Adhikarana भूतप्रतिषेधाध्यायः||५| (२-३) · Śloka ३
अथातो भूतप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रयादयो महर्षयः|
(गद्यसूत्रे||२||
)||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
भूतग्रहविज्ञानादनन्तरं भूतस्य प्रतिषेधं-चिकित्सितं, उच्यते| ननु, निदानचिकित्सितपदाभ्यां प्रसिद्धतराभ्यां पूर्ववत्किमितीदं तन्त्रकृता नोपनिबद्धम् ? इति केचिच्चोद्यमचूचुदन्| तान् सञ्चक्ष्महे| शास्त्रकारस्यास्येदृशी प्रतिज्ञा,-सूत्रशारीरनिदान चिकित्सितकल्पोत्तराख्यैः षड्भिः स्थानैस्तन्त्रमिदमभिधेयमिति| तदेवं यद्युत्तरे स्थानेऽपि किञ्चिन्निदानचिकित्सितपदाभ्यामभिधीयते, ततः षट्स्थानकमिदं तन्त्रमिति प्रतिज्ञां व्याहन्यात्| तस्मादयं विरचनाप्रकारविशेषः कृतः|
Adhikarana अहिंसेच्छं भूतं जपादिभिर्जयेत् (१) · Śloka १
भूतं जयेदहिंसेच्छं जपहोमबलिव्रतैः|
तपःशीलसमाधानदानज्ञानदयादिभिः||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अहिंसाकामं भूतं जपादिभिर्जयेत्|
Adhikarana सर्वग्रहनाशकं हिंग्वादि घृतं तैलं वा (२-८) · Śloka ८
हिङ्गुव्योषालनेपालीलशुनार्कजटाजटाः|
अजलोमी सगोलोमी भूतकेशी वचा लता||२||
कुक्कुटी सर्पगन्धाख्या तिलाः काणविकाणिके|
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्यपि||३||
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्|
खराश्वश्वाविदुष्ट्रर्क्षगोधानकुलशल्यकात्||४||
द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्त्वतः|
चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद्घृतम्||५||
पुराणमथवा तैलं नवं तत्पाननस्ययोः|
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने||६||
एभिश्च गुटिकां युञ्ज्यादञ्जने सावपीडने|
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने||७||
प्रयोगोऽयं ग्रहोन्मादान् सापस्माराञ्शमं नयेत्|
|८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हिङ्ग्वादय औषधम्| आलं-हरितालम्| नेपाली- कस्तूरिका| जटा-जटामांसी| अजलोमी-श्वेतदूर्वा| गोलोमी-दूर्वा| लता-प्रियङ्गुः| कुक्कुटी-शितिवारकः| सर्पगन्धाख्या-नाकुली| काणविषा(का)णिके-काकोलीक्षीरकाकोल्यौ| शृङ्गी-अतिविषा| मोहनवल्ली-वन्दाकः| अन्यदपि रक्षोघ्नं गुग्गुल्वादिकमौषधम्| तथा गर्दभतुरङ्गादिभ्यश्चर्मादयः| सामुद्रसत्त्वतो-जलधिजन्तोः| तदेतस्मिन् हिङ्ग्वादिवर्गे, घृतं पुराणमथवा नवं तैलं पचेत्-साधयेत्| तच्च-घृतं तैलं वा, सिद्धं पाने नस्येऽभ्यङ्गे च प्रयोज्यम्| एषां द्रव्याणां च चूर्णं धूपने प्रयोज्यम्| एभिश्चूर्णैर्गुटिकामञ्जनेऽवपीडने च युञ्ज्यात्| एतेषां च द्रव्याणां कल्कं प्रलेपे क्वाथं परिषेचने च युञ्ज्यात्| अयं प्रयोगो ग्रहादीन् शमयेत्|
Adhikarana सर्वग्रहनाशकं गजाह्वादिकल्कः (८-९) · Śloka ९
|
गजाह्वापिप्पलीमूलव्योषामलकसर्षपान्||८||
गोधानकुलमार्जारझषपित्तप्रपेषितान्|
नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान्||९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हस्तिपिप्पल्यादीनि(न्) गोधादिपित्तपिष्टानि(न्) नस्याभ्यङ्गसेकेषु ग्रहापहान् कुर्यात्| मूलं-पुष्करमूलम्| झषो जलचरभेदः|
Adhikarana सर्वग्रहनाशकं सिद्धार्थकं घृतम् (१०-१३) · Śloka १३
सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम्|
मञ्जिष्ठा श्वेतकटभी वरा श्वेताऽद्रिकर्णिका||१०||
निम्बस्य पत्रं बीजं तु नक्तमालशिरीषयोः|
सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे||११||
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्|
ग्रहान् सर्वान्निहन्त्याशु विशेषादासुरान् ग्रहान्||१२||
कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्म च|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्षपादि गोमूत्रे चतुर्गुणे सर्पिः सिद्धं सिद्धार्थकसंज्ञं पाने नस्ये च योजितं सर्वान् ग्रहान् द्राक् नाशयति| विशेषेणासुरग्रहान् कृत्यादींश्च| श्वेतकटभी-श्वेतगुञ्जा| श्वेताऽद्रिकर्णिका-शुक्ला गिरिकर्णिका|
Adhikarana सर्वग्रहनाशकं अगदः (१३-१४) · Śloka १४
|
एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः||१३||
पाननस्याञ्जनालेपस्नानोद्धर्षणयोजितः|
गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत्||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एभिरेव द्रव्यैश्छागमूत्रेण कल्पितोऽगदः पानादिषु योजितो गुणैः पूर्वेण तुल्य उक्तो राजद्वारे च सिद्धिकरः स्यात्|
Adhikarana सर्वग्रहनाशकं सिद्धार्थकादिगुडाः (१५-१७) · Śloka १७
सिद्धार्थकव्योषवचाश्वगन्धा- निशाद्वयं हिङ्गुपलाण्डुकन्दः|
बीजं करञ्जात्, कुसुमं शिरीषात् फलं च वल्कं च कपित्थवृक्षात्||१५||
समाणिमन्थं सनतं सकुष्ठं स्योनाकमूलं किणिही सिता च|
बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात्||१६||
दुष्टव्रणोन्मादतमोनिशान्धा- नुद्बन्धकान् वारिनिमग्नदेहान्|
दिग्धाहतान् दर्पितसर्पदष्टां- स्ते साधयन्त्यञ्जननस्यलेपैः||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिद्धार्थकादि बस्तमूत्रेण सुभावितं गव्येन पित्तेन गुडान्-गुडकान्, कुर्यात्| ते च-गुडकाः, अञ्जननस्यलेपैर्दुष्टव्रणादीन् साधयन्ति| उपजातिवृत्ते इन्द्रवज्रा च|
Adhikarana स्कन्दादिग्रहनाशकं कार्पासास्थ्यादिधूपनम् (१८) · Śloka १८
कार्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतक- त्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः|
नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नं परम्||१८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कार्पासास्थ्यादिभिः कृतं धूपनं स्कन्दादिघ्नं परं स्यात्| निर्माल्यं-महादेवसम्बन्धि| वृषदंशविट्-मार्जारविष्ठा| शार्दूलविक्रीडितं वृत्तम्|
Adhikarana सर्वग्रहघ्नं भूतरावं घृतं (१९) · Śloka १९
त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंही- निशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः सितलशुनफलत्रयोशीरतिक्तावचा- तुत्थयष्टीबलालोहितैलाशिलापद्मकैः|
दधितगरमधूकसारप्रियाह्वाविषाख्या- विषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैर्घृतमनवमशेषमूत्रांशसिद्धं मतं भूतरावाह्वयं पानतस्तद् ग्रहघ्नं परम्||१९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिकटुकादिभिः कल्कितैः पुराणं सर्पिरशेषमूत्राणां- गोमूत्रादीनां, अंशैः भागैः, सिद्धं भूतरावसंज्ञं मतम्| तत् पाने(नतः) परं ग्रहघ्नं स्यात्| दलं-तमालपत्रम्| सिद्धार्थयुग्मं-पीतकृष्णभेदेन| तुत्थं-कर्पारिकातुत्थम्| शक्राह्वयाः-इन्द्रयवाः| सितलशुनं-शुक्लरसोनम्| प्रियाह्वा-कङ्गुणिका| विषाख्या-अतिविषा| विषा-काकोली| "प्रथमक इह दण्डकश्चण्डवृष्टिप्रयातो नद्वयानाप्यनाप्यरैः सप्तभिः| प्रतिपदमिह वृद्धिरेफवृद्ध्या स्युरर्णार्णवव्यालबीमूतलीलाकरोद्दामशङ्खादयः||
Adhikarana सर्वग्रहघ्नं महाभूतरावं घृतम् (२०) · Śloka २०
नतमधुकरञ्जलाक्षापटोलीसमङ्गावचा- पाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी- बदरकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धा- मराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः|
गदशुकतरुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुम्भा- ग्निबिल्वैः समैःकल्कितैर्मूत्रवर्गेण सिद्धं घृतं विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम्||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नतादिभिर्मूत्रवर्गेण-गोमूत्रादिमूत्रकदम्बकेन, सर्पिः पक्वं विधिविनिहितं सर्वैः क्रमैः-अभ्यङ्गपाननस्यादिभिः, योजितं शीघ्रं सर्वान् ग्रहादीन् हन्ति| एतच्च महाभूतरावसंज्ञं घृतम्| दण्डको व्यालाख्यः|
Adhikarana ग्रहग्रहणदिने बल्यादि (२१) · Śloka २१
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः|
दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः||२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-येषु दिनेषु ग्रहा गृह्णन्ति तेषु दिनेषु तेषां ग्रहाणां विशेषेण बलिहोमादीन् भिषक् प्रयुञ्जीत|
Adhikarana सर्वग्रहाणां सामान्यो विधिः (२२) · Śloka २२
स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च|
रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नानवस्त्रादि यद्येभ्यो ग्रहेभ्यो रोचते तत्तेभ्यस्तस्मिन् दिने दद्यात्|
Adhikarana सुरादिभ्यो बलिदानस्थानानि (२३) · Śloka २३
रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी|
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम्||२३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा रत्नादीनि तथा बीजानि-यवादीनि, मधुसर्पिषी सर्वे च भक्ष्याः सर्वेषां ग्रहाणाम्| इत्ययं सामान्यो विधिः|
Adhikarana देवानामिष्टो बलिः (२४-२८) · Śloka २८
सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये|
दिश्युत्तरस्यां तत्रापि देवायोपहरेद्बलिम्||२४||
पश्चिमायां यथाकालं दैत्यभूताय चत्वरे|
गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम्||२५||
पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे|
यक्षाय यक्षायतने सरितोर्वा समागमे||२६||
चतुष्पथे राक्षसाय भीमेषु गहनेषु च|
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम्||२७||
शून्यालये पिशाचाय पश्चिमां दिशमास्थिते|
|२८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुरादिभ्यः पञ्चभ्यः सुरालये बलिं दद्यात्| तत्रापि देवायोत्तरस्यां बलिमुपहरेत्| दैत्यभूताय पश्चिमायां दिशिचत्वरे बलिमुपहरेत्| गवां पथि वस्त्राभरणसहितं बलिं गन्धर्वायोपहरेत्| पितृनागग्रहेभ्यो नद्यां बलिं दद्यात्| नागेभ्यः पूर्वदक्षिणदेशे बलिं दद्यात्| यक्षाय यक्षप्रासादे अथवा सरितोः-नद्योः, समागमे बलिमुपहरेत्| राक्षसशब्देनेह ब्रह्मराक्षसो गृह्यते| राक्षसाय चतुष्पथे भयानकेषु वनेषु च बलिं दद्यात्| दक्षिणस्यां तु दिशि राक्षसानां बलिं दद्यात्| पूर्वस्यां दिशि ब्रह्मरक्षसाम्| शून्यालये पश्चिमां दिशमास्थिते पिशाचाय बलिं दद्यात्|
Adhikarana देवग्रहमोक्षणं हिंग्वादिघृतम् (२८-३०) · Śloka ३०
|
शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम्||२८||
दधि छत्रं च धवलं देवानां बलिरिष्यते|
हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः||२९||
चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्|
तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम्||३०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुचिशुक्लमाल्यादिकं च देवानां बलिरिष्यते| स०-हिंग्वादिभिरर्धपलिकैः सर्पिःप्रस्थं चतुर्गुणे गोमूत्रे विपाचयेत्| तत्पानादिभिर्देवग्रहविमोक्षणं स्यात्|
Adhikarana देवग्रहमोक्षणं वचादिनस्याञ्जनम् (३१) · Śloka ३१
नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा|
|३१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वचाहिङ्गुलशुनं छागमूत्रेण नस्यमञ्जनं च दद्यात्|
Adhikarana दैत्यानामिष्टो बलिः (३१) · Śloka ३१
|
दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः||३१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दैत्यग्रहे बलिर्बहूनि फलानि यस्मिन्, तथोशीरकमलोत्पलैर्युक्तो देयः|
Adhikarana नागानामिष्टो बलिः नागानामिष्टो श्वेतपत्रादिनस्याञ्जनम् (३२-३४) · Śloka ३४
नागानां सुमनोलाजगुडापूपगुडौदनैः|
परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः||३२||
वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः|
श्वेतपत्रं च रोध्रं च तगरं नागसर्षपाः||३३||
शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्|
|३४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नागानां सुमनोलाजादिभिर्बलिर्देयः| श्वेतपत्रादयः शीतलजलपिष्टा नस्येऽञ्जने च हिताः| श्वेतपत्रं शुक्ल पुण्डरीकम्|
Adhikarana यक्षाणामिष्टो बलिः (३४-३५) · Śloka ३५
|
यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु||३४||
देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्|
हिरण्यं च बलिर्योज्यो|३५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यक्षाणां क्षीरादिभिर्बलिर्योज्यः|
Adhikarana यक्षाणां मूत्रादि पाननस्याञ्जनम् (३५-३६) · Śloka ३६
|
मूत्राज्यक्षीरमेकतः||३५||
सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्|
|३६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोमूत्रक्षीरघृतं तुल्यप्रमाणमेकस्मिन् पक्वं नस्याभ्यञ्जनयोर्हितम्|
Adhikarana यक्षाणां हरीतक्यादि पाननस्याञ्जनम् (३६-३७) · Śloka ३७
|
हरितकी हरिद्रे द्वे लशुनो मरिचं वचा||३६||
निम्बपत्रम् च बस्ताम्बुकल्कितं नावनाञ्जनम्|
|३७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हरीतक्यादि छागमूत्रेण पिष्टं नावनाञ्जने हितम्|
Adhikarana ब्रह्मराक्षसानामिष्टो बलिः (३७-३८) · Śloka ३८
|
ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णमाढकम्||३७||
तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्|
||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पक्वं यवानामाढकं-पात्रं, पूर्णं जलकुम्भः पललं छत्रं वस्त्रं प्रलेपनमिति ब्रह्मराक्षसाय बलिं दद्यात्| यवानां पूर्णं सिद्धमाढकं-पक्वपात्रं, यवैः पूर्णं पक्वपात्रमित्यर्थः| पूरणार्थेऽत्रषष्ठी| आढकशब्दोऽत्र पात्रवाचको न तु मानवाचकः| पक्वपात्रं-पक्वशरावमिति
Adhikarana राक्षसानां नक्तमालाद्यगदः (४१-४३) · Śloka ४३
|
नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च||४१||
तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्|
हिंग्विन्द्रयवसिद्धार्थलशुनामलकीफलम्||४२||
नावनाञ्जनयोर्योज्यो बस्तमूत्रयुतोऽगदः|
|४३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नक्तमालादिकं बस्तमूत्रेण युतमगदो नस्याभ्यञ्जनयोर्योज्यः|
Adhikarana राक्षसानां नक्तमालादिघृतम् (४३-४४) · Śloka ४४
|
एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे||४३||
रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः|
|४४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एभिरेव द्रव्यैर्घृतं गोमूत्रे चतुर्गुणे सिद्धं पानादिभी रक्षोग्रहनिवारणं स्यात्|
Adhikarana पिशाचानामिष्टो बलिः (४४-४५) · Śloka ४५
|
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि||४४||
मूलकं लवणं सर्पिः सभूतौदनयावकम्|
|४५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिशाचानां सीध्वादिभिर्बलिर्देयः|
Adhikarana पिशाचानामिष्टो हरिद्रादिघृतम् (४५-४७) · Śloka ४७
|
हरिद्राद्वयमञ्जिष्ठामिशिसैन्धवनागरम्||४५||
हिङ्गुप्रियङ्गुत्रिकटुरसोनत्रिफला वचा|
पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम्||४६||
गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्|
|४७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हरिद्राद्वयादिभिर्गोमूत्रपादिकं घृतं पक्वं पानाभ्यञ्जनयोर्हितम्|
Adhikarana पिशाचानामिष्टो हरिद्रादि नावनाञ्जनम् (४७) · Śloka ४७
|
बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम्||४७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बस्ताम्बुपिष्टैरेतैरेव द्रव्यैर्नस्यमञ्जनं च हितमुक्तम्|
Adhikarana देवर्षिपितृगन्धर्वे वर्ज्यावर्ज्यम् (४८) · Śloka ४८
देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्|
सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत्||४८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि न योजयेत्| मृदु सर्पिष्पानादिकमौषधमत्र योज्यम्|
Adhikarana पिशाचादृते सर्वेष्वनुकूलाचरणम् (४९) · Śloka ४९
ऋते पिशाचात्सर्वेषु प्रतिकूलं च नाचरेत्|
सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः||४९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वेषु च ग्रहेषु पिशाचमन्तरेण प्रतिकूलं नाचरेत्| ते हि देवादयो महौजसः प्रतिकूलाचरणात् क्रुद्धाः सन्तः वैद्यसहितमातुरं घ्नन्ति|
Adhikarana सर्वग्रहनाशको ईश्वरादि जपः (५०-५१) · Śloka ५१
ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्|
सर्वव्याधिचिकित्सां च जपन् सर्वग्रहान् जयेत्||५०||
तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्|
|५१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ईश्वरं द्वादशभुजं नाथमार्यावलोकितं तथा सर्वव्याधिचिकित्सितमित्यादि जपन् सर्वान् ग्रहानुन्मादादींश्च पराकरोति|
Adhikarana सर्वग्रहनाशको मायूरीमहाविद्याश्रवणम् (५१) · Śloka ५१
|
महाविद्यां च मायूरीं शुचिं तं श्रावयेत्सदा||५१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मायुरीं महाविद्यां तं-ग्रहगृहीतं, शुचिं सन्तं सततं श्रावयेत्|
Adhikarana सर्वग्रहनाशको भूतेशादिपूजनं तन्मन्त्रजपश्च (५२) · Śloka ५२
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान्|
जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति||५२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा स्थाणुं भूताधिपं पूजयेत्| तथा तस्य गणान् प्रमथसंज्ञान् पूजयेत् ग्रहान् पराकरोति| | सिद्धांश्च तन्मन्त्रान् जपन् सर्वान्
Adhikarana सर्वग्रहनाशको वक्षमाणाध्याययोरुक्त उपक्रमः (५) · Śloka ५
यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्|
यच्चोक्तमिह तत्सर्वं प्रयुञ्जीत परस्परम्||५३||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने भूतप्रतिषेधो नाम पञ्चमोऽध्यायः||५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यदप्य्नन्तरयोरध्याययोः-उन्मादापस्मारप्रतिषेधाख्ययोः, वक्ष्यति-भणिष्यति, तच्चात्र हितम्| यच्च,[इह-]अस्मिन्नध्याये, देवग्रहादीनां पृथक् चिकित्सितं कथितं तदपि परस्परं ग्रहाणां प्रयुञ्जीतेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने भूत- प्रतिषेधो नाम पञ्चमोऽध्यायः समाप्तः|| ५||