशाखमृषयः पुरुषं विदुः|
मूलप्रहारिणस्तस्माद् रोगान् शीघ्रतरं जयेत्||५८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊर्ध्वमूलमधःशाखं मुनयश्च यस्मात् पुरुषं जानन्ति, तस्मान्मूलापहारिणो रोगान् शीघ्रतरं जयेत्|
Adhikarana उत्तमाङ्गस्य रक्षणे सावधानता (५९-२४) · Śloka २४
सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः|
तेन तस्योत्तमाङ्गस्य रक्षायामादृतो भवेत्||५९||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भट- विरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने शिरोरोगप्रतिषेधो नाम- चतुर्विंशोऽध्यायः||२४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-यस्मादस्मिन्-उत्तमाङ्गे, सर्वेन्द्रियाणि, यतश्चात्र प्राणाः संश्रिताः, तस्मादुत्तमाङ्गस्य रक्षायां यत्नवता भाव्यमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने शिरोरोग- प्रतिषेधो नाम चतुर्विंशोऽध्यायः समाप्तः|| २४|| इति शालाक्यं नाम चतुर्थमूर्ध्वाङ्गमङ्गं सम्पूर्णम्|