Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
Adhikarana क्षुद्ररोगविज्ञानीयाध्यायः १ अजगल्लिकायाः लक्षणम् (२-१) · Śloka १
क्षुद्ररोगविज्ञानं क्रमप्राप्तमाचिख्यासुराह अथातः क्षुद्ररोगविज्ञानीयं व्याख्यास्यामः| इति ह स्माहुरात्रयादयो महर्षयः| (गद्यसूत्रे)|२| स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा| पिटिका कफवाताभ्यां बालानामजगल्लिका||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स० - बालानां कफवाताभ्यां स्निग्धादिगुणयुक्ता पिटिकाऽजगल्लिकाख्या स्यात्|
Adhikarana २ . यवप्रख्यायाः लक्षणम् (२) · Śloka २
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना| |२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- ताभ्यां-वातकफाभ्यां, यवप्रख्या-यवसंज्ञा| सा यवप्रख्या-यवाकारा, मंसाश्रिता घना कठिना च|
Adhikarana ३ . अलज्याः लक्षणम् ४ . कच्छप्याः लक्षणम् (२-३) · Śloka ३
| अवक्त्रा चालजी वृत्ता स्तोकपूया घनोन्नता||२|| ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स० - ग्रन्थयः पञ्च वा षड्वा, किम्भूताः ? अमुखास्तथाऽलजीव वृत्ताः-वर्तुलाः, स्तोकपूया घना उन्नताश्च कच्छपीत्युच्यते| सा च कच्छपोन्नता स्यात्|
Adhikarana ५ . पनसिकायाः लक्षणम् (३-४) · Śloka ४
| कर्णस्योर्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक्||३|| शालूकाभा पनसिका| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णस्योपरिष्टात् परितो वा पिटिका कठिना तीव्ररुजा शालूकनिभा पनसिकासंज्ञा|
Adhikarana ६ . पाषाणगर्दभस्य लक्षणम् (४) · Śloka ४
शोफस्त्वल्परुजः स्थिरः| हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शोफोऽल्परुजः स्थिरो हनुसन्धिसमाश्रितो वातकफाभ्यां पाषाणगर्दभः|
Adhikarana ७ . मुखदूषिकानां लक्षणम् (५) · Śloka ५
शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः| मेदोगर्भा मुखे यूनां ताभ्यां च मुखदूषिकाः||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातकफाभ्यां शाल्मलीकण्टकसदृशाः पिटिका रुजान्विता घना मेदोगर्भास्तरुणानां मुखे स्युः| ताश्च मुखदूषिकाः|
Adhikarana ८ . पद्मकण्टकानां लक्षणम् (६) · Śloka ६
ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः| चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पद्मकण्टकसंज्ञास्ते वेद्याः, यैः कण्टकैर्नीरुजैः श्वेतवर्णैर्वातकफजैः पद्ममिव शरीरं चीयते|
Adhikarana ९ . विवृतायाः लक्षणम् (७) · Śloka ७
पित्तेन पिटिका वृत्ता पक्वोदुम्बरसन्निभा| महादाहज्वरकरी विवृता विवृतानना||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेन या पिटिका वर्तुला पक्वोदुम्बरफलनिभामहादाहज्वरकृच्च, सा विवृताख्या विवृतमुखा स्यात्|
Adhikarana १० . मसूरिकानां लक्षणम् (८) · Śloka ८
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः| मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः||८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गात्रेषु-अवयवेषु, वक्त्रस्य चान्तरे दाहादियुता मसूरप्रमाणास्तद्वर्णास्तत्संज्ञा मसूरिका घनाः पिटिकाः|
Adhikarana ११ . विस्फोटानां लक्षणम् (९) · Śloka ९
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताभ्यो मसूरिकाभ्यो दारुणतमाः स्फोटा महारुजा विस्फोटासंज्ञाः|
Adhikarana १२ विद्धायाः लक्षणम् (९-१०) · Śloka १०
| या पद्मकर्णिकाकारा पिटिका पिटिकाचिता||९|| सा विद्धा वातपित्ताभ्यां| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पद्मकर्णिकानिभा या पिटिका पिटकैराचिता, सा वातपित्ताभ्यां विद्धाख्या स्यात्|
Adhikarana १३ गर्दभ्याः लक्षणम् (१०) · Śloka १०
ताभ्यामेव च गर्दभी| मण्डला विपुलोत्सन्ना सरागपिटिकाचिता||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताभ्यामेव-वातपित्ताभ्यां, गर्दभीसंज्ञा मण्डलाकारा विस्तीर्णा तथोत्सन्ना सरागपिटकैराचिता|
Adhikarana १४ कक्षायाः लक्षणम् (११) · Śloka ११
कक्षेति कक्षासन्नेषु प्रायो देशेषु साऽनिलात्| पित्ताद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कक्षानिकटेषु प्रदेशेषु सा गर्दभी कक्षेत्युच्यते| सा च वातात् स्यात्| तस्यामेव पित्तेन सूक्ष्माः पिटिका लाजाकारा घनाः कक्षासंज्ञा एव स्युः|
Adhikarana १५ गन्धनामायाः लक्षणम् (१२) · Śloka १२
तादृशी महती त्वेका गन्धनामेति कीर्तिता| |१२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तादृशी-लाजसदृशी, महती पिटिकैका गन्धनामेति स्मृता|
Adhikarana १६ राजिकानां लक्षणम् (१२-१३) · Śloka १३
| घर्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः||१२|| राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः| |१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- घर्मस्वेदयुक्ते शरीरे पिटिका रुजायुता घना राजिकावर्णा राजिकाकारा राजिकाप्रमाणा राजिकासंज्ञाः|
Adhikarana १७ जालगर्दभस्य लक्षणम् (१३-१४) · Śloka १४
| दोषैः पित्तोल्बणैर्मन्दैर्विसर्पिति विसर्पवत्||१३|| शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- पित्ताधिकैर्दोषैर्मन्दैर्यः शोफो विसर्प इव विसर्पति, तथाऽपाकस्तनुस्ताम्रवर्णो ज्वरकारी च, स जालगर्दभः स्यात्|
Adhikarana १८ अग्निरोहिण्या लक्षणम् (१४-१५) · Śloka १५
| मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः||१४|| कक्षाभागेषु जायन्ते येऽग्न्याभाः साऽग्निरोहिणी| पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्तिजीवितम्||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तोल्बणैर्मलैर्ज्वरवतो मांसदारणाः स्फोटाः कक्षाप्रदेशेषु येऽग्निसदृशा जायन्ते, साऽग्निरोहिणीत्युच्यते| पञ्चाहेन सप्तरात्रेण पक्षेण वा जीवितं हन्ति|
Adhikarana १९ इरिवेल्लिकायाः लक्षणम् (१६) · Śloka १६
त्रिलिङ्गा पिटिका वृत्ता जत्रूर्ध्वमिरिवेल्लिका| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिदोषलक्षणा पिटिका वर्तुला जत्रुण ऊर्ध्वमिरिवेल्लिकाख्या|
Adhikarana २० विदार्याः लक्षणम् (१६) · Śloka १६
| विदारीकन्दकठिना विदारी कक्षवङ्क्षणे||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- विदारीकन्दवत् कठिना कक्षायां वङ्क्षणे च विदारी स्यात्| कक्षा च वङ्क्षणं च कक्षावङ्क्षणं तस्मिन्| "पाण्योः"(?) इत्यादिना ह्रस्वः|
Adhikarana २१ शर्करार्बुदस्य लक्षणम् (१७-१९) · Śloka १९
मेदोनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः| भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्बणोऽनिलः||१७|| मांसं विशोष्य ग्रथितां शर्करामुपपादयेत्| दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः||१८|| तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्| |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मेदःपवनकफैः स्नायुमांससिराश्रयैर्ग्रन्थिः स्यात्| स च भिन्नो वसाघृतमधुनिभं स्रवेत्| तस्मिन् पवनोऽधिको मांसं विशोष्य ग्रथितां शर्करां कुर्यात्| ततो दोषास्तां-शर्करां, निचितां दुर्गन्धं लोहितं क्लिन्नं विविधवर्णं स्रावयन्ति| तत् एवंविधं, शर्करार्बुदं विद्यात्|
Adhikarana २२ वल्मीकस्य लक्षणम् (१९-२०) · Śloka २०
| पाणिपादतले सन्धौ जत्रूर्ध्वं वोपचीयते||१९|| वल्मीकवच्छनैर्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः| रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोऽसौ समस्तजः||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- पाणितले पादतले सन्धौ जत्रूर्ध्वं वा ग्रन्थिर्वल्मीक इव शनैरुपचीयते| तद्वत्वल्मीकवत्, बहूनि च तान्यणूनि च, तैर्भूरिसूक्ष्मैर्वदनैरुपलक्षितो रुग्दाहकण्डूक्लेदबहुलो वल्मीकाख्योऽसौ त्रिदोषजः|
Adhikarana २३ कदरस्य लक्षणम् (२१) · Śloka २१
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः| ग्रन्थिः कीलवदुत्सन्नो जायते कदरं तु तत्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शर्करादिभिरुन्मथिते पादे कण्टकादिभिर्वा क्षते कीलसदृशो ग्रन्थिरुत्सन्नो जायते, तत्कदरं नाम|
Adhikarana २४ रुद्धगुदस्य लक्षणम् (२२-२३) · Śloka २३
वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम्| अणूकरोति बाह्यान्तर्मार्गस्य ततः शकृत्||२२|| कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- अपानाख्यो वायुर्वेगसन्धारणादपानाश्रयं मार्गं बाह्यान्तरणूकरोति| ततोऽस्य-आतुरस्य, कृच्छ्रेण शकृन्निर्याति| अयं रोगो रुद्धगुदो मतः|
Adhikarana २५ चिप्पस्य लक्षणम् (२३-२४) · Śloka २४
| कुर्यात्पित्तानिलं पाकं नखमांसे सरुग्ज्वरम्||२३|| चिप्यमक्षतरोगं च विद्यादुपनखं च तम्| |२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तानिलं कर्तृ नखमांसे सरुग्ज्वरं पाकं कुर्यात्| तं चिप्यं तथाऽक्षतरोगमुपनखं च विद्यात्|
Adhikarana २६ कुनखस्य लक्षणम् (२४) · Śloka २४
| कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभिघातात् कृष्णवर्णो रूक्षश्च खरश्च नखः कुनखाख्यः|
Adhikarana २७ अलसस्य लक्षणम् (२५) · Śloka २५
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः| अङ्गुल्योऽलसमित्याहुः|२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदयुतान्तरा अङ्गुल्योऽलसमिति वदन्ति|
Adhikarana २८ तिलकालकानां लक्षणम् (२५-२६) · Śloka २६
| तिलाभांस्तिलकालकान्||२५|| कृष्णानवेदनांस्त्वक्स्थान्| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिलसदृशान् कृष्णवर्णानरुजांस्त्वक्स्थांस्तिलकालकानाहुः|
Adhikarana २९ मषाणां लक्षणम् (२६) · Śloka २६
मषांस्तानेव चोन्नतान्| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तानेव तिलकालकानुन्नतान् मषानाहुः|
Adhikarana ३० चर्मकीलानां लक्षणम् (२६) · Śloka २६
| मषेभ्यस्तून्नततरांश्चर्मकीलान् सितासितान्||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मषेभ्यः सकाशादुन्नततरान् वर्णतः सितासितान् चर्मकीलांस्तानाहुः|
Adhikarana ३१ जतुमणेः लक्षणम् (२७) · Śloka २७
तथाविधो जतुमणिः सहजो लोहितस्तु सः| |२७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तत्प्रमाणो जतुमणिः सहजो लोहितवर्णश्चासौ स्यात्|
Adhikarana ३२ लाञ्छनस्य लक्षणम् (२७) · Śloka २७
| कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम्||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्लं कृष्णं वा सहजं मण्डलाकारं शरीरसमं लाञ्छनमाहुः|
Adhikarana ३३ व्यङ्गस्य लक्षणम् (२८-३०) · Śloka ३०
शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु| श्यामलं मण्डलं व्यङ्गं, वक्त्रादन्यत्र नीलिका||२८|| परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्| पित्तात्ताम्रान्तमानीलं, श्वेतान्तं कण्डुमत्कफात्||२९|| रक्ताद्रक्तान्तमाताम्र सौषं चिमिचिमायते| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- वातपित्ताच्छोकादिक्रुद्धात् तनु श्यामवर्णं मण्डलाकारं मुखे व्यङ्गं वदन्ति| मुकादन्यत्र नीलिका| परुषच्छविस्तथा परुषस्पर्शं श्यामवर्णं च व्यङ्गं वातात् स्यात्| पित्तेन ताम्रान्तं किञ्चिन्नीलम्| कफेन श्वेतान्तं सकण्डु च स्यात्| रक्ताद्रक्तान्तं किञ्चित्ताम्रमोषयुतं चिमिचिमायते च|
Adhikarana ३४ प्रसुप्तेः लक्षणम् (३०-३१) · Śloka ३१
| वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति||३०|| ततस्त्वग्जायते पाण्डुः क्रमेण च विचेतना| अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पवनेन कफः प्रेरितस्त्वचं प्राप्य विशुष्यति| अनन्तरं त्वक् पाण्डुः क्रमेण च विचेतना अल्पकण्डूर्विक्लेदरहिता च जायते| सा प्रसुप्तितः प्रसुप्तिः स्यात्|
Adhikarana ३५ उक्तोठस्य लक्षणम् (३२-३३) · Śloka ३३
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः| मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च||३२|| उत्कोठः| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-असम्यग्वमनेन प्रेरितपित्तश्लेष्मान्ननिग्रहैर्मण्डलान्यतिशयकण्डूनि लोहितानि बहूनि च उत्कोठः स्यात्|
Adhikarana ३६ कोठस्य लक्षणम् (३३) · Śloka ३३
सोऽनुबद्धस्तु कोठ इत्यभिधीयते| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स एवानुबद्धः कोठ इत्युच्यते|
Adhikarana एते षटत्रिंशत् क्षुद्ररोगाः (३१) · Śloka ३१
| प्रोक्ताः षट्त्रिंशदित्येते क्षुद्ररोगा विभागशः||३३|| |यानविज्ञाय मुह्येत चिकित्सायां चिकित्सकः| ] इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्ररोगविज्ञानीयं नामैकत्रिंशोऽध्यायः||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- इति-अनेन प्रकारेण, षट्त्रिंशत् क्षुद्ररोगा विभागेनोक्ता इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने क्षुद्ररोग विज्ञानीयं नामैकत्रिंशोऽध्यायः समाप्तः|| ३१||