Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ग्रन्थ्यादिविज्ञानमुच्यते-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ग्रन्थ्यादिविज्ञानमुच्यते-
Adhikarana ग्रन्थ्यर्बुश्लीदापचीनाडीविज्ञानीयाध्यायः ग्रन्थेः सम्प्राप्तिर्निरुक्तिश्च (२-१) · Śloka १
अथातो ग्रथ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) कफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाः| वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मेदोमांसरक्तस्थिताः कफप्रधाना दोषा वृत्तोन्नतं यं श्वयथुं, कुर्वन्ति, स ग्रथनाद् ग्रन्थिः स्मृतः|
Adhikarana ग्रन्थेः नवविधत्वम् (२) · Śloka २
दोषास्रमांसमेदोस्थिसिराव्रणभवा नव| ते|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ते च-ग्रन्थयो, दोषाद्यात्मकत्वात् नवसङ्ख्याः स्युः|
Adhikarana १ वातजस्य ग्रन्थेर्लक्षणम् (२-३) · Śloka ३
| तत्र वातादायामतोदम्भेदान्वितोऽसितः||२|| स्थानात्स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्| मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छं स्रवत्यसृक्||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तेषु मध्ये वातादायामादिगुणः श्वयथुः स्यात्| स च विभिन्नो लोहितमच्छं स्रवति|
Adhikarana २ पित्तजस्य ग्रन्थेर्लक्षणम् (४) · Śloka ४
पित्तात्सदाहः पीताभो रक्तो वा, पच्यते द्रुतम्| भिन्नोऽस्रमुष्णं स्रवति|४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पित्तेन दाहयुतः पीतच्छविरथवा रक्तः| शोफः शीघ्रं पच्यते| भिन्नः स उष्णमसृक् स्रवति|
Adhikarana ३ कफजस्य ग्रन्थेर्लक्षणम् (४-५) · Śloka ५
| श्लेष्मणा नीरुजो घनः||४|| शीतः सवर्णः कण्डूमान्, पक्वः पूयं स्रवेद्घनम्| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-कफेन नीरुजो घनः शोफः शीतस्पर्शः शरीरसमानवर्णः कण्डूयुतश्च स्यात्| स पक्वः पूयं घनं स्रवेत्|
Adhikarana ४ रक्तजस्य ग्रन्थेर्लक्षणम् (५-६) · Śloka ६
| दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु||५|| सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणः| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-दोषैर्दुष्टे लोहिते सति ग्रन्थिर्भवेत्| जन्तुषु-कृमिषु, वृद्धिं गच्छत्सु सिरामांसं च संश्रित्य स्वापान्वितः शोफः पित्तसमानलक्षणः स्यात्|
Adhikarana ५ मांसजस्य ग्रन्थेर्लक्षणम् (६-७) · Śloka ७
| मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्||६|| स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मांसलैराहारैर्मांसं दूषितं ग्रन्थि स्निग्धादिगुणयुक्तं कफाकारं करोति|
Adhikarana ६ मोदोजस्य ग्रन्थेर्लक्षणम् (७-९) · Śloka ९
| प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि||७|| वायुना कुरुते ग्रन्थि भृशं स्निग्धं मृदुं चलम्| श्लेषमतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्||८|| स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मेदुरैर्भोजनैर्मेदः प्रवृद्धं वायुना मांसे नीतमथवा त्वचि नीतं मेदोग्रन्थिं भृशं स्निग्धादिगुणं श्लेष्मसमानाकारं तथा शरीरक्षयवृद्धिभ्यां क्षयोदयौ यस्य तं तादृशं करोति| स च ग्रन्थिभिन्नः सन् घनं ताम्रमसितं सितं च मेदः स्रवति|
Adhikarana ७ अस्थिजस्य ग्रन्थेर्लक्षणम् (९-१०) · Śloka १०
| अस्थिभाङ्गाभिघाताभ्यामुन्नतावनतं तु यत्||९|| सोऽस्थिग्रन्थिः| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-अस्थिभाङ्गेनाभिघातेन वाऽस्थ्न्युन्नतमवनतं वा यत् स्यात्, सोऽस्थिग्रन्थिः |
Adhikarana ८ सिराजस्य ग्रन्थेर्लक्षणम् (१०-११) · Śloka ११
पदातेस्तु सहसाऽम्भोवगाहनात्| व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्||१०|| वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च| निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पदातेः सहसैव जलावगाहाद् व्यायामाद्वा प्रतान्तस्यग्लानस्य, पवनः क्रुद्धः सरक्तं सिराजालं सम्पीड्य तथा सङ्कोच्य वक्रीकृत्य विशोष्य च निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिरासंज्ञः| निःष्फुरमिति "स्फुरतिस्फुलत्योः" इत्यादिना षत्वम्|
Adhikarana ९ व्रणजस्य ग्रन्थेर्लक्षणम् (१२-१३) · Śloka १३
अरुढे रूढमात्रे वा व्रणे सर्वरसाशिनः| सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा||१२|| वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्| कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः||१३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-अरुढे व्रणे तथा रूढमात्रे-सद्योरूढे व्रणे, सर्वरसाशिनो नरस्याथवा सार्द्रे व्रणे बन्धरहिते शरीरेऽश्माभिहते वा वातो रक्तमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणं कुर्यात्| दाहादियुत एष व्रणग्रन्थिः स्मृतो मुनिभिः|
Adhikarana एतेषां साध्यासाध्यत्वम् (१४) · Śloka १४
साध्या दोषास्रमेदोजाः, न तु स्थूलखराश्चलाः| मर्मकण्ठोदरस्थाश्च|१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-दोषास्रमेदोजा ग्रन्थयः साध्याः| न पुनः स्थूलाः खराश्चलास्तथा मर्मस्थाः कण्ठस्था उदरस्थाश्च ग्रन्थयः साध्याः |
Adhikarana अर्बुदस्य ग्रन्थितो महत्वम्,अर्बुद षडूविधत्वम्,अर्बुदं प्रायो न पच्यते, (१४-१५) · Śloka १५
| महत्तु ग्रन्थितोऽर्बुदम्||१४|| तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्| प्रायो मेदः कफाढ्यत्वास्थिरत्वाच्च न पच्यते||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ग्रन्थेर्यन्महत् तदर्बुदम्| तस्य चार्बुदस्य लक्षणं षट् प्रकारम्| कथम् ? दोषैस्त्रीणि, रक्तमांसमेदोभिस्त्रीणीति| तच्च-अर्बुदं, मेदःकफबाहुल्यात् स्थिरत्वाच्च प्रायः पचनं न याति|
Adhikarana १/२/३/४/५/ वातजपित्तजकफजमांसजमेदोजानाम्र्बुदानां लक्षणं तत्तद्रन्थिलक्षण तुल्यंज्ञेयम्,६ शोणितार्बुदस्य लक्षणम् (१६-१७) · Śloka १७
सिरास्थं शोणितं दोषः सङ्कोच्यान्तः प्रपीड्य च| पाचयेत तदानद्धं सास्रावं मांसपिण्डितम्||१६|| मांसाङ्कुरैश्चितं याति वृद्धि चाशु स्रवेत्ततः| अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम्||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-सिरास्थितं रक्तं दोषो-वाताद्यन्यतमः, सङ्कोच्यान्तः अभ्यन्तरे, च प्रपीड्य पाचयेत्| तत्पक्वं च सदानद्धं सास्रावं मांसपिण्डितं मांसाङ्कुरैश्चितं वृद्धिं गच्छति| वृद्धं च सदाशु सततं दुष्टं रुधिरं प्रभूतं स्रवति| तत्-एवंविधं, शोणितार्बुदं गद्यते| मांसार्बुदमेदोर्बुदयोश्च लक्षणं तद्ग्रन्थिलक्षणेनैवोक्तप्रायत्वान्नेहोक्तम्|
Adhikarana अर्बुदानां साध्यासाध्यत्वम् (१८) · Śloka १८
तेष्वसृङ्मांसजे वर्ज्ये, चत्वार्यन्यानि साधयेत्| |१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तेषु-षट्स्वर्बुदेषु मध्ये,शोणितमांसजे द्वे अर्बुदे नोपक्रमेत्| अपराणि चत्वारि साधयेत्|
Adhikarana श्लीपदस्य सम्प्रात्पित्लक्षणं च (१८-१९) · Śloka १९
| प्रस्थिता वङ्क्षणोओर्वादिमधःकायं कफोल्बणाः||१८|| दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते| शनैःशनैर्घनं शोफं श्लीपदं तत्प्रचक्षते||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-अधःकायं वङ्क्षणोरुप्रभृति दोषा गताः कफोल्बणा मांसलोहितगाः कालेन पादौ समाश्रित्य निबिडं श्वयथुं शनैःशनैर्विदधति| तदेतद्छ्लीपदं प्रचक्षते |
Adhikarana वातजस्य श्लीपदस्य लक्षणम् (२०) · Śloka २०
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्| रूक्षं च वातात्|२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-श्लीपदं वातात् परिपोटेन युक्तं कृष्णवर्णमहेतुपीडं खरं रूक्षं च स्यात्|
Adhikarana पित्तजस्य श्लीपदस्य लक्षणम् (२०) · Śloka २०
| पित्तात्तु पीतं दाहज्वरान्वितम्||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पित्तात् पीतं दाहज्वरयुतं च स्यात्|
Adhikarana कफजस्य श्लीपदस्य लक्षणम् (२१) · Śloka २१
| कफाद्गुरु स्निग्धमरुक् चितं मांसाङ्कुरैर्बृहत्|२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-कफेन गुरु स्निग्धं रुजारहितं मांसाङ्कुरैश्चितं महच्च स्यात्|
Adhikarana श्लीपदस्य साध्यासाध्यत्वम् (२१) · Śloka २१
| तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तत्-श्लीपदं, वर्षातिक्रान्तं सुमहत् सुपरिस्रावं च त्यजेत्|
Adhikarana पाण्यादिष्वपि श्लीपदमित्येके (२२) · Śloka २२
पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत्| श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम्||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पाण्यादिष्वपि पादवच्छ्लीपदं जायत इत्येके वदन्ति| तच्चानूपदेशेऽतिशयेन रोगस्वभावाज्जायते|
Adhikarana गण्डमालायाः सम्प्रात्पिर्लक्षणं च (२३-२५) · Śloka २५
मेदस्थाः कण्ठमन्याक्षकक्षावङ्क्षणगा मलाः| सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्||२३|| अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते| पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः||२४|| नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः| गण्डमालाऽपची चेयं दूर्वेव क्षयवृद्धिभाक्|२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मेदस्थाः कण्ठादिगा दोषाः सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकारानवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते| ते च-गण्डाः स्तोकपीडाः पच्यन्ते| अन्ये च स्रवन्ति| अपरे चातिकण्डुराः, कण्डुं रान्ति ददत इति कण्डुराः| नश्यन्त्यन्ये| अन्ये जायन्ते दीर्घकालानुबन्धिनः| इयं-ईदृशी, गण्डमाला अपची चोच्यते| दूर्वेव क्षयवृद्धिभाक्|
Adhikarana गण्डा असाध्यलक्षणम् (२५) · Śloka २५
तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्| ||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तां-गण्डमालां, ज्वरादियुतां त्यजेत्| अथ नाडीविज्ञानमाह--
Adhikarana नाड्याः सम्प्रात्पिर्लक्षणं च (२६-२८) · Śloka २८
| अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः||२६|| अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति| गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः||२७|| नाड्येकाऽनृजुरन्येषां सैवानेकगतिर्गतिः| |२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शाम्-पक्वशोफस्याभेदनादपथ्यसेविनश्च पुंसो व्रणे पूयो मांसादीननुप्रविश्य दूरं व्रजति| सा दूरगमनात् गतिरित्युच्यते| नाडीव संस्रुतेर्नाडीत्युच्यते| अन्येषां तु तन्त्रकृतां मत एका नाड्यनृजुः-वक्रा, नाडीत्युच्यते| सैव नाड्यनेकगतिर्गतिरित्युच्यत इति |
Adhikarana नाड्चा पञ्चविधत्वम् (२८) · Śloka २८
| सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-सा-नाडी, पृथग्दोषैस्त्रिसङ्ख्या, सन्निपातेन चतुर्थी, पञ्चमी शल्यहेतुः |
Adhikarana १ वातजाया नाड्याः लक्षणम् (२९) · Śloka २९
वातात् सरुक्सूक्ष्ममूखी विवर्णा फेनिलोद्वमा| स्रवत्यभ्यधिकं रात्रौ|२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-वातात् सरुजादिगुणा|
Adhikarana २ पित्तजायाः नाड्याः लक्षणम् (२९-३०) · Śloka ३०
| पित्तात्तृड्ज्वरदाहकृत्||२९|| पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पित्तात्तृडादिकृत्| पीतोष्णपूतिपूयस्रावी| दिवसे चातिशयेन स्रवति |
Adhikarana ३ कफजायाः नाड्याः लक्षणम्य् (३०-३१) · Śloka ३१
| घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्|३०| निशि चाभ्यधिकक्लेदा| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-कफात् ग़नपिच्छिलस्रावा कण्डूमती कठिना निशिचाभ्यधिक्लेदा स्यात्|
Adhikarana ३ कफजायाः नाड्याः लक्षणम्य् (३०-३१) · Śloka ३१
| घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्||३०|| निशि चाभ्यधिकक्लेदा| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-कफात् ग़नपिच्छिलस्रावा कण्डूमती कठिना निशिचाभ्यधिक्लेदा स्यात्|
Adhikarana ५ शल्यजायाः नाड्याः लक्षणम् (२९) · Śloka २९
अन्तःस्थितं शल्यमनाहृतं तु करोति नाडीं वहते च साऽस्य| फेनानुविद्धं तनुमल्पमुष्णं सास्रं च पूयं सरुजं च नित्यम्||३१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामैकोनत्रिंशोऽध्यायः||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-अन्तरे स्थितं शल्यमनाकृष्टं सन्नाडीं करोति| अस्य च-शल्यवतः पुंसः, सा-नाडी, फेनिलं तन्वादिगुणं च पूयं नित्यमेव सरुजं वहत इति| उपजातिवृत्तम्| इति श्रीम्ऱृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने ग्रन्थ्य र्बुदश्लीपदापचीनाडीविज्ञानीयं नाम एकोनत्रिं- शोऽध्यायः समाप्तः|| २९||