Adhikarana अध्यायोपक्रमः · Śloka
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो "दोषभेषजवशादुपयोज्याः" इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते-
आयुर्वेदरसायनम् व्याख्या ( कृत)
०
Adhikarana दोषादिविज्ञानीयाध्यायः (२) · Śloka २
रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते|
यतो "दोषभेषजवशादुपयोज्याः" इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते - - - - अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषा आदयो येषां ते-दोषादयः, तेषां विज्ञानं-प्राकृतेन वैकृतेन च स्वरूपेणा ९ वगमः, तस्मै हितो यः, तमध्यायं व्याख्यास्यामः| आदिशब्देन धातवो मलाश्च सङ्ग्रह्यन्ते| तत्स्वरू १० पावगमेन च त एव दोषाः सम्यग्ज्ञाता भवन्ति| धातूनां मलानां च दोषाधारभूतत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हेतुस्कन्धानन्तरं लक्षणस्कन्धमारभते| तत्र दोषादिविज्ञानीयमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| दोषादिविज्ञानाधीनत्वाल्लक्षणस्य| दोषदूष्यवैषम्यं च रोगलक्षणम्| वैषम्यज्ञानं च साम्यज्ञानाधीनम्| अत एवादौ साम्यज्ञानम्|
Adhikarana देहस्य मूलं दोषादयः (१) · Śloka १
दोषधातुमला मूलं सदा देहस्य--|
|१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषाः-वातादयः, धातवो-रसादयः, मलाः-मूत्रादयः, ते देहस्य मूलमिव मूलम्| यथा,-वृक्षस्य स्कन्धशाखादियुक्तस्य मूलं प्रधानम्, तदारब्धत्वात्| तथा,-देहस्य दोषधातुमलाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र साम्यफलमाह-दोषधातुमला इति| दोषा-वातादयः| धातवो-रसादयः| मलाः-पुरीषादयः| मूलं-कारणम्| सदा-सर्वासु जन्माद्यवस्थासु| समा इति प्रकरणाल्लभ्यते|
Adhikarana वायोः साम्यलक्षणम्, पित्तस्य साम्यलक्षणम्, श्च्लेष्मणः साम्यलक्षणम् (१-३) · Śloka ३
तं चलः|
उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवर्तनैः||१||
सम्यग्गत्या च धातूनामक्षाणां पाटवेन च|
अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः||२||
क्षुत्तृड्रुचिप्रभामेधाधीशौर्यतनुमार्दवैः|
श्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः||३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तं च-देहं, चलो-वायुः, उत्साहादिभिरनुगृह्णाति-उपकुरुते| उत्साहः-सर्वचेष्टासूद्योगः, उच्छ्वासः-ऊर्ध्वं श्वसनं श्वासमुक्तिः, निश्वासः-श्वासस्य शरीरान्तः प्रवेशनम्, चेष्टनं-चेष्टा वाक्कायमनोव्यापारः, वेगानां प्रवर्तनं-वातविण्मूत्रादीनां बहिर्निरसनम्, एतैश्च मारुतो देहमनुगृह्णाति| पित्तं पक्त्यादिभिरनुगृह्णाति| पक्तिः-पाकः| ऊष्मा-औष्ण्यम्| दर्शनं-दृष्टिः| मेधा-बुद्धिविशेषः| धीः-प्रज्ञा| शौर्यं-पौरुषम्| तनुमार्दवं-शरीरमृदुत्वम्| श्लेष्मा स्थिरत्वादिभिरनुगृह्णाति| क्षमा-क्षान्तिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वायोः साम्यं लक्षयति-तं चल इति| तं-देहम्| चलो-वायुः| उत्साहः-अध्यवसायः| उच्छ्वासः-श्वासनिर्गमः| निश्वासः-श्वासप्रवेशः| चेष्टा-गमनादिक्रिया| वेगप्रवर्तनं-विण्मूत्रादिप्रवृत्तिः| धातूनां सम्यग्गतिः-मार्गेणाद्रुतविलम्बितसञ्चारः| अक्षाणां पाटवं-इन्द्रियाणां विषयग्रहणसामर्थ्यम्| अनुगृह्णाति-उपकरोति| अविकृतः-समः| पित्तस्य साम्यं लक्षयति-पित्तमिति| पक्तिः-पाकः| ऊष्मा-औष्ण्यम्| दर्शनं-चाक्षुषज्ञानम्| क्षत्-बुभुक्षा| तृट्-पिपासा| रुचिः-प्रीतिः| प्रभा-कान्तिः| मेधा-ज्ञानधारणम्| धीः-ज्ञानम्| शौर्यं-बलम्| तनुत्वं-अस्थूलत्वम्| मार्दवं-सौकुमार्यम्| श्लेष्मणः साम्यं लक्षयति-श्लेष्मेति| स्थिरत्वं-दृढाङ्गत्वम्| स्निग्धत्वं-स्नेहाक्तत्वमिव| सन्धिबन्धः-सुश्लिष्टसन्धित्वम्| क्षमा-सहिष्णुत्वम्| आदिशब्दादलौल्यादयः| "तमनुगृह्णात्यविकृतः" इति वाक्यद्वयेऽनुवर्तते|
Adhikarana धातूनां श्रेष्ठकर्माणि (४) · Śloka ४
इदानीं धातूनां कर्माण्याह - - - - प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे|
गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्||४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रीणनादीनि कर्माणि रसादीनां क्रमात्-क्रमेण श्रेष्ठानि स्मृतानि, मुनिभिरिति शेषः| सङ्ग्रहोक्तानि मध्यमान्यपराणि कर्माण्येषां सन्त्येव| यथा,-रसस्य तुष्टिरक्तपुष्ट्यादिकं कर्म, रक्तस्य च वर्णप्रसादो मांसपोषणम्, मांसस्य बलं मेदःपुष्टी च मेदसः स्वेददार्ढ्यास्थिपुष्टयश्च, अस्थ्नो मज्जपोषणम्, मज्ज्ञो बलमस्थिपूरणं शुक्रपुष्टिश्च, शुक्रस्य हर्षो बलं च, एतैर्धातवो देहमनुगृह्णन्तीत्यर्थः| प्रीणनं-आप्यायनम्| रसो हि सम्यगभ्यवहरतः स्रोतांसि प्रविश्येन्द्रियप्रसादमभिनिर्वर्तयन् मनसः प्रीतिमादधाति| जीवनं-ओजोवृद्धिकरम्, रक्तकर्म| लेपः-उपदेहो, मांसस्य कर्म| तदुपलिप्तान्यस्थीनि चेष्टां क्षमन्ते| स्नेहो-नेत्रादिषु स्निग्धता, मेदसः कर्म| धारणं-ऊर्ध्वधारणम्, अस्थिकर्म| पूरणं-स्नेहेनास्थ्नाम्, मज्ज्ञः कर्म| शुक्रस्य गर्भोत्पत्तिः, श्रेष्ठं कर्मेति योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धातूनां साम्यं लक्षयति-प्रीणनमिति| प्रीणनं-तृप्तिः, अविकृतस्य रसस्य श्रेष्ठं कर्म| जीवनं-प्राणधारणम्, रक्तस्य| लेपो-भित्तेर्मृत्तिकयेव, मांसस्य| स्नेहः स्निग्धत्वम्, मेदसः| धारणं-अवलम्बनम्, अस्थ्नः| पूरणं-अस्थिपूरणम्, मज्ज्ञः| गर्भोत्पादः शुक्रस्य| श्रेष्ठग्रहणादन्यान्यप्युत्तरधातुपुष्ट्यादीनि सन्तीति ज्ञापयति|
Adhikarana मलानां कर्माणि (५) · Śloka ५
इदानीं मलानां कर्माण्याह - - - - अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्|
स्वेदस्य क्लेदविधृतिः|५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अवष्टम्भो-देहधारणशक्तिः, श्रेष्ठं कर्म पुरीषस्य स्मृतम्| मूत्रस्य क्लेदवाहनं श्रेष्ठं कर्म, मूत्रं क्लेदं निर्वाहयति| स्वेदस्य क्लेदविधारणं श्रेष्ठं कर्म, क्लेदाभावे हि शोषः स्यात्, मध्यमत्वक्ऽऽस्नेहकचरोमधारणमपि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पुरीषस्य साम्यं लक्षयति-अवष्टम्भ इति| अवष्टम्भो-धारणम्| मूत्रस्य साम्यं लक्षयति-मूत्रस्येति| क्लेदवाहनं-क्लेदस्य बहिर्निर्गमनम्| स्वेदस्य साम्यं लक्षयति-स्वेदस्येति| केशविधृतिः-रोम्णामवलम्बनम्| "श्रेष्ठं कर्म" इति वाक्यत्रयेऽनुवर्तते| तेन अनिलानलधारणबस्तिपूरणक्लेदधारणादीन्यन्यान्यपि कर्माणि ज्ञेयानि|
Adhikarana वृद्धवायोः कर्माणि (५-६) · Śloka ६
|
वृद्धस्तु कुरुतेऽनिलः||५||
कार्श्यकार्ष्ण्योष्णकामत्वकम्पानाहशकृद्ग्रहान्|
बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः||६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृद्धः पुनर्वायुः कार्श्यादीन् करोति| बलादीनां भ्रंशेन सम्बन्धः| बलस्य प्राणोपघातो भ्रंशः| निद्रायास्तु नाशो भ्रंशः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ वैषम्यज्ञानम्| तत्तु पञ्चधा| वक्ष्यति-हि (हृ. नि. अ. १/२)- "निदानं पूर्वरूपाणिरूपाण्युपशयस्तथा| सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम्||" इति| तत्रादौ रूपम्, तस्यान्तरङ्गत्वात्| पूर्वरूपं तु रूपमेवाव्यक्तम्| वक्ष्यति हि (हृ. नि. अ. १/६)- "लिङ्गमव्यक्तमल्पत्वाव्द्याधीनां तद्यथायथम्| तदेव व्यक्ततां यातं रूपमित्यभिधीयते||" इति| वैषम्यं च द्विधा,-वृद्धिक्षयभेदात्| तत्रादौ वृद्धिलक्षणम्| तत्र वायोराः-वृद्ध इति| कार्श्यं-कृशत्वम्| कार्ष्ण्यं-कृष्णवर्णत्वम्| उष्णकामत्वं-उष्णाभिलाषः| कम्पो-वेपथुः| आनाहः-बद्धोदरता| शकृद्ग्रहः-पुरीषरोधः| बलादीनां भ्रंशो-नाशः| प्रलापः-असम्बद्धप्रलापः| भ्रमः-चक्ररूढस्येव| दीनता- म्लानत्वम्|
Adhikarana वृद्धपित्तस्य कर्माणि (७) · Śloka ७
पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्पनिद्रताः|
पित्तम्|७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीतस्य विडादिभिस्त्वगन्तैः सम्बन्धः, ततः क्षुदादिभिर्द्वन्द्वः, ततस्तलप्रत्ययः| पित्तं वृद्धं पीतविण्मूत्रादीन् करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तस्याह-पीतविण्मूत्रेति| विण्मूत्रनेत्रत्वचां पीतत्वम्| क्षुत्तृषाविह तीव्रे ज्ञेये, समयोः स-लक्षणत्वात्| दाहः-सन्तापः| अल्पनिद्रता-निद्राल्पत्वम्|
Adhikarana वृद्धश्लेश्मणः कर्माणि (७-८) · Śloka ८
|
श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम्||७||
श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः|
|८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मा वृद्धोऽग्निसादादीन् करोति| श्वैत्यं- गात्रशुक्लता| शैत्यं-अङ्गानां शिशिरत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्लेष्मण आह-श्लेष्मेति| अग्निसदनं-अग्निमान्द्यम्| प्रसेको-लालास्रावः| आलस्यं-अनुत्साहः| गौरवं-दुर्वहाङ्गत्वम्| श्वैत्यं-शुक्लत्वम्| शैत्यं-शीतस्पर्शत्वम्| श्लथाङ्गत्वं-अवयवशैथिल्यम्| श्वासकासौ-रोगौ| अतिनिद्रता-निद्राधिक्यम्|
Adhikarana वृद्धरसस्य कर्माणि (८) · Śloka ८
|
रसोऽपि श्लेष्मवत्|८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसश्च श्लेष्मवत्, रसोऽपि वृद्धोऽग्निसादादीन् विदधातीत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रसस्याह-रसोऽपीति| श्लेषमवदग्निसादादीन् करोति| अपिशब्दोऽन्यानष्यतिदेशान् सूचयति| तेन रक्तं पित्तवत्, मांसमेदसी श्लेष्मवत्|
Adhikarana वृद्धरक्तस्य कर्माणि (८-९) · Śloka ९
|
रक्तं विसर्पप्लीहविद्रधीन्||८||
कुष्ठवातास्रपित्तास्रगुल्मोपकुशकामलाः|
व्यङ्गाग्निनाशसम्मोहरक्तत्वङ्नेत्रमूत्रताः||९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तं वृद्धं विसर्पादीन् करोति| उपकुशो नाम दन्तरोगजातिः, उत्तरतन्त्रे (अ. २१|२१) वक्ष्यमाणलक्षणा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तस्याह-रक्तमिति| वीसर्पादयो व्यङ्गान्ताः रोगाः| तत्रोपकुशो-दन्तमांसजरोगः| व्यङ्गं-क्षुद्ररोगविशेषः| सम्मोहो-मूर्च्छा| त्वङ्नेत्रमूत्राणां रक्तत्वम्|
Adhikarana वृद्धमांसस्य कर्माणि (१०) · Śloka १०
मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः|
कण्ठादिष्वधिमांसं च|१०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसं वृद्धं गण्डादीन् रोगान् करोति| गण्डशब्देन गण्डमाला गलगण्डश्च गृहीतौ, आद्यन्तलोपात्| इतरश्च गण्डो गण्डमांसाढ्यात्| गण्डश्चार्बुदं च ग्रन्थिश्च गण्डार्बुदग्रन्थयः| गण्डौ च ऊरू चोदरं च तेषां वृद्धिता| ततो द्वन्द्वः| ताः करोति| वृद्धिता-वृद्धित्वम्| कण्ठादिष्वधिकं मांसं च कुरुते| आदिशब्देन तालुजिह्वादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसस्याह-मांसमिति| गण्डादयो रोगाः| गण्डो-गलगण्डादिः| गण्डयोरूर्वोरुदरे च वृद्धता-स्थौल्यम्| कण्ठादिषु-कण्ठतालुजिह्वादिषु| अधिमांसं-मांसस्योपरि मांसम्|
Adhikarana वृद्धमेदसः कर्माणि (१०-११) · Śloka ११
तद्वन्मेदस्तथा श्रमम्||१०||
अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम्|
|११|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- मेदोऽपि वृद्धं गण्डादीन् कुरुते| तथाल्पेऽपि चेष्टिते श्रमं कुरुते, श्वासं च| तथा, स्फिजोः स्तनयोरुदरस्य च लम्बनं कुरुते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मेदस आह-तद्वदिति| तद्वत्-मांसवत्| तथा, अल्पेऽपि चेष्टिते श्रमश्वासौ| स्फिगादीनां लम्बनम्| स्फिजौ-कटिप्रोथौ|
Adhikarana वृद्धास्थ्नः कर्माणि (११) · Śloka ११
|
अस्थ्यध्यस्थ्यधिदन्तांश्च|११|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्थि वृद्धमध्यस्थ्यधिहन्तांश्च कुरुते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्थ्न आह-अस्थीति| अध्यस्थि-अधिकमस्थि| अधिदन्ताः-अधिका दन्ताः|
Adhikarana वृद्धमज्ज्ञः कर्माणि (११-१२) · Śloka १२
मज्जा नेत्राङ्गगौरवम्||११||
पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च|
|१२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मज्जा वृद्धो नेत्रयोरङ्गानां च गौरवं कुर्यात्| कुरुत इति प्रकृते कुर्यादित्युक्तं स्पष्टार्थम्| पर्वसु-अङ्गुल्यादिसन्धिषु, अरूंषि-पिटिकाविशेषान्, कुर्यात्| कीदृशानि ? स्थूलमूलानि,-स्थूलानि मूलानि येषां तानि| तथा, कृच्छ्राणि-कृच्छ्रसाध्यानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मज्ज्ञ आह-मज्जेति| अङ्गगौरवेणैवाक्ते नेत्रगौरवे नेत्रग्रहणमतिशयार्थम्| पर्वसु-सन्धिषु| स्थूलमूलानि-मूलप्रदेशे स्थूलानि| कृच्छ्राणि-कष्टसाध्यानि| अरूंषि-व्रणान्|
Adhikarana वृद्धशुक्रस्य कर्माणि (१२) · Śloka १२
|
अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि||१२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्रं वृद्धमतिस्त्रीकामतां कुर्यात्, शुक्राश्मरीं च| अपिशब्दाद्बलस्नेहाद्यपि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुक्रस्याह-अतीति| अतिस्त्रीकामता-पुनः पुनः स्त्रीसङ्गेच्छा| शुक्राश्मरी-रोगः|
Adhikarana वृद्धशकृतः कर्माणि (१३) · Śloka १३
कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्|
|१३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शकृत्-पुरीषं, वृद्धं कुक्षावाध्मानादीन् कुर्यात्| कुर्यादिति सम्भावनायां लिङ्| आध्मानं-आनाहः| आटोपः-अन्त्रकूजनादि| [गौरवं-गुरुत्वम्, वेदनां च कुक्षौ|]
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शकृत आह-कुक्षाविति| कुक्षौ-उदरे, आध्मानादीनि| आध्मानं-वातेनोदरपूरणम्| आटोपो-गुडगुडाशब्दः| गौरवं-दुर्वहत्वम्| वेदनां-शूलम्| शकृत्-पुरीषम्|
Adhikarana वृद्धमूत्रस्य कर्माणि (१३) · Śloka १३
|
मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्||१३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूत्रं वृद्धं बस्तेर्निस्तोदं-अतिव्यथां कुर्यात्| तथा कृतेऽपि मूत्रेऽकृतसंज्ञतां-अकृताभासत्वमिव कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूत्रस्याह-मूत्रमिति| बस्तिनिस्तोदो-बस्तिदेशे व्यथा| कृतमपि मूत्रोत्सर्गमकृतमिव मन्यते|
Adhikarana वृद्धस्वेदस्य कर्माणि (१४) · Śloka १४
स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः|
|१४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्वेदो वृद्धोऽतिस्वेदादीन् कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वेदस्याह-स्वेद इति| अतिस्वेदः-स्वेदाधिक्यम्| दौर्गन्ध्यं-दुर्गन्धता| कण्डूः-कच्छूः|
Adhikarana एवं दूषिकादयो मलाः (१४) · Śloka १४
एवं च लक्षयेत्|
दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः||१४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवं-अनेन प्रकारेण, दूषिकादीनपि मलान् लक्षयेत्-अनुमिनुयात्| दूषिका-अक्षिमलः| आदिशब्दात् घ्राणकर्णनासामलादीनां ग्रहणम्| कथं लक्षयेत् ? इत्याह-बाहुल्येत्यादि| मलबाहुल्येन तत्स्थानगौरवेण च| आदिग्रहणात्कण्डूक्लेदादयो गृह्यन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दूषिकादीनाह-एवं चेति| दूषिका-नेत्रमलः| आदिशब्दात् कर्णमलादयः| एवमिति यथा| स्वाधिक्यस्वाशयगौरवादिभिः पुरीषादयो वृद्धा लक्ष्यन्ते| आदिशब्दात् स्वाशयव्यथादयः|
Adhikarana क्षीणानिलस्य कर्माणि (१५) · Śloka १५
वृद्धानां वातादीनां लिङ्गान्यभिधाय, क्षीणानां वातादीनां लिङ्गान्याह - - - - लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्|
संज्ञामोहस्तथा श्लेष्मवृद्धयुक्तामयसम्भवः||१५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनिले क्षीणे-स्वप्रमाणापचिते, वक्ष्यमाणानि लिङ्गानि| वायोस्तु सर्वक्षये देह एव न स्यात्, कस्य तल्लिङ्गं स्यात्| किं पुनस्तल्लिङ्गम् ? इत्याह-अङ्गस्येत्यादि| अङ्गस्य सादः-क्रियास्वसामर्थ्यम्| ईहितं-चेष्टितम्, कायिकं कर्म| भाषितं चेहितं च भाषितेहितम्,-अल्पवचनाऽल्पचेष्टितत्वं च स्यात्| तथा, संज्ञामोहः-संविदोऽभावः| तथा, श्लेष्मवृद्धौ य उक्ताः-अग्निसादप्रसेकादयः, तेषामामयानां सम्भवो भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ क्षयलक्षणम्| तत्र वायोराह-लिङ्गमिति| अङ्गस्य सादः-श्रान्तत्वमिव| भाषितेहितमल्पम्| भाषितं-वाचिकं कर्म| ईहितं-कायिकम्| संज्ञा-बुद्धिः, तस्या मोहोविवेचनाक्षमत्वम्| श्लेष्मवृद्धयुक्तमयाः-अग्निसदनादयः|
Adhikarana क्षीणपित्तस्य कर्माणि (१६) · Śloka १६
पित्ते मन्दोऽनलः शीतं प्रभाहानिः|
|१६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लिङ्गं क्षीणे इत्यनुवर्तते| पित्ते क्षीणे लिङ्गमेतत्| अग्निर्मन्दः शीतं कान्तिहानिश्च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तस्याह-पित्त इति| मन्दोऽनलः-अग्निमान्द्यम्| शीतं-हिमस्पर्शेनेव दुःखम्| प्रभाहानिः-कान्तिनाशः|
Adhikarana क्षीणकफस्य कर्माणि (१६) · Śloka १६
कफे भ्रमः|
श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता||१६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफे क्षीणे भ्रमो भवति| तथा, श्लेष्माशयानां शून्यत्वं भवति| श्लेष्माशयाः-उरःशिरःसन्ध्याद्याः| [तथा, हृद्द्रावादयः स्युः| हृद्द्रवः-हृदि कम्प इत्यर्थः|]
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफस्याह-कफ इति| भ्रमः-चक्रारूढस्येव| श्लेष्माशयानां-उरःप्रभृतीनाम्| शून्यत्वं-रिक्तत्वम्| हृद्द्रवः-अनुकम्पयेव पीडा हृदयस्य| श्लथसन्धिता-सन्धिशैथिल्यम्|
Adhikarana क्षीणरसस्य कर्माणि (१७) · Śloka १७
रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता|
|१७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसे क्षीणे रौक्ष्यादयः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रसस्याह-रस इति| रौक्ष्यं-स्नेहाभावः| श्रमः-श्रान्तत्वम्| शोषो-मुखादीनाम्| ग्लानिः-क्लमः| शब्दासहिष्णुता-शब्दश्रवणद्वेषः|
Adhikarana क्षीणरक्तस्य कर्माणि (१७) · Śloka १७
|
रक्तेऽम्लशिशिरप्रीतिशिराशैथिल्यरूक्षताः||१७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्ते क्षीणेऽम्लाद्यभिलाषादयः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तस्याह-रक्त इति| अम्लशीतयोरभिलाषः| शिराणां शैथिल्यम्| रूक्षता_शरीरस्य|
Adhikarana क्षीणमांसस्य कर्माणि (१८) · Śloka १८
मांसेऽक्षग्लानिगण्डस्फिक्ऽऽशुष्कतासन्धिवेदनाः|
|१८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसे क्षीणेऽक्षग्लानिः, गल्लयोः स्फिजोश्च शुष्कत्वम्, सन्धीनां वेदनाः स्युः, स्फुटन्तीव सन्धय इत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसस्याह-मांस इति| अक्षग्लानिः-इन्द्रियदौर्बल्यम्| गण्डयोः स्फिजोश्च शुष्कता| सन्धीनां व्यथा|
Adhikarana क्षीणमेदसः कर्माणि (१८) · Śloka १८
|
मेदसि क्षीणे कट्याः प्लीह्नो वृद्धिः कृशाङ्गता||१८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मेदसि क्षीणे कट्याः स्वापः प्लीहवृधिः कृशाङ्गत्वं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मेदस आह-मेदसीति| कठ्याः स्वपनंस्पर्शाज्ञत्वम्| प्लीह्नो वृद्धिः| इतरेषामङ्गानां कार्श्यम्|
Adhikarana क्षीणस्यास्थ्नः कर्माणि (१९) · Śloka १९
अस्थ्न्यस्थितोदः शदनं दन्तकेशनखादिषु|
|१९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्थ्नि क्षीणेऽस्थ्नां तोदो भवति| शदनं-शातः, पात इत्यर्थः| केषाम् ? दन्तादीनाम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्थ्न आह-अस्थ्नीति| अस्थितोदः-अस्थ्नां व्यथा| दन्तादीनां शदनं-शातः| आदिशब्दाद्रोमादयः|
Adhikarana क्षीणमज्ज्ञः कर्माणि (१९) · Śloka १९
|
अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्||१९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मज्जनि क्षीणेऽस्थ्नां सौषिर्यं भ्रमादिश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मज्ज्ञ आह-अस्थ्नमिति| अस्थ्नां सौषिर्यं सरन्ध्रत्वम्| भ्रमः-चक्रारूढस्येव| तिमिरदर्शनं-सर्वस्यैव वस्तुनस्तमोरूपत्वेनावभासः|
Adhikarana क्षीणशुक्रस्य कर्माणि (२०) · Śloka २०
शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा|
तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूमायतीव च||२०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्रे क्षीणे शुक्रं चिरात् प्रसिच्येत, रक्तं वा| प्रसिच्येतेति कर्मकर्तरि| वृषणयोरतिशयेन तोदो-व्यथा स्यात्| मेढ्रं-शिश्नं, धूमायतीव च| धूमायतीति लोहितादेराकृतिगणत्वात् क्विप्, अकृत्सार्वधातुकेत्यादिना दीर्घः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुक्रस्याह-शुक्र इति| शुक्रं सम्भोगे चिरात् प्रसिच्येत, शोणितमेव वा| प्रसिच्येत-स्रवेत्| वृषणयोरत्यर्थं वेदना| मेढ्रं धूमायति| लोहितादिक्यषन्तात् परस्मैपदम्|
Adhikarana क्षीणपुरीषस्य कर्माणि (२१) · Śloka २१
पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव|
कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम्||२१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुरीषे क्षीणे वायुः कुक्षौ भ्रमति| अन्त्राणि वेष्टयन्निव शब्दं जनयन् यात्यूर्ध्वम्| किं कुर्वन् ? हृत्पार्श्वे भृशं पीडयन्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पुरीषस्याह-पुरीष इति| अन्त्राणि वेष्टयन्निव सशब्दो वायुः कुक्षौ भ्रमति, कदाचित् हृदयपार्श्वे पीडयन्नूर्ध्वं याति|
Adhikarana क्षीणमूत्रस्य कर्माणि (२२) · Śloka २२
मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा|
|२२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- मूत्रे क्षीणेऽल्पं मूत्रयेत्, कृच्छ्राद्विवर्णं सरक्तमेव वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूत्रस्याह-मूत्र इति| अल्पं मूत्रं कृच्छ्रान्मूत्रयेत्| तच्च विवर्णं-रक्तमिश्रवर्णाभं, रक्तमिश्रमेव वा| एवकारेण रक्तवर्णाभासत्वं व्यावर्त्यते| अत एव विवर्णशब्देन तल्लभ्यते|
Adhikarana क्षीणस्वेदस्य कर्माणि (२२) · Śloka २२
|
स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः||२२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्वेदे क्षीणे रोम्णां च्युतिः-शातः, रोम्णां च स्तब्धत्वम्| त्वचः-चर्मणः, स्फुटनं-दरणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वेदस्याह-स्वेद इति| केषांचिद्रोम्णां च्युतिः, केषांचित् स्तब्धता| त्वचः स्फुटनं-विदारणम्|
Adhikarana घ्राणामलानां क्षयलिङ्गम् (२३) · Śloka २३
इदानीं घ्राणादिमलानामपि सामान्येनक्षयलिङ्गमाह - - - - मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्|
स्वमलायनसंशोषतोदशून्यत्वलाघवैः||२३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मलानामतिसूक्ष्माणां-सुस्वल्पानां दूषिकादीनां, दुःखेन बोद्धुं शक्यं-दुर्लक्ष्यम्, क्षयं लक्षयेत्-जानीयात्| कैः ? मलानां स्थानानि-मलायनानि, स्वानि च तानि मलायनानि च-स्वमलायनानि, तेषाम् संशोषतोदशून्यत्वलाघवानि-स्वमलायनसंशोषतोदशून्यत्वलाघवानि, तैः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दूषिकादीनामाह-मलानामिति| अतिसूक्ष्माणां-अत्यल्पानाम्| अतिसूक्ष्मत्वादेव दुर्लक्ष्यम्| मलायनं-मलमार्गो नेत्रादिः, तस्य संशोषादयः|
Adhikarana दोषधातुमलानां समासतो वृद्धिक्षयनिदानम् (२४-२५) · Śloka २५
एवं व्यासेन दोषधातुमलानां वृद्धिक्षयावभिधाय समासतोऽभिधातुमिदमाह- दोषादीनां यथास्वं च विद्याद्दृद्धिक्षयौ भिषक्|
क्षयेण विपरीतानां गुणानां वर्धनेन च||२४||
वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः|
|२५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषधातुमलानां वृद्धिक्षयौ जानीयात्| कथम् ? यथास्वं दोषादीनां गुणेभ्यो विपरीता ये गुणास्तेषां गुणानां क्षयेण वर्धनेन च देहगतेन दोषादीनां यथाक्रमं वृद्धिं क्षयं च विद्यात्| यथा,-वायोर्गुणा रूक्षलघुशीतादयः, तेषां विपरीताः-स्निग्धगुरूष्णादयः, तेषां स्निग्धादीनां देहे यदा क्षयो दृश्यते तदा वायोर्वृद्धिं विद्यात्| यदा तु तेषां स्निग्धादीनां देहे वृद्धिर्दृश्यते तदा वायोः क्षयो ज्ञेयः| एवं स्वबुध्द्या विकल्प्य मलानां धातूनां च वाच्यम्| वृद्धिं मलानामित्यादि| न केवलं मलानां पूर्वोक्तेन प्रकारेण वृद्धिक्षयौ ज्ञेयौ, यावदमुनाऽपि वक्ष्यमाणेन लक्षणेन तेषां वृद्धिक्षयौ ज्ञेयौ, [इति चशब्देन द्योतयति]| एवं स्वबुध्द्या विकल्प्य, मलानां सङ्गात्-बहिरनिःसरणलक्षणाच्च वृद्धिं विद्यात्| तेषामेव मलानामतिविसर्गात्-अतिप्रवर्तनात् क्षयं विद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- निदानमाह- दोषादीनामिति| यथास्वं विपरीतानां गुणानां क्षयेण निदानेन दोषादीनां वृद्धिं, वर्धनेन क्षयं, जानीयात्| तौ च रूक्षादीनां गुणानां बहुत्वाल्पत्वाभ्यां क्रमाद्भवतः| तत्र क्षयेणोत्पन्नं विकारं वायोर्वृद्धिरिति व्यवस्येत्, वर्धनेनोत्पन्नं क्षय इति| एवं पित्तादिष्वपि| तथा, मलानामप्यतिसङ्गान्निदानाद्दोषादीनां वृद्धिं विद्यात्, अतिविसर्गात् क्षयम्| तत्रातिसङ्गो-यथाकालमशोधनाद्वेगविधारणाद्विष्टम्भकाहारविहारशीलनाच्च| अतिविसर्गो-अतिशोधनाद्वेगोदीरणात्स्रंसनाहारविहारसेवनाच्च|
Adhikarana क्षयवृद्ध्योः पीडाकरत्वे तारतम्यम् (२५) · Śloka २५
|
मलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः||२५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्वावपि मलानां वृद्धिक्षयौ पीडाकरौ देहस्य| तत्रापि य एषां क्षयः स वृद्धितोऽप्यतिशयेन पीडाकरः, अनौचित्यात्| देहिनां हि प्रायेण मलक्षयोऽनुचितो-अनभ्यस्तः, वृद्धिस्तूचितैवेति न तथा पीडां करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षयवृ- पीडाकरत्वे तारत्म्यमाह-मलोचितत्वादिति| दोषादीनां वृद्धिर्देहपीडनी| क्षयस्तु ततोऽपि देहपीडनः| कुतः? मलोचितत्वात्| देहो हि मलसात्म्यः| सात्म्यं च बह्नपि नातिबाधते| वक्ष्यति(?)-"सात्मयं ह्याशु बलं धत्ते नातिदोषं च बह्नपि|" इति| मलशब्देन दोषधातुमलानां ग्रहणम्| वक्ष्यति हि (हृ. सू.अ. १९/८६) - "विट्श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात्|" इति|
Adhikarana दोषदूष्ययोराश्रयाश्रयिभावः, आश्रयाश्रयिभावस्य फलम्, अपवादः, वृद्धिक्षयजविकारेषु लङ्घन बृंहणम् (२६-२९) · Śloka २९
अथ दोषादीनामाश्रयाश्रयिभावं दर्शयति - - - - तत्रास्थनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः|
श्लेष्मा शेषेषु, तेनैषामाश्रयाश्रयिणां मिथः||२६||
यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्|
अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्||२७||
श्लेष्मणाऽनुगता तस्मात् सङ्क्षयस्तद्विपर्यात्|
वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्||२८||
विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः|
|२९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु वातादिषु मध्ये, अस्थ्नि वायुः स्थितः-आश्रितः| पित्तं तु स्वेदरक्तयोः स्थितम्| श्लेष्मा शेषेषु-रसमांसमेदोमज्जशुक्रमूत्रपुरीषादिषु स्थितः| यतश्चैवमाश्रयाश्रयिभावोदोषधातूनां, तेन हेतुना, आश्रयाश्रयिणां मिथः-परस्परं, यदेकस्य-आश्रयस्य वर्धनं, तदन्यस्य-आश्रयिणोऽपि वर्धनम्, यदाश्रयस्य क्षपणं तदाश्रयिणोऽपि क्षपणम्| ननु, एवमस्थ्नो वाताश्रयस्य यद्वर्धनं तदस्याश्रयिणो वातस्यापि वर्धनं, यदस्य क्षपणं तदपि वातस्य क्षपणं प्राप्नोतीत्यत आह-अस्थीत्यादि| अस्थिमारुतयोर्नैवं वर्धनक्षपणौषधम्, सम्भवतीत्यध्याहार्यम्| हि-यस्मात्, प्रायो-बाहुल्येन, या वृद्धिः-वर्धनं दोषधातूनाम्, सा तर्पणात्-बृंहणाद्भवति| प्रायोग्रहणं वायुपरिहारार्थम्| सा च श्लेष्मणाऽनुगता-अनुबद्धा| यत एवं या वृद्धिः सा सन्तर्पणात्, तस्माद्धेतोर्य एषां दोषादीनां क्षयः स प्रायो-भूयिष्ठम्, अपतर्पणात्-लङ्घनरूपाद्भवति| स च सङ्क्षयो वायुनाऽनुगतः| एवं यदस्थ्नो वर्धनमौषधम्, तत् स्निग्धमधुरादि बृंहणरूपं वातस्य क्षपणम्| यच्च वातस्य वर्धमौषधम्, तत् रूक्षतिक्ताद्यपतर्पणं लङ्घनरूपमस्थ्नः क्षपणम्| तदर्थमेतदुक्तम्-अस्माच्चेत्यादि| यत एवं वृद्धेः सन्तर्पणरूपत्वं क्षयस्यापतर्पणरूपत्वम्, अतो वृद्धिक्षयसम्भवान् विकारान् दोषधातूनां सम्बन्धिनः क्रमाल्लङ्घनबृंहणैः साधयेत्-उपक्रमेत्| कथम् ? शीघ्रं चिरोत्थिता हि ते दुश्चिकित्स्याः स्युः| वृद्ध्युत्थान् विकारान् लङ्घनैः, क्षयोत्थान् बृंहणैरिति क्रमार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दूष्याणां वृद्धिक्षयहेत्वादिविज्ञानार्थं दोषदूष्ययोराश्रयाश्रयिभावमाह-तत्रेति| तत्र-तेषु दोषादिषु मध्ये| शेषेषु-रसमांसमेदोमज्जशुक्रमूत्रपुरीषादिषु| आश्रयायिभावस्य फलमाह तेनेति| तेन-आश्रयाश्रयिभावेन हेतुना| एषां-दोषादीनाम्| आश्रयाश्रयिणां आधाराधेयभावेन स्थितानाम्| यदेकस्य वर्धनक्षपणौषधं तदेवान्यस्य| कथम्? मिथः,-परस्परम्| यदाश्रयस्य तदाश्रयिणः, यदाश्रयिणस्तदाश्रयस्येत्यर्थः| वर्धनं-वृद्धि हेतुः| क्षपणं-क्षयहेतुः| औषधं-वैषम्यनिवर्तकम्, साम्यहेतुरित्यर्थः| अपवादमाह-अस्थिमारुतयोरिति| अस्थिमारुतयोराश्रयाश्रयिभावेऽप्येवं न ज्ञेयम्| यद्धि वायोर्वर्धनं रूक्षादि, तदस्थ्नः क्षपणम्| यदस्थ्नो वर्धनं स्निग्धादि, तद्वायोः क्षपणम्| अस्थ्नो वृद्धौ लङ्घनमौषधम्| वायोर्वृद्धौ बृंहणम्| अस्थिक्षये बृंहणमौषधम्, वातक्षये लङ्घनमिति| अथोपशयं विवक्षुश्छिकित्सामाह| चिकित्सैव हि प्रयुज्यमाना उपशय उच्यते| वक्ष्यति हि (हृ. नि. अ. १/६) -"हेतुव्याधिवपर्यस्तविपर्यस्तार्थकारिणाम्| औषधान्नविहाराणामुपयोगं सुखावहम्|| विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः|" इति| चिकित्सा च द्विविधा,-बृंहणलङ्घनभेदात्| तत्र बृंहणलङ्घने विभजति-प्रायो वृद्धिरिति| वृद्धिजान् विकारान् लङ्घनेन साधयेत्, क्षयजान् बृंहणेन| कुतोऽयं विभागः? हि-यस्मात्, वृद्धिस्तर्प्रणात्बृंहणाद्भवति| सा च श्लेष्मणाऽनुगता,-यत्र यत्र वृद्धिस्तत्र तत्र श्लेष्मा, पित्तादिवृद्धावपि श्लेष्मानुगमोऽस्तीत्यर्थः| तस्मात्सर्वेषु वृद्धिविकारेषु लङ्घनमौषधम्, हेतुविपरीतत्वात् श्लेष्मानुगमेन व्याधिविपरीतत्वाच्च| तथा, सङ्क्षयस्तद्विपर्ययात्-तर्पणविपर्ययाल्लङ्घनाद्भवति| स च वायुनाऽनुगतः,-यत्र यत्र क्षयस्तत्र तत्र वायुः, कफादिक्षयेऽपि वायोरनुगमोऽस्तीत्यर्थः| तस्मात्सर्वेषु क्षयविकारेषु बृंहणमौषधम्, हेतुविपरीतत्वाद्वातानुगमेन व्याधिविपरीतत्वाच्च|
Adhikarana अपवादः (२९) · Śloka २९
ननु, एवं वातवृद्ध्युत्थान् विकारान् लङ्घनैस्तत्क्षयोत्थान् बृंहणैरिति स्यात्|
अत इदमाह - - - - |
वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः||२९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वायुं हित्वा वृद्ध्युत्थान् विकारान् लङ्घनैः, क्षयोत्थान् बृंहणैः साधयेत्| तज्जान्-वायुसम्भवान् विकारान्, पुनस्तैरेव-लङ्घनबृंहणैरुत्क्रमयोजितैरुपक्रमेत्| यथानिर्दिष्टक्रमाद्विपरीतः क्रमः-उत्क्रमः| यथा,-वातवृद्ध्युत्थान् विकारान् बृंहणैः तत्क्षयोत्थांश्च लङ्घनैरिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-एतच्च सर्वं वायोरन्यत्र| वायुवृद्धौ तर्पणं न हेतुः, न वा लङ्घनमौषधमित्यर्थः| तर्हि तत्र किम्? इत्यत आह-तज्जानिति| तज्जान्-वायुवृद्धिक्षयजान्| वृद्धिजान् बृंहणेन साधयेत्, क्षयजान् लङ्घनेन, इत्युत्क्रमयोजना| वायुवृद्धिर्लङ्घनात्, क्षयो बृंहणादित्यत एव ज्ञेयम्| प्रायोग्रहणाव्द्यभिचारोऽपि| यथा (सङ्ग्रहे सू. अ. ७) -"कफे लङ्घनसाध्येऽपि कर्तरि ज्वरगुल्मयोः| तुल्येऽपि देशकालादौ लङ्घनं न समं मतम्||" इति|
Adhikarana रक्तवृद्ध्युत्थादीनां रक्तस्रुतिविरेचनादिभिरुपक्रमः, धातोर्वृद्धिक्षयकरणप्रकारः (३०-३३) · Śloka ३३
दोषाणां विशेषचिकित्सेह नोक्ता, दोषोपक्रमणीये वक्ष्यमाणत्वात्|
रसचिकित्सा च "रसोऽपि श्लेष्मवत्" इत्युक्तेर्नेह पुनर्निर्दिष्टा|
अतो रक्तादीनां चिकित्सामाह - - - - विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैः|
मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः||३०||
स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्|
जातान् क्षीरघृतैस्तिक्तसंयुतर्बस्तिभिस्तथा||३१||
विड्वृद्धिजानतीसारक्रियया, विट्क्षयोद्भवान्|
मेषाजमध्यकुल्माषयवमाषद्वयादिभिः||३२||
मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया|
व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान्||३३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृद्धिक्षयोपक्रमे एवं स्थितेऽपि विशेषेण रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैरुपक्रमेत| मांसवृद्धिजान् शस्त्रक्षाराग्निकर्मभिः| मेदोवृद्धिक्षयाभ्यां जातान्-मेदोजानिति मध्यमपदलोपोऽत्र द्रष्टव्यः| मेदोवृद्धिजान् विकारान् स्थौल्योपचारेण द्विविधोपक्रमणीयोक्त्या स्थौल्यचिकित्सया, मेदःक्षयजान् कार्श्योपचारेणोपाचरेत्| अस्थिक्षयजान् क्षीरघृतैस्तिक्तसंयुतैः, बस्तिभिस्तथा-तथारूपैस्तिक्तसंयुतैरित्यर्थः| ननु, यानि वातकृन्ति द्रव्याणि तान्यस्थिक्षयोद्भवविकाराणां वृद्धिकरणानीति तद्द्रव्योपयोगोऽत्र न युक्तः, तिक्तस्य वातकृतत्वात्| अत्रोच्यते| यद्द्रव्यं स्निग्धं शोषणं खरत्वमुत्पादयति तदस्थ्नो वर्धनं युक्तम्, खरस्वभावत्वादस्थ्नाम्| न चैवंविधमेकं द्रव्यमस्ति, यत् स्निग्धं शोषणं च| तस्मात् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिश्च तिक्तसंयुतैश्चेत्युपदिष्टम्| क्षीरघृतस्य तिक्तयुक्तस्य खरस्वभावत्वात्| विड्वृद्धिजान्-पुरीषवृद्धिजान्, अतीसारचिकित्सया साधयेत्| विट्क्षयोद्भवान् मेषाजमध्यादिभिः साधयेत्| मेष-उरभ्रः, अजः-च्छागः, तयोर्मध्यं-अन्तराधिः| कुल्माषः-अर्धस्विन्नो माषादिर्हिङ्गुघृतादिसंस्कृतः| माषद्वयं-माषो राजमाषश्च| आदिशब्देन काकाण्डोलात्मगुप्तादीनां ग्रहणम्| मूत्रवृद्ध्युत्थान् मेहचिकित्सया, मूत्रक्षयोत्थान् मूत्रकृच्छ्रचिकित्सया, स्वेदक्षयजान् व्याधीन् व्यायामादिभिः साधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ केषांचिद्विशेषः| तत्र रक्तवृद्धिजानाहविशेषादिति| रक्तस्रुतिः-शिराव्यधादिः| मांसवृद्धिजानाह-मांसवृद्धिभवानिति| मेदोजानाह-स्थौल्येति| मेदोवृद्धिजान् स्थौल्योपचारेण-द्विविधोपक्रमणीयाध्यायोक्तेन| मेदःक्षयनान् कार्श्योपचारेण| अस्थिक्षयजानाह-अस्थिसङ्क्षयादिति| तथेति तिक्तसंयुतैः| तथा च खारणादिः-"पञ्चकर्माणि सर्पीषि सतिक्ता बस्तयस्तथा| पयः" इति| न चैवं तिक्तसंयुतैरिति बस्तीनामेव विशेषणं वक्तुं युक्तम्, "बस्तयः क्षीरसर्पीषि तिक्तकोपहिताश्छ ये|" इति चरकवचनात् (सू. अ. २८/२४)| विड्वृद्धिजानाह-विड्वृद्धिजानिति| अतीसारक्रियया अतीसारचिकित्सितेन| विट्क्षयजानाह-विट्क्षयोद्भवानिति| मेषाजयोर्मध्यं-अन्तराधिः| माषद्वयं-माषो राजमाषश्छ| आदिशब्दान्मत्स्यमांसादयः| मूत्रवृद्धिक्षयजानाह-मूत्रेति| मूत्रवृद्धिजान् प्रमेहचिकित्सया| मूत्रक्षयजान् कृच्छ्रचिकित्सया| स्वेदक्षयजानाह-व्यायामेति|
Adhikarana धातुजानामुपक्रमान्तरम् (३४-३५) · Śloka ३५
स्वस्थानस्थस्य कायग्नेरंशा धातुषु संश्रिताः|
तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः||३४||
पूर्वो धातुः परं कुर्याद्दृद्धः क्षीणश्च तद्विधम्|
|३५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्वस्थानं कायाग्नेः-पक्वामाशययोर्मध्यम्| यथा च वक्ष्यति (हृ. सू. अ. १२|१०) - "पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्|" इत्यादि यावत् "पाचकं नाम तत् स्मृतम्|" इति| तत्र पक्वामाशयमध्ये तिष्ठतीति स्वस्थानस्थः, तस्यैवंविधस्य कायाग्नेः-जाठरानलस्य, अंशाः-भागाः, धातुषु-रसादिषु संश्रिताः| तेषां-अग्न्यंशानाम्, सादेन-मान्द्येन, धातूनां वृद्ध्युद्भवः| तथा तेषामंशानामतिदीप्त्या-अतितैक्ष्ण्यात्, धातुक्षयोद्भवः| पूर्वो-रसाख्यो, धातुर्वृद्धो भूत्वा परं-रक्ताख्यं, धातुं वृद्धं कुर्यात्| पूर्वश्च क्षीणो धातुः परं धातुं तद्विधं-क्षीणमेव कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धातुजानामुपक्रमान्तरमाह-स्वस्थानस्थस्येति| स्वस्थानस्थत्य-ग्रहणीस्थस्य| कायाग्नेः-अन्नपक्तुः| अंशाः-क्षुद्राणि रूपान्तराणि| धातुषु-धात्वाशयेषु, सर्वधात्वग्नय इत्यर्थः| तेषां सादेन-मान्द्येन धातुवृद्धयुद्भवः, अतिदीप्त्या धातुक्षयश्छ| धातुवृद्धौ मान्द्योपक्रमः, धातुक्षये तैक्ष्ण्योपक्रमः कार्य इत्यर्थः| तथा, पूर्वो धातुर्वृद्धः परं वृद्धं कुर्यात्, क्षीणः क्षीणम्| परधातोर्वृद्धौ पूर्वस्य क्षयः कार्यः, क्षये व्रुद्धिरित्यर्थः| इत्युपशयप्रकरणम्|
Adhikarana वृद्धिक्षयविकारसंप्राप्तिः, मलायनानि (३५-३६) · Śloka ३६
|
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्||३५||
अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च|
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः||३६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषा दुष्टा रसैः-मधुरादिभिर्मिथ्यायोगातियोगसेवितैः कुपिताः, धातून् दूषयन्ति| उभये-दोषा धातवश्च, मलान् दूषयन्ति| मला मलायनानि दूषयन्तीति सम्बन्धः| तथा च मुनिः (च. सू. अ. ७|४२) - "मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः|" इति| कानि मलायनानि ? इत्याह-अधो द्वे इत्यादि| अधो द्वे-गुदमेढ्राख्ये, सप्त शिरसि खानि-द्वे अक्षिणी द्वौ कर्णौ द्वौ नासापुटावास्यं चेति, तथा स्वेदवहानि-रोमकूपाख्यानि छिद्राणि सर्वशरीरगतानि, मलायनानि स्युः| अतो-दूषणात्कारणात्, तेषु-मलायनेषु दुष्टेषु, यथास्वं गदाः-रोगाः स्युः| यो यस्य स्वो- यथास्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वृद्धिक्षयविकारसम्प्राप्तिमाह-दोषा दुष्टा इति| रसैः-मधुरादिभिः, दुष्टा दोषाः-वातादयो,धातून्-रसादीन्, दूषयन्ति| रसग्रहणं वीर्यादीनामुपलक्षणम्| उभये-दोषा धातवश्छ, मलान्-पुरीषादीन्, दूषयन्ति| ते मला मलायनानि-स्रोतांसि, दूषयन्ति| कानि पुनस्तानि? अधो द्वे-गुह्यं गुदश्छ| सप्त शिरसि-कर्णौ नेत्रे नासिके मुखं च| स्वेदवहानि खानि-रोमकूपाः, तेषामसङ्ख्यत्वात्सङ्ख्यानुक्तिः| अतो-दुष्टेरनन्तरम्, तेषु-दुष्टेषु दोषधातुमलमलायनेषु, गदाः स्युः| कथम्? यथास्वम्,- स्वस्थानानतिक्रमेण| स्थानविभाग उक्तः सङ्ग्रहे (सू.अ. १९)-"वक्ष्यन्ते वातजास्तत्र निदाने वातरोगिके| पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः|| रक्ते विसर्पं दाहं च मांसे मांसपाककोथनम्| सदाहान् मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम्|| अस्थ्नि दाहं भृशं मञ्ज्ञि हारिद्रनखनेत्रताम्| पूति पीतावभासं च शुक्रं शुक्रसमाश्रितम्|| शिरागतं क्रोधनतां प्रलापं स्रायुगं तृषम्| कोष्ठगं मदतृट्दाहान् व्यापिनोऽन्यांश्छ यक्ष्मणः| श्लेष्मा त्वचि स्थितः कुर्यात्स्तम्भंश्वेतावभासताम्| पाण्ड्वामयं शोणितगो मांससंस्थोऽर्बुदापची|| आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम्| मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः|| मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्| विबन्धं गौरवं चाति शिरास्थः स्तब्धगात्रताम्|| स्रायुगः सन्धिशून्यत्वं कोष्ठगो जठरोन्नतिम्| अरोचकाविपाकौ च तांस्तांश्छ कफजान् गदान्|| विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते| उपतापोपघातौ च स्वाश्रयेन्द्रियगैर्मलैः||" इति|
Adhikarana ओजसः प्राधान्यम् (३७-३९) · Śloka ३९
दोषधातुमलानां समविषमावस्था गदिता|
ओजसस्तु निरूपयन्नाह - - - - ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्|
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्||३७||
स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्|
यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति||३८||
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः|
|३९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसादीनां धातूनां शुक्रान्तानां यत्परं-उत्कृष्टं, तेजस्तदोजः स्मृतम्, [न तु शुक्रस्यैव मलः|] तथा,हृदयस्थमपि व्यापि| सकलशरीरव्यापिनस्तस्य षड्बिन्दुकस्य विशेषेण हृदयं स्थानम्| तथा, देहस्य स्थितिर्देहस्थितिस्तस्या निबन्धनं-जीविताधिष्ठानमित्यर्थः| अन्ये त्वाहुः, परशब्देनैतत् द्योतयति,-अन्यदप्योजोऽस्ति न तद्धातूनां शुक्रान्तानां तेजः, श्लेष्माख्यमिति| तथा चोक्तं सङ्ग्रहे (सू. अ. १९) - "तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते| मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्||" इत्यादि| यन्नाशे-यस्यौजसोऽभावे, नियतं-निश्चितं, प्राणिनो नाशः-अभावः| यस्मिन्नोजसि तिष्ठति-विद्यमाने, तिष्ठति-प्राणिति, देहीति शेषः| यतो-यस्मात्, भावाः-पदार्थाः, निष्पद्यन्ते-जायन्ते| किम्भूताः ? विविधाः-अनेकप्रकाराः| तथा, देहः संश्रयो येषां ते देहसंश्रयाः| लक्षणमोजसो मुनिनाऽभ्यधायि (च. सू. अ. १७|७४) - "हृदि तिष्ठति यच्छुद्धं स्निग्धमीषत्सपीतकम्| ओजः शरीरे सङ्ख्यातं तन्नाशे ना विनश्यति||" इत्यादि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथौजोविज्ञानम्, तस्यापि मलत्वात्| वक्ष्यति हि (हृ. शा. अ. ३/६३) -"कफः पित्तं मलाः खेषु प्रस्वेदो नखरोम च| स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः||" इति| यत्तुक्तं सङ्ग्रहे (शा. अ. ६) -"शुक्रस्य सार ओजः| अत्यन्तषुद्धतया चास्मिन् मलत्वाभावः| अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्|" इति| तन्नरशरीरचरशुक्रविषयम्| यत्तु सम्भोगादङ्गनागर्भाशयगतमार्तवेनैकत्र लोलीभूतं जीवाधिष्ठितं शुक्रं, तस्य पाकाद्रसादिवन्मलसारौ स्तः| तत्र मल ओजः, सारो गर्भः| वक्ष्यति हि (हृ. शा. अ. ३/६३) -"रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते||" इति| मलत्वं च गर्भापेक्षया, रसाद्यपेक्षया तु साआत्वमेवेति| अत एवाह चरकः (सू. अ. ३०/९, सङ्ग्रहे च सू. अ. १९) -"यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः| संवर्तमानं हृदयं समाविशति यत्पुरा|| यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः|" इति| न चैवमोजोनेकत्वं वाच्यम्| यदेव हि शुक्रमलरूपमोजः, तदेव गर्भहृदयमनुप्रविष्टमष्टबिन्दुप्रमाणमार्तवानुविद्धत्वादीषद्रक्तपीतं जीवानुविद्धं जीवशोणितमुच्यते| उक्तं च तन्त्रान्तरे-"प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रिताः|" इति| तथा चरकोऽपि (सू. अ. १७/७४) -"हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्| ओजः शरीरे व्याख्यातं तन्नाशान्म्रियते नरः||" इति| तदेवाहाररसेन समानगुणत्वादाप्यायितमर्धाञ्जलिपरिमाणं सर्वदेहव्यापि रसात्मकमुच्यते| यद्वक्ष्यति (हृ. शा. अ. ३/१८) -"दशमूलशिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः| रसात्मकं वहन्त्योजस्तन्निबद्धं हि चेष्टितम्||' इति| खारणादिरप्याह-"रसधातोः परं धाम पच्यमानात्प्रसीदति| सौम्यस्वभावं रक्ताग्रे यत्तदोजः प्रकीर्तितम्||" इति| तदेव सर्वान् धातूननुप्रविष्टं तेषां प्रभावातिशयमादधानं तत्तेज उच्यते| यदाह सुश्रुतः (सू. अ. १५/२३) -"रसादीनां शुक्रान्तानां धातूनां यत्परंतेजः तदोजस्तद्बलमित्युच्यते|" इति| तदेव पुनः पाकाच्चामीकरमिवापेतोपाधिमलमत्यन्तं शुक्रसार उच्यते| तस्माच्छुक्रमलरूपं मूलभूतमेवाज इति स्थितम्| यत्तूक्तं चरकेणा (सू. अ. १७/११५) -"प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते| स चैवोजः स्मृतः काये" इति| तदोजो हेतुत्वात् श्लेष्मण ओजस्त्वम्, आयुर्घृतमितिवत्| एतेनैतदुपपन्नम्, "धातूनां तेजसि रसे तथा जीवितशोणिते| श्लेष्मणि प्राकृते वैद्यैरोजःशब्दः प्रकीर्तितः||" इति| ओजसो मलत्वेऽपि पृथक्वथनं प्राधान्यख्यापनार्थम्| प्राधान्ये हेतुमाह-ओजस्त्विति| ओजः पुनः परं-प्रधानं स्मृतम्| तद्धि शुक्रान्तानां धातूनां परं तेजः| शुक्रान्तानां ग्रहणं सर्वधातुप्राप्त्यर्थम्| तथा, हृदयस्थम्| न केवलं तत्स्थं व्याप्यपि| देहस्थितिनिबन्धन,- देहस्य स्थितयो-नानावस्थाः, तासां निबन्धनं-कारणम्| कारणत्वमेव विवृणोति-यन्नाश इति|
Adhikarana ओजःक्षयलक्षणं चिकित्सा (३९-४१) · Śloka ४१
|
ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः||३९||
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः|
दुःच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये||४०||
जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्|
|४१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ओजः कोपादिभिः क्षीयेत| तत्क्षये-तस्यौजसः क्षये, बिभेति दुर्बल इत्यादिलक्षणम्| जीवनीयौषधाद्यास्तत्र भेषजम्| जीवनीयौषधानि-जीवन्त्यादीनि दश जीवनसंज्ञानि (हृ. सू. अ. १५|८) तथाऽन्यानि यानि मधुराणि क्षीरादीनि द्रव्याणि| क्षीरस्य जीवनीयत्वेनैव ग्रहणे सिद्धे पृथक्पाठोऽतिशयार्थः, अतिशयेनात्र क्षीरमौषधमिति| रसो-मांसरसः| आदि (द्य)-ग्रहणेन काकाण्डोलात्मगुप्ताघृतादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षयहेतूनाह-ओजः क्षीयेतेति| क्षुत्-बुभुक्षा| ध्यानं-चिन्ता| आदिशब्दात्-भ्रमोन्त्रासकटुरूक्षभोजनादयः| ओजःक्षयं लक्षयति-बिभेतीति| बिभेति-त्रस्यति| दुर्बलो-हीनबलो भवति| अभीक्ष्णं-पुनःपुनरकस्मात्| ध्यायति-चिन्तयति| व्यथितेन्द्रियः-हृदयादिस्थानेषु व्याथावान्| दुःच्छायो-मलिनकान्तिः| दुर्मनाः-गतोत्साहः| रूक्षो-निस्नेहाङ्गः| क्षामः-कृशाङ्गः| क्षयौषधभङ्ग्या वृद्धिहेतूनाह-जीवनीयेति| जीवनीयाः-जीवन्त्यादयः| रसो-मांसरसः| आदि(द्य) शब्देन शर्करादयः|
Adhikarana ओजोवृद्धिलक्षणम् (४१) · Śloka ४१
|
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||४१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ओजोविवृद्धौ सत्यां देहस्य तुष्टिः-प्रहर्षः, पुष्टिः-वृद्धिः, बलं-सामर्थ्यम्, एषामुदयः-सम्यग्वृद्धिर्भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ओजोवृद्धिं लक्षयति-ओजोवृद्धाविति| तुष्टिः सन्तोषः| पुष्टिः-स्थौल्यम्| बलोदयः-शक्त्युत्कर्षः| ओजोवृद्धेस्तुष्ट्यादिहेतुत्वान्न वातादिवृद्धिकारकारित्वम्| व्रूद्धमपि यदा त्वोजो व्यापद्यते स्वस्थानाद्विस्रंसते वा, तदा वातादिवद्विकारकारित्वम्| तथा च सुश्रुतः (सू. अ. १५/३०) -"त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः|" इति| बलं-ओजः|
Adhikarana संक्षेपेण वृद्धिक्षयभेषजकथनम् (४२) · Śloka ४२
इदानीं सङ्क्षेपेण वृद्धिक्षयभेषजं कथयन्नाह - - - - यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु|
तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्||४२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यदन्नं पुरुषो द्वेष्टि-नाभिनन्दति, यदप्यन्नं प्रार्थयेत, तत्तदन्नं द्विष्टं त्यजन्-परिहरन्, इष्टमन्नं समश्नन्-भक्षयन्, दोषाणां सम्बन्धिनौ वृद्धिक्षयौ तौ तौ-यौ यस्य दोषस्यात्मीयौ वृद्धिक्षयौ, तौ तौ जयेत्| ननु, किमविशेषेणैतत् प्रार्थितमश्नन् दोषक्षयं जयेत् ? नेत्याह-अविरोधि तु| तुरवधारणे| अविरोध्येव| तत्तथाविधमन्नमश्नन् दोषाणां क्षयं जयेत्, न तु विरोध्यन्नमश्नन्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वृद्धिक्षयौ ज्ञात्वा यदनुष्ठेयं तत्सङ्क्षेपेणाह-यदन्नमिति| यद्यदन्न द्वेष्टि तत्तत्त्यजन् तथा यद्यत्प्रार्थयेत तत्तत्समश्नन् तौ तौ वृद्धिक्षयौ जयेत्| किं तत्सर्वम् ? नेत्याह-अविरोधि त्विति| यत्प्रार्थयेत् तच्चेदविरोधि-अपथ्यं न भवति, तत्समश्नीयादित्यर्थः| तच्छब्देऽपि वीप्साकरणात् यच्छब्देऽपि वीप्सा ज्ञेया|
Adhikarana यथारुच्युपचारस्य नानुचितत्वम्, वातादीनां विपरीतसमानयो रुचिकरत्वम् (४३) · Śloka ४३
ननु, द्वेष्यान्नत्यागेनेष्टान्नभक्षणेन |
च ] कुतो हेतोर्दोषाणां वृद्धिक्षयौ जयेत् ? इत्याह - - - - कुर्वते हि रुचिं दोषा विपरीतसमानयोः|
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न||४३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हि-यस्मात्, दोषाः-वातादयो, विपरीतसमानयोः रुचिं कुर्वन्ति| किम्भूताः सन्तः ? वृद्धाः क्षीणाश्च, यथाक्रमम्| वृद्धाः-प्रमाणाधिकाः सन्तः, स्वगुणेभ्यो यद्विपरीतगुणमन्नं तेषां क्षपणहेतुः, तद्विषयां रुचिं-प्रीतिमुत्पादयन्ति| भूयिष्ठं-बाहुल्येन| क्षीणाः-स्वप्रमाणापचिताः सन्तो, यत्स्वसमानगुणमाहारजातं तेषां वर्धनहेतुः, तद्विषयां प्रीतिमुत्पादयन्ति| यथा,-वातो वृद्धः स्निग्धाम्लमधुरमन्नमभिलषति|पित्तं वृद्धं शीतमधुररुक्षतिक्तकशायमन्नभिलषति| श्लेष्मा वृद्धो रूक्षोष्णकटुतिक्तकषायमन्नमभिलषति| वातः क्षीणो रूक्षकषायाद्यन्नमभिलषति| पित्तं क्षीणमम्ललवणकटुकमन्नमभिलषति| श्लेष्मा क्षीणः स्निग्धमधुराम्ललवणमन्नमभिलषति| भूयिष्ठमित्यनेन प्रायिकत्वमस्या व्यवस्थाया दर्शयति| तेन दोषगतिवैचित्र्यादन्यथाऽपि क्वचिद्भवति| यथा,-कस्यचिन्नरस्य वातोऽपि क्षीणः स्निग्धमधुराद्यन्नमभिलषति, पित्तमपि वृद्धमम्ललवणाद्यन्नमभिलषति, श्लेष्माऽपि वृद्धो मधुराम्लाद्यन्नमभिलषतीति व्यभिचारात्| अत एवाबुधाः-अपण्डिताः, न लक्षयन्ति-न विदन्ति, यथा-किमय दोषः क्षीण उत वृद्ध इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-न च यथारुच्युपचारस्यानुचितत्वमाशङ्कनीयमित्याह-कुर्वते हीति| हि-यस्मात्, वृद्धा दोषाः विपरीते रुचिं कुर्वते, क्षीणाः समाने| चकाराद्दृद्धा दोषाः समाने द्वेषं कुर्वते, क्षीणास्तु विपरीते, इत्यपि ज्ञेयम्| अयमर्थः,-यदा वायोर्वृद्धिस्तदा तद्विपरीतानां स्निग्धादिगुणानां रुचिस्तत्समानानां रूक्षादिगुणानां द्वेष उत्पद्यते, अत इष्टसेवनाद्द्विष्टत्यागाद्वायोर्वृद्धिं जयेत्| यदा तु वायोः क्षयस्तदा तत्समानानां रूक्षादिगुणानां रुचिस्तद्विपरीतानां स्निग्धादिगुणानां द्वेष उत्पद्यते, अत इष्टसेवनाद्द्विष्टत्यागाद्वायोः क्षयं जयेत्| एवं पित्तादिष्वपि| दोषशब्दो दोषधातुमलानामुपलक्षणम्| भूयिष्ठं-प्रायेण, कदाचिदन्यथाऽपि रुचिद्वेषौ भवतः| यथा वक्ष्यति (हृ. नि. अ. १६/३०) सामे वायौ-"कटुरूक्षाभिलाषेण तद्विधोपशयेन च|" इति| एवं सत्यप्येतादृशीं स्थितिमबुधा न लक्षयन्ति| एतेन बुद्धिमता भिषजा परीक्ष्यायमुपचारः कार्यः| मन्दबुद्धीनां तु यथोपदेशमित्युक्तं भवति| उक्तं च सङ्ग्रहे (सू. अ. १५) -"यथोक्तनुसरणमेव तु श्रेयो मन्दबुद्धेः|" इति|
Adhikarana उक्तयो रुचिद्वेषयोरुपपत्तिः (४४) · Śloka ४४
न चानेनैव लक्षणेन वृद्धाः क्षीणाश्च लक्षणीयाः|
किं तर्हि ? अन्यदपि लक्षणमस्तीत्याह - - - - यथाबलं यथास्वं च दोषा वृद्धा वितन्वते|
रूपाणि, जहति क्षीणाः, समाः स्वं कर्म कुर्वते||४४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथाबलं-बलानतिक्रमेण, यथास्वं च-यद्यदात्मीयं यथा, रूपाणि-गुणकर्मलक्षणानि, दोषा वृद्धा वितन्वते-विस्तारयन्ति| क्षीणाश्च बलानतिक्रमेण यथास्वं रूपाणि जहति-त्यजन्ति| यथा,-वायुर्वृद्धो रौक्ष्यशैत्यपारुष्यस्रंसव्यासादीनि विस्तारयति| क्षीणस्तु वायुः पूर्वोक्तानि रौक्ष्यादीनि जहाति, अत एव न व्यञ्जयति| अथ समा दोषाः किं विदधति ? इत्याह-समा इत्यादि| यदा न वृद्धा न च क्षीणाः-समा दोषाः,-स्वप्रमाणस्थाः, तदा स्वं कर्म-उत्साहोच्छ्वासादिकं यथोक्तं कुर्वते| तल्लक्षणत्ते लक्षणीयाः| तदेवं वृद्धक्षीणसमा दोषा वेद्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तयो रुचिद्वेषयोरुपपत्तिमाह-यथाबलमिति| वृद्धा दोषा रूपाणि-रौक्ष्यादीनि, वितन्वते-विशेषेण प्रकटयन्ति| तान्येव क्षीणा जहति-न्यूनानि दर्शयन्तीत्यर्थः| यथाबलं-वृद्धा अधिकानि, वृद्धतरा अधिकतराणि, वृद्धतमा अधिकतमानीत्यर्थः| एवं क्षीणेष्वपि| यथास्वं-वायू राक्ष्यादीनि, पित्तमौष्ण्यादीनि, श्लेष्मा स्नेहादीनीत्यर्थः| एतदुक्तं भवति,- शरीरे यो यो गुणोऽधिको भवति तस्य तस्य द्वेष उत्पद्यते, यो यो हीनस्तस्य तस्य रुचिः| वायो वृद्धे रूक्षादयः शरीरे अधिका भवन्ति, ततस्तेषां द्वेष उत्पद्यते, क्षीणेऽत एव हीनाः, अतस्तेषां रुचिः| एवं पित्तादिष्वपि| समेषु पुनर्दोषेष्वपूर्वौ रुचिद्वेषौ नोत्पद्येते इत्याह-समाः स्वमिति| स्वशब्देन जातिवयोदेशकालानुरूपं शारीरं कर्मोच्यते, न दोषकर्म| तस्य यथास्वमित्यनेनैव लब्धत्वात्| तस्माज्जात्यादिवशाद्यस्य यथा रुचिद्वेषौ तस्य तथैवानुवर्तयन्ति समा दोषाः, नान्यथा कुर्वन्तीत्यर्थः|
Adhikarana दोषवैषम्यानुत्पादने यत्नः (११) · Śloka ११
क्षीणा दोषाः क्षीणत्वादेवाकिञ्चित्करत्वात् कदाचित्पीडां नोत्पादयन्त्येव, इति विचिन्त्याल्पमतयो वैद्याः क्षीणदोषवर्धनार्थं कदाचिदनादरं कुर्युरित्याह - - - - य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय|
यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः||४५||
इति श्रीवैद्यपतिसिंहगुप्तसुनूश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादिविज्ञानीयो नामैकादशोऽध्यायः||११||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-य एव दोषाः समाः सन्तो देहस्य विवृद्ध्यै-वर्धनाय भवन्ति, त एव दोषा विषमाः-स्वप्रमाणादधिका हीना वा सन्तो, वधाय-देहविघाताय स्युः| यस्मादेवं ततस्ते दोषा हितचर्ययैव क्षयात्-हीनत्वाद्रक्षणीयाः| कुत इव ? विवृधेरिव| यथा विवृद्धेः-विशेषेण वर्धनात्ते रक्ष्यन्ते, तथा क्षयादपि रक्षणीया इति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने दोषादिविज्ञानीयाध्याय एकादशः समाप्तः|| ११||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दोषवैषम्यानुत्पादने यत्नं विधत्ते-य एव देहस्येति| हितचर्यया-पथ्याभ्यामाहारविहाराभ्याम्, चरतेर्गतिभक्षणार्थत्वात्| एवशब्देन हितचर्याया अयोगः, अहितचर्यायाश्छ योगो व्यवच्छिद्यते| इति हेमाद्रिटीकायामायुर्वेदरसायने| दोषादीनां प्रकरणं सामस्त्येन निरूपितम्|| ११||