Skip to content

१४. द्विविधोपक्रमणीयाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

दोषोपक्रमणीयादनन्तरं द्विविधोपक्रमणीयारम्भेऽयं सम्बन्धः| पूर्वं सामान्येनोपक्रमो दोषोपक्रमणीयेऽभिहितः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

Adhikarana द्विविधोपक्रमणीयाध्यायः (२) · Śloka

अत्र तूपक्रमस्य विशेष उच्यत इत्याह - - - - अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्विविधं-द्विप्रकारं च तदुपक्रमणं च द्विविधोपक्रमणम्, तस्मै हितो द्विविधोपक्रमणीयः| शेषं पूर्ववत्| उपक्रमश्च समासतो द्विविधः, तन्त्रान्तरपठितानां चतुर्णामुपक्रमाणामत्रैवान्तर्भवात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-द्विविधोपक्रमणीयमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| यतः पूर्वाध्याये दोषाणामुपक्रम उक्तः| तस्येदानीं भेदा वाच्याः| तत्र द्वौ भेदौ मुख्यौ| अत एवायं द्विविधोपक्रमणीयः|

Adhikarana उपक्रमस्य द्वैविध्यम्, द्वैविध्यनिरूपणम् (१) · Śloka

अत एव सहेतुकमुपदिशन्नाह - - - - उपक्रम्यस्य हि द्वित्वाद्द्विधैवोपक्रमो मतः| |१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हि-यस्मात्, उपक्रम्यस्य-चिकित्स्यस्य, द्वित्वाद्धेतोरुपक्रमो द्विधैव मतः-इष्टः| एवशब्दोऽवधारणं कुर्वन् परमतं क्षिपति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-उपक्रमभेदानाह-उपक्रम्यस्येति| उपक्रम्यस्य-रोगस्य| द्वित्वात्-सामनिरामभेदेन|

Adhikarana बृंहणलङ्घनयोर्लक्षणम् (१-३) · Śloka

कथं द्विधा ? इत्याह - - - - एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः|१| बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ| बृंहणं यद्बृहत्वाय लङ्घनं लाघवाय यत्||२|| देहस्य| ||३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तयोर्द्वयोरुपक्रमयोः, एक सन्तर्पणरूप उपक्रमो, द्वितीयश्चापतर्पणरूप उपक्रमः| बृंहणो लङ्घनश्च तयोः-सन्तर्पणापतर्पणयोः, पर्यायौ तत्पर्यायावुदाहृतौ|| बृंहणं तदुच्यते यद्देहस्य बृहत्त्वाय भवति| लङ्घनं तदुच्यते यद्देहस्य लाघवाय-लाघवोत्पादनाय, भवति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-बृंहणलङ्घनयोर्लक्षणमाह-बृंहणमिति| यद्देहस्य बृहत्त्वाय-स्थौल्याय, तद्दृंहणम्| यल्लाघवाय-काश्र्याय, तल्लङ्घनम्|

Adhikarana लङ्घनबृंहणे उदाहरति (१) · Śloka

| भवतः प्रायो भौमापमितरच्च ते||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तच्च तच्च ते,-सन्तर्पणापतर्पणे, भौमापमितरच्च भवतः| भूमेरिदं भौमम्| अपामिदमापम्| भौमयुक्तमापं सन्तर्पणम्| इतरत्-भौमापादन्यदग्निवाय्वाकाशात्मकमपतर्पणम्| प्रायोग्रहणात्किञ्ह्चिद्भौमापमप्यपतर्पणम्| यथा,-यवकमसूरमकुष्ठतण्डुलीयादि| तथा, अग्निपवनोत्कटस्य कटुकस्यापि शुण्ठीपिप्पल्यादेः सन्तर्पणत्वम्, वृष्यत्वेन सन्तर्पणकार्यदर्शनात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लङ्घनबृंहणे उदाहरति-भवत इति| भौममाप्यं च द्रव्यं बृंहणम्| इतरत्-आग्नेयं वायव्यं नाभसं च लङ्घनम्| इति विभागेन ते-द्वे भवतः|

Adhikarana स्नेहादीनां बृंहणे रूक्षादीनां च लङ्घनेऽन्तर्भावः (३-४) · Śloka

अधुना स्नेहनादेश्चतुर्विधस्योपक्रमस्य सन्तर्पणापतर्पणयोरेवान्तर्भावं दर्शयन्नाह - - - - | स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्||३|| भूतानां तदपि द्वैध्याद्द्वितयं नातिवर्तते| |४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्नेहनादि यच्चतुर्विधं कर्म, तदपि द्वितयं-सन्तर्पणापतर्पणरूपं, नातिवर्तते-नातिक्रामति| कुतो हेतोः ? इत्याह-भूतानां सन्तर्पणापतर्पणरूपात् द्वैध्यात्-द्विप्रकारकत्वात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-स्नेहादीनामुपक्रमाणां बृंहणे, रूक्षादीनां च लङ्घनेऽन्तर्भावमाह-स्नेहनं रूक्षणमिति| भूतानां द्वैध्यात्-स्नेहनरूक्षणादिकद्रव्यकारणानां पृथिव्यादीनां बृंहणलङ्घनरूपद्वैविध्याव्यभिचारात्|

Adhikarana लङ्घनभेदौ (४) · Śloka

इदानीं प्रत्येकं तयोर्भेदानाह - - - - | शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम्||४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तयोः सन्तर्पणापतर्पणयोर्बृंहणलङ्घनापरपर्याययोर्मध्ये, यल्लङ्घनं-अपतर्पणम्, तत् द्विधा| कथम् ? इत्याह-शोधनं शमनं चेति| इति हेत्वर्थे, यतः शोधनं शमनं च ततो द्विधेत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लङ्घनभेदानाह-शोधनमिति|

Adhikarana शोधनस्य लक्षणं भेदाश्च (५) · Śloka

इदानीं शोधनस्य लक्षणं प्रभेदं चाधिकृत्याह - - - - यदीरयेद्वहिर्दोषान् पञ्चधा शोधनं च तत्| निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यदौषधं दोषान्-वातादीनन्तःस्थितान्, बहिरीरयेत्-क्षिपेत्, तच्छोधनम्| तच्च पञ्चधा,-पञ्चविधम्| तदेव पञ्चविधत्वमाह-निरूह इत्यादि| निरूहो-बस्तिः, तथा वमनम्, तथा कायविरेकः शिरोविरेकश्च, तथाऽस्रविस्रुतिः-रक्तस्रावश्च, इति पञ्चधा शोधनम्| सर्वशरीरस्य शिरःप्रभृतेरधोमलनिर्हरणं यत् स कायविरेकशब्देनोच्यते| यत्तु केवलं शिरःसंज्ञकस्य शरीरावयवस्य घ्राणेनोर्ध्वमलनिर्हरणं स शिरोविरेकः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-शोधनस्य लक्षणं भेदांश्चाह-यदीरयेदिति, निरूह इति| यद्दोषान् बहिर्निष्कासयेत्तच्छोधनम्| तत्तु निरूहादिभेदात् पञ्चधा| कायरेको-विरेचनम्| शिरोरेको-नस्यम्|

Adhikarana शमनस्य लक्षणं भेदाश्च (६-७) · Śloka

सम्प्रति शमनाख्यस्य लक्षणं प्रभेदं चाधिकृत्याह - - - - न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति विषमान् शमनं तच्च सप्तधा||६|| पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः| |७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यदौषधं दोषान्-वातादीन्, न शोधयति-नान्तःस्थितान् बहिर्निष्कासयति, तथा समान्-स्वप्रमाणस्थान्, नोदीरयति-न चोत्क्लेशयति, विषमांश्च-स्वप्रमाणाद्धीनाधिकभवावस्थितान्, समीकरोति-स्वप्रमाणस्थान् विदधाति, तच्छमनमुच्यते| तच्च सप्तधा,-सप्तप्रकारम्, पाचनादिभेदेन| पाचयतीति पाचनम्| पचतोऽग्रेः पक्तुं शक्तिमधिकां यदुत्पादयति तद्द्रव्यं क्रिया वा पाचनमुच्यते| यथा,-लङ्घनं मुस्तादि वा| दीपनं यथा,-घृतादि| तन्त्रान्तरे च दीपनपाचनयोर्लक्षणमुक्तम्| यथा,_"यदग्निकृत्पचेन्नामं दीपनं तद्यथा घृतम्| पाचनं तद्विपर्यस्तं यथा वक्ष्यामि लङ्घनम्||" इति| [क्षारपाणिनाऽप्युक्तम्-"पाचनं पाचयेद्दोषान् सामान् शमनमेव तु| दीपनं ह्यग्निकृत्त्वामं कदाचित्पाचयेन्न वा||" इति| ] क्षुत्तृट्शब्दाभ्यां क्षुतृष्णानिग्रहाविह गृहीतौ|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-शमनस्य लक्षणं भेदांश्चाह-न शोधयतीति, पाचनमिति| यद्दोषान् न शोधयति-बहिर्न निष्कासयति, समान्-जविकृतान्, नोदीरयति-न विकृतिं नयति, विषमान्-निकृताण्, समीकरोति-प्रकृतिं नयति, तच्छमनम्| तच्च पाचनादिभेदात् सप्तधा| क्षुत्-अन्नवर्जनम्| तृट्-उदकवर्जनम्|

Adhikarana बृंहणं शमनमेव (७) · Śloka

पाचनादीनां दोषशमनत्वमुक्तम्| तच्च वाते वातपित्ते च न सम्भवतीत्याह - - - - | बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च||७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तुशब्दो विशेषे| विशेषस्तु लङ्घनापेक्षया| शोधनं शमन चेति द्विधा लङ्घनमुक्तम्| बृंहणमपि शोधनं भवति| यथा,-दुग्धादिद्रव्यम्, शोधनस्वभावद्रव्यात्| तेन यथाविधेन द्रव्येण केवलस्य वातस्य पित्तयुक्तस्य वा कोप आशङ्क्यते| यथा-लङ्घनेन शोधनद्रव्येण हरीतक्यादिना| ततो बृंहणस्य विशेषार्थस्तुशब्दः कृतः| बृंहणं यच्छोधनं तन्मरुतः केवलस्य पित्तसहितस्य वा शमनम्, न तु लङ्घनशोधनवत्कोपनम्| एवकारोऽवधारणार्थः| बृंहणं शोधनरूपं वातस्य पित्तयुक्तस्य वा शमनमेवोक्तम्, न कोपनं जातुचिदित्यर्थः| लङ्घनं तूभयरूपमपि वातस्य वातपित्तयोर्वा कोपेनमेव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शोधनशमन-व्यतिरिक्तस्यौषधस्याभावात् तयोश्च लङ्घनभेदत्वात् बृंहणस्यानौषधत्वे प्राप्ते, बृंहणं शमनमेवेत्याह-बृंहणं शमनं त्विति| शुद्धस्य पित्तसंसृष्टस्य च वायोर्विषमस्य समीकरणाच्छमनम् |

Adhikarana बृंहाः (८-९) · Śloka

इदानीं बृंह्यनाह - - - - बृंहयेद्व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्| भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्||८|| गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कर्शितशब्दस्य व्याध्यादिभिः प्रत्येकं सम्बन्धः| व्याधिकर्शितान् बृंहयेत्| एवं शेषेष्वपि योज्यम्| भारादिभिः क्षीणस्य प्रत्येकं सम्बन्धः| भारक्षीणान् बृंहयेत्| एवं शेषेषु| रूक्षादीन् बृंहयेत्| ग्रीष्मेऽपरानपि-अन्याननुक्तानपि बृंहयेत्| [इत्थं च ग्रीष्मे सर्वानपि बृंहयेत्,] अतितरां तु व्याधिकर्शितादीन् बृंहयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-बृंहणस्य विषयमाह-बृंहयेदित्यादि| ग्रीष्मेऽपरानपि-स्वस्थानपि|

Adhikarana बृंहणानि (९-१०) · Śloka १०

कैर्बृंहयेत् ? इत्याह - - - - | मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः||९|| स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मांसादिभिर्बृंहयेत् बस्तिभिश्च| कथम्भूतैर्बस्तिभिः ? मधुरस्निग्धैः, न तु रूक्षतीक्ष्णैः, तेषामपतर्पणस्वभावत्वात्| स्वप्नो-निद्रा| शय्यासुखं-खट्वाजनितं शर्म| निर्वृतिः-चित्तस्यामाकुलत्वम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-बृंहणान्याह-मांसक्षीरेत्यादि| मधुरस्त्रिग्धैर्बस्तिभिः| शय्यासुखं-निद्रां विना शयनेऽवस्थानम्| निर्वृतिः-सन्तोषः| हर्षणं-आनन्दः|

Adhikarana लङ्घनीयाः (१०-११) · Śloka ११

लङ्घनीयानाह - - - - | मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः||१०|| विसर्पविद्राधिप्लीहशिरःकण्ठाक्षिरोगिणः| स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि||११||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मेहादीनामिनिर्मत्वर्थीयः| मेहिप्रभृतीन् लङ्घयेत्| शिशिरे पुनरपरानपि-अन्यानपि, इति व्याधितानां ग्रहणम्| स्वस्थानां तु शिशिरे हेमन्तविधिर्विशेषेणोक्त एव| शिशिरशब्दः शीतमात्रोपलक्षणार्थः| तेन हेमन्तेऽपि लङ्घयेदित्यर्थ उपलभ्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लङ्घनस्य विषयमाह-मेहामेदोषेत्यादि| आमदोषः-अजीर्णम्|

Adhikarana लङ्घनभेदस्य शोधनस्य विषयः, पाचनदीपनयोर्विषयः, क्षुत्तृषोर्विषयः, व्यायामातपमारूतानां विषयः (१२-१५) · Śloka १५

पूर्वमुक्तं लङ्घनं द्विधा,-शोधनं शमनं चेति| तत्र शोधनविषयं निरूपयन्नाह - - - - तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्| आमदोषज्वरच्छर्दिरतीसारहृदामयैः||१२|| विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्| मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः||१३|| एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्| क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्||१४|| समीरणातपायासैः किमुताल्पबलैर्नरान्| |१५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लङ्घयेदिति वर्तते| तत्र-तेषु लङ्घनीयेषु मध्ये, संशोधनाख्यैर्लङ्घनैः स्थैल्याद्यधिकान् तथा, आमदोषादिभिरार्तान् लङ्घयेत्| मध्येत्यादि| तथा मध्यस्थौल्यबलपित्तकफानेभिरेव- आमदोषादिभिर्गदैरातुरान् प्रायः पूर्वं पाचनदीपनैर्लङ्घनभेदैर्लङ्घयेत्| प्रायोग्रहणं देशकालाद्यपेक्षया नियमस्यासर्वविषयत्वज्ञापनार्थम्| हीनस्थौल्यबलादिकांस्तु सतः क्षुत्तृष्णानिग्रहैः-बुभुक्षापिपासावेगविधारणाख्यैर्लङ्घनविशेषैर्लङ्घयेत्| दोषैः-वातपित्तकफैर्मध्यबलैरार्तान्, तथा दृढान्-शक्तान्, समीरणादिभिर्लङ्घयेत्| आयासो-व्यायामः| किमुत-किंपुनः ? अल्पबलैर्दोषैरार्तान् समीरणादिभिर्लङ्घयेत्| सुतरां हीनबलैरार्तान् लङ्घयेदेवेत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ रं-लङ्घनभेदस्य शोधनस्य विषयमाह-तत्र संशोधनैरिति| अधिकस्थौल्यादीन् लङ्घनीयान् संशोधनैर्लङ्घयेत्| पाचनदीपनयोर्विषयमाह-आमदौषेति, विबन्धगौरवेति, मध्यस्थौल्यादिकानिति| आमदोषादिभिरर्तान् मध्यस्थौल्यादिकान् पूर्वं पाचनदीपनैर्लङ्घयेत्, पश्चाच्छोधनैः| क्षुत्तृषोर्विषयमाह-एभिरेवेति, क्षुत्तृष्णानिग्रहैरिति| एभिः-आमदोषादिभिः| व्यायामातपमारुतानां विषयमाह-दोषैस्त्वार्तानिति, समीरणेति| मध्यबलैर्दोषैर्रार्तान् समीरणादिभिर्लङ्घयेत्| किं पुनरल्पबलैर्दोषैरार्तान्? सुतरां हीनबलैरार्तान् लङ्घयेदेवेत्यर्थः|

Adhikarana लङ्घनीयान् न बृंहयेत् (१५) · Śloka १५

| न बृंहयेल्लङ्घनीयान्|१५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लङ्घनीयान्-लङ्ह्घनार्हान् मेहामदोषादियुतान्, न बृंहयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लङ्घनीयेषु पुरुषेषु बृंहणसाध्यरोगोत्पत्तौ बृंहणे प्राप्ते निषेधमाह-न बृंहयेदिति|

Adhikarana बृंह्यान् मृदु लङ्घयेत् (१५-१६) · Śloka १६

तर्हि बृंह्यस्य वातलादेर्यदा ज्वरादिव्याधिर्लङ्घनसाध्यो जायते, तदा किं लङ्घनं कार्यमुत बृंहणम् ? इत्यत्र संशयः| इत्याह - - - - | बृंह्यांस्तु मृदु लङ्घयेत्||१५|| युक्त्या वा देशकालादिबलतस्तानुपाचरेत्| |१६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ये पुनर्बृंह्यास्तान् लङ्घनसाध्यामयार्तान् मृदु कृत्वा लङ्घयेत्,-मृदुना लङ्घनप्रकारेणापतर्पयेदित्यर्थः| युक्त्वा वाप्रयोगेण सन्तर्पणापतर्पणव्यामिश्रलक्षणेन, देशकालादीनां बलतः-अनुरोधेन, तानुपाचरेत्-उपक्रमेत्, विनैव लङ्घनादित्यर्थः| आदिग्रहणेन सत्त्वसात्म्यादिग्रहणम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-बृंहणीयेषु प्रुरुषेशु लङ्घनसाध्यरोगोत्पत्तौ स्वल्पं लङ्घनं कार्यमित्याह-बृंह्यांस्त्विति| देशादिवशेन त्वन्यथाऽप्युपाचरेदित्याह-युक्त्या वेति| तान्-लङ्घ्यान् बृंह्यांश्च|

Adhikarana बृंहितस्य लक्षणम् (१६) · Śloka १६

बृंहितलङ्घितयोः किं लक्षणम् ? इत्याह - - - - | बॄंहिते स्याद्बलं पुष्टिस्तत्साध्यामयसङ्क्षयः||१६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बृंहिते सति बलं पुष्टिश्च स्यात्| तथा, बृंहणसाध्या य आमयास्तेषां सङ्क्षयो-विनाशः स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अथ बृंहतिलङ्घितलक्षणम्| तत्र बृंहतस्य लक्षणमाह-बृंहिते स्यादिति|

Adhikarana लङ्घितस्य लक्षणम् (१७-१८) · Śloka १८

सम्प्रति लङ्घितलक्षणमाह - - - - विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः| क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता||१७|| व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विमलेन्द्रियतादिस्तन्द्रानाशश्चेत्यन्तो ग्रन्थो लङ्घितलक्षणम्| विमलेन्द्रियता-करणपाटवम्| क्षुत्तृषोः सह-एककालमुदयः| शुद्धहृदयेति| हृदयं चोद्गारश्च कण्ठश्च हृदयोद्गारकण्ठम्, शुद्धं च तद्धृदयोद्गारकण्ठं च तस्य भावः हृदयोद्गारकण्ठता| विमलेन्द्रियतादीनां पदानामसमस्तानां निर्देशो दोषदेशाद्यनुरोधेनैकस्य द्वयोस्त्रिचतुराणां बहुतराणां वा सर्वेषां च लङ्ह्घितलक्षणत्वं भवेत्, न त्वेकस्य द्वयोर्बहूनां चोत्पत्तौ लङ्घितलक्षणत्वं भवेत्, मुनिरप्यनेनैव हेतुनऽसमासेनैव लक्षणं व्यधत्त| यथा (च. सू. अ. २२|३४) - "वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे| हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते|| स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये| कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि||" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-लङ्घितस्य लक्षणमाह-विमलेन्द्रियतेति, क्षुत्तृडिति, व्याधिमार्दवमिति| सर्गो मलानां-मलप्रवृत्तिः|

Adhikarana अतिबृंहितलङ्घितयोर्लक्षणम् (१८-१९) · Śloka १९

| अनपेक्षितमात्रादिसेविते कुरुतस्तु ते||१८|| अतिस्थौल्यातिकार्श्यादीन्, वक्ष्यन्ते च सौषधाः| |१९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ते-बृंहणलङ्घने, अनपेक्षितमात्रादिसेविते अतिस्थौल्यातिकार्श्यादीन् कुरुतः| अनपेक्षिताश्च ते मात्रादयश्च-अनपेक्षितमात्रादयः, तैः सेविते| मात्राद्यनपेक्षया कृते इत्यर्थः| ते च-अतिस्थौल्यातिकार्श्यादयः, सौषधाः-सभेषजाः, वक्ष्यन्ते-पुरस्ताद्भणिष्यन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अतिबृंहतातिलङ्घितयोर्लक्षणमाह-अनपेक्षितेत्यादि, अतिस्थौल्येति| मात्रादेशकालादीननपेक्ष्यातिसेवितं बृंहणमतिस्थौल्यादीन् कुरुते, लङ्घनं त्वतिकार्श्यादीन् के तेऽतिस्थौल्यादयोऽतिकार्श्यादयश्च? इत्यत आह-वक्ष्यन्ते ते चेति|

Adhikarana अतिस्थौल्यादयो रोगाः (१९) · Śloka १९

अथातिबृंहितलङ्घितयोः किं लक्षणम् ? इत्याह - - - - | रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते||१९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिबृंहितश्चातिलङ्घितश्चेत्येकवद्भावः| अतिबृंहितेऽतिलङ्घिते च तैरेव-अतिस्थौल्यादिभिः, तथाऽतिकार्श्यादिभिश्च, रूपं-बृंहणलङ्घनातियोगलक्षणं वेद्यम्| चशब्दः समुच्यये|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अतिस्थौल्यादीनां कार्यत्वात् कथं लक्षणत्वम् ? इत्यत आह-रूपं तैरेयेति| यत्र कार्यैकसमधिगम्यं कारणम्, तत्र कार्यमेव लक्षणमित्यर्थः|

Adhikarana अतिस्थौल्यादीनामुपक्रमः (२०-२१) · Śloka २१

तानेवातिस्थौल्यादीनाह - - - - अतिस्थौल्यापचीमेहज्वरोदरभगन्दरान्| काससन्न्यासकृच्छ्रामकुष्ठादीनतिदारुणान्||२०|| अथैषामतिस्थौल्यादीनामुपक्रममाह - - - - तत्र मेदोनिलश्लेष्मनाशनं सर्वमिष्यते| |२१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिबृंहितमतिस्थौल्यादीन् कुरुते| 'अतिबृंहितं कुरुते' इत्यनुपात्तेनापि प्रकृतत्वादत्र कर्तृपदेन क्रियापदेन च सम्बन्धः कार्यः| अत एव तदपेक्षयाऽतिस्थौल्यादीनां द्वितीया| अथवा योग्यतयैवानुपात्तेनापि सम्बन्धः क्रियादिना भवत्येव, सुकविलक्षणस्यैवंस्थितत्वात्| तथा च भगवतो व्यासस्य-"यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा| यश्चैनं गन्धमाल्येन सर्वस्य कटुरेव सः||" इति| अत्र हि छेदसेकालङ्करणक्रियापेक्षया निम्बादीनां द्वितीयाऽर्थसम्बन्धश्च| स०-तत्र-तेष्वतिस्थौल्यादिषु, मेदोनिलश्लेष्मनाशनं सर्वं-अन्नपानौषधमिष्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अतिस्थौल्यादीनाह-अतिस्थौल्यापचीति, काससन्न्यासेति| अतिस्थौल्यादीन् 'अतिबृंहणं कुर्यात्' इत्यध्याहारः| आ० र०-अतिस्थौल्यादीनामौषधमाह-तत्र मेदोनिलश्लेष्मनाशनमिति|

Adhikarana त्रिफलादयश्च्त्वारः प्रयोगाः, रसाञ्जनादयश्चत्वारः प्रयोगाः, विडङ्गादियोगः (२१-२४) · Śloka २४

किं तत् ? इति ब्रूते - - - - | कुलत्थजूर्नश्यामाकयवमुद्गमधूदकम्||२१|| मस्तुदण्डाहतारिष्टचिन्ताशोधनजागरम्| मधुना त्रिफलां लिह्याद्गुडूचीमभयां धनम्||२२|| रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः| शिलाजतुप्रयोगश्च साग्निमन्थरसो हितः||२३|| विडड्गं नागरं क्षारः काललोहरजो मधु| यवामलकचूर्णं च योगोऽस्थौल्यदोषजित्||२४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कुलत्थादिकं स्थूलायेष्यते| जूर्णः-तृणधान्यविशेषो दक्षिणापथे जोन्धलक इति प्रसिद्धः| दण्डाहतं-मथितम्| त्रिफलादीनामन्यतमं मधुना लिह्यात्| तथा, रसाञ्जनादेश्च प्रयोगोऽग्निमन्थरससहितो हितः, अतिस्थूलायेति प्रकृतेन योज्यम्| विडङ्गादियोगः सर्वसमभागोऽतिस्थौल्यदोषजित्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कुलत्थेति, मस्त्विति| जूर्णौ-यावनालः| मधूदकं-मधुमिश्रमुदकम्| दण्डाहतं-तक्रम्| त्रिफलादींश्चतुरो योगानाह-मधुना त्रिफलामिति| रसाञ्जनादीम्श्चतुरः प्रयोगानाह-रसाञ्जनस्येति, शिलाजतुप्रयोगश्चेति| साग्निमन्थरस इति चतुर्भिः सम्बध्यते| अग्निमन्थरसः-तर्कारीस्वरसः| विडङ्गादियोगमाह-विडङ्गमिति, यवामलकचूर्नमिति| क्षारो-यवक्षारः| काललोहरजो-लोहचूर्णम्|

Adhikarana व्योषादियोगः (२५-२८) · Śloka २८

व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः| हिड्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः||२५|| निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्| एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्||२६|| सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्| अतिस्थौल्यादिकान् सर्वान् रोगानान्यांश्च तद्द्विधान्||२७|| हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्| बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्||२८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्योषादीनि द्रव्याणि चतुर्विंशतिः परस्परसमभागानीत्येको भागः, तत्समो मधुनो द्वितीयो भागः, घृतस्य तृतीयः, तैलस्य चतुर्थः, एषां सर्वेषां मिश्रीभूतानां षोडशगुणा यवसक्तवः| तदेतत्पीतमतिस्थौल्यादिकान् पूर्वोक्तान् सर्वान् रोगान्निहन्ति| अन्यांश्च तथा विधान् रोगान्-बृंहणोत्थानित्यर्थः| तथा, हृद्रोगादीन् निहन्ति| तथा, बुद्ध्यादिकरं सन्नस्य-मन्दस्याग्नेर्दीपनं च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-व्योषादियोगमाह-व्योषकट्वीति, हिङ्गुसौवर्चलेति, निशे बृहत्याविति, एषामिति, सक्तुभिरिति, अतिस्थौल्यादिकानिति, हृद्रोगकामलेति, बुद्धिमेधास्मृतिकरमिति| केम्बुकान्मूलम्| केम्बुकं-स्वनामप्रसिद्धम्| षोडशगुणैः-चूर्णापेक्षया| पीतं-शीतोदकेन| सङ्ग्रहे तु (सू. अ. २४) -"गुर्वादिवृद्धसंलीनश्लेष्ममिश्रोऽन्नजो रसः| आम एव श्लथीकुर्वन् धातून् स्थौल्यमुपनयेत्|| अतिस्थौल्यादतिक्षुत्तृट्स्वेदश्वासातिनिद्रताः| दौर्गन्ध्यं गद्गदत्वं च भवेन्मेदोऽतिपुष्टिता| स्रोतःसु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः|| चरन् प्रज्वलयत्नग्निं क्षुत्तृषौ स्तस्ततोऽधिकम्| स्थूलं कोटरवद्दृद्धौ दहतोऽग्न्यनिलौ च तौ|| स्वेदवाहिशिरामूलभवाद्विष्यन्दनादपि| मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता|| कोष्ठ एव विपक्केऽस्य संरुद्धस्रोतोसो रसे| सर्वत्रालब्धवृत्तित्वात् प्रायो मेदः प्रचीयते|| तच्छेषाऽपि रसोऽल्पत्वान्नालं रक्तादिपुष्टये| तुल्येऽपि रक्तादिचये प्राक् चितं चीयतेतराम्|| मेदस्तेनासमत्वेन धातूनां विदधाति तत्| श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान्|| मेहोरुस्तम्भपिटिकाविद्रधिप्रभृतीन् गदान्| अयथोपचयोत्साहश्चलस्फिगुदरस्तनः|| अतिस्थूलः स्मृतो योज्यं तत्रान्नं मारुतापहम्| मदनं त्रिफलामुस्तास्पताह्वारिष्टवत्सकम्|| सपाठारग्वधं पीतमतिबृंहणरोगजित्| तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम्|| समुस्तपाठाखदिरत्रिफलानिम्बगोक्षुरम्| मदनादीनि चालेपः स्नानादिष्वपि योजयेत्|| हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम्| एलावृषकषड्ग्रन्थाखराश्वोपलभेदकम्|| तक्रेण दधिमण्डेन पीतं कोलरसेन वा| मूत्रकृच्छ्रं कृमीन् मेहान् स्थूलतां च व्यपोहति|| कृमिघ्नत्रिफलातैलसक्तुत्र्यूषणदीप्यकैः| लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम्|| योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणाद्यपि|" इति|

Adhikarana अतिकार्श्यादयो रोगाः (२९-३१) · Śloka ३१

साम्प्रतमतिलङ्घनोत्थान् रोगान् सौषधानाह - - - - अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः| स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः||२९|| बस्तिहृन्मूर्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः| प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनम्||३०|| वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्| |३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिकार्श्यादयोऽतिलङ्घनाज्जायन्ते| स्नेहादीनां क्षयशब्देन समासः, बस्त्यादीनां च रुजाशब्देन| मूत्रग्रहाद्याश्चेत्याद्यशब्देन नानाविधानां वातरोगाणां ग्रहणम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अतिकार्श्यादीनाह-अतिकाऱ्श्यमिति, स्नेहेति, स्नेहेति, बस्तीति, प्रलापेति, वर्चोमूत्रेति| स्नेहादीनां नवानां क्षयः| स्नेहः-स्निग्धत्वम्| बस्त्यादीनां सप्तानां रुजा|

Adhikarana स्थौल्यापेक्षया कार्श्यं वरम् (३१) · Śloka ३१

यद्यपि कार्श्याख्योऽयं महान् दोषः, तथा~पि स्थौल्यमपेक्ष्य वर एवेति प्रतिपादयन्नाह - - - - | कार्श्यमेव वरं स्थौल्यात्|३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अत्र चातिकार्श्यमेव वरमतिस्थौल्यादिति वेद्यम्, न कार्श्यमात्रं स्थौल्यमात्रं वा| यस्मादतिस्थूलातिकृशावेव लङ्घनबृंहणाभ्यामुपक्रम्यावत्र विवक्षितौ, न स्थूलकृशौ सामान्येन|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-स्थौल्यात् कार्श्यस्य सुखसाध्यत्वमाह-कार्श्यमेवेति|

Adhikarana तत्र कारणम् (३१-३२) · Śloka ३२

कार्श्यमेव स्थौल्यात् कुतो वरम् ? इत्याह - - - - | न हि स्थूलस्य भेषजम्||३१|| बृंहणं लङ्घनं वाऽलमतिमेदोग्निवातजित्| |३२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यस्मात् स्थूलस्य भेषजं बृंहणं नालं-न समर्थम्, न च लङ्घनं समर्थम्| यस्मात्स्थूलस्य भेषजमतिमेदोग्निवातजित्| यन्मेदःक्षपणं तदग्निनाशकृद्वातहृच्च| स्थूलस्य हि बृंहणेन मेदोऽतितरामुपचीयते, लङ्घनेन च मेदःक्षपणं भवति, किन्त्वग्निपवनावस्योपचीयते| यस्मात् बृंहणं-मांसक्षीरादि, यच्च लङ्घनं-कोद्रवश्यामाकादि, तत्पूर्वस्माद्धेतोः स्थूलस्य न भेषजम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-स्थौल्यस्य कृच्छ्रसाध्यत्वे हेतुमाह-न हि स्थूलस्येति| बृंहणं लङ्घनं वा न स्थूलस्य भेषजम्| यतस्तस्यातिमेदोग्निवातजिद्भेषजमलं-समर्थम्| लङ्घनमतिमेदोजित् भवति, न त्वत्यग्निवातजित्| बृंहणमत्यग्निवातजिद्भवति, न त्वतिमेदोजित्|

Adhikarana द्वितीयं कारणम् (३२-३३) · Śloka ३३

| मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति||३२|| क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः| |३३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत्-यस्मात्, क्रशिमा मधुरस्निग्धतृप्तिभिः सौख्येन-अनायासेन च, नश्यति-शाम्यति, तस्मात्कार्श्यं स्थौल्याद्वरम्| यतश्च स्थविमा-स्थूलत्वं, अत्यन्तविपरीतनिषेवणैः शाम्यति| अत्यन्तं विपरीतानि च तानि निषेवणानि चात्यन्तविपरीतनिषेवणानि तैः,-तिक्तकटुकषायप्रायैः रूक्षैरन्नपानौषधसेवनैरित्यर्थः| स्थूलकृशयोश्च यदि बृंहणसाद्यस्तुल्यो व्याधिः स्यात्, तार्हि स्थूलस्योपक्रमविरोधात्तथा सुखेन न शाम्यति यथा कृशस्य| लङ्घनसाध्योऽपि विसूचिकादिर्यादि चैतयोः स्यात्, सोऽपि कृशस्य शीघ्रमुपशमं गच्छति| स्थूलस्य तु विरुद्धोपक्रमत्वात् दुःखेन शाम्यति| तथा हि-अत्र प्रधानोपक्रमः स्वेदः, स च तावन्न घटते| "न स्वेदयेदतिस्थूलम्" (हृ. सू. अ. १७|२१) इति निषेधात्| अथैनं लङ्घयति तदा (सङ्ग्रहे सू. अ. २४) - "स्रोतःसु मेदोरुदेषु वायुः कोष्ठे विशेषतः| चरन् प्रज्वलयत्यग्निं क्षुतृषौ स्तस्ततोऽधिकम्| स्थूलं कोटरवद्दृद्धौ दहतोऽग्न्यनिलौ च तौ||" इत्यादि न्यायाद्वातसखेनाग्निना वनस्येवास्य महति व्यापदुत्पद्यते| अथ बृंहणोपक्रमः क्रियतेऽस्य तदाऽऽमदोषो वर्धेत| कृशस्य त्वविरुद्धोपक्रमत्वाद्विसूचिकादिः सुखेनोपक्रम्यः| तस्मात्कार्श्यमेव स्थौल्याद्वरम्| क्रशिमेति कृशशब्दात्पृथ्वादिपाठादिमनिच्, रऋतो हलादेरिति रेफादेशः| स्थविमेति दृढादेराकृतिगणत्वादिमनिजिति केचित्| तस्मिंश्च सति स्थूलदूरेति यणादिपरस्य लोपः, ऋकारस्य च गुणः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कार्श्यस्थौल्ययोर्वरावरत्वे हेत्वन्तरमाह-मधुरेत्यादि, क्रशिमेत्यादि| मधुरस्निग्धानं सौहित्यैः, तृस्यभ्यासार्थं बहुवचनम्| क्रशिमा-कार्श्यम्| स्थविमा-स्थौल्यम्| स चात्यन्तविपरीतनिषेवणैर्नश्यति| अत्यन्तविपरीतानि-अत्यग्लातिरूक्षादीनि, अतिदुःखं च|

Adhikarana कार्श्यस्य प्रधानौषधम् (३३) · Śloka ३३

अथ कृशे कीदृशं भेषजं योज्यम् ? इत्याह - - - - | योजयेद्धृंहणं तत्र सर्वं पानान्नभेषजम्||३३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-कृशे, बृंहणं सर्वं पानान्नौषधं योज्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-कार्श्यस्यौषधमाह-योजयेदिति|

Adhikarana कार्श्यस्य प्रधानतरौषधम् (३४-३५) · Śloka ३५

अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च| स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति||३४|| न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत्| मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः||३५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अचिन्तया-चेतसः शोककार्याद्यनाकुलत्वेन, तथा हर्षणेन-चित्ततुष्ट्या, तथा सन्तर्पणेन-आहारविशेषादिना बृंहणेन, तथा स्वप्नप्रसङ्गात्-अतिनिद्रासेवनेन, कृशः पुष्यति-सर्वोपचितधातुः सम्पद्यते| क इव ? वराह एव,-शूकरो यथा| अन्येभ्यश्च पुष्टिहेतुभ्यः कृशविषये स्वप्न एव प्रधान इति दर्शयितुं वराहो दृष्टान्तत्वेनोपन्यस्तो ग्रन्थकृता| तथा हि-वराहस्य स्वप्नमन्तरेण न कश्चित्तथाविधोऽभ्यवहारादिरुपलभ्यते, यथाऽसौ पुष्टोऽतिमेदुरो दृश्यते| अतिस्थूलातिकृशयोश्च लक्षणं मुनिनाऽभ्यधायि (च. सू. अ. २१|९) - "मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः| अयथोपच्चयोत्साहो नरोऽतिस्थूल उच्यते||" तथा (च. सू. अ. २१|१४)- "शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः| त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः||" इति| स०-मांसेन सममपरं देहबृहत्त्वकरं न च विद्यते| सर्वबृहत्त्वकरेभ्यो मांसमतिबृंहणमित्यर्थः| विशेषेण मांसादमांसं देहबृहत्त्वकृत्| कुतः ? इत्याह-मांसेन सम्भृतत्वात्,-पुष्टत्त्वात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-अचिन्तादिचतुष्टयं कार्श्यस्य प्रधानमौषधमित्याह-अचिन्तयेति, स्वप्नप्रसङ्ह्गाच्चेति| हर्षणेन-प्रियदर्शनादिना| सन्तर्पणेन-सौहित्येन| स्वप्नप्रसङ्गात्-निद्राभ्यासात्| आ० र०-कार्श्यस्य प्रधानतरमौषधमाह-न हीत्यादि| कार्शयस्य प्रधानतममौषधमाह-मांसादेत्यादि| मांसादानां-मांसासेविनां मांसम्, मांसेन सम्भृतत्वात्-पुष्टत्वात्, विशेषेतो देहबृहत्त्वकृत् इत्यनुषङ्गः| सङ्ग्रहे तु (सू.अ.२४)-"अतिकार्श्येन नायासवर्षशीतोष्नतृट्क्षुधः| तृप्तिहगुल्मार्शोवह्निमन्दताः| कृशं प्रायश्च बाधन्ते रक्तपित्तानिलामयाः| शुष्कस्फिगुदरग्रीवः स्थूलपर्वा शिराततः| उच्यतेऽतिकृशस्तत्र प्रागुक्तो बृंहणो विधिः|| अश्वगन्धा विदार्याद्यो वृष्याश्चौषधयो हिताः| लङ्घनोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्|| यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये| सद्यःक्षीणो यतः सद्योबृंहणेनोपचीयते|| चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च| बृंहणं देहमात्राग्निमलादीन् वीक्ष्य योजयेत्|| क्रमान्मांसरसांस्तल्माद्दकलावणिकान् लघून्| वेसवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान्|| रसांस्तथा च क्षीरादींस्तर्पणांस्तर्पणान् पुनः| युञ्ज्यात्कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम्|| तृष्यतामुर्ध्ववातानां मूढमारुतवर्चसाम्| समकृष्णासितातैलक्षौद्राज्यो हि सतर्पणः|| मन्थस्तद्वत्सिताक्षौद्रमदिरासक्तुयोजितः| फाणितं सक्तवः सर्पैर्दधिमण्डोऽम्लकाञ्जिकम्|| तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं परम्| मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लिकदाडिमैः|| परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित्| स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|| सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः|" इति|

Adhikarana स्थूलकृशयोः समासेनोपक्रमः, स्थूलकृशयोर्यवगोधूमं हितम् (३६) · Śloka ३६

एवं विस्तरेण स्थूलकृशयोरुपक्रममुक्त्वा समासेनाह - - - - गुरु चातर्पणं स्थूले विपरीतं हितं कृशे| यवगोधूममुभयोस्तद्योग्याहितकल्पनम्||३६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यद्गुरु यच्चापतर्पणं, तत्समासेन स्थूले हितं माक्षिकशालूकादि| एताद्धि रौक्ष्यान्मेदः क्षपयति, गौरवाच्च शीघ्रं जरां न गच्छति| यदतो विपरीतं-लघु सन्तर्पणं च, तदतिकृशे हितं शालिषष्टिकैणेयशशलावकपिञ्जलादिकम्| अतिकृशस्य ह्यग्निरपि कृशो भवति| तस्माद्यपि तस्य गुर्वन्नपानौषधमुपयुज्यते, ततोऽग्निसादोऽस्य जायते| तथाऽस्य लघु अपतर्पणमुपयुज्यते, तद्भूयः कार्श्यायास्य स्यात्| तस्माल्लघु सन्तर्पणं च यत्तत्कृशाय हितम्| गुरु चेत्यत्र चशब्दाल्लघु च यदतर्पणं श्यामाककोरदूषादिकं, तथाऽन्यदपि यन्न गुरु न च लघु मेदोघ्नं जागरव्यवायव्यायामचिन्तादिकं, तच्च स्थूले हितमिति गम्यते| उभयोः-स्थूलकृशयोर्यवगोधूमं हितम्| किम्भूतं यवयोगधूमम् ? इत्याह-तद्योग्येत्यादि| तयोः-स्थूलकृशयोः, योग्या-उचिता, आहिता-कृता, कल्पना-संयोगसंस्कारादिनोपयोगोऽपायो वा, यस्मिन् यवगोधूमे, तदेवम्| यवाः स्थूले हिताः, गोधूमाः कृशे, इत्यर्थः| 'हितयोगे चतुर्थी वक्तव्या" इत्यस्य प्रायिकत्वात् स्थूले हितमित्यत्र न चतुर्थी| अन्येऽपि ह्येवं प्रयोगा दृश्यन्ते| यथा रुद्रटस्य (काव्यालङ्कारे अ. ५|१४ टी.) - "सामाजा धीमतां हितम्|" इति| तथाऽस्यैव (हृ. सू. अ. ६|२९) - "विलेपि ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता| व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्||" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-स्थौल्यकार्श्ययोः सङ्क्षेपादौषधमाह-गुरु चातर्पणमित्यादि, यवगोधूममित्यादि| गुरुत्वे सति यदपतर्पणं तत्स्थूले हितम्| लघुत्वे सति यत्सन्तर्पणं तत्कृशे हितम्| यवाश्च गोधूमाश्च यवगोधूमम्| तदुभयोः स्थूलकृशयोः क्रमेण हितम्| तच्च तदुचितकृतकल्पनम्| यथा,-स्थूले तैलतक्रादिसिद्धा भक्ष्याः कृशे व्रुतक्षीरादिसिद्धाः| सङ्ग्रहे तु (सू. अ. २४) -"स्थौल्यकार्श्ये प्रकृत्याऽपि स्यातां तत्राप्ययं विधिः| सततव्याधिततया सदा योज्यो विभज्य च|| मात्रादियुक्ते सेवेत यस्तु लङ्घनबृंहणे| समधात्वग्निदेहोऽसौ सिंहसंहननो भवेत्|| दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते|" इति|

Adhikarana बहवोऽप्युपक्रम द्वित्वान्नातिरिच्यन्ते (१४) · Śloka १४

ननु, अतीसारज्वरगुल्मादीनामनेकरूपत्वादनन्ता एवोपक्रमाः प्राप्ताः| तत्कथमुक्तम् ? "उपक्रम्यस्य हि द्वित्वाद्धिधैवोपक्रमो मतः| " इति| अत आह - - - - दोषगत्याऽतिरिच्यन्ते ग्राहिभेद्यादिभेदतः| उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव||३७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्विविधोपक्रमणीयो नाम चतुर्दशोऽध्यायः||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दोषाणां-पृथग्रूपाणां संसर्गसन्निपातादितरतमभेदेनाऽऽनन्त्यं यातानां या गतिः, तथा तेषामेव स्थानवृद्धिक्षयलक्षणा या गतिः, तथा तिर्यगूर्ध्वाधोलक्षणा या गतिः, तथा शाखाकोष्ठास्थिसन्धिलक्षणा च या गतिः, तया| अतिरिच्यन्ते-बहवो भवन्त्युपक्रमाः| कथम् ? इत्याह-ग्राहिभेद्यादिभेदतः,-ग्राही च भेदी च ग्राहिभेदिनौ, तावादी येषां-रोगानुरोधान्नानाविधानामुपक्रमाणां, ते ग्राहिभेद्यादयः, तेषां भेदो-विशेषो, ग्राहिभेद्यादिभेदः, तस्मात्| यद्यप्यतिरिच्यन्ते-अनन्ताः सम्पद्यन्ते, तथाऽपि द्वित्वात्-सन्तर्पणापतर्पणरूपात्, न तेऽतिरिच्यन्ते| सन्तर्पणरूपत्वमपतर्पणरूपत्वं वा वर्जयित्वा न तेषामुपक्रमाणां रूपान्तरं सम्भवतीत्यर्थः| कथमिव नातिरिच्यन्ते? इत्याह-भिन्ना अपि गदा इव| यथा,-वातादिदोषवशान्नानाविधा अपि ज्वरादयो बृंहणलङ्घनसाध्यत्वं [सामत्वं निरामत्वं वा ] नातिवर्तन्ते, यथोपक्रमा अपीति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने द्विविधोपक्रमणीयाध्यायश्चतुर्दशः समाप्तः|| १४||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-"स्नेहनं रूक्षणं कर्म" (श्लो. ३) इत्यादिना सर्वोपक्रमाणां पृथक्त्वेऽप्युपक्रमद्वयेऽन्तर्भाव उक्तः| इदानीं तेषां पृथक्त्वमेव कुतः? इत्यत आह-दोषगत्वेति| दोषगत्या-द्दोषश(स)रणत्वेन, यथा यथा दोषा भिद्यन्ते तथा तथोपक्रमा भिद्यन्ते| यथा,-अतिप्रवृत्ते ग्राही, अप्रवृत्ते भेदी, दाहे शीतः, शीते उष्णः, इत्यादि| पृथक्त्वे हेतुश्चेत्पृथक्त्वमेवास्तु, नेत्याह-न ते द्वित्वादिति| द्वित्वाञ्चातिरिच्यन्ते-बृंहणत्वं लङ्घनत्वं वा सामान्यं न त्यजन्ति| यथा,-नानाविधा अपि गदाः सामत्वं निरामत्वं वा| इति हेमाद्रिटीकायामायुर्वेदरसायने| व्द्युपक्रमप्रकरणं सामस्त्येन निरूपितम्|| १४||