Adhikarana अध्यायोपक्रमः (१) · Śloka १
|१|
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
विषप्रक्रमात् कीटलूतादिचिकित्सितं वक्ति-
Adhikarana अध्यायोपक्रमः (१) · Śloka १
|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
विषप्रक्रमात् कीटलूतादिचिकित्सितं वक्ति-
Adhikarana कीटलूतादिविषप्रत्षेधाध्यायः ------ कीटाः सर्पाणां विण्मुत्रादिजाः कीटानां चतुर्विधत्वम् (२-१) · Śloka १
अथातः कीटलूतादिविषप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः| दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- सर्पाणां-पूर्वोक्तानां, विण्मूत्रादिजाः कीटा दोषैः पृथग्युक्तास्त्रिप्रकाराः समुदितैश्च युक्ता इति चतुः प्रकाराः स्युः|
Adhikarana वायव्यकीटदष्टस्य लक्षणम् (२) · Śloka २
दष्टस्य कीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः| |२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषु मध्ये वायव्यैः-वातलैः कीटैः, दष्टस्य दंशस्तोदरुजाधिको भवेत्|
Adhikarana आग्नेयकीटदष्टस्य लक्षणम् (२-३) · Śloka ३
| आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान्||२|| पक्वपीलुफलप्रख्यः खर्जूरसदृशोऽथवा| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आग्नेयैः कीटैर्दष्टस्य दंशोऽल्पस्रावादिमान् स्यात्| पक्वपीलुफलनिभः खर्जूरसदृशो वा स्यात्|
Adhikarana कफाधिककीटदष्टस्य लक्षणम् (३) · Śloka ३
| कफाधिकरिमन्दरुजः पक्वोदुम्बरसन्निभः||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफाधिकैः कीटैर्दष्टस्य दंशो मन्दरुजः पक्वोदुम्बरसदृशः|
Adhikarana सान्निपातिककीटदष्टस्य लक्षणम् (४) · Śloka ४
स्रावाढ्यः सर्वलिङ्गस्तु विवर्ज्यः सान्निपातिकैः| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सान्निपातिकैः-त्रिदोषाधिकैः कीटैः, दष्टस्य दंशः स्रुत्यधिकः सर्वलिङ्गः| स च वर्ज्यो-नोपक्रमणीयः|
Adhikarana कीटेषु सर्पवत् वेगाः शोफादिश्च (४-५) · Śloka ५
| वेगाश्च सर्पवच्छोफो वर्धिष्णुर्विस्ररक्तता||४|| शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोऽतिवेदना| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वेगाश्च सर्पवत्कीटेषु स्युः| तथा श्वयथुर्वर्धनस्वभावो विस्रशोणितत्वं च मूर्धनेत्रगुरुत्वं मूर्च्छाद्याश्च स्युः|
Adhikarana सर्वकीटकदष्टानां सामान्यलक्षणम् (५) · Śloka ५
| सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णिकाद्याश्च सर्वेषां दंशानां स्युः|
Adhikarana वृश्चिकदष्टस्य लक्षणम् (६-७) · Śloka ७
वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्| ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति||६|| दंशः सद्योऽतिरुक् श्यावस्तुद्यते स्फुटतीव च| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- वृश्चिकस्य तीक्ष्णं विषं भवति| तच्च प्रथममग्निरिव दहति| उपरिष्टादाश्वेवारोहति| पश्चाच्च दंशे तिष्ठति| दंशो वृश्चिकसम्बन्धी सद्योऽतिरुगादिः स्यात्| तुद्यते स्फुटतीव च| तुद्यत इति कर्मकर्तरि तङ्|
Adhikarana वृश्चिकास्त्रिप्रकाराः (७-८) · Śloka ८
| ते गवादिशकृत्कोथाद्दिग्धदष्टादिकोथतः||७|| सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाः| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ते-वृश्चिकाः, गवादिशकृत्कोथात् विषदिग्धदष्टादि कोथात् सर्पकोथाच्च सम्भूता यथासङ्ख्यं मन्दविशा मध्यविषा महाविषाश्च स्युः|
Adhikarana मन्दविषवृश्चिकानां लक्षणम् (८-९) · Śloka ९
| मन्दाः पीताः सिताः श्यावाः रूक्षाः कर्बुरमेचकाः||८|| रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- मन्दविषाः कीटाः पीतादिगुणाः| रोमशा इति "लोमादि" इत्यादिना शः|
Adhikarana मध्यविषवृश्चिकानां लक्षणम् (९-१०) · Śloka १०
| धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः||९|| पिशङ्गाः शबलाश्चित्राः शोणिताभा| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मध्यविषास्तु कपिलादिगुणाः|
Adhikarana महाविषवृश्चिकानां लक्षणम् (१०) · Śloka १०
महाविषाः| अग्न्याभा-द्व्येकपर्वाणो रक्तासितसितोदराः||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-महाविषा दर्भदूर्वासदृशा द्विपर्वाण एकपर्वाणो वा| रक्तोदराः केचित्कृष्णोदराः केचित्सितोदराश्च|
Adhikarana महाविषवृश्चिकदष्टस्य लक्षणम् (११-१२) · Śloka १२
तैर्दष्टः शूनरसनः स्तब्धगात्रो ज्वरार्दितः| खैर्वमन् शोणितं कृष्णमिन्द्रियार्थानसंविदन्||११|| स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्वलो वेदनातुरः| विशीर्यमाणमांसश्च प्रायशो विजहात्यसून्||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तैः-महाविषैः, दष्टः सन् शूनजिह्वादिः स्यात्| तथेदमिदं कुर्वन्नीदृशः सन् प्रायशो जीवितं त्यजति|
Adhikarana उष्ट्रधूमस्य लक्षणम् (१३-१४) · Śloka १४
उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः| साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्टरोमताम्||१३|| करोति सेकमङ्गानां दंशः शीताम्बुनेव च| उष्ट्रधूमः स एवोक्तो रात्रिचाराच्च रात्रिकः||१४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उच्चिटिङ्गाख्यो वृश्चिको वक्त्रेण दशति| साध्याद्दृश्चिकादतिरिक्तव्यथः| तथा स्तम्भं करोति मेढ्रस्य| तथा हृष्टरोमतां-रोमहर्षं, करोति| तथा दंशश्च शिशिरजलेनेव सेकमङ्गानां विधत्ते| स एवोष्ट्रधूमकः कथितः| रात्रिचरणाच्च रात्रिकः स एवोक्तः|
Adhikarana कीटादीनां दोषाधिकत्वम् (१५) · Śloka १५
वातपित्तोत्तराः कीटाः, श्लैश्मिकाः कणभोन्दुराः| प्रायो वातोल्बणविषा वृश्चिकाः सोष्ट्रधूमकाः||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कीटा वातपित्ताधिकाः| कणभोन्दुराः श्लेष्मोल्बणाः| प्रायेण वृश्चिका वातोल्बणविषा उष्ट्रधूमकाश्च|
Adhikarana यथादोषोदयं क्रिया (१६) · Śloka १६
यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्| तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्य यस्यैव दोषस्य लिङ्गाधिक्यं ज्ञायते, तस्य तस्य दोषस्य भेषजैर्विपरीतगुणैः क्रियां विदधीत|
Adhikarana वातिकविषस्य लक्षणम् (१७) · Śloka १७
हृत्पीडोर्ध्वानिलस्तम्भः शिरायामोऽस्थिपर्वरुक्| घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातिके विषे हृत्पीडादयः स्युः|
Adhikarana पैत्तिकविषस्य लक्षणम् (१८) · Śloka १८
संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता| मांसावदरणं शोफो रक्तपीतश्च पैत्तिके||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तोल्बणे संज्ञानाशादयः स्युः|
Adhikarana श्लैष्मिकविषस्य लक्षणम् (१९) · Śloka १९
छर्द्यरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः| सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफाधिकं विषं छर्द्यादिभिर्जानीयात्|
Adhikarana वातिकविषे पिण्याकलेपादि (२०) · Śloka २०
पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके| स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातिके विषे पिण्याकेन व्रणलेपो योज्यः, तैलाभ्यङ्गश्च नाड्यादिभिश्च स्वेदो बृंहणश्च विधिः स्मृतः|
Adhikarana पैत्तिकविषे शीतलसेकादि (२१) · Śloka २१
पैत्तिकं स्तम्भयेत्सेकैः प्रदेहैश्चातिशीतलैः| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्ताधिकं विषं सेकादिभिरतिशिशिरैः स्तम्भयेत्|
Adhikarana श्लैष्मिकविषे लेखनादि (२१) · Śloka २१
| लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लैष्मिकं लेखनाद्यैर्जयेत्|
Adhikarana त्रिविधानां कीटानां यथादोषं चिकित्सा, स्वेदालेपनसेकाः प्रायः कोष्णाः कार्याः (२२-२३) · Śloka २३
कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता| स्वेदालेपनसेकांस्तु कोष्णान् प्रायोऽवचारयेत्||२२|| अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोऽथवा| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- कीटानां त्रिविधानां यथास्वं त्रिविधैव चिकित्सा हिता| स्वेदादींश्च प्रायेण कोष्णान् कुर्यात्| मूर्च्छितं नरं दंशपाकं च वर्जयित्वा तथा दंशकोथं च हित्वा|
Adhikarana सर्वस्य विषदंशस्य नृकेशादयो धूपनम् (२३-२४) · Śloka २४
| नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम्||२३|| विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्| |२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नरकचादयो धूपनं सर्वस्य विषदंशस्य परं हितमिति भगवान् काश्यपोऽवादीत्|
Adhikarana सर्वस्य सर्वो विषघ्नो विधिः संशोधनानि च (२४) · Śloka २४
| विषघ्नं च विधिं सर्वं कुर्यात्संशोधनानि च||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तथा विषघ्नं विधिं सकलं विदध्यात्| संशोधनानि च कुर्यात्|
Adhikarana विषोग्रकीटवृश्चिकदष्टेषु सर्पवत् साधनम् (२५) · Śloka २५
साधयेत्सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः| |२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- विषोग्रैः कीटवृश्चिकैर्दष्टान् सर्पवत्साधयेत्|
Adhikarana कीटविषेषु तन्दुलीयलादिपानम् (२५-२६) · Śloka २६
| तन्दुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेत्||२५|| याति कीटविषैः कम्पं न कैलास इवानिलैः| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिवृतां तन्दुलीयकसमां घृतेन नरः पिबेत्| एवं कीटविषैश्च कम्पं-क्षोभं, न याति| कैलास इव वायुभिः|
Adhikarana कीटविशेषु शुद्धे क्षीरिवृक्षत्वगालेपः (२६) · Śloka २६
| क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- शुद्धे सति क्षीरिवृक्षत्वगालेपः कीटविषघ्नः|
Adhikarana कीटविशेषु मुक्तालेपः शोफादिघ्नः (२७) · Śloka २७
मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्| |२७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- मौक्तिकलेपः श्रेष्ठः शोफादिघ्नः|
Adhikarana कीटविशेषु दशाङ्गागदपानम् (२७-२८) · Śloka २८
| वचा हिङ्गु विडङ्गानि सैन्धवं गजपिप्पली||२७|| पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्| दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- वचादिकदशद्रव्यनिर्मितत्वात् दशाङ्गमगदं काश्यपेन निर्मितं पीत्वा सर्वं कीटविषं हन्ति|
Adhikarana वृश्चिकदंशे चक्रतैलादिना सेचनम् (२९-३०) · Śloka ३०
सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्| विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा||२९|| लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः| सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृश्चिकोत्थं दंशं सद्य एव चक्रतैलेन सेचयेत्| शालिपर्णीसिद्धेन वा इतरेण-चक्रतैलेन, कोष्णेन वा सेचयेत्| सैन्धवान्वितेन वाऽऽज्येन मुहुर्मुहुः सिञ्चेत्| कवोष्णेन काञ्जिकेन दुग्धसैन्धवान्वितेन वा सिञ्चेत्|
Adhikarana वृश्चिकदंशे अजाजीकल्केनोपनाहः (३१) · Śloka ३१
उपनाहो घृते भृष्टः कल्कोऽजाज्याः ससैन्धवः| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
जीरककल्कः सैन्धवयुक्तो घृतेन भृष्ट उपनाहः स्यात्|
Adhikarana वृश्चिकदंशे स्वेदः प्रच्छानं रजन्यादि चूर्णैः प्रतिसारणं च (३१-३२) · Śloka ३२
| आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्||३१|| रजनीसैन्धवव्योषशिरीषफलपुष्पजैः| |३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आ- समन्ततो, दंशं स्वेदितं प्रच्छाय चूर्णै रजन्यादिजैर्घर्षयेत्|
Adhikarana वृश्चिकदंशे सुरसापुष्पादिलेपाः (३२-३३) · Śloka ३३
| मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्||३२|| लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वा| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बीजपूराम्लगोमूत्रपिष्टं सुरसापुष्पं लेपः स्यात्| तथा सुखोष्णः पिण्याको गोमयो वा लेपो हितः|
Adhikarana वृश्चिकदंशे घृतादिपानम् (३३) · Śloka ३३
| पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम्||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पाने हैयंगवीनं क्षौद्रयुक्तं, दुग्धं वा प्रभूतसितं, हितम्|
Adhikarana वृश्चिकदंशे पारापतशकृताद्यगदः (३४) · Śloka ३४
पारापतशकृत् पथ्या तगरं विश्वभेषजम्| बीजपूररसोन्मिश्रः परमो वृश्चिकागदः||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पारापतशकृतादिभिः फलपूररससंयुक्तः श्रेष्ठो वृश्चिकागदः|
Adhikarana वृश्चिकदंशे उष्ट्रदंष्ट्रादि (३५) · Śloka ३५
सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- करभदंष्ट्रा शैवालयुता वृश्चिकविषघ्नी| ["ससैन्धवोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्| मनोह्वा सैन्धवं हिङ्गु मालती पल्लवानि च|| गोशकृद्रसपिष्टेयं गुलिका वृश्चिकार्दिते| लशुनो मरिचं हिङ्गु सुरसं विश्वभेषजम्|| अर्कक्षीरेण गुटिका वृश्चिकार्दितशङ्करी|" वृद्धवाग्भटात् (सं. उ. अ. ४३)| ]
Adhikarana वृश्चिकदंशे हिंग्वादिगुटिका (३५-३६) · Śloka ३६
| हिङ्गुना हरितालेन मातुलुङ्गरसेन च||३५|| लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा| |३६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- हिङ्गुहरिताले सबीजपूररसे लेपाञ्जनाभ्यां गुलिका परं वृश्चिकविषहृत्|
Adhikarana वृश्चिकदंशे करञ्जादिपुष्पलेपः (३६-३७) · Śloka ३७
| करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च||३६|| शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्| |३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- करञ्जादीनां पुष्पाणि मस्तुना दंशलेपः|
Adhikarana वृश्चिकदंशे मोहादियुक्ते पथ्यादिलेपः (३७-३८) · Śloka ३८
| यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः||३७|| तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्| सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम्||३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यो नरो मुह्यत्यादीन् विधत्ते, तथा दारुणपीडः, तस्य पथ्यादिकं वार्ताकरसपिष्टं प्रलेपनं कार्यम्|
Adhikarana वृश्चिकदंशे सुदारुणे दधिसर्पिष्पानादिकम् (३९) · Śloka ३९
सर्वत्र चोग्रालिविषे पाययेद्दधिसर्पिषी| विध्येत्सिरां विदध्याच्च वमनाञ्जननावनम्| उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम्||३९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- सर्वस्मिन् सुदारुणे वृश्चिकविषे दधिसर्पिषी पाययेत्| सिरां च विध्येत्| वमनादिकं च कुर्यात्| उष्णगुणादिकं च भोजनं वातघ्नं हितम्|
Adhikarana वृश्चिकदंशे नागराद्यगदः (४०) · Śloka ४०
नागरं गृहकपोतपुरीषं बीजपूरकरसो हरितालम्| सैन्धवं च विनिहन्त्यगदोऽयं लेपतोऽलिकुलजं विषमाशु||४०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- नागरादिकमयमगदो लेपेन वृश्चिकविषं शीघ्रं पराकरोति| स्वागतावृत्तम्|
Adhikarana वृश्चिकदंशे समुदीर्णे विषे विषलेपः (४१) · Śloka ४१
अन्ते वृश्चिकदष्टानां समुदीर्णे भृषं विषे| विषेणालेपयेद्दंशमुच्चिटिङ्गेऽप्ययं विधिः||४१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-वृश्चिकदष्टानामन्ते भृशं समुदीर्णे विषे विषेण दंशमालेपयेत्| उच्चिटिङ्गसंज्ञेऽप्येषैव चिकित्सा|
Adhikarana वृश्चिकदंशे नागपुरीषच्छत्रादिगुटिका (४२) · Śloka ४२
नागपुरीषच्छत्रं रोहिषमूलं च शेलुतोयेन| कुर्याद्गुटिकां लेपादियमलिविषनाशनी श्रेष्ठा||४२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- गजपुरीषच्छत्रं कत्तृणमूलं च श्लेष्मातकजलेन गुटिकां विदधीत| एषा च लेपेन परं वृश्चिकविषघ्नी| [आर्या}
Adhikarana वृश्चिकदंशे शिरीषबीजाद्यगदः कीटादिविषघ्नः (४३) · Śloka ४३
अर्कस्य दुग्धेन शिरीषबीजं त्रिर्भावितं पिप्पलीचूर्णमिश्रम्| एषोऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरवृश्चिकानाम्||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- अर्कक्षीरेण शिरीषबीजं त्रीन् वारान् भावितं पिप्पलीरजोयुतमगदः कीटादीनां विषाणि हन्ति|
Adhikarana वृश्चिकदंशे शिरीषबीजाद्यगदो रात्रिकवृश्चिकविषघ्नः (४४) · Śloka ४४
शिरीषपुष्पं सकरञ्जबीजं काश्मीरजं कुष्ठमनःशिले च| एषोऽगदो रात्रिकवृश्चिकानां संक्रान्तिकारी कथितो जिनेन||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- शिरीषकुसुमादिकमेषोऽगदो रात्रिकवृश्चिकानां विषक्रान्तिकृद् भगवता जिनेनोक्तः| उपजातिवृत्ते|
Adhikarana लूतानां सङ्ख्याविषये मतानि तत्र हेतुश्च (४५-४६) · Śloka ४६
कीटेभ्यो दारुण्तरा लूताः षोडश ता जगुः| अष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः||४५|| सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः| बहूपद्रवरुपा तु लूतैकैव विषात्मिका||४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- कीटेभ्योऽपि घोरा लूताः| ताश्च मुनयः षोडशसंख्या अध्यगीषन्| अन्ये अष्टाविंशतिरुलूता इत्यवोचन्| ततोऽप्यपरे बहुतरा आचख्युः| अन्ये तु रवेरनुचराः सहस्रशो वदन्ति| इति नानामतमुक्त्वा स्वमतं युक्त्या सर्वमतानुग्राहि वक्ति| अनेकोपद्रवस्वभावत्वेनैकैव लूता विषात्मिका|
Adhikarana लूतानां दोषतो निरुपणम् (४७) · Śloka ४७
रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसङ्करात्| नास्ति स्थानव्यवस्था च दोषतोऽतः प्रचक्षते||४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नाम्ना यानि रूपाणि, तानि तस्या अतिसङ्कराद्धेतोर्दुर्ज्ञानानि| स्थानव्यवस्थाऽपि नास्ति| तस्माद्दोषवशेन भणिष्यते|
Adhikarana लूतानां साध्यासाध्यत्वम् (४८) · Śloka ४८
कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा| |४८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पृथग्दोषैर्लूता कृच्छ्रसाध्या, सन्निपातेन चासाध्या|
Adhikarana पैत्तिकस्य लूतादंशस्य लक्षणम् (४८-४९) · Śloka ४९
| तद्दंशः पैत्तिको दाहतृट्स्फोटज्वरमोहवान्||४८|| भृशोष्मा रक्तपीताभः क्लेदी द्राक्षाफलोपमः| |४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्या दंशः पैत्तिको दाहादिमान् भृशोष्मा पीतरक्ताभः क्लेदवान् द्राक्षाफलाकारः स्यात्|
Adhikarana श्लैष्मिकस्य लूतादंशस्य लक्षणम् (४९-५०) · Śloka ५०
| श्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः||४९|| निद्रां शीतज्वरं कासं कण्डूं च कुरुते भृशम्| |५०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- श्लैष्मिको लूतादंशः कठिनः पाण्डुवर्णः परूषकफलनिभो निद्रादीनतिशयेन करोति|
Adhikarana वातिकस्य लूतादंशस्य लक्षणम् (५०) · Śloka ५०
| वातिकः परुषः श्यावः पर्वभेदज्वरप्रदः||५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातिको दंशः परुषस्पर्शः स्यावस्तथा पर्वभेदज्वरकृत्|
Adhikarana दोषलिङ्गैर्यथास्वं तद्विभागः (५१) · Śloka ५१
तद्विभागं यथास्वं च दोषलिङ्गैर्विभावयेत्| |५१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तासां विभागं दोषाणां लक्षणैर्यथायोगं लक्षयेत्|
Adhikarana असाध्यलूतायाः लक्षणम् (५१-५४) · Śloka ५४
| असाध्यायां तु हृन्मोहश्वासहिध्माशिरोग्रहाः||५१|| श्वेतपीतासितारक्ताः पिटिकाः श्वयथूद्भवः| वेपथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता||५२|| श्यावौष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्| पक्वजम्बूसवर्णं च दंशात्स्रवति शोणितम्||५३|| सर्वाऽपि सर्वजा प्रायो व्यपदेशस्तु भूयसा| |५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आसाध्यायां लूतायां हृन्मोहाद्याः स्युः| श्वेतादिगुणाः पिटिकास्तथा श्वयथ्वाद्याश्च| दंशाद् रक्तं पक्वजम्बूनिभं स्रवति| सं-सर्वा च लूता त्रिदोषजैव| बाहुल्येन तु व्यपदेशः|
Adhikarana लूतायास्त्रिप्रकारत्वम् (५४-५५) · Śloka ५५
| तीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिता||५४|| सप्ताहेन दशाहेन पक्षेण च परं क्रमात्| |५५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सा च लूता तीक्ष्णादिभेदेन त्रिप्रकारा| उपेक्षिता च सती यथासङ्ख्यं दशाहेन पक्षेण च हन्ति|
Adhikarana सर्वस्य लूतादंशस्य लक्षणम् (५५-५८) · Śloka ५८
| लूतादंशश्च सर्वोऽपि दद्रुमण्डलसन्निभः||५५|| सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतः| मध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः||५६|| विसर्पवांस्छोफयुतस्तप्यते बहुवेदनः| ज्वराशुपाकविक्लेदकोथावदरणान्वितः||५७|| क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- सर्वश्च लूतादंशो दद्रुमण्डलाकारः सितादिवर्णो मृदुरुन्नतो मध्ये कृष्णवर्णः श्याववर्णो वा परितो जालकवृतो विसर्पादिमान् स्यात्| तथा तप्यतेऽनेकरुजः| तथा ज्वरादियुतः| तथा च दंशः क्लेदेन यद्यदङ्गं स्पृशेत् तत्र तत्र च व्रणं विदधाति|
Adhikarana लूतायाः श्वासादिभिर्विषोद्वमनम् (५८-५९) · Śloka ५९
| श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः||५८|| अष्टाभिरुद्वमत्येषा विषं वक्त्राद्विशेषतः| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्वासादिभिरष्टाभिरेषा लूता विषमुद्वमति| वक्त्रेण विशेषेण|
Adhikarana लूतायाः कीटानां च दंश स्थानम् (५९-६०) · Śloka ६०
| लूता नाभेर्दशत्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः||५९|| तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्| |६०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- नाभेरूर्ध्वं लूता दशति| ऊर्ध्वमधस्ताच्च कीटा दशन्ति| दशतीति "दंशसञ्जस्वञ्जां शपि" इति नलोपः| तया-लूतया दूषितं, वस्त्रासनादि शरीरे लग्नं विकारकृत्|
Adhikarana प्रथमेऽहनि लूतादंशस्य लक्षणम् (६०-६१) · Śloka ६१
| दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः||६०|| सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि| अव्यक्तवर्णः प्रचलः किञ्चित्कण्डूरुजान्वितः||६१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लूताविषजो दंशो दिनार्धं न लक्ष्यत एव| ततः-अनन्तरं, असौ-दंशः, प्रथमे दिने सूचीव्यधतुल्य आभाति| अव्यक्तवर्णः प्रकर्षेण चलो मनाक्कण्डूरुग्युतश्च|
Adhikarana द्वितीयेऽहनि लूतादंशस्य लक्षणम् (६२) · Śloka ६२
द्वितीयेऽभ्युन्नतोऽन्तेषु पिटिकैरिव वाऽऽचितः| व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः||६२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
द्वीतीयेऽहन्यभ्युन्नतोऽन्तेषु पिटिकैरिव वाऽऽचितो व्यक्तवर्णो मध्ये नतः सकण्डूर्ग्रन्थिनिभः|
Adhikarana तृतीयेऽहनि लूतादंशस्य लक्षणम् (६३) · Śloka ६३
तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः| शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः||६३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तृतीयेऽहनि ज्वरान्वितो रोमाञ्चकृद्रक्तमण्डलः शरावाकारोऽधिकव्यथो रोमकूपेषु स्राववान्|
Adhikarana चतुर्थेऽहनि लूतादंशस्य लक्षणम् (६४) · Śloka ६४
महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः| |६४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चतुर्थे वासरे महांश्छोफस्तापादिकृत्|
Adhikarana पञ्चमेऽहनि लूतादंशस्य लक्षणम् (६४) · Śloka ६४
| विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान्||६४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमे दिने तांस्तान्-पूर्वोक्तान्, विषकोपजान् विकारान् विधत्ते|
Adhikarana षष्ठेऽहनि लूतादंशस्य लक्षणम् (६५) · Śloka ६५
षष्ठे व्याप्नोति मर्माणि| |६५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-षष्ठे दिने मर्माण्यश्नुते|
Adhikarana सप्तमेऽहनि लूतादंशस्य लक्षणम् (६५) · Śloka ६५
सप्तमे हन्ति जीवितम्| |६५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सप्तमे दिवसे जीवितं हन्ति|
Adhikarana इति तीक्ष्णविषस्वरूपम् मध्यं हीनं चातो विभजेत् (६५) · Śloka ६५
| इति तीक्ष्णं विषं, मध्यं हीनं च विभजेदतः||६५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- इति-एवंरूपं, तीक्ष्णं विषम्| मध्यं हीनं वाऽतो निरूप्य लक्षयेत्|
Adhikarana एकविंशतिरात्रेण सर्वथा विषशमः (६६) · Śloka ६६
एकविंशतिरात्रेण विषं शाम्यति सर्वथा| |६६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-सर्वथा एकविंशतिरात्रेण विषं शमं याति|
Adhikarana लूतादंशस्योद्धरणं दाहश्च (६६-६७) · Śloka ६७
| अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत्||६६|| दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत्| |६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-अथेति मङ्गले| कृतमङ्गलस्य लूतादष्टस्य, आ-समन्तात्, दंशं क्षिप्रं शस्त्रेणोद्धरेत्| जाम्ब्वौष्ठादिभिश्च दहेत्, पित्ताधिकं वर्जयित्वा|
Adhikarana कर्कशादिदंशस्य छेददाह निषेधः (६७-६८) · Śloka ६८
| कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसंश्रितम्||६७|| प्रसृतं सर्वतो दंशं न छिन्दीत दहेन्न च| |६८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-कर्कशादिगुणं दंशं दंशं न छिन्द्यात् न च दहेत्|
Adhikarana दग्धदंशस्यागदैर्लेपः क्षीरिवृक्षकषायैः सेकश्च (६८-६९) · Śloka ६९
| लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः||६८|| सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः| |६९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दग्धं दंशमगदैर्माक्षिकसैन्धवान्वितैर्लेपयेत्| पश्चात् क्षीरिवृक्षजैः कषायैरतिशिशिरैः सेचयेच्च|
Adhikarana लूतादंशस्य सर्वतो रक्तापहरणं, ततः शीताः सेकलेपाः (६९-७०) · Śloka ७०
| सर्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयाऽपि वा||६९|| सेकलेपास्ततः शीता बोधिश्लेष्मातकाक्षकैः| |७०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- सर्वतो रक्तं विस्रावयेच्छृङ्गादिभिः| अनन्तरं सेकालेपाश्च शिशिरा हिताः पिप्पलादिभिः|
Adhikarana सर्वलूताकीटेषु पद्मकोऽगदः (७०-७१) · Śloka ७१
| फलिनीद्विनिशाक्षौद्रसर्पिर्भिः पद्मकाह्वयः||७०|| अशेषलूताकीटानामगदः सार्वकार्मिकः| |७१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-फलिन्यादिकोऽयं पद्मकसंज्ञोऽगदः सार्वकार्मिकः| अशेषक्रियासु(?) लूताकीटानां हितः|