Skip to content

३३. गुह्यरोगविज्ञानीयाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

Adhikarana गुह्यरोगविज्ञानीयाध्यायः - गुह्यरोगाणां निदानं सम्प्रात्पिस्त्रयोविंशतिविधत्वं च (२-५) · Śloka

अथातो गुह्यरोगविज्ञानीयं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| स्त्रीव्यवायनिवृत्तस्य सहसा भजतोऽथवा| दोषाध्युषितसङ्कीर्णमलिनाणुरजः पथाम्||१|| अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम्| दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा||२|| विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः| मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः||३|| वेगनिग्रहदीर्घातिखरस्पर्शविघट्टनैः| दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान्||४|| जनयन्त्युपदंशादीन्| |५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वनितासम्भोगान्निवृत्तस्य सहसा-अकस्मादेव, स्त्रीव्यवायं भजतः| केचित् करादिनैव व्यवायाभासं कुर्वन्ति तन्निवृत्त्यै स्त्रीग्रहणम्| अथवेति वक्ष्यमाणगुणां स्त्रियं सेवमानस्य| किम्भूताम् ? वाताद्यधिष्ठितस्तथा सङ्कीर्णः-सङ्कटो, मलिनोऽणुः-सूक्ष्मो, रजोमार्गो यस्यास्तां तथाविधां स्त्रियम्| तथाऽन्ययोनि-महिष्यादिम्| तथाऽनभिलषन्तीम्| तथाऽगम्यां-भगिन्यादिम्| तथा नवप्रसूताम्| तथा दूषितं सविषजन्त्वादिभिर्जलं स्पृशतो, रतान्तेष्वपि नैव वा जलं स्पृशतः| विवर्धयितुमिच्छया तीक्ष्णान् प्रलेपसेकादीन् वा प्रकृतत्वात् गुह्ये प्रयच्छतः| तथा मुष्ट्यादिपातनैस्तथा वेगरोधनेन तथा दीर्घातिखरस्पर्शनेन च यानि विघट्टनानि, तैरेव दोषा दुष्टा गुह्यं प्राप्तास्त्रयोविंशति वक्ष्यमाणान् उपदंशादीन् कुर्वन्ति|

Adhikarana १ उपदंशस्य पञ्चविधत्वम् (५) · Śloka

उपदंशोऽत्र पञ्चधा| पृथग्दोषैः सरुधिरैः समस्तैश्च|५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- अत्र-एषु मध्ये, उपदंशः पञ्चप्रकारः| कथम्? इत्याह-दोषैः पृथक् त्रयः, रक्तेन चतुर्थः, सन्निपातेन पञ्चमः|

Adhikarana १ वातजस्य उपदंशस्य लक्षणम् (५-६) · Śloka

| अत्र मारुतात्||५|| मेढ्रे शोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम्| |६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एषां मध्ये वातेनोपदंशे मेढ्रे शोफो भवति| दारुणाः पीडाः स्तम्भस्तथा त्वचः परिपोटनम्|

Adhikarana २ पित्तजस्य उपदंशस्य लक्षणम् (६) · Śloka

| पक्वोदुम्बरसङ्काशः पित्तेन श्वयथुर्ज्वरः||६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तेन श्वयथुः पक्वोदुम्बरफलनिभो ज्वरश्च स्यात्|

Adhikarana ३ कफजस्य उपदंशस्य लक्षणम् (७) · Śloka

श्लेष्मणा कठिनः स्निग्धः कण्डूमान् शीतलो गुरुः| |७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्लेष्मणा श्वयथुः कठिनादिगुणः स्यात्|

Adhikarana ४ रक्तजस्य उपदंशस्य लक्षणम् (७) · Śloka

| शोणितेनासितस्फोटसम्भवोऽस्रस्रुतिर्ज्वरः||७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लोहितेन कृष्णस्फोटसम्भवादयः स्युः|

Adhikarana ५ सर्वजस्य उपदंशस्य लक्षणम् (८) · Śloka

सर्वजे सर्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि| तीव्रा रुगाशुपचनं दरणं कृमिसम्भवः||८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- सर्वदोषजे सर्वलिङ्गत्वं श्वयथुश्च मुष्कयोः स्यात्| तीव्रा रुक् शीघ्रपाकादिश्च|

Adhikarana एतेषां साध्यासाध्यत्वम् (९) · Śloka

याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एतेषां मध्ये रक्तजो याप्यः| सन्निपातोत्थो मृत्युहेतुः|

Adhikarana २ अर्शसां लक्षणम् (९-११) · Śloka ११

| जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः||९|| अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः| पिच्छिलास्रस्रवा योनौ तद्वच्च च्छत्रसन्निभाः||१०|| तेऽर्शांस्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वं भगार्तवम्| |११|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-दोषैर्गुह्यरक्तमांसाश्रयैः क्रुद्धैर्मेढ्रस्यान्तर्बहिर्वा कण्डूला मांसकीलकाः-शङ्कवो, जायन्ते| तथा पिच्छिलरक्तस्राविणः| तथैव योनौ छत्रसदृशाः स्युः| ते मांसकीला अर्शांसि गद्यन्ते| उपेक्षिताश्च मेढ्रे जाताः पुंस्त्वं घ्नन्ति| भगे जाता आर्तवं घ्नन्ति|

Adhikarana ३ सर्षपिकानां लक्षणम् (११-१२) · Śloka १२

| गुह्यस्य बहिरन्तर्वा पिटिकाः कफरक्तजाः||११|| सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः| |१२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गुह्यस्य बाह्यतोऽन्तरे वा कफरक्तजाः पिटिकाः सर्षपप्रमणाः सर्षपाकारा घनाः सर्षपिकाः स्मृताः|

Adhikarana ४ अवमन्थस्य लक्षणम् (१२-१३) · Śloka १३

| पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः||१२|| सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान्| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पिटिका बहवो दीर्घा मध्ये च या दीर्यन्ते, सोऽवमन्थो वेदनारोमाञ्चवान् कफरक्ताभ्यां स्यात्|

Adhikarana ५ कुम्भीकायाः लक्षणम् (१३) · Śloka १३

| कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽऽशुजा||१३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-जाम्बवास्थिरूपा कुम्भीका रक्तपित्तोद्भवा शीघ्रोत्पत्तिश्च|

Adhikarana ६ अलज्याः लक्षणम् (१४) · Śloka १४

अलजीं मेहवद्विद्याद्| |१४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अलजीं प्रमेहे यथा, तथाऽस्मिन्नपि विद्यात्|

Adhikarana ७ उत्तमायाः लक्षणम् (१४) · Śloka १४

उत्तमां पित्तरक्तजाम्| पिटिकां माषमुद्गाभां|१४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उत्तमाख्यां पित्तरक्तजां मेढ्रपिटिकां माषसमां मुद्गाभां विद्यात्|

Adhikarana ८ पुष्करिकायाः लक्षणम् (१४-१५) · Śloka १५

| पिटिका पिटिकाचिता||१४|| कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा| |१५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- पिटिकाचिता या पिटिका स्यात्, तथा पद्मकर्णिकाकारा पुष्करकर्कटाभा, तां पुष्करिकेति विद्यात्|

Adhikarana ९ संव्यूढपिटिकायाः लक्षणम् (१५) · Śloka १५

| पाणिभ्यां भृशसंव्यूढे संव्यूढपिटिका भवेत्||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- हस्ताभ्यामतिशयेन संव्यूढे-घृष्टे सति, संव्यूढपिटिकाख्या स्यात्|

Adhikarana १० मृदितस्य लक्षणम् (१६) · Śloka १६

मृदितं मृदितं वस्त्रसंरब्धं वातकोपतः| |१६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मृदितं-मलितं, वस्त्रसंरब्धं-वाससा क्षोभितं, वातकोपान्मृदितं स्यात्|

Adhikarana ११ अष्ठीलिकायाः लक्षणम् (१६) · Śloka १६

| विषमा कठिना भुग्ना वायुनाऽष्ठीलिका स्मृता||१६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-या पिटिका विषमा समुन्नता तथा कठिना कुटिला च पवनेनाष्ठीलिका गदिता|

Adhikarana १२ निवृत्तस्य लक्षणम् (१७-१८) · Śloka १८

विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम्| निवर्तते सरुग्दाहं क्वचित्पाकं च गच्छति||१७|| पिण्डितं ग्रन्थितं चर्म तत्प्रलम्बमधो मणेः| निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत्||१८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वायुना विमर्दनादिदुष्टेन मेढ्रजं चर्म सरुग्दाहं निवर्तते| क्वचित्-कदाचित्, पाकमपि याति| तत्-चर्म, मणेरधः पिण्डितं ग्रन्थितं प्रलम्बं च स्यात्| तत्सकफं-कफेन तु सह, कण्डूकाठिन्ययुतं निवृत्तसंज्ञं स्यात्|

Adhikarana १३ अवपाटिकायाः लक्षणम् (१९) · Śloka १९

दुरुढं स्फुटितं चर्म निर्दिष्टमवपाटिका| |१९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कृच्छ्रेण रोहति यच्च दुःस्फुटितं चर्म, तत् कथितमवपाटिका|

Adhikarana १४ निरुद्धमणेः लक्षणम् (१९-२०) · Śloka २०

| वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत्||१९|| स्रोतो मूत्रं ततोऽभ्येति मन्दधारमवेदनम्| मणेर्विकाशरोधश्च स निरुद्धमणिर्गदः||२०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वातेन चर्म दूषितं मणौ सक्तं चेत् स्रोतो रुणद्धि| ततो मन्दधारमरुजं मूत्रमेति| मणेश्च विकाशरोधः| स एवं विधो रोगो निरुद्धमणिसंज्ञः|

Adhikarana १५ ग्रथितस्य लक्षणम् (२१) · Śloka २१

लिङ्गं शूकैरिवापूर्णं ग्रथिताख्यं कफोद्भवम्| |२१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लिङ्गं शूकैराकीर्णमिव स्यात्, तद् ग्रथितसंज्ञं कफजम्|

Adhikarana १६ स्पर्शहानेः लक्षणम् (२१) · Śloka २१

| शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया||२१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शूकदूषितरक्तोद्भवा स्पर्शहानिः, सा स्पर्शहानिसंज्ञा|

Adhikarana १७ शतपोनकस्य लक्षणम् (२२) · Śloka २२

छिद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितम्| वातशोणितकोपेन तं विद्याच्छतपोनकम्||२२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत्पुनर्मेढ्रं छिद्रैः सूक्ष्ममुखैः सर्वतः-परितः, चितं वातशोणितकोपात्, तं शतपोनकं विद्यात्|

Adhikarana १८ त्वक्पाकस्य लक्षणम् (२३) · Śloka २३

पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्| |२३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तरक्ताभ्यां त्वचः पाको ज्वरदाहान्वितस्त्वक्पाकाख्यः|

Adhikarana १९ मांसपाकस्य लक्षणम् (२३) · Śloka २३

| मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वदोषोत्थो मांस्पाकाख्यः सर्ववेदनो मांसशातनः|

Adhikarana २० रक्तार्बुदस्य लक्षणम् (२४) · Śloka २४

सरागैरसितैः स्फोटैः पिटिकाभिश्च पीडितम्| मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम्||२४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ईषल्लोहितैः कृष्णैः स्फोटैः पिटिकाभिश्च पीडितं लिङ्गं वेदनाश्च दारुणाः, तं-एवंविधं, रक्तार्बुदं जानीयात्|

Adhikarana २१ मांसार्बुदस्य लक्षणम् (२५) · Śloka २५

मांसार्बुदं प्रागुदितं| |२५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मांसार्बुदं पूर्वमुक्तं ग्रन्थ्यादिरोगविज्ञानीये(उ. अ.२९)| तच्च त्रिदोषजम्|

Adhikarana २२ विद्रधेः लक्षणम् (२५) · Śloka २५

विद्रधिश्च त्रिदोषजः| |२५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विद्रधिश्च त्रिदोषजः| स उक्तो विद्रध्यादिनिदाने (नि. अ. ११/९)|

Adhikarana २३ तिलकालकानां लक्षणम् (२५-२६) · Śloka २६

| कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः||२५|| पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान्| |२६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लिङ्गे कृष्णानि मांसानि भूत्वा परितो विशीर्यन्ते पक्वानि सन्निपातेन| तान्-एवंप्रकारान्, तिलकालकान् विद्यात्|

Adhikarana एतेषां साध्यासाध्यत्वम् (२६-२७) · Śloka २७

| मांसोत्थमर्बुदं पाकं विद्रधिं तिलकालकान्||२६|| चतुरो वर्जयेदेषां शेषांश्छीघ्रमुपाचरेत्| |२७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- एषां मध्ये मांसार्बुदादींश्चतुरस्त्यजेत्-नोपक्रमेत्| शेषान्-षोडश रोगान्, शीघ्रमुपक्रमेत्|

Adhikarana योनिव्यापदो विंशतिविधत्वम् (२७) · Śloka २७

| विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात्||२७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- योनेर्व्यापदो विंशतिर्दुष्टाहाराद्भवन्ति|

Adhikarana १ वातिक्याः लक्षणम् (२८-३१) · Śloka ३१

विषमस्थाङ्गशयनभृशमैथुनसेवनैः| दुष्टार्तवादपद्रव्यैर्बीजदोषेण दैवतः||२८|| योनौ क्रुद्धोऽनिलः कुर्याद् रुक्तोदायामसुप्तताः| पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम्||२९|| फेनिलारुणकृष्णाल्पतनुरूक्षार्तवस्त्रुतिम्| स्रसं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च||३०|| तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता| |३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- विषमस्थाङ्गशयनादिभिर्योनौ पवनः कुपितो रुजादीन् कुर्यात्| तथा पिपीलिकोपसर्पणमिव स्तम्भं कर्कशतां स्वनं, तथा फेनिलादिगुणार्तवस्रुतिं, तथा वङ्क्षणादौ भ्रंशं रुजां, क्रमेण च गुल्मं कुर्यात्| तंस्तांश्च-अनेकविधान्, रोगन् कुर्यात्| सा-एवंविधा, व्यापत् वातिकी स्मृता|

Adhikarana २ अतिचरणायाः लक्षणम् (३१) · Śloka ३१

| सैवातिचरणा शोफसंयुक्ताऽतिव्यवायतः||३१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सैवातिचरणा श्वयथुयुताऽतिव्यवायात् स्यात्|

Adhikarana ३ प्राक्चरणायाः लक्षणम् (३२) · Śloka ३२

मैथुनादतिबालायाः पृष्ठजङ्गोरुवङ्क्षणम्| रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सा||३२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- मैथुनादतिबालायाः पवनः पृष्ठजङ्घोरुवङ्क्षणं पीडयन् योनिं सन्दूषयेत्| प्राक्चरणेति सा स्यात्|

Adhikarana ४ उदावृत्तायाः लक्षणम् (३३-३४) · Śloka ३४

वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः| सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति||३३|| इयं व्यापदुदावृत्ता| |३४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वेगोदावर्तनेन मारुतो योनिं प्रकर्षेण पीडयति| ततः सा-योनिः, फेनिलं रजः कृच्छ्रादुदावृत्तं विसृजति| एषा व्यापदुदावृत्ताख्या|

Adhikarana ५ जातघ्न्याः लक्षणम् (३४) · Śloka ३४

जातघ्नी तु यदाऽनिलः| जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम्||३४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- यदा तु वायुः सुतमुत्पन्नमुत्पन्नं रौक्ष्याद्दुष्टार्तवजं हन्ति, तदा जातघ्नी स्यात्|

Adhikarana ६ अन्तर्मुख्याः लक्षणम् (३५-३६) · Śloka ३६

अत्याशिताया विषमं स्थितायाः सुरते मरुत्| अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत्||३५|| सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा| |३६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिसुहिताया विषमं स्थिताया निधुवने पवनोऽन्नेनोत्पीडितो योनेः सम्बन्धिनि स्रोतसि स्थितो मुखं योनेरेव वक्रीकुर्यात्, अस्थिमांसेन सह दारुणपीडं, साऽन्तर्मुखीत्युच्यते|

Adhikarana ७ सूचीमुख्याः लक्षणम् (३६-३७) · Śloka ३७

| वातलाहारसेविन्यां जनन्यां कुपितोऽनिलः||३६|| स्त्रियो योनिमणुद्वारां कुर्यात्सूचीमुखीति सा| |३७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वातलाहारसेविन्यां मातरि वायुः कुपितः स्त्रियो गर्भस्थायाः सूक्ष्मद्वारां योनि कुर्यात्| सूचीमुखी सा स्यात्|

Adhikarana ८ शुष्काख्यायाः लक्षणम् (३७-३८) · Śloka ३८

| वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसङ्ग्रहम्||३७|| करोति योनेः शोषं च शुष्काख्या साऽतिवेदना| |३८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ऋतौ वेगधारणाद्वायुर्दुष्टो विण्मूत्रसङ्ग्रहं करोति| योनेः शोषं च करोति| सा शुष्कसंज्ञाऽतिरुजा स्यात्|

Adhikarana ९ वामिन्याः लक्षणम् (३८-३९) · Śloka ३९

| षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत्||३८|| वमेत्सरुङ् नीरुजो वा यस्याः सा वामिनी मता| |३९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-षडहेनाथवा सप्ताहेन गर्भाशयाद्वायुः सरुजो नीरुजो वा यस्याः शुक्रं वमेत्, सा वामिनी गदिता|

Adhikarana १० षण्ढायाः लक्षणम् (३९-४०) · Śloka ४०

| योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः||३९|| मृद्वेषिण्यस्तनी च स्यात् षण्ढसंज्ञाऽनुपक्रमा| |४०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातोपतप्तायां योनौ स्त्रीगर्भे बीजदोषान्नरद्वेषिणी स्तनरहिता च स्त्री स्यात्| स षण्ढसंज्ञाऽनुपक्रमा|

Adhikarana ११ महायोन्याः लक्षणम् (४०-४१) · Śloka ४१

| दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः||४०|| कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम्| उत्सन्नमांसां तामाहुर्महायोनिं महारुजाम्||४१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पवनो दुष्टो योन्यास्यं विष्टभ्य गर्भकोष्ठं च विवृतमुखीं भ्रष्टां वातिकीमिव सुदुःखामुत्सृष्टपिशितां प्रकृतत्वाद्योनिं कुरुते| तां महारुजां महायोनिं वदन्ति|

Adhikarana १२ पैत्तिक्याः लक्षणम् (४२-४३) · Śloka ४३

यथास्वैर्दूषणैर्दुष्टं पित्तं योनिमुपाश्रितम्| करोति दाहपाकोषापूतिगन्धिज्वरान्विताम्||४२|| भृशोष्णभूरिकुणपनीलपीतासितार्तवाम्| सा व्यापत् पैत्तिकी|४३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यथायोगं दूषणैः-सर्वरोगनिदानाद्युक्तैः, दुष्टं पित्तं योनौ स्थितं योनिं दाहाद्यन्वितां करोति, तथा भृशोष्णादिगुणयुतार्तवाम्| सा पैत्तिकी व्यापत्|

Adhikarana १३ रक्तयोन्याः लक्षणम् (४३) · Śloka ४३

| रक्तयोन्याख्याऽसृगतिस्रुतेः||४३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तयोन्याख्या रक्तस्यातिस्रुतेः स्यात्|

Adhikarana १४ श्लैष्मिक्यायाः लक्षणम् (४४-४५) · Śloka ४५

कफोऽभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम्| शीतलां कण्डुलां पाण्डुपिच्छिलां तद्विधस्रुतिम्||४४|| सा व्यापच्छ्लैष्मिकी| |४५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- श्लेष्माऽभिष्यन्दकरणहेतुभिः कुपितो योनिं पीडारहितां शीतलादिगुणां तथा तद्विधा-पाण्डुपिच्छिला, स्रुतिर्यस्यास्तां तथाविधां कुर्यात्| सा-एवंविधा, व्यापत् श्लैष्मिकी स्यात्|

Adhikarana १५ लोहितक्षयायाः लक्षणम् (४५) · Śloka ४५

वातपित्ताभ्यां क्षीयते रजः| सदाहकार्श्यवैवर्ण्यं यस्याः सा लोहितक्षया||४५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यस्याः वातपित्ताभ्यां रजः क्षीयते दाहकार्श्यवैवर्ण्ययुतं, सा लोहितक्षयाख्या|

Adhikarana १६ परिप्लुतायाः लक्षणम् (४६-४८) · Śloka ४८

पित्तलाया नृसंवासे क्षवथूद्गारधारणात्| पित्तयुक्तेन मरुता योनिर्भवति दूषिता||४६|| शूना स्पर्शासहा सार्तिर्नीलपीतास्रवाहिनी| बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी||४७|| श्रोणिवङ्क्षणरुक्तोदज्वरकृत् सा परिप्लुता| |४८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- पित्तलायाः स्त्रिया नरसंयोगे क्षवथूद्गारधारणात् पित्तान्वितेन वायुना योनिर्दूषिता शूनादिगुणा बस्त्यादिगुरुत्वादिविधायिनी तथा श्रोण्यादितोदकरी स्यात्| सा परिप्लुताख्या|

Adhikarana १७ उपप्लुतायाः लक्षणम् (४८-४९) · Śloka ४९

| वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी||४८|| उपप्लुता स्मृता योनिः| |४९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- वातश्लेष्मरोगेण व्याप्ता शुक्लपिच्छिलस्राविणी योनिरुपप्लुता स्यात्|

Adhikarana १८ विप्लुतायाः लक्षणम् (४९) · Śloka ४९

विप्लुताख्या त्वधावनात्| सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया||४९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- अक्षालनात्तु योनिः सम्भूतकृमिः कण्डूयुता, कण्ड्वा च हेतुना सुतरां सुरताभिलाषिणी विप्लुताख्या|

Adhikarana १९ कर्णिन्याः लक्षणम् (५०-५१) · Śloka ५१

अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः| कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम्||५०|| सा कर्णिनी| |५१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मरुदकालवाहनात् कफरक्तमिश्रितो योनौ कर्णिकां रजोमार्गनिरोधिनीं कुर्यात्| सा कर्णिनी गद्यते|

Adhikarana २० सान्निपातिक्याः लक्षणम् (५१) · Śloka ५१

त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः| यथास्वोपद्रवकरैर्व्यापत्सा सान्निपातिकी||५१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैर्यथायोगमुपद्रवकारिभिर्या व्यापत् सा सान्निपातिकी स्यात्|

Adhikarana इति योनिरोगाः यैः शुक्रं नेच्छति, गर्भं न गृह्णाति असृग्दरादि रोगांश्च प्राप्नोति (३३) · Śloka ३३

इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति| ततो गर्भं न गृह्णाति रोगांश्चाप्नोति दारुणान्||५२|| असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः| ५२ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने गुह्यरोगविज्ञानीयो नाम त्रयस्त्रिंशोऽध्यायः||३३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- इति- समाप्तौ| एवं योनिरोगाः 'कथिताः' इति शेषः| यैरामयैर्योनिः शुक्रं न प्रतीच्छति| ततो गर्भं नादत्ते| रोगांश्च दारुणानसृग्दरादीनश्रुते| वातपित्तकफैश्चाबाधान्-पीडाविशेषान्, प्राप्नोति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने गुह्यरोगविज्ञानीयो नाम त्रयास्त्रिंशोऽध्यायः समाप्तः|| ३३||