Adhikarana लिङ्गनाशप्रतिषेधाध्यायः||१४|| कफजे लिङ्गनाशे सुजाते व्यधः (२-१) · Śloka १
अथातो लिङ्गनाशप्रतिषेधं व्याख़्यास्यामः|
इति ह स्माहुरात्रयादयो महर्षयः|
(गद्यसूत्रे|२|
) विध्येत्सुजातं निःप्रेक्ष्यं लिङ्गनाशं कफोद्भवम्|
आवर्तक्यादिभिः षड्भिर्विवर्जितमुपद्रवैः||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
लिङ्गनाशस्तिमिरप्रतिषेधात्पृथगुच्यते, बहुवक्तव्यत्वात्| स०-सुजातं-सुष्ठु घनीभूतं, लिङ्गनाशं निःप्रेक्ष्यं कफोद्भवं विध्येत्| शेषास्तु लिङ्गनाशा असाध्या इति न तान् विध्येत्| तथाऽऽवर्तक्यादिभिर्वक्ष्यमाणैः षड्भिरुपद्रवैर्विवर्जितम्|
Adhikarana कफजे लिङ्गनाशे व्यधहेतुः (२-३) · Śloka ३
सुजातं कस्माद्विध्येत् ? इत्याह सोऽसञ्जातो हि विषमो दधिमस्तुनिभस्तनुः|
शलाकयाऽवकृष्टोऽपि पुनरूर्ध्वं प्रपद्यते||२||
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत्पुनः|
श्लेष्मलैः पूर्यते चाशु सोऽन्यैः सोपद्रवश्चिरात्||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स लिङ्गनाशो यस्मादसञ्जातो विषमो-न समसंस्थानः, तथा दधिमस्तुसदृशस्तथा तनुः-न घनः, शलाकयाऽवकृष्टोऽपि सन् पुनरूर्ध्वम् प्रवर्तते| तीव्रां रुजं करोति| पुनरपि-कृतव्यधोऽपि सन् भूयोऽपि, दृष्टिमाच्छादयेत्| श्लेष्मलैराहारैराशु पूर्यते| सोऽपरैश्च-अश्लेष्मलैराहारैः, सोपद्रवै(व)श्चिरात्पूर्यते|
Adhikarana कफजलिङ्गनाशस्य लक्षणम् वातपित्तलिङ्गनाशस्य लक्षणम् (४) · Śloka ४
श्लैष्मिको लिङ्गनाशो हि सितत्वाच्छ्लेष्मणः सितः|
तस्यान्यदोषाभिभवाद्भवत्यानीलता गदः|४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्माच्छ्लैष्मिको लिङ्गनाशः श्लेष्मणश्च शुक्लत्वाच्छुक्लः|तस्य-लिङ्गनाशस्य, अन्यदोषेण-वातादिना, अभिभवादानीलता भवति गदः|
Adhikarana कफजलिङ्गनाशस्य लक्षणम् वातपित्तलिङ्गनाशस्य लक्षणम् (४) · Śloka ४
श्लैष्मिको लिङ्गनाशो हि सितत्वाच्छ्लेष्मणः सितः|
तस्यान्यदोषाभिभवाद्भवत्यानीलता गदः||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्माच्छ्लैष्मिको लिङ्गनाशः श्लेष्मणश्च शुक्लत्वाच्छुक्लः|तस्य-लिङ्गनाशस्य, अन्यदोषेण-वातादिना, अभिभवादानीलता भवति गदः|
Adhikarana शर्करायाः लक्षणम् (५) · Śloka ५
|
शर्कराऽर्कपयोलेशनिचितेव ग़ानाति च||५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-शर्कराऽर्कक्षीरलवनिचितेव तथाऽतिग़न स्यात्|
Adhikarana राजीमत्याः लक्षणम् (६) · Śloka ६
राजीमती दृङ्निचिता शालिशूकाभराजिभिः|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-राजीमती दृष्टिः शालिशूकसदृशीभी राजीभिर्निचिता स्यात्|
Adhikarana छिन्नांशुकायाः लक्षणम् (६) · Śloka ६
|
विषमच्छिन्नदग्धाभा सरुक् छिन्नांशुका स्मृता||६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विषमा छिन्नदग्धाभा तथा सरुजा छिन्नांशुका दृष्टिः स्मृता|
Adhikarana चन्द्रक्याः लक्षणम् (७) · Śloka ७
दृष्टिः कांस्यसमच्छाया चन्द्रकी चन्द्रकाकृतिः|
|७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चन्द्रकी दृष्टिः कांस्यतुल्यच्छाया चन्द्रकाकारा स्यात्|
Adhikarana छत्रक्याः लक्षणम् (७) · Śloka ७
|
छत्राभा नैकवर्णा च छत्रकी नाम नीलिका||७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-छत्राभाऽनेकवर्णा च छत्रकी नाम नीलिका स्यात्|
Adhikarana असिरार्हादीनां न व्यधः (८) · Śloka ८
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्|
नाजीर्णभीरुवमितशिरःकर्णाक्षिशूलिनाम्||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-असिरार्हादीनां नराणां लिङ्गनाशं न विध्येत्|
Adhikarana व्यधविधिः (९-१३) · Śloka १३
अथ साधारणे काले शुद्धसम्भोजितात्मनः|
देशे प्रकाशो पूर्वाह्णे भिषग्जानूच्चपीठगः||९||
यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः|
अङ्गुष्ठमृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम्||१०||
स्वां नासां प्रेक्षमाणस्य निष्कम्पं मूर्ध्नि धारिते|
कृष्णादर्धाङ्गुलं मुक्त्वा तथाऽर्धार्धमपाङ्गतः||११||
तर्जनीमध्यमाङ्गुष्ठैः शलाकां निश्चलं धृताम्|
दैवच्छिद्रं नयेत्पार्श्वादूर्ध्वमामन्थयन्निव||१२||
सव्यं दक्षिणहस्तेन नेत्रं सव्येन चेतरत्|
विध्येत्|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथेति मङ्लार्थः| कृतमङ्गलस्य शुद्धस्य तथा सम्भोजितात्मन आतुरस्य साधरणे काले प्रकाशे देशे पूर्वाह्णे जानुतुल्यासनस्थितो वैद्य आतुरस्य यन्त्रितस्योपविष्टस्य, तथा स्विन्नेऽक्षिणी यस्य तस्य स्विन्नाक्षस्य| कैः ? मुखवायुभिः| तथाऽङ्गुष्ठेन मलिते नयने सति दृष्टौ मलमुत्प्लुतं-उद्गतं दृष्ट्वा, स्वां नासिकां वीक्षमाणस्य मूर्ध्नि निष्कम्पं धारिते सति कृष्णमण्डलादर्धाङ्गुलं हित्वाऽपाङ्गाच्चाङ्गुलचतुर्भागं मुक्त्वा तर्जनीमध्यमाङ्गुष्ठैः शलाकां निश्चलं यथा भवति तथा धृतां दैवच्छिद्रस्य पार्श्वं नयेत् ऊर्ध्वमालोडयन्निव| सव्यं नेत्रं दक्षिणकरेण, वामेन च हस्तेन दक्षिणमक्षि, विध्येत्|
Adhikarana सुविद्धे सान्त्वनादि (१३-१८) · Śloka १८
|
सुविद्धे शब्दः स्यादरुक् चाम्बुलवस्रुतिः||१३||
सान्त्वयन्नातुरं चानु नेत्रं स्तन्येन सेचयेत्|
शलाकायास्ततोऽग्रेण निर्लिखेण्णेत्रमण्डलम्||१४||
अबाधमानः शनकैर्नासां प्रति नुदंस्ततः|
उच्छिङ्घनाच्चापहरेद्दृष्टिमण्दलगं कफम्||१५||
स्थिरे दोषे चले वाऽति स्वेदयेदक्षि बाह्यतः|
अथ दृष्टेषु रूपेषु शलाकामाहरेच्छनैः||१६||
घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत्ततः|
विद्धादन्येन पार्श्वेन तमुत्तानं द्वयोर्व्यधे||१७||
निवाते शयनेऽभ्यक्तशिरःपादं हिते रतम्|
|१८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुविद्धे सति शब्दः स्यात्| तथाऽरुग् जललवस्य च स्रुतिः स्यात्| सान्त्वयन् रोगिणमनु-पश्चात्, नेत्रं स्तन्येन सेचयेत्| ततः-अनन्तरं, शलाकाया अग्रेण दृष्टिमण्डलं निर्लिखेत्| कथम् ? अपीडयन्| तथा शनैर्नासां प्रति कफं नुदन्| तत उच्छिङ्घनाच्च दृष्टिमण्डलगं कफं हरेत्| दोषे चले स्थिरे वा सत्यक्षिबाह्यतोऽति स्वेदयेत्| अनन्तरं रूपेषु-वस्तुषु, दृष्टेषु सत्सु शनैः शलाकामार्कर्षेत्| ततो घृताप्लुतं पिचुं दत्त्वा पट्टिकया बद्धाक्षं विद्धादन्येन पार्श्वेन शाययेत्| द्वयोरक्ष्णोर्व्यधे सति तमुत्तानं निवाते शयनेऽभ्यक्तशिरः पादं हिते रतं शाययेत्|
Adhikarana सुविद्धे सप्ताहं क्षवथ्वादिनिषेधः (१८-१९) · Śloka १९
|
क्षवथुं कासमुद्गारं ष्ठीवनं पानमम्भसः||१८||
अधोमुखस्थितिं स्नानं दन्तधावनभक्षणम्|
सप्ताहं नाचारेत्स्नेहपीतवच्चात्र यन्त्रणा||१९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षवथ्वादीन् सप्ताहं नाचरेत्| अत्र च स्नेहपीत इव यन्त्रणा|
Adhikarana सुविद्धे शक्तितो लङ्घनादि (२०-२१) · Śloka २१
शक्तितो लङ्ग़येत्सेको रुजि कोष्णेन सर्पिषा|
सव्योषामलकं वाट्यमश्नीयात्सग़ृतं द्रवम्||२०||
विलेपीं वा त्र्यहाच्चास्य क्वाथैर्मुक्त्वाऽक्षि सेचयेत्|
वातग़्नैः सप्तमे त्वह्नि सर्वथैवाक्षि मोचयेत्||२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शक्त्यनुसारेण च तं लङ्घयेत्| पीडायां सत्यां कोष्णेन घृतेन सेको हितः| तथा व्योषामलकयुक्तं वाठ्यं द्रवं सघृतं त्र्यहं भुञ्जीत विलेपिकां वा| त्र्यहादन्तरं नयनं मुक्त्वा क्वाथैर्वातघ्नैः सेवयेत्| सप्तमे तु दिने सर्वथैवाक्षि मोचयेत्|
Adhikarana सुविद्धे सूक्ष्मादिदर्शननिषेधः (२२) · Śloka २२
यन्त्रणामनुरुध्येत दृष्टेरास्थैर्यलाभतः|
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत्||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दृष्टेश्च यन्त्रणां कुर्यात्| अतिसूक्ष्मभासुरादीन् नेक्षेतेत्यर्थः| स्थैर्यलाभो यावदक्ष्णि स्यात्| स्थिरीभूतायामपि दृशि सूक्ष्मणि रूपाणि भासुराणि च सहसा नावलोकयेत्|
Adhikarana वेधदोषेऽहिताचरणे च शोफादि (२३) · Śloka २३
शोफरागरुजादीनामधिमन्थस्य चोद्भवः|
अहितैर्वेधदोषाच्च यथास्वं तानुपाचरेत्||२३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अहितैराचरितैस्तथा वेधदोषाच्च शोफादीनामधिमन्थस्य चोद्भूतिः| तांश्च यथायोगमुपक्रमेत्|
Adhikarana रुजारागशमने दूर्वादिलेपः (२४) · Śloka २४
कल्किताः सघृता दूर्वायवगैरिकसारिवाः|
मुखालेपे प्रयोक्तव्या रुजारागोपशान्तये||२४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दूर्वादयः कल्किताः सघृता मुखालेपे प्रयोक्तव्या रूग्रागशमाय|
Adhikarana रुजारागशमने तिलादिलेपः (२५) · Śloka २५
ससर्षपास्तिलास्तद्वन्मातुलुङ्गरसाप्लुताः|
|२५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिलाः सर्षपयुक्ता बीजपूररसाप्लुताः पूर्वगुणाः|
Adhikarana रुजारागशमने पयस्यादिलेपः (२५-२६) · Śloka २६
|
पयस्यासारिवापत्रमञ्जिष्ठामधुयष्टिभिः||२५||
अजाक्षीरयुतैर्लेपः सुखोष्णः शर्मकृत्परम्|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पयस्यादिभिश्छागक्षीरान्वितैः सुखोष्णो लेपः परं सुखकृत्|
Adhikarana रुजारागशमने रोध्रादिशृतक्षीरस्याश्च्योतनम् (२६-२७) · Śloka २७
|
रोध्रसैन्धवमृद्वीकामधुकैश्छागलं पयः||२६||
शृतमाश्च्योतनं योज्यं रुजारागविनाशनम्|
|२७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोध्रादिभिरजाक्षीरं शृतमाश्च्योतने योज्यं रुजादिहृत्|
Adhikarana रुजारागशमने मधुकादिश्रृतक्षीरस्याश्च्योतनम् (२७) · Śloka २७
|
मधुकोत्पलकुष्ठैर्व द्राक्षालाक्षासितान्वितैः||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुकादिभिर्वा शृतमजाक्षीरमाश्च्योतनं हितम्|
Adhikarana एवमनुपशमे सिरामोक्षादि (२८-२९) · Śloka २९
वातघ्नसिद्धे पयसि शृतं सर्पिश्चतुर्गुणे|
पद्मकादिप्रतीवापं सर्वकर्मसु शस्यते||२८||
सिरां तथाऽनुपशमे स्निग्धस्विन्नस्य मोक्षयेत्|
मन्थोक्तां च क्रियां कुर्याद्वेधे रूढेऽञ्जनं मृदु||२९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातघ्नशृते क्षीरे चतुर्गुणे सर्पिः पद्मकादिप्रतीवापं सर्वकर्मसु शस्यते| सं-एवमप्यनुपशान्तौ स्निग्धस्विन्नस्य सिरां मोक्षयेत्| मन्थोक्तं चोपक्रमं युञ्जीत| वेधे रूढे सति मृद्वञ्जनं हितम्|
Adhikarana विद्धेऽक्ष्णि आढक्यादिवर्तिः (३०) · Śloka ३०
आढकीमूलमरिचहरितालरसाञ्जनैः|
विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता||३०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आढक्यादिभिः सगुडा वर्तिर्दिव्याम्बुपिष्ठा विद्धे नयने योज्या|
Adhikarana विद्धेऽक्ष्णि जात्यादि पिण्डाञ्जनम् (३१-३२) · Śloka ३२
जातीशिरीषधवमेषविषाणिपुष्प वैडूर्यमौक्तिकफलं पयसा सुपिष्टम्|
आजेन ताम्रममुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम्||३१||
पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः|
- |३२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जात्यादिकमजाक्षीरेण श्लक्ष्णपिष्टमेतेन च ताम्रं प्रतनु प्रदिग्धं सप्ताहात्पुनरजाक्षीरेण चैतत् पिष्टं पिण्डाञ्जनं छायाशुष्कं विद्धे नयने प्रसादनं हितम्| दृष्टेश्च बलकृत्|
Adhikarana विद्धेऽक्ष्णि स्रोतोजादि पिण्डाञ्जनम् (१४) · Śloka १४
- |
स्रोतोजविद्रुमशिलाम्बुधिफेनतीक्ष्णै- रस्यैव तुल्यमुदितं गुणकल्पनाभिः||३२||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने लिङ्गनाशप्रतिषेधो नाम चतु र्दशोऽध्यायः||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रोतोजादिभिरजाक्षीरपिष्टैः पिण्डाञ्जनं पूर्ववदिति| वसन्ततिलकं(के) वृत्तम्(त्ते)| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने लिङ्गनाशप्रतिषेधो नाम चतुर्दशोऽध्यायः समाप्तः|| १४||