Skip to content

१५. सर्वाक्षिरोगविज्ञानियाध्यायः

Adhikarana सर्वाक्षिरोगविज्ञानीयाध्यायः||१५|| (२) · Śloka

अधुना क्रमप्राप्तं सर्वाक्षिरोगविज्ञानं वक्ति अथातः सर्वाक्षिरोगविज्ञानीयं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|

🔊 Audio coming soon

Adhikarana १ वाताभिष्यन्दस्य लक्षणम् (१-३) · Śloka

वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता| शङ्खाक्षिभ्रूललाटस्य तोदस्फुरणभेदनम्||१|| शुष्काल्पा दूषिका शीतमच्छं चाश्रु चला रुजः| निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम्||२|| अक्ष्याध्मातमिवाभाति सूक्ष्मैः शल्यैरिवाचितम्| स्निग्धोष्णैश्चोपशमनं सोऽभिष्यन्दः|३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नेत्रे वातेनाभिष्यण्णे नासानाह इत्यादिना लिङ्गानिर्देशः| स्निग्धोष्णैश्चोपशमनं-सुख़म्, इत्युपशयनिर्देशः|

Adhikarana २ वातादिमन्थस्य लक्षणम् (३-४) · Śloka

| उपेक्षितः||३|| अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः| अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः||४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातभिष्यन्दो मोहादुपेक्षितोऽधिमन्थो भवेत्| तत्राधिमन्थे, कर्णनादादिकं स्यात्| अरणिशब्दः पुंस्त्रीलिङ्गः|

Adhikarana ३ हताधिमन्थस्य लक्षणम् (५) · Śloka

हताधिमन्थः सोऽपि स्यात् प्रमादात्तेन वेदनाः| अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधिमन्थोऽपि प्रमादादुपेक्षितो हताधिमन्थो भवेत्| तेन-हताधिमन्थेन, अनेकरूपा रुजा जायन्ते| व्रणश्च दृष्टौ दृष्टिहा स्यात्|

Adhikarana ४अन्यतोवातस्य लक्षणम् (६-७) · Śloka

मन्याक्षिशङ्ख़तो वायुरन्यतो वा प्रवर्तयन्| व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम्||६|| सङ्कोचयति पर्यश्रु सोऽन्यतोवातसंज्ञितः| |७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-मन्यादिभ्यो वायुरन्यतो वा तीव्रां व्यथां प्रवर्तयेत् (यन्) नयनं सङ्कोचयति| किम्भूतम् ? पैच्छिल्यरागशोफरहितम्| तथा पर्यश्रु| स अन्यतोवातसंज्ञितः|

Adhikarana ५ वातपर्ययस्य लक्षणम् (७) · Śloka

| तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये||७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तद्वत्-अन्यतोवात इव, जिह्मं नेत्रमूनं-हीनं वा, वातपर्यये स्यात्|

Adhikarana ६ पित्ताभिष्यन्दस्य लक्षणम् (८-९) · Śloka

दाहो धूमायनं शोफः श्यावता वर्त्मनो बहिः| अन्तः क्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम्||८|| क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम्| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-दाह इत्यादि पित्ताभिष्यन्दलक्षणम्|

Adhikarana ७पित्ताधिमन्थस्य लक्षणम् (९-१०) · Śloka १०

| ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम्||९|| अधिमन्थे भवेन्नेत्रं| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-अधिमन्थे ज्वलदङ्गारकीर्णाभं यकृत्पिण्डतुल्याभं नेत्रं भवेत्|

Adhikarana ८ कफाभिष्यन्दस्य लक्षणम् (१०-११) · Śloka ११

स्यन्दे तु कफसम्भवे| जाड्यं शोफो महान् कण्डूर्निद्राऽन्नानभिनन्दनम्||१०|| सान्द्रस्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता| |११|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफजे तु स्यन्दे जाड्यादिकं स्यात्|

Adhikarana ९ कफाधिमन्थस्य लक्षणम् (११-१२) · Śloka १२

| अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम्||११|| प्रसेको नासिकाध्मानं पांशुपूर्णमिवेक्षणम्| |१२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधिमन्थे कृष्णमण्डलं नतं शुक्लमण्डलं चोन्नतं प्रसेकादि च स्यात्|

Adhikarana १० रक्ताभिष्यन्दस्य लक्षणम् (१२-१३) · Śloka १३

| रक्ताश्रुराजीदूषीकारक्तमण्डलदर्शनम्||१२|| रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम्| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तस्यन्देन रक्ताश्रुराज्यादिकं नयनं स्यात्| पित्तस्यन्दलक्षणं च|

Adhikarana ११ रक्ताधिमन्थस्य लक्षणम् (१३-१४) · Śloka १४

| मन्थेऽक्षि ताम्रपर्यन्तमुत्पाटनसमानरुक्||१३|| रोगेण बन्धूकनिभं ताम्यति स्पर्शनाक्षमम्| असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम्||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मन्थे सति ताम्रपर्यन्तं तथोत्पाटनेन समाना रुग् यस्य तदेवंभूतं नयनं स्यात्| बन्धूकपुष्पतुल्यरागम्| तथा ताम्यति स्पर्शनाक्षमं लोहितनिमग्ननिम्बाभं कृष्णं पावकसदृशं च दर्शनं स्यात्|

Adhikarana सर्वाधिमन्थानां सामान्यलक्षणम् (१५) · Śloka १५

अधिमन्था यथास्वं च सर्वे स्यान्दाधिकव्यथाः| शङ्कदन्तकपोलेशु कपाले चातिरुक्कराः||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधिमन्थाश्च यथास्वं सर्वे स्यन्दाधिकव्यथाः, तथा शङ्खादिष्वतिशयेन रुक्कराः स्युः|

Adhikarana १२ शुष्काक्षिपाकस्य लक्षणम् (१६-१७) · Śloka १७

वातपित्तातुरं घार्षतोदभेदोपदेहवत्| रूक्षदारुणवर्त्माक्षि कृच्छ्रोन्मीलनिमीलनम्||१६|| विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत्| उक्तः शुष्काक्षिपाकोऽयं|१७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातपित्तोत्तरं नेत्रं घर्षादिमत् स्यात्| तथा रूक्षे दारुणे च वर्त्मनी यस्मिस्तथा कृच्छ्रादुन्मीलनिमीलने यस्मिंस्तथाऽक्षिसङ्कोचनेन विशुष्कत्वं तथा शीतेच्छा शूलपाकेन च युतमक्षि स्यात्| अयं शुष्काक्षिपाको नाम उक्तः|

Adhikarana १३ सशोफस्य लक्षणम् (१७-१९) · Śloka १९

| सशोफः स्यात्त्रिभिर्मलैः||१७|| सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान्| पक्वोदुम्बरसङ्काशं जायते शुक्लमण्डलम्||१८|| अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः| |१९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिभिर्मलैः-दोषैर्वातादिभिः, सरक्तैः सशोफो नाम नेत्ररोगो भवेत्| तत्र-सशोफे, शोफोऽतिरुग् दाहष्ठीवनादिमान् भवेत्| तदा शुक्लमण्डलं पक्वोदुम्बरसङ्काशं जायते| अश्रु च मुहुरुष्णं मुहुः शीतमित्यादि घनं च|

Adhikarana १४ अल्पशोफस्य लक्षणम् १५अक्षिपाकात्ययस्य लक्षणम् (१९-२१) · Śloka २१

| अल्पशोफेऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा||१९|| अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता| कफोपदिग्धमसितं सितं प्रक्लेदरागवत्||२०|| दाहो दर्शनसंरोधो वेदनाश्चानवस्थिताः| |२१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पाक इति पाकशब्देनाक्षिपाकात्यय उपलक्ष्यते| आद्यन्तलोपाख्यया तन्त्रयुक्त्या

Adhikarana १६ अम्लोषितस्य लक्षणम् (२१-२३) · Śloka २३

| अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः||२१|| शिराभिर्नेत्रमारूढः करोति श्यावलोहितम्| सशोफदाहपाकाश्रु भृशं चाविलदर्शनम्||२२|| अम्लोषितोऽयम्| |२३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तरक्तोल्बणैर्दोषैरन्नसारोऽम्लत्वं नीतः शिराभिर्नेत्रमारूढः सन् श्यावलोहितं नयनं करोति| तथा शोफादियुतम्| भृशं चास्पष्टदर्शनम्| इत्ययमम्लोषितः|

Adhikarana इति सर्वगाः षोडशरोगाः (२३) · Śloka २३

इत्युक्ता गदाः षोडश सर्वगाः| |२३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इत्येवं षोडश सर्वगा रोगा उक्ताः| प्रकृतत्वात् सर्वनेत्रगा इति गम्यते|

Adhikarana एतेषां साध्यासाध्यत्वम् (२३) · Śloka २३

| हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत्||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एतेषु रोगेषु मध्ये साक्षिपाकात्ययं हताधिमन्थं त्यजेत्|

Adhikarana एतेषां दृष्टिहनने कालमर्यादा (१५) · Śloka २५

वातोद्भूतः पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातोऽधिमन्थः| रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रात् मिथ्याचारात् पैत्तिकः सद्य एव||२४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने सर्वाक्षिरोगविज्ञानीयो नाम पञ्चदशोऽध्यायः||२५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातजोऽधिमन्थः पञ्चरात्रेण दृष्टिं हन्ति| मिथ्याचारादिति सर्वत्रानुवर्तते| श्लेष्मजोऽधिमन्थः सप्तरात्रेण दृष्टिं हन्ति| रक्तजश्चाधिमन्थस्त्रिरात्रेण दृष्टिं हन्ति| पैत्तिकश्चाधिमन्थो मिथ्योपचारात् सद्य एव दृष्टिं हन्ति| शालिनीवृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगवि- ज्ञानीयो नाम पञ्चदशोऽध्यायः समाप्तः|| १५||