Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथेदानीं पञ्चविंशाध्यायारम्भो यन्त्रविधानप्रदर्शनार्थः| यतो बस्तिनस्याञ्ह्जनक्षारादीनि यन्त्राश्रयण्येवेत्याह-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथेदानीं पञ्चविंशाध्यायारम्भो यन्त्रविधानप्रदर्शनार्थः| यतो बस्तिनस्याञ्ह्जनक्षारादीनि यन्त्राश्रयण्येवेत्याह-
Adhikarana यन्त्रविधिरध्यायः (२) · Śloka २
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः| इति स स्मादुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यन्त्रस्य विधिर्यन्त्रविधिः शेषं पूर्ववत्| अर्शोभगन्दरादिषु निरुजेऽङ्ह्गे यम्यते-नियम्यते शस्त्रक्षाराग्निकर्मेति यन्त्रम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यन्त्रविधिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति|
Adhikarana यन्त्रलक्षणम् (१-३) · Śloka ३
एतदेव स्पष्टयन्नाह नानाविधानां शल्यानां नानादेशप्रबाधिनाम्| आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने||१|| अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने| शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि||२|| घटिकालाबुशृङ्गं च जाम्बवौष्ठादिकानि च| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनेकप्रकाराणि यानि शल्यानि-शस्त्रवेणुपाषाणादिरूपाणि, विविधेषु शरीरप्रदेशेषु निविशन्ते, तेषामाहरणे आकृष्टुं, योऽभ्युपायस्तद्यन्त्रम्| 'उच्यते' इति शेषः| तथा, अर्शोभगन्दरनाडीव्रणादीनां शस्त्रादियोजने सति शेषस्य-निरुजस्याङ्गस्य, परिरक्षायां-रक्षानिमित्तम्, स्वस्थस्याङ्गस्य शस्त्राद्याबाधानिवृत्त्यर्थमित्यर्थः| तथा, बस्तिनस्यादिकर्मणि य उपायस्तच्च यन्त्रम्| तथा घटिकादि च यन्त्रं पवनाकर्षणाय रक्ताद्याकर्षणाय च| जाम्बवौष्ठसन्दंशादीनि च यन्त्राणि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यन्त्रलक्षणमाह-नानाविधानामिति| शल्याहरणे य उपायः, यश्चार्शःप्रभृतिदर्शने, यश्च शास्त्रादिच्छेद्यसमीपाङ्गरक्षणे, यश्च बस्त्यादिप्रणयने, यश्च घाटिकादिराचूषणादौ, तद्यन्त्रम्| एवंविध उपायविशेशो यन्त्रमित्यर्थः|
Adhikarana यन्त्रविशेषाणां बुद्ध्या कल्प्यत्वम् (३-४) · Śloka ४
यन्त्राणां किं रूपं किं |च] कार्यं स्यात्? इत्याह- | अनेकरूपकार्याणि यन्त्राणि विविधान्यतः||३|| विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रूपाणि च कार्याणि च रूपकार्याणि| अनेकानि विचित्राणि, रूपकार्याणि तेषां तानि यन्त्राणि नानाप्रकाराणि| तत्र रूपं-कङ्कमुखस्वस्तिकाद्याकारत्वम्| कार्यं-अस्थ्यादिलग्नशल्यहरणादिकम्| यतश्चैवं यन्त्राणां नानाविधत्वम्, अतस्तानि बुद्ध्या विकल्प्य कार्यानुरोधात् कल्पयेत्| ननु, यन्त्राणां दिङ्मात्रेऽप्यनभिज्ञः कथमिव कल्पनां कर्तुं पारयेत् ? इत्याह- सं-यानि यानि स्थूलानि यथास्थूलम्| "यथा सादृश्ये" इत्यव्ययीभावः| यथास्थूलयन्त्रकरणेन व्युत्पन्नमतिः शेषाणामपि यन्त्राणामुत्पादने विकल्पं कर्तुं समर्थो भवेदिति भावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यन्त्रविशेषाणामनन्तत्वात् बुद्ध्या कल्प्यत्वमाह-अनेकरूपकार्याणीति| आ रं-निदर्शनार्थं कांश्चिद्यन्त्रविशेषान् वक्तुमाह-यथास्थूलमिति| स्वस्तिकसन्दंशतालनाडीशलाकानुयन्त्रभेदात् षोढा यन्त्राणि|
Adhikarana स्वस्तिकयन्त्राणि स्वस्तिकानां कार्यम् (४-७) · Śloka ७
अथ यन्त्राण्याह | तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्||४|| मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च| अष्टादशाङ्गुलायामान्यायसानि च भूरिशः||५|| मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः| विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च||६|| तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-येन पार्श्वेन शल्यमुद्ध्रियते तद्यन्त्राणां मुखं वेद्यम्| कङ्कादीनां पक्षिमृगाणां मुखैस्तुल्यानि यन्त्राणां मुखानि कुर्यात्| आदिशब्देन गृध्रहंसहरिणादिपरिग्रहः| तानि तत्संज्ञकानि| च एवार्थे, तानि यन्त्राणि तन्नामान्येव| यथा,-कङ्कुमुखं सिंहमुखमित्यादि| अष्टादशाङ्गुलेत्यादि, स्वस्तिकाख्यानि यन्त्राणि विद्यात्| कीदृशानि ? अष्टादशाङ्गुलदैर्घ्याणि, भूरिशो-बाहुल्येन, आयसानि-शस्त्रमयानि| दन्तादिमयानामपि क्वचिद्दर्शनात् भूरिश इत्युक्तम्| तथा, कण्ठप्रदेशे कीलकैर्बद्धानि| कीदृशैः कीलकैः ? मसूराकाराः पर्यन्ता येषां तैः| यत्र प्रदेशे यन्त्राणां हस्तग्रहस्तत्र तन्मूलम्| तत्राङ्कुशवन्नतानि-परिणतानि| तैः-कङ्कमुखादिभिः, अस्थिसंलग्नशल्यस्य-काण्डफलादेः, आहरणं-आकर्षणमिष्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र स्वस्तिकान्याह-तुल्यानीति| तत्संज्ञकानि-कङ्कमुखसिंहमुखादिनामानि| आयामो-दैर्घ्यम्| भूरिश इति वचनात् दार्वादिकृतान्यपि| कण्ठे-मुखाकारसम्पादकशकलद्वयसन्धानस्थाने| मूले-धारणस्थाने| स्वस्तिकानां कार्यमाह-तैर्द्दढैरिति|
Adhikarana कीलबद्धविमुक्ताग्रौ संदंशौ (७-८) · Śloka ८
| कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ||७|| त्वक्शिरास्नायुपिशितलग्नशल्यापकर्षणौ| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कीलेन-मसूराकारपर्यन्तेन, बद्धं तथा विमुक्तमग्रं- मुखं, ययोस्तौ कीलबद्धविमुक्ताग्रौ सन्दंशौ भवतः| कीदृशौ ? षोडशाङ्गुलप्रमाणौ| क्वोपयोग एतयोः स्यात् ? इत्याह-त्वगित्यादि| त्वगादीनां द्वन्द्वः| त्वक्शिरास्त्रायुपिशितलग्नं च तच्छल्यं च, तस्यापकर्ष्णे-आहरणे, तावुपयुज्येते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सन्दंशाश्चत्वारः| तत्र क्रीलबद्धाग्रकीलमुक्ताग्रौ सन्दंशावाह-कीलबद्धविमुक्ताग्राविति|
Adhikarana षडङ्गुलः संदंशः (८) · Śloka ८
| षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम्||८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-षोडशाङ्गुलसन्दंशद्वयादन्यः सन्दंशः (षडङ्गुलप्रमाणः) सूक्ष्मशल्यानां-नासारोमादीनां, हरणे-आकर्षणे, तथा, उपपक्ष्मणां वर्त्मादिभवानां हरणे युज्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-षडङ्गुलं सन्दंशमाह-षडङ्गुल इति| उपपक्ष्मणां-नेत्रेष्ववान्तरपक्ष्मणाम्|
Adhikarana मुचुण्डी (९) · Śloka ९
मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा| गम्भीरव्रणमांसानामर्मणः शेषितस्य च||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सा च मुचुण्डीसंज्ञा| किम्भूता मुचुण्डी? सूक्ष्मा दन्ता यस्याः सा सूक्ष्मदन्ता, तथा, ऋजुः-अवक्रा, न च सन्दंशवद्वक्रा द्विबाहुरित्यार्थः| तथा, मूले-हस्तग्रहणस्थाने, रुचकं-अङ्गुलीयकरूपं, भूषणं यस्याः सा रुचकभूषणा| रुचकपीडनेन सा कर्म करोतीत्यर्थः| गम्भीरश्चासौ व्रणश्च गम्भीरव्रणस्तस्मिन् मांसानि-तस्याधिमांसं, एतद्विषय आहरणे| अर्मणश्च शेषितस्य च्छिन्नशेषस्याहरणे मुचुण्डी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुचुण्ड्याख्यं सन्दंशमाह-मुचुण्डीति| सूक्ष्मदन्ता-सूक्ष्माग्रा| ऋजुः-अवक्रा| रुचकभूषणा-मूले मुद्रिकाबद्धा| गम्भीरेषु व्रणेषु यानि मांसानि, यानि च नेत्रेषु छिन्नशेषाण्यर्माणि, तेषां हरणे|
Adhikarana एकतालद्वितालके (१०) · Śloka १०
द्वे द्वादशाङ्गुले मत्स्यतालवत् द्व्येकलालके| तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्वे तालयन्त्रे भवतः| किंप्रमाणे ? द्वादशाङ्गुले| संस्थानमाह-मत्स्यतालवत् मीनगलतालवत्, द्वितालकं-एकं द्वयोः पार्श्वयोर्मत्स्यमुखसदृशम्, अपरमेकतालकं-एकपार्श्वे मत्स्यमुखाकारमेव| ते द्वे तालयन्त्रे भवतः| कर्णेत्यादि| कर्णनाडी शल्यमपहरतः-कर्णनाडीशल्यापहारिणी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तालयन्त्रद्वयमाह-द्वे द्वादशाङ्गुल इति| मत्स्यतालो-मत्स्यगलतालः|
Adhikarana नाडीयन्त्रणां स्थूलं स्वरुपं कार्यं च (११-१२) · Śloka १२
नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च| स्रोतोगतानां शल्यानामामयानां च दर्शने||११|| क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च| तद्विस्तारपरीणाहदैर्घ्यं स्रोतोनुरोधतः||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नाडीयन्त्राणि बस्तिनेत्रादिवत् सुषिराणि स्युः| एकं चानेकं चैकानेकं मुखं येषाम्| तनि च कानिचिदेकमुखानि एकद्वाराणि, कानिचिदनेकमुखानि-अनेकद्वाराणि| एतत्कर्माचष्टे-स्रोत इत्यादि| तानि च कर्णादिस्रोतोगतानां शल्यानां दर्शननिमित्तं विदधीत| तथा, कण्ठादिस्रोतोगतानां रोगाणां दर्शने-दर्शननिमित्तं, विदधीत| तथा, क्रियाणां-शस्त्रक्षाराग्निप्रक्षालनौषधप्रणिधानादीनां, सुकरत्वार्थम्| तथा, विषिदिग्धाङ्गादीनामाचूषणाय विदधीत| तद्विस्तारेत्यादि| तेषां-नाडीयन्त्राणां, विस्तारश्च परीणाहश्च दैर्घ्यं च, तानि स्रोतोवशात् भवन्ति| यथा,-अनुवासनोत्तरबस्तिनस्यनाडिकादिषु निर्दिष्टम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नाडीयन्त्राण्याह-नाडीयन्त्राणीति| विस्तारो-विवरस्य| परीणाहः-स्थौल्यं यन्त्रस्य|
Adhikarana कण्ठान्तःशल्यावलोकिनी नाडी (१३) · Śloka १३
दशाङ्गुलाऽर्धनाहाऽन्तःकण्ठशल्यावलोकिनी| नाडी|१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कण्ठे शल्यं कण्ठशल्यम्| कण्ठाभ्यन्तरशल्यावलोकनार्थं दशाङ्गुला नाडी| अर्धनाहा-पञ्चाङ्गुलपरिणाहा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कण्ठान्तःशल्यावलोकिनीं नाडीमाह-दशाङ्गुलेति| अर्धनाहा-पञ्चाङ्गुलस्थौल्या|
Adhikarana चतुष्कर्णवारङ्गसङ्ग्रहणी नाडी द्विकर्ण वारङ्गसङ्ग्रहणी नाडी (१३-१४) · Śloka १४
| पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे||१३|| वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमुखानि छिद्राणि यस्याः सा| चतुष्कर्णस्य वारङ्गस्य सङ्ग्रहे-सङ्ग्रहणनिमित्तमिदं यन्त्रम्| चत्वारः कर्णा यस्य वारङ्गस्येति समासः| तत्र शरादिदण्डप्रवेशः शिखाकारः कीलको वारङ्ग उच्यते| द्विकर्णस्य वारङ्गस्य त्रिच्छिद्रा नाडी स्यात्| त्रीणि छिद्राणि यस्याः सा त्रिच्छिद्रा| छिद्रशब्दस्योपलक्षणर्थत्वात् त्रिमुखेत्येतदपि द्रष्टव्यम्| तस्य वारङ्गस्य प्रमाणं तत्प्रमाणं तस्माद्वारङ्गप्रमाणतः-तदनुसारेण नाडीप्रमाणं ज्ञेयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चतुष्कर्णवारङ्गसङ्ग्रहणीं नाडीमाह-नाडीति| पञ्चमुखच्छिद्रा-मुखे छिद्रपञ्चकयुता| द्विकर्णसङ्ग्रहणीं नाडीमाह-द्विकर्णस्येति| तत्प्रमाणतः-सङ्ग्रह्यप्रमाणेन| एतच्च नाडीद्वये छिद्रमानम्|
Adhikarana अन्या नाड्यः (१४-१५) · Śloka १५
| वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः||१४|| नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत्| |१५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, कर्णश्च संस्थानं चानाहश्च दैर्घ्यं च तान्येवम्| वारङ्गस्य कर्णसंस्थानानाहदैर्घ्याणि, तेषामनुरोधस्तस्मात्, एवंप्रकारा अन्या अपि नाडीः शल्यानि शरीरान्तर्गतानि द्रष्टुं कारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यानि नाडीयन्त्राण्याह-वारङ्गकर्णेति| संस्थानं-आकृतिः| आनाहः-स्थौल्यम्|
Adhikarana शल्यनिर्घातिनी नाडी (१५-१६) · Śloka १६
| पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला||१५|| चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूर्ध्नि-मूर्द्धभागे, पद्मकर्णिकया-जलजकर्णिकया, सदृशी| कियत्प्रमाणा ? द्वादशाङ्गुला| तथा, चतुर्थः-चतुर्भागः, सुषिरो यस्याः सा, त्र्यङ्ह्गुलसुषिरेति यावत्| सा नाडी शल्यनिर्घातिनी मता| मुनीनामिति शेषः| अर्शोयन्त्रं लक्षयितुमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शल्यनिर्घातिनीं नाडीमाह-पद्मकर्णिकयेति| चतुर्थसुषिरा-त्र्यङ्गुलदीर्घविवरा|
Adhikarana अर्शौयन्त्रं द्विच्छिद्रम् अर्शौयन्त्रं एकच्छिद्रम् (१६-१८) · Śloka १८
| अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्||१६|| नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्| द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि||१७|| मध्येऽस्य त्र्यङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम्| अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तदूर्ध्वतः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्शसां सम्बन्धि यन्त्रकं गोस्तनाकृति चतुरङ्गुलं मानतो दैर्घ्येण स्यात्| यन्त्रकमित्याकर्षकं स्यात्| नाहे-परिणाहे, पञ्चाङ्गुलम्| यत्पञ्चाङ्गुलदीर्घेण सूत्रेण वेष्ट्यते, तत्प्रमाणं स्थौल्यमित्यर्थः| एतत् पुंसामेव पञ्चाङ्गुलं नाहे स्यात्| स्त्रीणां तु परिणाहे षडङ्गुलं यन्त्रकं स्यात्, स्वभावत एव तासां गुदस्य महत्त्वात्| व्याधेर्दर्शने द्विच्छिद्रं-उभयपार्श्वच्छिद्रं यन्त्रम्| कर्मणि-शस्त्रक्षाराद्यवचारणे, एकच्छिद्रं यन्त्रम्| अस्य यन्त्रस्य मध्ये त्र्यङ्गुलं छिद्रम्| अङ्ह्गुष्ठमध्यतुल्यविस्तारं, तथा तदूर्ध्वतोऽर्धाङ्गुलोच्छ्रिता उद्दृत्ता कर्णिका यस्य तदेवम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अर्शोयन्त्राख्यां नाडीमाह-अर्शसामिति| चतुरङ्गुलं दैर्घ्ये| परिणाहे तु पुंसां पञ्चाङ्गुलं, स्त्रीणां षडङ्गुलम्| व्याधेर्दर्शने द्विच्छिद्रम्, क्षारादियोजने तु शेषाङ्गपरिरक्षायामेकच्छिद्रम्| द्विच्छिद्रस्य तु द्वयोः पार्श्वयोश्च्छिद्रम्, एकच्छिद्रस्यैकस्मिन् पार्श्वे| तच्च त्र्यङ्गुलदैर्घ्यमङ्गुष्ठोदरविस्तारं मध्ये कार्यम्| छिद्रादुर्ध्वभगे मूलेऽर्धाङ्गुलोच्छ्राया बहिःकुञ्चिताग्रा कर्णिका कार्या|
Adhikarana अशौयन्त्रं शम्याख्यम् (१९) · Śloka १९
शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शःप्रपीडनम्| |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शम्याख्यं-शमीसंज्ञं, तृतीयं यन्त्रकं तादृग्-गोस्तनाकारमित्यादिलक्षणलक्षितयन्त्रसदृशं स्यात्| अत्र विशेषमाह-अच्छिद्रमित्यादि| अच्छिद्रं-छिद्ररहितम्, यन्त्रे छिद्रं न विधेयमित्यर्थः| इदं च यन्त्रमर्शःप्रपीडनं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तॄतीयमर्शःपीडनं शम्याख्यं यन्त्रमाह-शम्याख्यमिति| तादृक्-गोस्तनाकारादिलक्षणम्| अच्छिद्रं-पार्श्वच्छिद्ररहितम्|
Adhikarana भगन्दरयन्त्रं द्विच्छिद्रम् भगन्दरयन्त्रं एकच्छिद्रम् (१९) · Śloka १९
| सर्वथाऽपनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वथा भगन्दरे-भगन्दरयन्त्रे, ओष्ठमपनयेत्| कुतः प्रभृति ? छिद्रादूर्ध्वम्,-उपरिष्टादर्धाङ्गुलमपकर्षयेदित्यर्थः| कर्णिका तु कार्यैव (?)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भगन्दरयन्त्राख्यां नाडीमाह-सर्वथेति| अर्शोयन्त्रमेवापनीतौष्ठं भगन्दरयन्त्रम्| मुखच्छिद्रस्य पार्श्वभाग ओष्ठः|
Adhikarana घ्राणार्शोर्बुदयन्त्रम् (२०) · Śloka २०
घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया| प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत्||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घ्राणार्बुदे घ्राणार्शसि चैकच्छिद्रा नाडी दैर्घ्येणाङ्गुलद्वयप्रमाणा| तथा, प्रदेशिनीतुल्यः परीणाहो यस्याः सैवम्| सा च भगन्दरयन्त्रतुल्या स्यात्, अपनीतौष्ठेत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घ्राणार्शोर्बुदयन्त्राख्यां नाडीमाह-घ्राणार्बुदेति|
Adhikarana अङ्गुलित्राणकम् (२१) · Śloka २१
अङ्ह्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्| द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम्||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अङ्गुलित्राणकाख्यं यन्त्रं दन्तमयं काष्ठमयं वा चतुरङ्गुलप्रमाणमर्शसां यन्त्रसदृशं द्विच्छिद्रं गोस्तनाकृति स्यात्| तच्च वक्त्रस्य विवृतौ-प्रसारणे, सुखम्| यतो वक्त्रप्रसारणे अङ्गुलेर्दन्तेभ्यो रक्षणादन्वर्थमङ्गुलित्राणकमिति नाम|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अङ्गुलित्राणाख्यं नाडीयन्त्रमाह-अङ्गुलित्राणकमिति| वक्त्रविवृतौ-वक्त्रविकाशनार्थं, प्रवेशितामङ्गुलीं रक्षतीत्यङ्गुलित्राणकम्|
Adhikarana योनिव्रणेक्षणम् (२२-२३) · Śloka २३
योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्| मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्||२२|| चतुःशलाकमाक्रान्तं मूले तद्विकसेन्मुखे| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-योनिव्रणमीक्षतेऽनेनेति तत् योनिव्रणेक्षणं यन्त्रकम्| मध्ये-मध्यभागे, सुषिरम्| तथा, दैर्ध्येण षोडशाङ्गुलम्| तथा मुद्रिकया-ऊर्मिकयाऽसञ्चारिण्या, बद्धं-युक्तम्| तथा, चत्वारो (रि) भित्ताः(त्तानि)-पत्राणि, यस्य तच्चतुर्भित्तम्| तथा, जलजमुकुलसदृशमुखम्| तथा, चतस्रः शलाका यत्र तत् चतुःशलाकम्| तथा, तत्-यन्त्रं, मूल आक्रान्तं-मूलशलाकाक्रमणात् मुखे विकसेत्-प्रसरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-योनिव्रणेक्षणाख्यां नाडीमाह-योनिव्रणेक्षणमिति| चतुर्भित्तं-चतुःशकलम्|
Adhikarana नाडीव्रणाभ्यञ्जनम् (२३-२४) · Śloka २४
| यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले||२३|| बस्तियन्त्राकृती मूले मुखेऽङ्गुष्ठकलायखे| अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यन्त्रे द्वे षडङ्गुले भवतः| किमर्थम् ? नाडीव्राणाभ्यङ्गक्षालनाय,-अभ्यङ्गश्च क्षालनं चाभ्यङ्गक्षालने तदर्थं, उपयुज्येते| आकरणं-आकृत्, सम्पदादित्वात् क्विप्| पूर्वविहितस्य बस्तियन्त्रस्येव आकृत्-आकारो, ययोस्ते बस्तियन्त्राकृती,-वृत्ते गोपुच्छाकारे| तथा, यथासङ्ख्यं मूले मुखेऽङ्गुष्ठकलायखे-मूलेऽङ्गुष्ठतुल्यच्छिद्रे, मुखे कलायतुल्यच्छिद्रे| अग्रतोऽकर्णिके- कर्णिकारहिते, इति बस्तियन्त्राद्विशेषः| मूले तु कर्णिके द्वेऽपि पुटकयोजनार्थं कार्य एवेत्यग्रग्रहणम्| मूले-मूलदेशे, निबद्धं- योजितं, मृदु चर्म-बस्तिपुटकाकारं, ययोस्ते निबद्धमृदुचर्मणी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नाडीव्रणाभ्यञ्जननाडीव्रणक्षालनाख्यं नाडीद्वयमाह-यन्त्र इति| मूलेऽङ्गुष्ठप्रवेशच्छिद्रे, अग्रे कलायप्रवेशच्छिद्रे| अग्रतोऽकर्णिके-अग्रे कर्णिकारहिते| बस्तियन्त्राकृतीनि नाडीविशेषणम्, यन्त्रविशेषणत्वे तु नुम्प्रसङ्गः|
Adhikarana जलोदरयन्त्रम् (२५) · Śloka २५
द्विदारा नलिका पिच्छनलिका वोदकोदरे| |२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उदकोदरे जलस्रावणार्थं नलिका द्विद्वारा-उभयमुखी, स्यात्| अथवा, पिच्छनलिका-मयूरपिच्छजेत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलोदरयन्त्राख्यां नाडीमाह-द्विद्वारेति| नलिका-वेण्वादिनाडी| पिच्छनलिका-पक्षिपिच्छनाडी|
Adhikarana धूमबस्त्यादियन्त्राणि (२५) · Śloka २५
| धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धूमादियन्त्राणि यथास्वं धूमपानाद्यध्यायेषूक्तानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमयन्त्राद्या नाड्य उक्ता इत्याह-धूमबस्त्यादीति|
Adhikarana शृङ्गयन्त्रम् (२६) · Śloka २६
त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणेऽष्टादशाङ्गुलम्| अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शृङ्गं त्र्यङ्गुलमुखम्| दुष्टवातविषरक्ताम्बुदुष्टस्तन्यादेश्चूषणे-चूषणनिमित्तं, अष्टादशाङ्गुलं स्यात्| अष्टादशेति ""ह्यष्टन" इत्यादिनाऽऽकारादेशः| तथा, अग्रे-प्रान्ते, सर्षपप्रमाणच्छिद्रम्| यः प्रदेशश्चूषणाय शरीरे योज्यते तदग्रम्| तथा, सुष्ठु नद्धं-सम्यग्बद्धम्| चूचुकस्य-स्त्रीकुचाग्रस्येव, आकृतिः-आकारो, यस्य तदेवम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शृङ्गं त्र्यङ्गुलमुखम्| दुष्टवातविषरक्ताम्बुदुष्टस्तन्यादेश्चूषणे-चूषणनिमित्तं, अष्टादशाङ्गुलं-अष्टाङ्गुलं दशाङ्गुलं वा| सङ्ग्रहे तु द्वादशाङ्गुलमप्युक्तम् (सू.अ.३४)- "शृङ्गं तु ह्ऱस्वमध्यदीर्घमश्टादशद्वादशाङ्गुलायतम्" इति|
Adhikarana अलाबुयन्त्रम् (२७) · Śloka २७
स्याद्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः| चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत्||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अलाबुः-तुम्बः, द्वादशाङ्गुलो दैर्घ्येण स्यात्| परिणाहेऽष्टादशाङ्गुलः| चत्वारि वा त्रीणि वाऽङ्ह्गुलानि यस्य तच्चतुस्त्र्यङ्गुलम्, तत्तादृशं वृतं-वर्तुलं, आस्यं-मुखं, यस्य स एवम्| तथा, अन्तः-मध्ये, दीप्तो-ज्वलितः, पिचुर्भूर्जादि गर्भ इत्यर्थः| स ईदृशो दुष्टकफरक्तहरः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तुम्बाख्यां नाडीमाह-स्याद्वादशेति| चतुरङ्गुलास्यस्त्र्यङ्गुलास्यो वा| अन्तर्दीप्तः-प्रदीप्ततृणसृष्टपिचुना|
Adhikarana घठीयन्त्रम् (२८) · Śloka २८
तद्वद्घटी हिता गुल्मविलयोन्नमने च सा| |२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तद्वत्-तेनालाबुना तुल्यदैर्घ्यानाहादिः, तुल्यकार्याकारा च, घटी स्यात्| सा च गुल्मस्य विलय उन्नमने च हिता, न केवलं कफरक्तहृदिति चार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घतिकाख्यां नाडीमाह-तद्व-टीति| तद्वत्-अलाबुसदृशी| गुल्मविलयने गुल्मोन्नमने च| चकारात् श्लेष्मरक्तावचूषणे च|
Adhikarana शलाकायन्त्राणि (२८-२९) · Śloka २९
| शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च||२८|| यथायोगप्रमाणानि| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शलाकासंज्ञानि यन्त्राणि विविधकर्माणि विविधाकाराणि यथायोगप्रमाणानि स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शलाकायन्त्राण्याह-शलाकाख्यानीति|
Adhikarana एषिण्यौ शलाके (२९) · Śloka २९
तेषामेषणकर्मणी| उभे गण्डूपदमुखे|२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषां मध्य उभे गण्डूपदतुल्यास्य एषणकर्मणी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-एषिण्यौ शलाके आह-तेषामिति| एषणं अवलोकनम्|
Adhikarana शल्यहारिण्यौ शलाके (२९-३०) · Śloka ३०
| स्रोतोभ्यः शल्यहारिणी||२९|| मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा स्रोतोभ्यः शल्यहारिणी शलाकायन्त्रे भवतः| किम्भूते ? मसूरेत्यादि| मसूरदलमिव वक्त्रं ययोस्ते, मसूरदलमुखे द्वे शलाकेऽष्टाङ्गुले नवाङ्गुले वा स्याताम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शल्यहारिण्यौ शलाके आह-स्रोतोभ्य इति|
Adhikarana शङ्कवः (३०) · Śloka ३०
| शङ्कवः षट्|३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शङ्कवः षट् स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शङ्क्वाख्याः शलाका गणयति-शङ्कव इति|
Adhikarana व्यूहनौ शङ्कू (३०-३१) · Śloka ३१
| उभौ तेषां षोडशद्वादशाङ्गुलौ||३०|| व्यूहनेऽहिफाणावक्त्रौ| |३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषां मध्ये द्वौ षोडशाङ्गुलद्वादशाङ्गुलौ भवतः| व्यूहने-न्यूहनकर्मणि, सर्पफणामुखौ|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्यूहनौ शङ्कू आह-उभाविति| व्यूहनं-प्रसृतमांसादीनाम् यथास्थानं विन्यासः|
Adhikarana चालनौ शङ्कु (३१) · Śloka ३१
द्वौ दशद्वादशाङ्गुलौ| चालने शरपुङ्खास्यौ|३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्वौ शङ्कू दशाङ्गुलद्वादशाङ्गुलौ भवतः| चालने काण्डवाज इव मुखं ययोस्तौ शरपुङ्खास्यौ भवतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चालनौ शङ्कू आह-द्वाविति| शरपुङ्कं-शरकर्तरी|
Adhikarana आहरणौ शङ्कू (३१) · Śloka ३१
| आहार्ये बडिशाकृती||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आहार्ये-आकर्षणे, बडिशाकारौ| षट्शङ्ह्कूनाख्याय गर्भशङ्कुमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आहरणौ शङ्कू आह-आहार्ये बडिशाकृतीति| बडिशं-मत्स्यवेधनम्|
Adhikarana गर्भशङ्कू (३२) · Śloka ३२
नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः| आष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नतोऽग्रे-अग्रभागे, तथा शङ्कुना समः-कीलकाकारः, अष्टाङ्गुलदीर्घः स गर्भशङ्कुरिति स्मृतः, 'मुनिभिः' इति शेषः| तेन-गर्भशङ्कुना, मूढगर्भ-अनिःसरन्तं, हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सप्तमं गर्भशङ्कुमाह-नतोऽग्र इति| नतो-वक्रः| शङ्कुना तुल्यः-कीलकाकारः|
Adhikarana दन्तपातनम् (३३) · Śloka ३३
अश्मर्याहरणं सर्पफाणावद्वक्त्रमग्रतः| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अश्मर्याकर्षणे सर्पफणावदग्रे वक्त्रं स्यात्| सर्पफणाख्यमेव चैतद्यन्त्रम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अश्मर्याहरणं शलाकायन्त्रमाह-अश्मर्याहरणमिति|
Adhikarana प्रमार्जन्यः शलाकाः (३३-३४) · Śloka ३४
| शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्||३३|| कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने| |३४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शरपुङ्खमुखाख्यं यन्त्रं चतुरङ्गुलं दन्तपातनं स्यात्| अनेन हि दन्ताश्चलन्तः पात्यन्ते कृम्यादिभक्षिता वा| सं-प्रमार्जने-क्षालने क्षारक्लेदादेः, षट् शलाकाः स्युः| किम्भूताः ? कार्पासेन विहितमुष्णीषं-शिरोवेष्टनमिव, यासां तास्तथोक्ताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दन्तपातनं शलाकायन्त्रमाह-शरपुङ्खमुखमिति| आ रं-प्रमार्जनीः शलाका गणयति-कार्पासविहितोष्णीषा इति| उष्णीषं-शिरोवेष्टनम्|
Adhikarana पायुप्रमार्जन्यौ शलाके (३४) · Śloka ३४
| पायावासन्नदूरार्थे द्वे दशद्वादशाङ्गुले||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पायावासन्नदूरार्थे दशद्वादशाङ्गुले द्वे भवतः| आसन्नार्थे दशाङ्गुला, दूरार्थे द्वादशाङ्गुलेत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पायुप्रमार्जन्यौ शलाके आह-पायाविति|
Adhikarana घ्राणप्रमार्जन्यौ शलाके,कर्णप्रमार्जन्यौ शलाके (३५) · Śloka ३५
द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णेऽष्टनवाङुले| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घ्राणे षट्सप्ताङ्गुले द्वे भवतः| 'आसन्नदूरार्थे' इत्यत्राप्यनुवर्तते| तथैव कर्णेऽष्टनवाङ्गुले भवतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घ्राणप्रमार्जन्यौ शलाके आह-द्वे षडिति| कर्णप्रमार्जन्यौ शलाके आह-द्वे कर्ण इति|
Adhikarana कर्णशोधनम् (३५) · Śloka ३५
| कर्णशोधनमश्वत्थपत्रप्रान्तं स्रुवाननम्||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णशोधनाख्यं यन्त्रम्| अश्वत्थपत्रस्येव प्रान्तो यस्य तत्तथा| तथा, स्रुवस्येवाननं यस्य तदेवम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णशोधनं शलाकायन्त्रमाह-कर्णशोधनमिति| द्रवस्य मलस्यापनयनं-मार्जनम्, कठिनस्य-शोधनम्|
Adhikarana क्षाराग्निप्रयोगार्थं तिस्रः शलकास्त्रीणि च जाम्बवौष्ठानि (३६) · Śloka ३६
शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्| युञ्ज्यात् स्थूलाणुदीर्घाणां|३६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शलाकाश्च जाम्बवौष्ठानि च तेषां पृथक् त्रयं क्षारे क्षारपातने, [ आग्नौ-] आग्निदाहकरणे च युञ्ज्यात्| किम्भूतानां शलाकाजाम्बवौष्ठानाम् ? स्थूलाणुदीर्घाणां,-स्थूलाश्चाणवश्च दीर्घाश्च, तेषाम्| तत्र शलाकास्तिस्त्रो जाम्बवौष्ठानि च त्रीणि, क्षारे तथा दाहने, एवं द्वादशैतानि शलाकाख्यानि यन्त्राणीति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षाराग्निप्रयोगार्थं तिस्रः शलाकास्त्रीणि च जाम्बवौष्ठान्याह-शलाकाजाम्बवौष्ठानामिति| स्थूलं च स्थूलां च अणुश्च अणु च दीर्घा च दीर्घं च तानि स्थूलाणुदीर्घाणीत्येकशेषेण निर्देशः| अणु-सूक्ष्मं ह्रस्वं च| तेन स्थूलदीर्घं सूक्ष्महस्वं मध्यं चेति त्रिविधं शलाकायन्त्रं जाम्बवौष्ठं च| जम्बूफलवदोष्ठो यस्य तज्जाम्बवौष्ठम्, शलाकाविशेष एव| सङ्ग्रहेऽप्युक्तम् (सू.अ. ३४)-"क्षाराग्निकर्मार्थं जाम्बवौष्ठानि द्वादशदशाष्टाङ्गुलानि क्रमात् व्द्यङ्गुलाङ्गुलार्द्धाङ्गुलफलानि| शलाकाश्च स्थूलसूक्ष्मदीर्घह्रस्वमध्याः|" इति|
Adhikarana अन्नवृद्धिदाहार्थं शलाका (३६-३७) · Śloka ३७
| शलाकामन्त्रवर्ध्मनि||३६|| मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्| |३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्त्रवर्ध्मनि-अन्त्रवृद्धौ, शलाकां युञ्ज्यात्| कीदृशीम् ? मध्यादूर्ध्वं वृत्तो दण्डो यस्यास्ताम्| तथा, मूले-मूलभागे, अर्धेन्दुसन्निभां-अर्धचन्द्राकाराम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्त्रवृद्धौ दाहार्थं शलाकामाह-शलाकामिति| मूले-ग्रहणस्थाने| मध्योर्ध्ववृत्तदण्डां-अर्धचन्द्राकृतिं शलाकां विधाय तन्मध्ये ऊर्ध्वो वृत्तो दण्डः कार्यः|
Adhikarana नासार्शोर्बुददाहार्थं शलाका (३७) · Śloka ३७
| कोलास्थिदलतुल्यास्या नासार्शोर्बुददाहकृत्||३७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बदरास्थिखण्डसमं मुखं यस्याः सा कोलास्थिदलतुल्यास्या| सा नासार्शःसु नासार्बुदेषु च दाहं करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नासार्शोर्बुददाहार्थं शलाकामाह-कोलास्थिदलेति|
Adhikarana दर्व्याख्यास्तिस्त्रः शलाकाः (३८) · Śloka ३८
अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे| कनीनीमध्यमानामीनखमानसमैर्मुखैः||३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षारौषधक्रमे तिस्रः शलाका निम्नमुखा अष्टाङ्गुलाः स्युः| कीदृश्यः ? कनीनी च मध्यमा चानामी च, तासां नखाः, तेषां मानं-प्रमाणं, तेन समैः-तुल्यैः, मुखैरुपलक्षिताः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दर्व्याख्यास्तिस्रः शलाका आह-अष्टाङ्गुला इति|
Adhikarana मेढ्रशोधनाद्याः शलाकाः (३९) · Śloka ३९
स्वंस्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु| |३९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मेढ्रादिषु विषयेषु-उत्तरबस्त्यादिषु, स्वंस्वं-यथास्वं, यन्त्राणि गदितानि| आदिशब्देन नावनादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मेढ्रशोधनाद्याः शलाकास्तत्र तत्रोक्ता इत्याहस्वंस्वमुक्तानीति|
Adhikarana अनुयन्त्राणि, अनुयन्त्रकर्माणि (३९-४०.५) · Śloka ४०
| अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः||३९|| वध्रान्त्रजिह्वाबालाश्च शाखानखमुखद्विजाः| कालः पाकः करः पादो भयं हर्षश्च, तत्क्रियाः||४०|| उपायवित्प्रविभजेदालोच्य निपुणं धिया||४०.५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अयस्कान्तादीन्यणुयन्त्राणि, स्वल्पयन्त्रकार्यकरणात्| तेषां क्रियास्तत्क्रियाः-निर्घातनादिकाः, बुद्ध्या निपुणमालोच्य प्रविभजेत्,-निर्घातनादिकर्माणि प्रविभज्य युञ्ज्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुयन्त्राण्याह-अनुयन्त्राणीति| अयस्कान्तादीन्येकोनविंशतिरनुयन्त्राणि| सङ्ग्रहे तु (सू.अ. ३४)-"एतानि देहे सर्वस्मिन् देहस्यावयवेऽपि वा| सन्धौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत्||" इति| अनुयन्त्रकर्माणि स्वयमूह्यानीत्यत आह तत्क्रिया इति|
Adhikarana यन्त्रकर्माणि (४१.५) · Śloka
तान्येव यन्त्राणां कर्माण्याह निर्घातनोन्मथनपूरणमार्गशुद्धि- संव्यूहनाहरणबन्धनपीडनानि| आचूषणोन्नमननामनचालभङ्ग- व्यावर्तनर्जुकरणानि च यन्त्रकर्म||४१.५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निर्घातनादि यन्त्रस्य कर्म| निर्घातनं-ताडनं परिपातनम्, उन्मथनं-आलोडनं उन्मूलनम्, एवमन्यदपि चिन्त्यम्| चः समुच्चये, तेन प्रक्षालनादीनि समुच्चीयन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यन्त्रकर्माण्याह-निर्घातनेति| सङ्ग्रहे तु (सू.अ. ३४)-"विवरणविकर्षणव्यथनैषणदारणप्रक्षालनप्रधमनाञ्जनप्रमार्जनानि" इति नवाधिकानीति चतुर्विंशतिः|
Adhikarana यन्त्रेषु कङ्कमुखस्य प्राधान्यम् (२५) · Śloka २५
विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्| यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च| ४२ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विवर्तनादिभिश्चतुर्भिः कारणैर्यन्त्रेषु मध्ये कङ्कमुखं श्रेष्ठमिति| यस्माच्च सर्वेषु प्रदेशेष्वधिकारि-अधिक्रियते इति| वसन्ततिलकोपजाती वृत्ते| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशोऽध्यायः समाप्तः|| २५||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यन्त्रेषु कङ्कमुखस्य प्राधान्यमाह-विवर्तत इति| सङ्ग्रहे तु (सू.अ.३४)-"ह्रस्वदीर्घस्थूलतनुवक्रविषमग्राह्यग्राहिशिथिलतेत्यष्टौ यन्त्रदोषाः|" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| यन्त्रकर्मप्रकरणं सामस्त्येन निरूपितम्|| २५||