Skip to content

. अपस्मारप्रतिषेधाध्यायः

Adhikarana अपस्मारप्रतिषेधाध्यायः||७|| (२-३) · Śloka

अथातोऽपस्मारप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| )|३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अस्मादनन्तरमपस्मारप्रतिषेध उच्यते, चिकित्सासामान्यात्|

Adhikarana अपस्मारस्य स्वरुपमपस्मारस्य निदानम् अपस्मारस्य सम्प्राप्तिः अपस्मारस्य सामान्यं लक्षणम् (१-५) · Śloka

स्मृत्यपायो ह्यपोस्मारः स धीसत्त्वाभिसंप्लवात्| जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः||१|| उन्मादवत्प्रकुपितैश्चित्तदेहगतैर्मलैः| हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च||२|| तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः| दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन्||३|| पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ| विजिह्यक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते||४|| कालान्तरेण स पुनश्चैवमेव विचेष्टते| |५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्मृतेरपायो-विनाशः, अपस्मार उच्यते| स च-स्मृतिविनाशो, बुद्ध्यादिविनाशाच्चित्ते चिन्ताद्यभिहते, तथोन्मादवच्चित्तदेहगतैर्दोषैः प्रकृपितैः सत्त्वे हते, हृदये व्याप्ते, तथा संज्ञावाहिषु स्रोतःसु व्याप्तेषु सत्सु, जायते| तस्मिंश्च जाते सति मूढमतिः सन् तमो-मोहं, विशन् बीभत्साः-निन्दिताः, क्रियाःकुरुते| न तु तमो द्रव्यविशेष इह गृह्यते, तस्य दिवाऽसम्भवस्यापि दर्शनं सम्भाव्यत एव, रोगस्वभावात्| अत एव वक्ष्यति,-"पश्यन्नसन्ति रूपाणि" इति| ता एव क्रिया वक्ति-दन्तानित्यादि यावद्विजिह्वाक्षिभ्रुव इति| विजिह्यमक्षिभ्रुवं यस्य स एवम्| अक्षिभ्रुवशब्दोऽचतुरादिनिपातः| दोषवेगे चातिक्रान्ते विबुध्यते-प्रकृतिं याति| कालान्तरैण सः-अपस्मरीम् एवमेव-पूर्ववत्, करोति|

Adhikarana अपस्मारस्य चतुर्विधत्वम् (५) · Śloka

| अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च||५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अपस्मारश्चतुःप्रकारः| कथम् ? इत्याह-वातादिभिः सन्निपातेन च|

Adhikarana अपस्मारस्य पूर्वरूपम् (६-८) · Śloka

रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः| तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम्||६|| अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः| अविपाकोऽरुचिर्मूर्च्छा कुक्ष्याटोपो बलक्षयः||७|| निद्रानाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्| पानं तैलस्य मद्यस्य तयोरेव च मेहनम्||८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अस्मिन्नपस्मार उद्बुभूषति सति हृत्कम्पादयः स्युः| गानादि स्यात्, तैलमद्ययोः पानं स्यात्, तथा तयोरेव-तैल मद्ययोः, मेहनं-मूत्रणं, स्यात्|

Adhikarana १ वातजस्य लक्षणम् (९-१२) · Śloka १२

तत्र वातात्स्फुरत्सक्थिः प्रपतंश्च मुहुर्मुहुः| अपस्मरति संज्ञां च लभते विस्वरं रुदन्||९|| उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते| आविध्यति शिरोदन्तान् दशत्याध्मातकन्धरः||१०|| परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः| रूक्ष्श्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते||११|| चपलं परुषं रूपं विरूपं विकृताननम्| |१२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तेषु मध्यात्, वातादपस्मारे सति स्फुरत्सकथ्यादिकः स्यात्|

Adhikarana २ पित्तजस्य लक्षणम् (१२-१३) · Śloka १३

| अपस्मरति पित्तेन मुहुः संज्ञा च विन्दति||१२|| पीतफेनाक्षिवक्त्रत्वगास्पालयति मेदिनीम्| भैरवादीप्तरुषितरूपदर्शी तृषान्वितः||१३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तेनापस्मारे सति पुनःपुनः संज्ञां-चेतनां च लभते| पीतफेनाक्षिमुखत्वं स्यात्| अत्र च वक्त्रग्रहणेनैवाक्षिग्रहणे सिद्धेऽक्षिग्रहणमतिशयार्थम्| तथाऽऽस्फालयति मेदिनीमित्यादि च स्यात्|

Adhikarana ३ कफजस्य लक्षणम् (१४-१५) · Śloka १५

कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्| चेष्टाऽल्पा भूयसी लाला शुक्लनेत्रनखास्यता||१४|| शुक्लाभरूपदर्शित्वं| |१५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफाच्चिरेण कालेन ग्रहणम्| चिरेणैव विमोक्षणं स्यात्| श्चेष्टाऽल्पेत्यादि च|

Adhikarana ४ त्रिदोषजस्य लक्षणम् (१५) · Śloka १५

सर्वलिङ्गं तु वर्जयेत्| |१५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वलिङ्गमपस्मारं वर्जयेत्-नोपक्रमेत्|

Adhikarana धीचित्तह्रत्खानां प्रबोधनम् (१५-१६) · Śloka १६

| अथाऽऽवृतानां धीचित्तहृत्खानां प्राक्प्रबोधनम्||१५|| तीक्ष्णैः कुर्यादिअपस्मारे कर्मभिर्वमनादिभिः| |१६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथ-एवमपस्मारस्वरूपमवगम्य, धीचित्तहृदयस्रोतसां पूर्वं प्रबोधनं कुर्यात्| कैः ? वमनादिभिः तीक्ष्णैः कर्मभिः|

Adhikarana वातादिजानां शोधनम् (१६-१७) · Śloka १७

| वातिकं बस्तिभूयिष्ठैः, पैत्तं प्रायो विरेचनैः||१६|| श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्| |१७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातिकमपस्मारं बस्तिप्रायैरुपाचरेत्| पैत्तं विरेचनप्रायैरुपाचरेत्| श्लैष्मिकं वमनप्रायैरुपाचरेत्|

Adhikarana अपस्मारहराः शमनयोगाः (१७-१८) · Śloka १८

| सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च||१७|| अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु| |१८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वतः-अध उपरिष्टाच्च विशुद्धस्य, तथा सम्यगाश्वासितस्य च-कृतपेयाद्यन्नसंसर्गिकस्य च सम्यगाश्वासनं सम्पद्यते| तस्यापस्मारिणः, अपस्मारविशोधनाय वक्ष्यमाणानिमान् योगानाकर्णय|

Adhikarana अपस्मारहराः गोमयस्वरसादिघृतम् (१८-१९) · Śloka १९

तानेवाह | गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः||१८|| अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्| |१९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गोमयस्वरसादिभिर्घ्रुतं पक्वमपस्मारादिघ्नं पिबेत्|

Adhikarana अपस्मारहराः महत् पञ्चगव्यं घृतम् (१९-२४) · Śloka २४

| द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः||१९|| सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्| शम्याकपुष्करजटाफल्गुमूलदुरालभाः||२०|| द्विपलाः सलिलद्रोणे पक्त्वा पादावशेषिते| भार्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः||२१|| मूर्वाभूतीकभूनिम्बश्रेयसीसारिवाद्वयैः| मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत्||२२|| प्रस्थं तद्वद् द्रवैः पूर्वैः पञ्चगन्यमिदं महत्| ज्वरापस्मारजठरभगन्दरहरं परम्||२३|| शोफार्शःकामलापाण्डुगुल्मकासग्रहापहम्| |२४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्विपञ्चमूलादीनि पृथग् द्विपलप्रमाणानि जलद्रोणे पक्त्वा पादावशेषिते क्वाथे भार्ग्यादिभिः कर्षाशैः कल्कीकृतैर्घृतस्य प्रस्थं तद्वत् पूर्वैः-गोमयस्वरसादिभिर्द्रवैः, पाचयेत्| महदिदं पञ्चगव्यं परं ज्वरादिहरम्, शोफादिघ्नं च| बहुद्रव्ययोगाच्चास्य महत्त्वम्, यथा महाकल्याणकादेः|

Adhikarana अपस्मारहराः ब्राह्यादिघृतम् (२४-२५) · Śloka २५

| ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्||२४|| पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाओमजित्| |२५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ब्राह्म्यादिभिः पुराणं सर्पिः पक्वं मेध्यमुन्मादादिजित्|

Adhikarana अपस्मारहराः सिद्धं तैलघृतम् (२५-२६) · Śloka २६

| तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः||२५|| क्षीरद्रोणे पचेत्सिद्धमपस्मारविमोक्षणम्| |२६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तैलप्रस्थं घ्रुतप्रस्थं जीवनियैः रजीकृतैः पलप्रमाणैः क्षीरद्रोणे पचेत्| तत्सिद्धमपस्मारविमोचनम्|

Adhikarana वातपित्तापस्मारहरं क्षीरादिघृतम् (२६-२७) · Śloka २७

| कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे||२६|| काऱ्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत्| वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत्||२७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षीरेक्षुरसयोः कंसे-आढके, तथा काश्मर्यरसेऽष्टगुणे-अष्टप्रस्थपरिमाणे, घृतादस्याष्टगुणत्वम्| जीवनियैःकार्षिकैर्घृतप्रस्थं विपाचयेत्| तत् वातपित्तजमपस्मारं शीघ्रमेव निहन्ति| ननु, द्वन्द्वजस्यापस्मारस्यासम्भवात् कथमुक्तं वातपित्तोद्भवं हन्तीति? उच्यते| वातपित्तोत्थयोर्द्वयोरप्यपस्मारयोर्हन्तीत्येतदिहोक्त मित्यदोषः|

Adhikarana वातपित्तापस्मारहरं काशादिक्षीरम् (२८) · Śloka २८

तद्वत् काशविदारीक्षुकुशक्वाथशृतं पयः| |२८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तद्वत्-पूर्ववत्, काशादिक्वाथे शृतं क्षीरं स्यात्|

Adhikarana अपस्मारहरं कूष्माण्डादिघृतम् (२८-२९) · Śloka २९

| कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम्||२८|| यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्| |२९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कूष्माण्डस्वरसेऽष्टादशगुणे मधुयष्टिकाकल्कं घृतप्रस्थं पक्वमपस्मारजित् बुध्द्यादिप्रदं च|

Adhikarana अपस्मारहरं कपिलगवादिनां पित्तं नस्यम् (२९-३०) · Śloka ३०

| कपिलानां गवां पित्तं नावने परमं हितम्||२९|| श्वशृगालबिडालानं सिंहादीनां च पूजितम्| |३०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कपिलानां गवां पित्तं नस्ये सुष्ट्रु हितम्, न कृष्णानाम् गवाम्, अचिन्त्यत्वात्प्रभावस्य| श्वादीनामपि पित्तं हितम्|

Adhikarana अपस्मारहरं गोधादितैलं नस्यम् (३०-३१) · Śloka ३१

| गोधानकुलनागानां पृषतर्क्षगवमपि||३०|| पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते| |३१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गोधादीनां च पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते|

Adhikarana अपस्मारहरं त्रिफलादितैलं नस्यम् (३१-३२) · Śloka ३२

| त्रिफलाब्योषपीतद्रुयवक्षारफणिज्जकैः||३१|| श्र्याह्वापामार्गकारञ्जबीजैस्तैलं विपाचितम्| बस्तमूत्रे हितं नस्यं चूर्णं वा ध्मापयेद्भिषक्||३२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिफलादिभिः कल्कितैश्छागमूत्रे चतुर्गुणे साधितं तैलं नस्यमुन्मादापस्मारिणोर्हितम्| चूर्णं त्रिफलादेर्वा वैद्यो नासाया मध्ये ध्मापयेत्|

Adhikarana अपस्मारहरं नकुलादितुण्डादिना धूपः (३३) · Śloka ३३

नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः| तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत्||३३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नकुलादीनां यथासम्भवं तुण्डादिभिरपस्मारिणो धूमं (पं) योजयेत्|

Adhikarana अपस्मारहरं तैललशुनादिशीलनम् (३४) · Śloka ३४

शीलयेत्तैललशुनं पयस वा शतावरीम्| ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||३४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा तैललशुनं शीलयेत्| क्षीरेण वा शतावरीमद्यात्| ब्राह्मीरसं वा कुष्ठरसं मधुना समभ्यसेत्, वचां वा|

Adhikarana दुश्चिकित्स्यस्य रसायनानि अपस्मारार्तस्याग्नितोयादेः रक्षणम् (३५-३६) · Śloka ३६

समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः| यज्जायते यतश्चैष महामर्मसमाश्रयः||३५|| तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेन्| तदार्तं चाग्नितोयादेर्विषमात्पालयेत्सदा||३६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत्-यस्मात्, अपस्मारो युगापत्प्रकोपितैः शारीरमानसैर्दोषैर्जायते, यतश्चैष महामर्माश्रयः, तत एनं-अपस्मारं, दुश्चिकित्स्यं रसायनैरुपाचरेत्| अपस्मारार्तं चाग्निजलादेर्विषमात् सद पालयेत्|

Adhikarana त्वमित्थं कृतमिति न ब्रूयात् इष्टैर्विषयैर्मनोबृंहणम् (३७-७) · Śloka

मुक्तं मनो विकारेण त्वमित्थं कृतवानिति| न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत्||३७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङहृदयसंहितायां षष्ठे उत्तर- स्थानेऽपस्मारप्रतिषेधो नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मनोविकारेण च मुक्तं सन्तं त्वमित्थं कृतवानिति न ब्रूयात्| अस्य च मनः क्लिष्टमिष्टैर्विषयैरुपबृंहयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थानेऽपस्मार- प्रतिषेधो नाम सप्तमोऽध्यायः समाप्तः|| ७|| इत्यष्टाङ्गहृदये भूततन्त्रं तृतीयं समाप्तम्