Skip to content

. बालामयप्रतिशेधाध्यायः

Adhikarana बालामयप्रतिषेधाध्यायः बालस्त्रिविधः (२-१) · Śloka

अथातो बालामयप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२| त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः| स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसम्भवः|१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अस्मादनन्तरं बालस्योपचर्यमाणस्य ये रोगास्तच्चिकित्सार्थो बालामयप्रतिषेध उच्यते- स०-बालस्त्रिप्रकारः कथितो मुनिभिः| क्षीरवर्तनोऽन्नवर्तन उभयवर्तनः-क्षीरान्नाभ्यां यो वर्तते| ताभ्यां-अन्नक्षीराभ्यां, अदुष्टाभ्यां स्वास्थ्यं भवति| दुष्टाभ्यां तु क्षीरान्नाभ्यां रोगोद्भूतिः| शुद्धं क्षीरं लक्षयति|

Adhikarana बालामयप्रतिषेधाध्यायः बालस्त्रिविधः (२-१) · Śloka

शुद्धं क्षीरं लक्षयति अथातो बालामयप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२| त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः| स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसम्भवः||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अस्मादनन्तरं बालस्योपचर्यमाणस्य ये रोगास्तच्चिकित्सार्थो बालामयप्रतिषेध उच्यते- स०-बालस्त्रिप्रकारः कथितो मुनिभिः| क्षीरवर्तनोऽन्नवर्तन उभयवर्तनः-क्षीरान्नाभ्यां यो वर्तते| ताभ्यां-अन्नक्षीराभ्यां, अदुष्टाभ्यां स्वास्थ्यं भवति| दुष्टाभ्यां तु क्षीरान्नाभ्यां रोगोद्भूतिः|

Adhikarana वातदुष्टस्तन्यस्य लक्षणम् (२-३) · Śloka

| वाताद्दुष्टं तु प्लवतेऽम्भसि||२|| कषायं फेनिलं रूक्षं वर्चोमूत्रविबन्धकृत्| |३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातदुष्टं क्षीरं जले प्लवते-तरतीव नैकतां गच्छति| कषायादिगुणयुक्तं च स्यात्|

Adhikarana पित्तदुष्टस्य लक्षणम् (३) · Śloka

| पित्तादुष्णाम्लकटुकं पीतराज्यप्सु दाहकृत्||३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्ताद्दुष्टं क्षीरमुष्णाम्लकटुकम्, तथा तोये प्रक्षिप्तं पीतराजि स्यात् दाहकरं च|

Adhikarana कफदुष्टस्य लक्षणम् (४) · Śloka

कफात्सलवणं सान्द्रं जले मज्जति पिच्छिलम्| |४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफात् क्षीरं दुष्टं सलवणं घनं च स्यात्| अप्सु च मज्जति|

Adhikarana द्विदोषदुष्टस्य लक्षणम् त्रिदोषदुष्टस्य लक्षणम् तत्तद्दुष्टं स्तन्यं यथास्वं व्याधिजनकम् (४-५) · Śloka

| संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्||४|| यथास्वलिङ्गांस्तद्व्याधीन् जनयत्युपयोजितम्| |५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-संसर्गाद् दुष्टं क्षीरं संसृष्टलिङ्गं स्यात्| सान्निपातिकं क्षीरं त्रिलिङ्गं स्यात्| स०-तच्च क्षीरमुपयोजितं बालस्य च यथास्वलिङ्गान् व्याधीन् जनयति|

Adhikarana रोदनात् पीडाज्ञानम् (५) · Śloka

| शिशोस्तीक्ष्णमभीक्ष्णं च रोदनाल्लक्षयेद्रुजम्||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बालस्य तीक्ष्णं-खरं, अभीक्ष्णं च रुजं-पीडां, रोदनाल्लक्षयेत्,- अतिरोदनेन किञ्चिद्रोदनेन च यथायोगं रुजं विद्यादित्यर्थः|

Adhikarana पीडास्थानज्ञानम् (६) · Śloka

स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः| तत्र विद्याद्रुजं|६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यं देहदेशं स भृशं स्पृशेत् यत्र च देहदेशे स्पर्शनाक्षमः स्यात् तत्र देशे रुजं विद्यात्|

Adhikarana मूर्धादौ पीडाज्ञानम् (६-८) · Śloka

| मूर्ध्नि रुजं चाक्षिनिमीलनात्||६|| हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः| कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः||७|| आध्मानपृष्ठनमनजठरोन्नमनैरपि| बस्तौ गुह्ये च विण्मूत्रसङ्गोत्त्रासदिगीक्षणैः||८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शिरसि पीडामक्षिनिमीलनाद्विद्यात्| विनाशहेतुमत एव जिह्वौष्ठदशनादिभिर्हृदि पीडां विद्यात्| विबन्धादिभिराध्मानादिभिश्च कोष्ठे रुजं विद्यात्| बस्तौ गुह्ये च पीडां विट्सङ्गादिभिर्विद्यात्|

Adhikarana धात्र्याश्चिकित्सितम् (९) · Śloka

अथ धात्र्याः क्रियां कुर्याद्यथादोषं यथामयम्| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथ-अनन्तरं, एवं ज्ञात्वा धात्र्या वैद्यो यथादोषं यथारोगं क्रियां कुर्यात्|

Adhikarana वातदुष्टे स्तन्ये दशमूलादि (९-१०) · Śloka १०

| तत्र वातात्मके स्तन्ये दशमूलं त्र्यहं पिबेत्||९|| अथवाऽग्निवचापाठाकटुकाकुष्ठदीप्यकम्| सभार्गीदारुसरलवृश्चिकालीकणोषणम्||१०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तेषु, वातेन दुष्टे स्तन्ये त्रीणि दिनानि दशमूलं पिबेत्| अथवा चित्रकादीनि क्वथितानि त्र्यहं पिबेत्|

Adhikarana वातदुष्टे वातव्याधिहरं घृतादि (११-१२) · Śloka १२

ततः पिबेदन्यतमं वातव्याधिहरं घृतम्| अनु चाच्छसुरामेवं स्निग्धां मृदु विरेचयेत्||११|| बस्तिकर्म ततः कुर्यात्स्वेदादींश्चानिलापहान्| |१२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अनन्तरं वातव्याधिचिकित्सितोक्तं घृतं पिबेत्| पश्चादच्छसुरां पिबेत्| एवं स्निग्धां सतीं मृदु विरेचयेत्-आरग्वधेन| अनन्तरं बस्तिकर्म कुर्यात्| स्वेदादींश्च मारुतापहान्| आदिशब्देनाभ्यङ्गादेर्ग्रहः|

Adhikarana वातदुष्टे बालार्थं रास्नादिघृतम् (१२-१३) · Śloka १३

| रास्नाजमोदासरलदेवदारुरजोन्वितम्||१२|| बालो लिह्याद् घृतं तैर्वा विपक्वं ससितोपलम्| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रास्नादिचूर्णान्वितं शिशुः सर्पिर्लिह्यात्| अथवा तैः सिद्धं सशर्करं घृतं लिह्यात्|

Adhikarana पित्तदुष्टे स्तन्ये बालधात्र्योरमृतादिक्वाथाः घृतादीनि च (१३-१६) · Śloka १६

| पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम्||१३|| धात्री कुमारश्च पिबेत् क्वाथयित्वा ससारिवम्| अथवा त्रिफलामुस्तभूनिम्बकटुरोहिणीः||१४|| सारिवादिं पटोलादिं पद्मकादिं तथा गणम्| घृतान्येभिश्च सिद्धानि पित्तघ्नं च विरेचनम्||१५|| शीतांश्चाभ्यङ्गलेपादीन् युञ्ज्यात्| |१६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तदुष्टे गुडूच्यादीनि क्वाथयित्वा बालः पिबेत् धात्री च| अथवा त्रिफलादीन् पिबेत्| अथवा सारिवादिगणं(गणाद्यन्यतमं) पिबेत् सं-अथवा सारिवादिभिर्गणैः पृथक् पृथक् सिद्धानि घृतानि लिह्यात्| विरेचनद्रव्यं च पित्तघ्नं कुर्या(युञ्ज्या)त्| अभ्यङ्गादींश्च शीतान् युञ्ज्यात्|

Adhikarana श्लेष्मदुष्टे स्तन्ये यष्ट्यादि घृतम् श्लेष्मदुष्टे स्तनयोरुभयोरोष्ठयोश्चलेपः (१६-१८) · Śloka १८

श्लेष्मात्मके पुनः| यष्ट्याह्वसैन्धवयुतं कुमारं पाययेद् घृतम्||१६|| सिन्धूत्थपिप्पलीमद्वा, पिष्टैः, क्षौद्रयुतैरथ| राठपुष्पैः स्तनौ लिम्पेच्छिशोश्च दशनच्छदौ||१७|| सुखमेवं वमेद्बालः| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्लेष्मदुष्टे स्तन्ये मधुयष्टीसैन्धवयुक्तं घृतं बालं पाययेत्| सैन्धवपिप्पलियुक्तं घृतं वा पाययेत्| मदनकुसुमैर्माक्षिकयुक्तैः स्तनौ लिम्पेत्| बालस्य चोष्ठौ लिम्पेत्| एवं कृते सति बालः सुखं वमेत्|

Adhikarana श्लेष्मदुष्टे धात्र्या वमनादि (१८) · Śloka १८

तीक्ष्णैर्धात्रीं तु वामयेत्| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-धात्रीं तीक्ष्णैर्वमनैर्वामयेत्|

Adhikarana त्रिदोषदुष्टे स्तन्ये क्षीरालसकरोगोत्पत्तिः (१८-१९) · Śloka १९

| अथाचरितसंसर्गी मुस्तादिं क्वथितं पिबेत्||१८|| तद्वत्तगरपृथ्वीकासुरदारुकलिङ्गकान्| अथवाऽतिविषामुस्तषड्ग्रन्थापञ्चकोलकम्||१९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अनन्तरं कृते संसर्गे सति मुस्तादिं क्वथितं पिबेत्| तगरादीन् वा अतिविषादीन् वा पिबेत्|

Adhikarana त्रिदोषदुष्टे धात्रीबालयोर्वमनम् (२०-२३) · Śloka २३

स्तन्ये त्रिदोषमलिने दुर्गन्ध्यामं जलोपमम्| विबद्धमच्छं विच्छिन्नं फेनिलं चोपवेश्यते||२०|| शकृन्नानाव्यथावर्णं, मूत्रं पीतं सितं घनम्| ज्वरारोचकतृट्छर्दिशुष्कोद्गारविजृम्भिकाः||२१|| अङ्गभङ्गोऽङ्गविक्षेपः कूजनं वेपथुर्भ्रमः| घ्राणाक्षिमुखपाकाद्या जायन्तेऽन्येऽपि तं गदम्||२२|| क्षीरालसकमित्याहुरत्ययं चातिदारुणम् तत्राशु धात्रीं बालं च वमनेनोपपादयेत्||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिदोषदुष्टे स्तन्ये दुर्गन्ध्यादिगुणं शकृदुपवेश्यते, तथा नानाव्यथावर्णम्| मूत्रं च पीतं सितं घनं-स्त्यानं, च स्यात्| तथा ज्वरादयः, अन्येऽपि-एवंप्रकारा रोगाः, जायन्ते| तं-ईदृशं, गदं क्षीरालसकमिति कथयन्ति| अत्ययं-विनाशहेतुम्, अत एवातिदारुणम् स०-तत्र-क्षीरालसके, शीघ्रमेव धात्रीं बालं च वमनेनोपक्रमेत्|

Adhikarana त्रिदोषदुष्टे ततो वचादिगणाद्यौषधम् (२४) · Śloka २४

विहितायां च संसर्ग्यां वचादिं योजयेद्गणम्| निशादिं वाऽथवा माद्रीपाठातिक्ताघनामयान्||२४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-[ विहितायां ] संसर्ग्यां-पेयादिके क्रमे कृते, वचादिं निशादिं वा गणं प्रयोजयेत्| माद्र्यादीन् वा योजयेत्|

Adhikarana स्तन्यदोषहराः पाटादयः (२५) · Śloka २५

पाठाशुण्ठ्यमृतातिक्ततिक्तादेवाह्वसारिवाः| समुस्तमूर्वेन्द्रयवाः स्तन्यदोषहराः परम्||२५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पाठादय उपयुक्ताः परं स्तन्यदोषहराः| तिक्तः किराततिक्तः|

Adhikarana अनुबन्धे यथारोगं चिकित्सितम् (२६) · Śloka २६

अनुबन्धे यथाव्याधि प्रतिकुर्वीत कालवित्| |२६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अनुबन्धे तु सति यथारोगं चिकित्सितं कुर्याद्वैद्यः|

Adhikarana दन्तोद्भेदो सर्वरोगाणां हेतुः (२६-२७) · Śloka २७

| दन्तोद्भेदश्च रोगाणां सर्वेषामपि कारणम्||२६|| विशेषाज्जवरविड्भेदकासच्छर्दिशिरोरुजाम्| अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते||२७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रोगाणां च सर्वेषामपि दन्तोद्भेदो हेतुर्जायते| विशेषेण ज्वरादीनां तु हेतुः सम्पद्यते|

Adhikarana तत्र यथादोषं चिकित्सितम् (२८-२९) · Śloka २९

पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्गमे| दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते||२८|| यथादोषं यथारोगं यथोद्रेकं यथाभयम्| विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम्||२९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मार्जाराणां पृष्ठभङ्गे सति, मयूराणां च शिकोद्भवे सति, दन्तोत्थाने च शिशूनां, ननेति द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः, तेन सर्वं वपुर्बालस्योत्तप्तं भवेत्| न किञ्चिन्न दूयते,- अपि तु सर्वाण्येवाङ्गानि पीड्यन्त इत्यर्थः| स०-तत्र दोषानुसारेण तथा दोषादिक्यानुरोधेन तथा रोगानुसारेण च देशकालसत्त्वसात्म्यप्रकृतीर्निरूप्याउषधं प्रयोजयेत्|

Adhikarana बालेऽल्पा भेषजमात्रा (३०-३१) · Śloka ३१

त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत्| अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी||३०|| सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात्| |३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत्-यस्मात्, त एव वातादयो दोषाः, त एव रसादयो दूष्याः, ज्वरादयश्च रोगाः पूर्वोक्तास्त एव, तस्मात् तदेव पूर्वोक्तं भैषज्यम्| अस्य तु-बालस्य, मात्रा कनीयसी| कुतोऽस्य ह्रस्वतरा मात्रा ? इत्याह-सौकुमार्येत्यादि|

Adhikarana बाले मृदुवमनम् (३१-३२) · Śloka ३२

| स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात्||३१|| सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान् मृदु| |३२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शिशवः सर्वदैव स्निग्धाः| कुतः ? घृतक्षीरनिषेवणात्| यतश्चैवं तस्मात् तान्-बालान्, सद्यो वमनं मृदु धीमान् पाययेत्|

Adhikarana बाले वमनापूर्वं स्तन्यादिना तृप्तिः (३२-३३) · Śloka ३३

| स्तन्यस्य तृप्तं वमयेत् क्षीरक्षीरान्नसेविनम्||३२|| पीतवन्तं तनुं पेयामन्नादं घृतसंयुताम्| |३३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षीरसेविनं तथा क्षीरान्नसेविनं बालं स्तन्यस्य तृप्तं सन्तं वामयेत्| स्तन्यस्य तृप्तमिति "अधिकरणवाचिनश्च" इति षष्ठी| वा(व)मयेदिति "ग्लास्नावनुवमां च" इति मित्त्वविकल्पः स०-अन्नादं बालं तनुं-अघनां, पेयां ससर्पिष्कां पीतवन्तं वामयेत्|

Adhikarana बाले विरेकादिसाध्ये बस्त्यादि (३३-३४) · Śloka ३४

| बस्तिं साध्ये विरेकेण, मर्शेन प्रतिमर्शनम्||३३|| युञ्जयाद्विरेचनादींस्तु धात्र्या एव यथोदितान्| |३४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विरेकेण साध्ये रोगे बस्तिं युञ्जयात्| मर्शेन साध्ये रोगे प्रतिमर्शं युञ्ज्यात्| विरेचनादीन् पुनर्यथोदितान् धात्र्या एव युञ्ज्यात्|

Adhikarana स्तन्यदोषहरा मूर्वादयः (३४-३५) · Śloka ३५

| मूर्वाव्योषवराकोलजम्बूत्वक्दारुसर्षपाः||३४|| सपाठा मधुना लीढाः स्तन्यदोषहराः परम्| |३५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मूर्वादयो मधुना लीढाः सुष्ठु स्तन्यदोषहराः|

Adhikarana दन्तपाल्याः पिप्पल्यादि प्रतिसारणम् (३५-३६) · Śloka ३६

| दन्तपालीं समधुना चूर्णेन प्रतिसारयेत्||३५|| पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा| |३६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शिशोर्दन्तपालीं पिप्पल्याश्चूर्णेन समाक्षिकेण प्रतिसारयेत्| अथवा धातकीपुष्पादिकृतेन चूर्णेन प्रतिसारयेत्|

Adhikarana दन्तोद्भवे लावादिरजः (३६-३७) · Śloka ३७

| लावतित्तिरिवल्लूररजः पुष्परसद्रुतम्||३६|| द्रुतं करोति बालानां दन्तकेसरवन्मुखम्| |३७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लावादिचूर्णं माक्षिकद्रवीकृतमुपयुक्तं शिशूनां शीघ्रं दन्तकेसरवन्मुखं करोति| दन्ता एव केसरं तत् (राणि तानि) विद्यते(न्ते) यस्मिन्निति मतुप्|

Adhikarana दन्तोद्भवे वचादिघृतम् (३७-३८) · Śloka ३८

| वचाद्विबृहतीपाठाकटुकातिविषाघनैः||३७|| मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि| |३८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वचादिभिः पक्वं घृतं दन्तोत्थाने सिद्धम्,- अव्याहतशक्तित्वात्|

Adhikarana दन्तोद्भवे बालसर्वरोगे रजन्यादिचूर्णम् (३८-४०) · Śloka ४०

| रजनीदारुसरलश्रेयसीबृहतीद्वयम्||३८|| पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा| ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम्||३९|| अतीसारज्वरश्वासकामलापाण्डुकासनुत्| बालस्य सर्वरोगेषु पूजितं बलवर्णदं||४०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रजन्यादिचूर्णं माक्षिकयुक्तेन सर्पिषा लीढं ग्रहण्या दीपनं सुष्ठु वातस्य चानुलोमनम्| तथाऽतीसारादिजित्| बालस्य सर्वामयेषु हितं बलवर्णदं च|

Adhikarana दन्तोद्भवे समङ्गादिघृतम् (४१-४३) · Śloka ४३

समङ्गाधातकीरोध्रकुटन्नटबलाद्वयैः| महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः||४१|| सकार्पासीफलैस्तोये साधितैः साधितं घृतम्| क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्||४२|| विविधानामयानेतद्वृद्धकाश्यपनिर्मितम्| |४३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-समङ्गादिभिः सामान्यपरिभाषया तोये साधितं घृतं क्षीरमस्तुयुतं पक्वं दन्तोत्थान् रोगाननेकप्रकारान् हन्ति| एतच्च वृद्धकाश्यपेन निर्मितम्|

Adhikarana दन्तोद्भवे नातियन्त्रणम् (४३-४४) · Śloka ४४

| दन्तोद्भवेषु रोगेषु न बालमतियन्त्रयेत्||४३|| स्वयमप्युपशाम्यन्ति जातदन्तस्य यद्गदाः| |४४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दन्तोद्भवेषु रोगेषु बालं नातीव यन्त्रयेत्-पथ्यभोजनादिना नातीव नियमयेत्, यथाऽन्यरोगिणम्| किम् ? इत्याह-यत्-यस्मात्, स्वयमेव(मपि)-चिकित्सामन्तरेणापि, जातदन्तस्य सतो बालस्य रोगाः प्रशाम्यन्ति|

Adhikarana शिशोररोचकादयो रोगाः शुष्कत्वं च (४४-४६) · Śloka ४६

| अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः||४४|| शिशोः कफेन रुद्धेषु स्रोतःसु रसवाहिषु| अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते||४५|| कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः| |४६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भृशं दिवास्वप्नादिसेविनोऽर्भकस्य कफेन रसवाहिषु स्रोतःसु रुद्धेषु सत्सु अरोचकादयः प्रादुर्भवन्ति| ततः-तेषु जातेषु, कुमारः शुष्यति| स्निग्धं शुक्लं वदननयनं यस्य स एवंभूतः सन्|

Adhikarana तत्र सैन्धवादिचूर्णम् (४६-४७) · Śloka ४७

| सैन्धवव्योषशार्ङ्गेष्टापाठागिरिकदम्बकान्||४६|| शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत्| ||४७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तस्यारोचकादिषु सैन्धवादीन् समधुघृतान् योजयेत्|

Adhikarana तत्र पञ्चकोलादिचूर्णम् (४७-४८) · Śloka ४८

| अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम्||४७|| बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम्| |४८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा पञ्चकोलं रजीकृतमशोककटुकाभ्यां युक्तं योजयेत्| अथवा बदर्यादिचूर्णं सर्पिषा द्रवीकृतं योजयेत्|

Adhikarana तत्र बदर्यादिचूर्णम् तत्र स्थिरादिघृतं स्रोतःशोधनम् (४८-५०) · Śloka ५०

| स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः||४८|| निचुलोत्पलवर्षाभूभार्गीमुस्तैश्च कार्षिकैः| सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम्||४९|| सिम्ह्यश्वगन्धासुरसाकणागर्भं च तद्गुणम्| |५०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्थिरादिभिः कार्षिकैर्घृतस्य प्रस्थार्धं सिद्धं परं स्रोतसां विशोधनम्| स०-सिम्ह्यादिभिर्घृतं पूर्वगुणम्|

Adhikarana तत्र यष्ट्यादिघृतं शोषजित् (५०-५१) · Śloka ५१

| यष्ट्याह्वपिप्पलीरोध्रपद्मकोत्पलचन्दनैः||५०|| तालीससारिवाभ्यां च साधितं शोषजिद्घृतम्| |५१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मधुयष्टिकादिभिः साधितं सर्पिः शोषजित्|

Adhikarana तत्र शृङ्ग्यादिघृतं पुष्टिकृत् (५१-५३) · Śloka ५३

| शृङ्गीमधूलिकाभार्गीपिप्पलीदेवदारुभिः||५१|| अश्वगन्धाद्विकाकोलीरास्नर्षभकजीवकैः| शूर्पपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम्||५२|| शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत्परम्| |५३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शृङ्ग्यादिभिः कल्कितैः शशस्य शिरःक्वाथेन साधितं घृतं शुष्यतो बालस्यातिपुष्टिकरम्|

Adhikarana तत्र अभ्यञ्जने वचादितैलम् (५३-५४) · Śloka ५४

| वचावयःस्थातगरकायस्थाचोरकैः शृतम्||५३|| बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम्| |५४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वचादिभिश्छागमूत्रसुराभ्यां च सिद्धं तैलमभ्यङ्गे हितम्|

Adhikarana तत्र लाक्षादितैलम् (५४-५७) · Śloka ५७

| लाक्षारससमं तैलप्रस्थं मस्तु चतुर्गुणम्||५४|| अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः| समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः||५५|| सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिदम्| बल्यं ज्वरक्षयोन्मादश्वासापस्मारवातनुत्||५६|| यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते| |५७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लाक्षारसतुल्यं तैलप्रस्थं मस्तुचतुर्गुणमश्वगन्धादिभिः सामान्यपरिभाषोक्तप्रमाणैः सिद्धं लाक्षादिकसंज्ञम्| एतत्तैलमभ्यङ्गाद् बल्यं ज्वरादिजित् यक्ष्मादिघ्नं गर्भिणीभ्यश्च हितम्|

Adhikarana कासज्वरादावतिविषादिलेहः (५७-५८) · Śloka ५८

| मधुनाऽतिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम्||५७|| एकां वाऽतिविषां कासज्वरच्छर्दिरुपद्रुतम्| |५८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिविषादीन् मधुना कासादिपीडितं शिशुं-बालं, लेहयेत्| अथवा, अतिविषामेकां लेहयेत्|

Adhikarana स्तन्यवमिनाशका लेहाः (५८-६०) · Śloka ६०

| पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा||५८|| द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्| पिप्पलीपञ्चलवणं कृमिजित्पारिभद्रकम्||५९|| तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम्| लाभतः शल्यकश्वाविद्गोधर्क्षशिखिजन्मनाम्||६०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- यो बालः पीतं पीतं स्तन्यं वमेत् तं बृहतीद्वयस्य फलस्वरसं पञ्चकोलं च घृतमाक्षिकाभ्यां लेहयेत्| अथवा पिप्पल्यादिकं तद्वत्-पूर्ववत् मधुसर्पिषा, बालो लिह्यात्| व्योषं तथा-मधुसर्पिषा, लिह्यात्| [ अथवा ] शल्यकादिजन्मनां रोम्णां चर्मणां च यथालाभं मषीं मधुघृताभ्यां लिह्यात्|

Adhikarana स्तन्यवमिनाशकं घृतम् (६१) · Śloka ६१

खदिरार्जुनतालीसकुष्ठचन्दनजे रसे| सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति||६१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-खदिरादिरसे सक्षीरं सर्पिः पक्वमुपयुक्तं वमिं शमयति|

Adhikarana तालुकण्टकस्य लक्षणम् (६३-६५) · Śloka ६५

| तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्||६३|| तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते| तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्रवम्||६४|| तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः| |६५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफो मधुराद्यैस्तालुमांसे प्रकुपितस्तालुकण्टकं कुर्यात्| तेन-तालुकण्टकेन, शिरसि तालुप्रदेशे निम्नता स्यात्| तथा तालुनः पतनं स्तनद्वेषः कृच्छ्रेण स्तनपानं शकृच्च द्रवं स्यात्| तथा तृडाद्याः स्युः|

Adhikarana तालुकण्टकस्य चिकित्सा (६५-६६) · Śloka ६६

| तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्||६५|| तालु तद्वत्कणाशुण्ठीगोशकृद्रससैन्धवैः| |६६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र तालूत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्| तथैव कणादिभिः प्रतिसारयेत्

Adhikarana तालुकण्टकस्य शृङ्गबेरादिपुटपाकरसः (६६-६७) · Śloka ६७

| शृङ्गवेरनिशाभृङ्गं कल्कितं वटपल्लवैः||६६|| बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः| रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत्||६७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा शुण्ठ्यादिकं कल्कितं वटपल्लवैर्बध्वा गोशकृता लिप्तं ततः कुकूले स्वेदयेत्| अनन्तरं रसेन च-ततः स्रुतेन, तालु आस्यं च लिम्पेत्| तथा नेत्रे परिषेचयेत्|

Adhikarana तालुकण्टकस्य हरीतक्यादिकल्कः (६८) · Śloka ६८

हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्| पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात्||६८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हरीतक्यादिकं माक्षिकयुक्तं स्तन्येन शिशुः पीत्वा तालुकण्टकाद्विमुच्यते

Adhikarana अहिपूतनस्य लक्षणम् अहिपूतनस्य चिकित्सा (६९-७०) · Śloka ७०

मलोपलेपात्स्वेदाद्वा गुदे रक्तकफोद्भवः| ताम्रो व्रणोऽन्तः कण्डूमान् जायते भूर्युपद्रवः||६९|| केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनम्| पृष्टारुर्गुदकुट्टं च केचिच्च तमनामिकम्||७०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गुदे रक्तकफोद्भवो मलोपलेपात् स्वेदाद्वा ताम्रो व्रणः कण्डूमानान्तरो बहूपद्रवो जायते| तं-तथाविधं, केचिन्मातृकादोषं कथयन्ति| अपरे च पूतनसंज्ञमित्याहुः| केचित् पृष्टारुरिति, केचित् गुदकुट्टमिति, केचिच्च तमनामिकं, ब्रुवते|

Adhikarana अहिपूतनस्य धात्त्र्याः क्षीरं शोध्यम् (७१) · Śloka ७१

तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः| |७१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तस्मिन्ननेकनाम्नि रोगे, धात्र्याः क्षीरं शोधनीयम् कैः ? पित्तश्लेष्महृद्भिरौषधैः|

Adhikarana अहिपूतनस्य अन्तरपानकम् अहिपूतनस्य व्रणे लेपादि (७१-७५) · Śloka ७५

| शृतशीतं च शीताम्बुयुक्तमन्तरपानकम्||७१|| सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत्| त्रिफलाबदरीप्लक्षत्वक्क्वाथपरिषेचितम्||७२|| कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः| लेपयेदम्लपिष्टैर्वा चूर्णितैर्वाऽवचूर्णयेत्||७३|| सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः| सारिवाशङ्खनाभिभ्यामसनस्य त्वचाऽथवा||७४|| रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा| सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके||७५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सह क्षौद्रेण वर्तते यत्तत् सक्षौद्रम्, सक्षौद्रम् च तत् तार्क्ष्यशैलं च, तेन युक्तं शीताम्बु, अन्तरं पानकं च हितम्| किम्भूतम् ? शृतशीतम्| अत्र च शीतमात्रस्य शीतत्वेनैव लब्धत्वाच्छीताम्बिवत्यतिशयार्थम्| एवं हि पित्तोपशान्तिर्भवति| अत एव च तत्सहितस्य कफस्य शमनाय माक्षिकरसाञ्जनयोगोऽत्र कृतः| तेन च जलेन व्रणं लेपयेत्| किम्भूतं व्रणम् ? त्रिफलादिक्वाथेन परिषेचितं सन्तं कासीसादिभिरम्लपिष्टैर्वा लेपयेत्| अथवा, एतैरेव चूर्णितैर्व्रणमवचूर्णयेत्| अथवा मधुकादिभिः सुपिष्टैरवचूर्णयेत्| सारिवाशङ्खनाभिभ्यामवचूर्णयेत्| अथवा, असनत्वचा लिम्पेत्| रागकण्ड्वाधिक्ये जलौकोभिरस्रस्रावं कुर्यात्| जलौकसा "जातौ" इत्येकवचनात् तस्य प्रयोगो न दोषाय, तथा सल्लक्षस्य दृष्तत्वात्| सर्वं चिकित्सितं पित्तव्रणतुल्यं गुदकुट्टके शस्यते|

Adhikarana मृत्तिकोद्भवे रोगे पाठादिघृतम् (७६-७७) · Śloka ७७

पाठावेल्लद्विरजनीमुस्तभार्गीपुनर्नवैः| सबिल्वत्र्यूषणैः सर्पिवृश्चिकालीयुतैः शृतम्||७६|| लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः| |७७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पाठादिभिः पक्वं घृतं मात्रया लिहन् मृत्तिकोद्भवैरामयैर्मुच्यते|

Adhikarana तत्तद्व्याधिनाशकः स्तनप्रलेपः (२) · Śloka

व्याधेर्यद्यस्य भैषज्यं स्तनस्तेन प्रलेपितः| स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेद्गदम्||७७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने बाला- मयप्रतिषेधो नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यस्य रोगस्य यदौषधमुक्तं तेनैवौषधेन स्तनः प्रलेपितो मुहूर्तमात्रं-नाडिकाद्वयं यावद् विधृतः, स्तनोऽनु धौतः पश्चात् पीतस्तं तं-अनियतं रोगं, जयेत्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरछितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने बाला मयप्रतिषेधो नाम द्वितीयोऽध्यायः समाप्तः|| २||