Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्नविधौ प्रकृतेऽल्पवक्तव्यात्वात्पूर्वं द्रवद्रव्यमभिधायान्नं वक्ति-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्नविधौ प्रकृतेऽल्पवक्तव्यात्वात्पूर्वं द्रवद्रव्यमभिधायान्नं वक्ति-
Adhikarana अन्नस्वरूपविज्ञानीयाध्यायः षष्ठः (२) · Śloka २
अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसुत्रे)|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्नस्य स्वरूपं-स्वभावो रसवीर्यविपाकप्रभावगुणकर्मादि, तस्य विज्ञानं-अवगम:, तस्मै हितोऽध्यायः-अन्नरूपविज्ञानीयः, तं व्याख्यास्यामः| शेषं पूर्ववद्व्याख्येयम्| द्रव्यशब्दश्चाप्रयुक्तोऽप्यर्थस्य गमक इत्यन्नद्रव्यस्वरूपविज्ञानीय इति द्रष्टव्यम्| तथा हि पूर्वस्मिन्नध्याये मन्दमतिप्रबोधनाय प्रयुक्तो द्रव्यशब्दः|आचार्या हि वैचित्र्येण ग्रन्थरचनां विदधति| तत्र प्राक् स्वरूपशब्दो न निर्दिष्टः, इह च द्रव्यशब्दः| अथवोभयमप्रयुक्तमपि गम्यते मध्यलोपाख्यया तन्त्रयुक्त्याऽन्तलोपाय च| अद्यते यत्तत्-अन्नम् धान्यमांसादि| धान्यं च द्विधा शूकशिम्बिधान्यभेदेन तत्र प्राधान्याच्छूकधान्यस्य पूर्वमुपन्यासः| प्राधान्यं चास्य भूयस्त्वोपयोगित्त्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्नस्वरूपविज्ञानीयमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| यतः पूर्वाध्याये द्रव आहार उक्तः, इह त्वद्रवः| स चान्नशब्दवाच्यः| अत एवायमन्नस्वरूपविज्ञानीयः| तत्र सप्तवर्गाः| वक्ष्यति हि (हृ.सू.अ. ६/१७२)- "शूकशिम्बिजपक्वान्नमांसशाकफलौषधैः| वर्गितैरन्नलेशोऽयमुक्तो नित्यौपयोगिकः||" इति|
Adhikarana शूकधान्यवर्गः रक्तशाल्यादिगुणाः (१-४) · Śloka ४
शिम्बीधान्यस्य तु तद्व्यञ्जनत्त्वेन स्वल्पोपयोगित्त्वात् प्रायेणापथ्यात्त्वाच्चाप्राधन्यं, इत्याह- अथ शूकधान्यवर्गः| रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः| सारामुखो दीर्घशूको रोध्रशूकः सुगन्धिकः||१|| पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ| काञ्ह्चनो महिषः शूको दूषकः कुसुमाण्डकः||२|| लाङ्गला लोहवालाख्यः कर्दमाः शीतभीरुकाः| पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः||३|| स्वादुपाकरसः स्निग्धा वृष्या बद्धाल्पवर्चसः| कषायानुरसाः पथ्य लघवो मूत्रल हिमाः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तत्र रक्तशालिमहाशाली-सुप्रथितावेव| कलमोमगधादिषु प्रसिद्धः| स एव महातण्डुल इति काश्मीरेषु| तूर्णकश्च-तत्रैव आजव इति प्रसिद्धः| शकुनहृतो-यो मगधेषु बुद्धोत्पादकाल उत्तरकुरुभ्यो हंसैरानीतो भृङ्गारपात्रे विशाखाख्यया वापितो विस्तरं गतः| अत एव शकुनिनाऽऽहृतः शकुनाहृत इत्यन्वर्था
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्रादौ शूकधान्यवर्गः| तत्रादौ शालयः| तत्र रक्तशाल्यादिगुणानाह-रक्तो महानिति| रक्तादयो-देशभेदेन स्वनामप्रसिद्धाः| शुभाः-निर्दोषाः| बद्धाल्पवर्चसः,- बद्धं-पिण्डीकृतं, अल्पं-स्तोकं, वर्चः-पुरीषं, येभ्यस्ते तथा| ननु, इह शालयो मधुरपाका उक्ताः, सुश्रुतेन (सू.अ. ४६१५)-"मधुरा वीर्यतः शीता लघुपाका बलावहाः|" इति विरोधः, लघुपाकत्वमेव हि कटुपाकत्वम्| मैवम्| रसवदविरोधः| पाको-रसविशेषः| रसास्त्वेकस्मिन् द्रव्ये बहवोऽनुभूयन्ते|
Adhikarana रक्तशालिगुणाः (५) · Śloka ५
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु महाशालिकलमादिषु मध्ये, रक्तो-रक्तशालिसंज्ञो वरः, तृष्णां वातादीश्च त्रिदोषान्निहन्ति| अस्य च प्रागुपादानेनैव वरत्वे लब्धे वरग्रहणं युक्त्या
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तशालिगुणानाह-शूकजेष्विति| तत्र-तेषु शालिषु मध्ये, रक्तो-रक्तशालिः, शूकजेषु वरः| तथा च खारणादिः-"पथ्यत्वे शूकधान्यानां प्रवरा रक्तशालयः|" इति| अत एव 'शूकजेषु शालयो वराः, तेषु शालिषु रक्तो वरः' इति व्याख्यानमसत्| तृष्णात्रिदोषहा-तृष्णाघ्ह्नस्त्रिदोषघ्नश्च|
Adhikarana महाशाल्यादीनां गुणाः (५) · Śloka ५
| माहांस्तमनु कलमस्तं चाप्यनु ततः परे||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्यानु-रक्तशालेः पश्चात्, महान् शालिर्वरः| तं च-महान्तमनु कलमः, महत्संज्ञात् कलमः किञ्चिदून इत्यर्थः| ततः-अनन्तरम्, परे-अन्ये शालयो
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-महाशाल्यादीनां गुणानाह-महांस्तमन्विति| तमनु-रक्तशालेर्हीनो महान्| तं चाप्यनु-कलमो महतो हीनगुणः| परे-तूर्णकादयः, तेनैव न्यायेन हीनाः| तेन यो यस्मादुत्तरः स तस्माद्धीनः| ननु, रक्तशाल्यादीनां यथोत्तरमपकर्ष उच्यते, स च पाठक्रममपेक्षते, स तु प्रतितन्त्रं भिद्यते| तद्यथा-"लोहितशालिकलमकदम्बकपाण्डुकसुगन्धिकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुरोध्रपुष्पकदीर्घाशूककाञ्चनमहिषशूकहायनदूषकमहादूषकप्रभृतयः शालयः| मधुरा वीर्यतः शीता लघुपाका बलावहाः| पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः|| तेषां लोहितकः श्रेष्टो दोषघ्नः शुक्रमूत्रलः| चक्षुष्यो वर्णकृत्स्वर्योहृद्यो बल्यस्तृषापहः|| व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः| तस्मादल्पन्तरगुणाः क्रमशः शालयोऽपराः||' इति सुश्रुतः (सू. अ. ४६/४)| "रक्तशालिर्महाशालिः कलमः शकुनाहृतः| तूर्णको दीर्घशूकश्छ गोउरः पाण्डुकलाङ्गलओउ|| सुगन्धिका लोहवालाः सारिवाख्याः प्रमोदकाः| पतङ्गास्तपनीयाश्छ ये चन्ये शालयः शुभाः|| शीता रसे विपाके च मधुराः स्वल्पमारुताः| बद्धाल्पवर्चसः स्निग्धा बृंहणा मूत्रशुक्रलाः|| रक्तशालिर्वस्तेषां तृष्णाघ्नस्त्रिमलापहः| महांस्तमनु कलमस्तं चाप्यनु ततः परे||" इति चरकः (सू.अ. २७/७)| "रक्तः श्येनाहृतो गोउरः सुगन्धः काञ्चनो महान्| पतङ्गः कलमः पाण्डुर्लोहवालः प्रमोदकः|| दीर्घनालः शीतभिरुः सारिवः शङ्खमौक्तिकः| तूर्णको दीर्घशूकाख्यो लाङ्गलाद्याश्छ शालयः|| शीतला मधुराः स्निग्धा ग्राहिणो मांसशुक्रलाः| वातपित्तहरा बल्याः सृष्टमूत्राः सहायनाः|| स्निग्धः शीतो लघुर्ग्राही तृष्णाघ्नः शुक्रमूत्रलः| रक्तशालिस्त्रिदोषघ्नः कलमोν महांस्ततः||' इति खारणादिः| "रक्तो महान् सकलमः" इत्याद्यम्| एवमेव सङ्ग्रहे (सू.अ.७)| तस्मात्कोऽत्र क्रमः? उच्यते| इह रक्तशालिशब्देन मृदुमधुरस्निग्धसुरभिशुक्लविशदस्थूलायतत्वादीनां लोकप्रसिद्धानां स्वगुणानामुत्कर्ष उपलक्ष्यते| तेषु यथा यथा समुत्कर्षस्त उत्तमाः| यथा यथा अपकर्शस्ते हीनाः| उपलक्षणानि पुनर्वक्तुर्विवक्षाभेदाद्भिन्नानि| यानेव गुणान् सुश्रुतखारणादी कलमशब्देनोपलक्षयतः, तानेव चरकवाग्भटोउ महाशालिशब्देन| ननु, सम्बन्धं विना नोपलक्षणत्वम्, न च कलमस्य महाशालिगुणैर्महाशालेर्वा कलमगुणैः कदाचित्सम्बन्धः| मैवम्| यद कलमो महाशालिक्षेत्रे निष्पद्यते, तदा तयोस्तुल्यगुणत्वात्| स्वक्षेत्रजादेव महाशालेः स्वक्षेत्रज एव कलमो हीनः| एवमितरेष्वपि वाच्यम्| तस्मात्सर्वमेव प्रमाणम्, उक्तप्रकारेणाविरोधात्|
Adhikarana यवकादीनां पूर्वस्य पूर्वस्य निन्दितत्वम् (६-७) · Śloka ७
यवका हायनाः पांसुबाष्पनैषधकादयः| स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः||६|| सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवकादयः शालिविशेषाः स्वादवः| तथा, उष्णादिगुणयुक्ताः| तथा, सृष्टे मूत्रपुरीषे यैस्ते सृष्टमूत्रपुरीषाः| पूर्वं पूर्वं च निन्दिताः-तेन यवकाः सर्वेभ्योऽपि गर्हिताः, तदन्वन्ये किञ्चित्किञ्चित्क्रमेण गर्हिता इति विज्ञेयम्| नैषधकादय इत्य- त्राऽऽदिशब्देन चम्पकपत्रिकादयः शालिविशेषा गृह्यन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यवकादिशालिगुणानाह-यवका इति| *पांशुबाष्पः-कोरकः| पूर्वं पूर्वं च निन्दिताः-यो यस्मात्पूर्वः स तस्माद्धीनगुणः, मृद्वादिविपरीतगुणानामुत्कर्षात्|
Adhikarana षष्टिकगुणाः (७-८) · Śloka ८
| स्निग्धो ग्राही लघुः स्वादुदुस्त्रिदोषघ्नः स्थिरो हिमः||७|| षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्रीहिषु मध्ये षष्टिकः श्रेष्ठः, रक्तशालिरिव शालिषु| तथा, स्निग्धादिगुणयुक्तः| स्थिरो हिम इति शरीरस्तैर्यकरो ज्वरश्रमक्लमग्लानिहरः| अत एव रसायनप्रयोगे ज्वरादोउ छ तत्र तत्र क्षामवपुषामुपदिष्टः| यवस्तु स्तैर्यकरोऽपि नाम्नातो गुरुवातलत्वादिति वेद्यम्| षष्टिकश्छ द्विविधः,-गौरः कृष्णगोउरश्च| अत्रासितगोउरतो गौरः षष्टिकः श्रेष्टः| (तथा च सुश्रुते (सू.अ.४६|९)-"रसे पाके च मधुऱ्राः पित्तानिलहरास्तथा| शालीनां च गुणैस्तुल्या विज्ञ्हेयाः कफशुक्रलाः|| षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः|" कृष्णात्रेयः:-षष्टिकः सुरकव्रीहिपाटलोटकनालकाः| कृष्णव्रीहिः शीतभीरुः प्रमोदोहायनस्तथा|| अनभिष्यन्दिनः स्निग्धाः कषायमधुरा हिमाः| लघवः कटुपाकाश्छ षष्टिकोऽत्रापि पूजितः||" खारणादिः- "कषायमधुरो ग्राही दोषघ्नः षष्टिको लघुः|" पराशरेऽप्युक्तम्- "रक्तो महाच्छकुनाहृतः षष्टिककलमप्रमोदपतड्गाः शीतगौरदीर्घशूकसुगन्धिकपाण्डुतपनीयाः शालय एवंभूताः| मधुरबहलाः स्थिराः स्निग्धाः पित्तानिलप्रशमना लघवः सङ्ग्राहिकाः शीताः|" इति| चरके त्वेवं पठ्यते (सू.अ.५|३)-"तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभवराहादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति|" तथा च चरको ज्वरे पठति (चि.अ.३|१७६)-"रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह| यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-षष्टिकगुणानाह-स्निग्ध इति| ग्राही-स्तम्भनः| स्थिरः-स्थिरगुणः, कार्यरूपेण शरीरे चिरकालं तिष्ठतीत्यर्थः| यो व्रीहिः षष्टिरात्रेण पच्यते स षष्टिकः| स चान्येभ्यो व्रीहिभ्य उत्तमः| स च त्रिविधः,- गौरः कृष्णः कृष्णगौरश्च| तत्रासितगौराद्गौरः श्रेष्ठः| पारिशेष्यादसितो हीनः|
Adhikarana महाव्रीह्यादिगुणाः (८-१०) · Śloka १०
| ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः||८|| कुक्कुटाण्डकलावाख्यपारावतकशूकराः| वरकोद्दालकोज्ज्वालचीनशारददर्दुराः||९|| गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततः-षष्टिकात्, महाब्रीह्यादयः क्रमाद्गुणैरल्पान्तराः-गुणैर्हीनाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-महाव्रीह्यादीनां गुणानाह-ततः क्रमादिति| ततः-कृष्णषष्टिकात्, महाव्रीह्यादयः क्रमेण गुणैरल्पान्तराः| षष्टिकस्य सर्वश्रेष्ठत्वाद्धीनत्वेनाल्पान्तरत्वम्| कृष्णषष्टिकाद्धीनगुणो महाव्रीहिः, ततः कृष्णव्रीहिः, इत्यादि| अत्रापि कमभेदपरिहारः पूर्ववत्|
Adhikarana षष्टिकादिभ्योऽन्यव्रीहिगुणाः (१०-११) · Śloka ११
| स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः|१०| बहुमूत्रपुरीषोष्मा, त्रिदोषस्त्वेव पाटलः| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एभ्यः षष्टिकादिभ्योऽन्यः-अनुक्तो, व्रीहिः स्वादुः- मधुररसः, अम्लविपाकः पित्तकरो गुरुर्बहुमूत्रपुरीषोष्मा छ| पाटलः- पटलाकुसुमाकारः| त्रिदोषः-त्रिदोषकोपनः| त्रिदोषस्त्वेवेत्यत्रैवशब्दोऽतिशयख्यापनाय| अतिशयेन त्रिदोषल इत्यर्थः| अतित्रिदोषलत्वेनास्याऽभ्यवहारनिषेधं करोति| अत एव च रसादिमत्त्वं न व्यधादस्य शास्त्रकारः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथाविशिष्टव्रीहिगुणानाह-स्वादुरिति| अन्यः-उक्तेभ्य इतरः| ऊष्मा-औष्ण्यम्| पाटलगुणानाह-त्रिदोषस्त्विति| त्रयो दोषा यस्मात्सः- त्रिदोषः| एवग्रहणात्सर्वास्ववस्थासु दोषलत्वम्| अत एवान्येषां द्रव्याणामवस्थातो गुणान्यत्वं ज्ञेयम्| तथा (सङ्ग्रहे सू.अ. ७)-"सर्वथा दोषजित्तक्रं ग्रहण्यां, दोषकृद्र्व्रणे| शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति||" इत्यादि|
Adhikarana षष्टिकादिभ्योऽन्यव्रीहिगुणाः (१०-११) · Śloka ११
| स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः||१०|| बहुमूत्रपुरीषोष्मा, त्रिदोषस्त्वेव पाटलः| ||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एभ्यः षष्टिकादिभ्योऽन्यः-अनुक्तो, व्रीहिः स्वादुः- मधुररसः, अम्लविपाकः पित्तकरो गुरुर्बहुमूत्रपुरीषोष्मा छ| पाटलः- पटलाकुसुमाकारः| त्रिदोषः-त्रिदोषकोपनः| त्रिदोषस्त्वेवेत्यत्रैवशब्दोऽतिशयख्यापनाय| अतिशयेन त्रिदोषल इत्यर्थः| अतित्रिदोषलत्वेनास्याऽभ्यवहारनिषेधं करोति| अत एव च रसादिमत्त्वं न व्यधादस्य शास्त्रकारः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथाविशिष्टव्रीहिगुणानाह-स्वादुरिति| अन्यः-उक्तेभ्य इतरः| ऊष्मा-औष्ण्यम्| पाटलगुणानाह-त्रिदोषस्त्विति| त्रयो दोषा यस्मात्सः- त्रिदोषः| एवग्रहणात्सर्वास्ववस्थासु दोषलत्वम्| अत एवान्येषां द्रव्याणामवस्थातो गुणान्यत्वं ज्ञेयम्| तथा (सङ्ग्रहे सू.अ. ७)-"सर्वथा दोषजित्तक्रं ग्रहण्यां, दोषकृद्र्व्रणे| शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति||" इत्यादि|
Adhikarana प्रियङ्गुगुणाः (१२) · Śloka १२
| भग्नसन्धानकृत्तत्र प्रियङ्गुर्बृंहणी गुरुः||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु तृणधान्येषु मध्ये, प्रियाङ्गुः-कङ्गुः, भग्नस्याङ्गस्य सन्धानं करोति| तथा, गुरुः| सुश्रुते तूक्तम् (सू.अ.४६|२४)-"रक्ताः पीताश्च कृष्णाश्च श्वेताश्चैव प्रियङ्गवः| यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कङ्गुगुणानाह-भग्नसन्धानेति| भग्नसन्धानकृत्-भग्नस्याङ्गस्य सन्धानं करोति|
Adhikarana कोरदूषगुणाः (१३) · Śloka १३
कोरदूषः परं ग्राही स्पर्शे शीतो विषापहः| |१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोरदूषः-कोद्रवः, अत्यर्थं सङ्ग्राही| तथा स्पर्शशीतो विषापहश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कोद्रवगुणानाह-कोरदूष इति| परं-अतिशयेन ग्राही, स्पर्शे शीतश्च| अतिशयवचनात् कङ्ग्वादीनामपि ग्राहित्वं हिमस्पर्शत्वं च ज्ञेयम्|
Adhikarana यवगुणाः (१३-१४) · Śloka १४
| रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः||१३|| वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत्| पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्||१४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवो रूक्षादिगुणैर्युक्तो विड्वातकरो वृष्यः स्थैर्यकृच्च| तथा, मूत्रादीन् जयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यवगुणानाह-रूक्षः शीत इति| कण्ठामयाः-गलगण्डादयः| त्वगामयाः-कुष्ठादयः|
Adhikarana अनुयवगुणाः (१५) · Śloka १५
न्यूनो यवादनुयवः| |१५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुयवो नाम शूकधान्यविशेषो लोकप्रसिद्धः| स यवान्न्यूनः-स्वल्पैर्यवगुणैर्युक्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुयवगुणानाह-न्यून इति| निःशूको यवो-अनुयवः|
Adhikarana वंशोद्भवयवगुणाः (१५) · Śloka १५
रुक्षोष्णो वंशजो यवः| |१५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वंशोद्भवो-वेणुजो यवो रुक्षोष्णो भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वेणुयवगुणानाह-रूक्षोष्ण इति| सङ्ग्रहे तु (सू. अ. ७)- "उष्णाः सरा वेणुयवाः कषाया वातपित्तलाः|" इति|
Adhikarana गोधूमगुणाः (१५-१६) · Śloka १६
| वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा||१५|| सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोधूमो वृष्यादिगुणयुक्तः| जीवनः-ओजोभिवर्धनः| तथा, वातपित्तहरः| सन्धानकारी-ऊरुप्रभृतेर्भग्नस्य सन्धानं करोति| तथा, स्थैर्यकृत्सरश्च| चरके (सू,अ. २७|२०) त्वन्यथैव गुणा उक्ताः| यथा-"स्थैर्यकृत्सकषायश्च बल्यः श्लेष्मविकारहा| सन्धानकृद्वातहरो गोधूमः स्वादुशीतलः||"इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गोधूमगुणानाह-वृष्यः शीत इति| सरः-अनुलोमनः|
Adhikarana नन्दीमुख़ीगुणाः (१६-१) · Śloka १
| पथ्या नन्दीमुखी शीता कषायमधुरा लघुः||१६|| इति शूकधान्यवर्गः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नन्दीमुखी-(कृशदीर्घा गोधूमजातिः|) पथ्या-शरीराय हिता, शीता कषायमधुरा लघुश्च| इति शूकधान्यवर्गः| अस्मादनन्तरं शिम्बीधान्यवर्गस्य सम्बन्धप्रयोजनं प्रागुक्तमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नन्दीमुखीगुणानाह-पथ्या नन्दीमुखीति| दीर्घसूक्ष्मो गोधूमो-नन्दीमुखी| सङ्ग्रहे तु (सू. अ. ७)- "उद्दालकस्तु वीर्योष्णो नीवारः श्लेष्मवर्धनः| शीतवीर्या विशेषेण स्निग्धा वृष्या मधूलिका||" इति| इति शूकधान्यवर्गः|
Adhikarana शिम्बीधान्यवर्गः (१७-१८) · Śloka १८
अथ शिम्बीधान्यवर्गः| मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्| कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु||१७|| मेदःश्लेष्मास्त्रपित्तेषु हितं लेपोपसेकयोः| |१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- शिम्ब्याः-कोश्याः, धान्यं-मुद्गादिकं, यत् शिम्बीधान्यं तद्विबन्धकृत्| केषां विबन्धं करोति ? सामर्थ्यात् स्रोतसाम्, न तु पुरीषादीनाम्| तथा च सङ्ग्राहीत्यत्रैव पठति शास्त्रकृत्| सङ्ग्राहिलक्षणं च तत्रान्तरे| यथा-"भेदि तत्पिण्डतान् भावान् शकृदादीन्भिनत्ति यत्| विपरीतमतो ग्राहि" इति| तस्माद्विबन्धं स्रोतसामेवेत्यवेहि| तथा, कषायं स्वादु कटुपाकं शीतवीर्यं लघु च| मसूरादीत्यत्राऽऽदिशब्देन मकुष्ठचणकादीनां ग्रहणम्| तथा, मेदआदिषु हितम्, प्रकृतत्वादभ्यवहारे तथा लेप उपसेके चेति| चशब्दोऽत्र लुप्तनिर्दिष्टो बोध्यः| लेपः-प्रदेहः| उपसेकः-परिषेकः| कषायशीतरूक्षत्वेन कटुपाकित्वेन च वातकृत्त्वं शिम्बीधान्यस्य शास्त्रकृतोक्तम्| अत एवेदमुपपन्नम्-"मुद्गोऽल्पचलः" इति| यदि हि शिम्बीधान्यस्य मारुतकृत्त्वं समेयात्, तदैतद्वक्तुं युज्यते| तस्मात् वातकृत्त्वमस्यास्तीति स्थितम्| तस्मिंश्च सत्याध्मानकारित्वमप्युपपन्नमेव| अत एव सङ्ग्रहेऽस्याध्मानकारित्वमुक्तम्| मुद्गादीनां च विशेषास्तत्रैवोक्ताः (सं. सू. अ. ७)| यथा-"हरितास्तेष्वपि वरा मकुष्ठाः कृमिकारिणः| वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ शिम्बिधान्यवर्गः| तत्र मुद्गादिगुणानाहमुद्गाढकीति| मुद्गो द्विदिधः,-क्षेत्रमुद्गो वनमुद्गश्च| आढकीतुवरी| मसूरो द्विविधः,- कृष्णः पाण्डुश्च| तत्र पाण्डुः-मङ्गल्याख्यः| आदिशब्दात्सङ्ग्रहोक्ताः (सू. अ. ७)- "शिम्बिजा मुद्गमाङ्गल्यवनमुद्गमकुष्ठकाः| मसूरचवलाढक्यश्चणकाश्च पृथग्विधाः||" इति| शिम्बिभवं धान्यं-शिम्बिधान्यम्| विबन्धकृत्-वातावरोधकम्| सङ्ग्राहि-मलावरोधकम्| लेपोपसेकयोः प्रयुक्तं मेदःप्रभृतिषु हितम्| उपसेको-व्यञ्जनम्, येन मिश्रीकृत्यौदनादि भुज्यते| स चात्र योग्यत्वात्सूपः| उक्तं च चरकेण (सू. अ. २७/२७)- "पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च|" इति|
Adhikarana शिम्बीधान्यनां सामान्यगुणाः मुद्गगुणाः कलायगुणाः राजमाषगुणाः (१८-१९) · Śloka १९
| वरोऽत्र मुद्गोऽल्पचलः, कलायस्त्वतिवातलः||१८|| राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः| |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- अत्र-एषु शिम्बीधान्येषु मध्ये, मुद्ग उत्तमः| तथा, अल्पं चलं-पवनं करोतीत्यल्पचलः _ तुर्व्यतिरेके| कलायः पुनरतिशयेन वातलो भवति| राजमाषो रूक्षो बहु शकृत्करोतीति बहुशकृत्| तथा, गुरुः| तथा, अनिलकरः- "कृञो हेतुः" इति ताच्छील्ये टः, कलायवन्नातिवातलः, अन्यशिम्बीधान्याच्चातिवातलोऽयमिति वेद्यम्, अनिलकरग्रहणात्| अन्यथाशिम्बीधान्यसामान्यलक्षणेन वातमात्रकरणस्य लब्धत्वादनिलकरग्रहणं न कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुद्गस्य विशेषमाह-वरोऽत्रेति| अत्र-शिम्बिधान्येषु मध्ये, मुद्गो वरः| मुद्गेष्वपि हरितो वरः, "हरितास्तेष्वपि वराः" इति सङ्ग्रहवचनात् (सू. अ. ७)| अल्पश्चलो-वायुर्यस्मात्स तथा| मुद्गस्य किञ्चिद्वातलत्ववचनादाढक्यादीनां वातलत्वं ज्ञेयम्| कलायगुणानाह-कलायस्त्विति| कलायो द्विविधः,-त्रिपुटो वर्तुलश्च| अतिवातलत्वं-आढक्यादिभ्यः| राजमाषगुणानाह-राजमाष इति| राजमाषः-चवलः|
Adhikarana कुलत्थगुणाः (१९-२०) · Śloka २०
| उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान्||१९|| कासार्शःकफवातांश्च घ्नन्ति पित्तास्रदाः परम्| |२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- कुलत्था उष्णवीर्याः पाकेऽम्लाः| तथा, शुक्रादीन् घ्नन्ति- अश्म-अश्मरी वक्ष्यमाणलक्ष्णा| तथा, पित्तास्रदाः परं-अतिशयेन रक्तपित्तकराः| कषायस्वादुसङ्ग्राहित्वं शिम्बीधान्यसामान्यलक्षणेनैषां वेद्यम्, दृष्टिनाशनत्वं चोष्णवीर्यत्वेन रक्तपित्तकरत्वेन च| सङ्ग्रहे तु स्पष्टं कृत्वोक्तम् (सू. अ. ७)-"कषायस्वादुरूक्षोष्णाः कुलत्था रक्तपित्तलाः| पीनसश्वासकासार्शोहिक्काऽऽनाहकफानिलान्| घ्नन्ति शुक्राश्मरीं शुक्रं दृष्टिं शोफं तथोदरम्| ग्राहिणो लघवस्तीक्ष्णा विपाकेऽम्ला विदाहिनः" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुलत्थगुणानाह-उष्णा इति| शुक्रादीन्घ्नन्ति| अश्म-अश्मरी| ननु, "उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः|" इति सुश्रुतेन (सू. अ. ४६/३७) विपाके कटुत्वमुक्तम्, इह त्वम्लत्वमिति विरोधः| मैवम्| अनेकरसवदविरोधः|
Adhikarana निष्पावगुणाः (२०-२१) · Śloka २१
| निष्पावो वातपित्तास्रस्तन्यमूत्रकरो गुरुः||२०|| सरो विदाही दृक्शुक्रकफशोफविषापहः| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निष्पावो-राजशिम्बीसंज्ञो, वातादिकरः| तथा, गुरुः सरो विदाही च| तथा, दृगादीनपहन्ति| सङ्ग्रहोक्तं चाम्लपाकत्वं कषायमधुरत्वं चेह नोक्तम्| यतोऽम्लविपाकित्वं तावद्विदाहित्वादेवास्योक्तम्| कषायस्वादुत्वं च शिम्बीधान्यसामान्यगुणकथनेनैव| कृष्णात्रेयस्त्वाह-"निष्पावा मधुरा रूक्षाः सकषाया विदाहिनः| उदावर्ते प्रशस्यन्ते गुरवो वातपित्तलाः" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निष्पावगुणानाह-निष्पाव इति| निष्पावोवल्लः|
Adhikarana माषगुणाः (२१-२२) · Śloka २२
| माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः||२१|| गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-माषः स्निग्धो वलादिकरः| तथा, सरो गुरूरूष्णश्च| तथा, वातहा स्वादुश्च| तथा, शुक्रस्य वृद्धिं शुक्रस्यैव विरेकं-बहिःप्रेरणं, करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-माषगुणानाह-माषः स्निग्ध इति| शुक्रस्यैव वृद्धिं, शुक्रस्यैव विरेकं-शीघ्रप्रवृत्तिं, करोति स तथा|
Adhikarana काकाण्डोलात्मगुप्ताफलगुणाः (२२) · Śloka २२
| फलानि माषवद्विद्यात्काकाण्डोलात्मगुप्तयोः||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काकाण्डोला चात्मगुप्ता च, तयोः फलानि माषवद्विद्यात्-माषसमगुणानि विजानीयात्| काकाण्डोला-कटभी| आत्मगुप्ता-कपिकच्छूः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-काकाण्डोलात्मगुप्ताफलगुणानाह-फलानीति| एतयोः फलानि माषवद्विद्यात्| काकाण्डोला-निःशूका कपिकच्छूः| आत्मगुप्ता-कपिकच्छूः|
Adhikarana तिलगुणाः (२३) · Śloka २३
उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः| अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत्||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिल उष्णवीर्यः| तथा, त्वच्यः| तथा, स्पर्शे शीतः| केश्यो बल्यो गुरुश्च| तथा, अल्पमूत्रः-अल्पमूत्रकरः| पाके कटुः| तथा, मेधादीन् करोति| त्वच्यकेश्यबल्या हितार्था यत्प्रत्ययान्ताः| स्निग्धत्वमनिलघ्नत्वं कषायकटुतिक्तरसत्वं नानाजातित्वं चेहास्य ग्रन्थकृता लाघवान्नोक्तम्| सङ्ग्रहे तूक्तमेव (सू. अ. ७)| यथा-"स्निग्धोष्णतिक्तकटुककषायमधुरस्तिलः| त्वच्यः केश्यो गुरुर्वृष्यः स्पर्शशीतोऽनिलापः|| अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत्| कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुणः||" इति| अन्ये त्वनया युक्त्या सङ्ग्रहोक्तमर्थं सङ्गृह्णते| स्निग्धत्वं तावत्तिलस्य तैलेषु मुख्यस्य स्नेहस्य योनिभूतत्वात्सिद्धम्, कफपित्तकृदिति वचनात्स्निग्धत्वाच्च सामर्थ्याल्लब्धं वातघ्नत्वम्, कषायस्वाद्विति शिम्बीधान्यसामान्यगुणकथनेन कषायस्वादुत्वं लब्धमिति| एतदेवोररीकृत्य व्रणप्रतिषेधे वक्ष्यति (हृ.उ.अ.२५|५४)-कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम्| स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तिलगुणानाह-उष्ण इति| उष्णः-उष्णवीर्यः| त्वच्यः-त्वग्दोषहरः, बहिःप्रयोगात्| "कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह|" इति सङ्ग्रहे (सू. अ. ७) कुष्ठकर्तृत्वश्रवणात्| ननु, "तिलो विपाके मधुरोऽतिबल्यः स्निग्धो व्रणे लेपन एव पथ्यः|" इति सुश्रुतेन (सू. अ. ४६१३९) विपाके मधुरत्वमुक्तम्, इह तु कटुकत्वमिति विरोधः| मैवम्| रसवदविरोधः| एकस्मिन् द्रव्ये हि बहवो रसा अनुभूयन्त इति| भिन्नतिलयोर्भिन्नरसयोर्वा विपाकः| स च कृष्णः श्रेष्ठः| उक्तं च सङ्ग्रहे (सू.अ. ७)-कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुणः|" इति|
Adhikarana अतसीगुणाः कुसुम्भबीजगुणाः (२४) · Śloka २४
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः| दृक्शुक्रहृत्कटुः पाके, तद्वद्बीजं कुसुम्भजम्||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उमा-अतसी, स्निग्धा स्वाद्वादिगुणयुक्तोष्णवीर्या च| सा श्लेष्मपित्तयोः कर्त्री च| तथा, दृष्टिं शुक्रं च हरति| कटुपाका च| तया-उमया तुल्यं वर्तते-तद्वत्, उमासमानगुणं कुसुम्भीजमित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतसीगुणानाह-स्निग्धोमेति| उमा-अतसी| ननु, "स्निग्धोष्णा कफवातघ्नी सतिक्ता मधुराऽतसी|" इति खारणादिना श्लेष्मघ्नत्वमुक्तम्, इह तु श्लेष्मलत्वमिति विरोधः| मैवम्| विषयभेदात्| श्लेष्मघ्नत्वं वातसंसृष्टविषयम्| श्लेष्मलत्वं पित्तसंसृष्टविषयम्| अत एव सुश्रुतेन कफघ्नत्वं नोक्तम् (सू. अ. ४६/४९)-"उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात्कटुका विपाके|" इति| कुसुम्भवीजगुणानाह-तद्वदिति| तद्वत्-उमावत्| तत्पुनः कफघ्नम्| "कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः|" इति सुश्रुतोपदेशात् (सू.अ. ४६/४८)| अतिदेशादुपदेशो हि बलवान्|
Adhikarana माषयवकयोरवरत्वम् (२५) · Śloka २५
माषोऽत्र सर्वेष्ववरो, यवकः शूकजेषु च| |२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्र-शिम्बीधान्येषु, माषोऽश्रेष्ठः| शूकजेषु-शूकधान्येषु, यवकोऽश्रेष्ठः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-माषस्य सर्वधान्यावरत्वमाह-माषोऽत्रेति| यवकस्य शूकधान्येष्ववरत्वमाह-यवकः शूकजेष्विति| चकारोऽवरत्वाकर्षणार्थः|
Adhikarana नवधान्यगुणाः पुराणधान्यगुणाः शीघ्रजन्मादिसूप्यगुणाः (२५-१) · Śloka १
नवं धान्यमभिष्यन्दि, लग़ु संवत्सरोषितम्||२५|| शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्| |२६| इति शिम्बीधान्यवर्गः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- नवं प्रत्यग्रं, धान्यमभिष्यन्दि-आभिमुख्येन स्यन्दयति| ताच्छील्ये णिनिः| मालिन्यात्स्रोतसां स्रुतिरूपं श्लेष्माणं करोतीत्यर्थः| अर्थात्पुराणमनभिष्यन्दि| संवत्सरोषितं-वर्षातीतं, लघु भवति| नवं चार्थाद्गुर्वित्यनुक्तमप्युक्तं भवति| तन्त्रान्तरेऽप्युक्तम्- "वर्षस्थितं सर्वमन्नं परित्यजति गौरवम्| न तु त्यजति तद्वीर्यं वीर्यं मुञ्चत्यतः क्रमात्||" इति| शीघ्रेत्यादि| लघ्वित्यनुवर्तते| सूप्यं-मुद्गादि यच्छीघ्रजन्म, तल्लघु भवति| तथा, विगततुषं युक्त्या भर्जितं-भृष्टं लघु भवति| सङ्ग्रहे त्वेवमुक्तम् (सू.अ.७)-"नवं धान्यमभिष्यन्दि सेक्यं केदारजं च यत्| लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम्|" इति| इति शिम्बीधान्यवर्गः| निर्दिष्टे शूकशिम्बीधान्ये| तयोश्च संस्कृतयोरुपयोग इति कृतान्नवर्गः प्रारभ्यते-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नवधान्यगुणानाह-नवं धान्यमिति| अभिष्यन्दि-स्रोतःस्रावि| पुराणधान्यगुणानाह-लघु संवत्सरोषितमिति| संवत्सरोषितं-संवत्सरमेवोषितम्, संवत्सरद्वयाद्युषितस्य निर्वीर्यत्वात्| यदाह खारणादिः-"वर्षस्थितं सर्वधान्यं परित्यजति गौरवम्| न तु त्यजति तद्वीर्यं, वीर्यं मुञ्चत्यतः क्रमात् "|| इति| शीघ्रजन्मादिसूप्यगुणानाह-शीघ्रजन्मेति| सूपे हितंसूप्यं शिम्बीधान्यम्, तथा-तद्वत्, लघु इत्यर्थः| शीघ्रं अल्पेन कालेन, जन्म-निष्पत्तिर्यस्य तत्तथा| निस्तुषं-अपनीतत्वक्| युक्त्या-सम्यग्योगेन, भर्जितं-द्रवं विना स्वेदितम्| नवस्याभिष्यन्दित्वात् पुराणस्यानभिष्यन्दित्वम्| पुराणादीनां लघुत्वात्तद्विपरीतानां गुरुत्वमर्थसिद्धम्| सङ्ग्रहे तु (सू. अ. ७)-"हरितास्तेष्वपि वरा, मकुष्ठाः कृमिकारिणः| वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम्|| कुशाम्रशिम्बी मधुरा वातपित्तहरा हिमा| मधुराः शीतला गुर्व्यो बलघ्नो रूक्षणात्मिकाः|| स्नेहाढ्या बलिभिर्भोज्या विविधाः शिम्बीजातयः|" इति| इति शिम्बीधान्यवर्गः|
Adhikarana कृतान्नवर्गः मण्डादीनां यथापूर्वं लाघवम् मण्डगुणाः (२६-२८) · Śloka २८
अथ कृतान्न(पक्वान्न)वर्गः| | मण्डपेयाविलेपीनामोदनस्य च लाघवम्||२६|| यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः| तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्||२७|| स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्| |२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मण्डादीनां यथापूर्वं लाघवम्| तेनौदनमपेक्ष्य लघ्वी विलेपी, ततोऽपि पेया, पेयातो मण्डो लघुतर इत्यर्थोऽवतिष्ठते| मण्डपेयाविलेप्योदनानां यथापुर्वं लाघवमित्येव वक्तव्ये यदत्रौदनस्य पृथक्पाठः, स इदं ज्ञापयति,-मण्डादयो लाजोपादाना वेद्याः, न तु तण्डुलोपादानाः, यथा-ओदनः, इति| तथा च मुनिः (च, सू,अ.२७|२५२)-"शृतः पिप्पलिशुण्ठीभ्यां युक्तो लाजाम्बुदाडिमैः| मण्डः सन्दीपयत्यग्निं वातं चाप्यनुलोमयेत्||" इति| तदुक्तम्_"द्रव्यस्यार्धपलं दत्त्वा तोयस्य प्रस्थमावपेत्| अर्धशेषं गृहीत्वा तत्कर्षौ द्वौ दाडिमस्य च|| युक्तं सैन्धवविश्वाह्वधान्यकैः शाणमात्रकैः| द्विकर्षमात्रैर्लाजैश्च भूयः संक्वथितं च तत्|| पिप्पलीजीरकाभ्यां च शाणैकेनावचूर्णितम्| पेयास्वेष विधिः कल्प्यो दाडिमादिकृतास्वपि||" इति| तथा (सुश्रुते सू. अ. ४६|३४५)-"सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता| धनसिक्था विलेपी स्याद्यवागूर्विरलद्रवा||" इति| अन्ये तु मण्डलक्षणं पेयालक्षणं चान्यथैवेच्छन्ति| तथा तल्लक्षणम्-"लाजाम्बुसैन्धवकणाधान्यनागरदाडिमैः| युक्तो विमृदितः पूतो मण्डः संस्कृत उच्यते|| निर्द्रव्या प्राकृता पेया तक्रदाडिमतण्दुलैः|" इति| सामान्यपेयायाश्च तक्रदाडिमलाजादिसाधिताया गुणनिर्देशोऽयम्, न तु विशिष्टाया ज्वरचिकित्सादिविहिताया इति द्रष्टव्यम्| तस्यास्तु तत्रैवेत्यर्थः, विशेषग्रहणात्कर्मान्तरनिर्देशाच्च| तत्र-तेषु मण्डादिषु मध्ये, मण्डः शिवः| तथा, वातानुलोमनः| तथा, तृषं ग्लानिं दोषशेषं च हन्तीति तृड्ग्लानिदोषशेषघ्नः| "अमनुष्यकर्तृके च" इत्यत्र ठक्| दोषस्य शेषो दोषशेषः| एष एव हि विहितवमनस्य विहितविरेचनस्य वा किञ्चिच्छेषो यो दोषः, तस्य| दोषशेषेति वचनज्ञापकात् कृतवमनविरेचनस्य दोषशेषकरणम्| तेन च वमनकर्मणि विरेचनकर्मणि वा कर्तव्येऽतियोगभयात् दोषशेषः कार्यः, इत्ययमर्थो युक्त्या प्रतिपादितः| तथा, मण्डः पाचनो धातुसाम्यकरश्च| तथा, स्रोतसां मार्दवं करोति| तथा, स्वेदयतीति स्वेदी, वह्निं च दीपयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ कृतान्नवर्गः| तत्र मण्डादीनां लघुत्वेतारतम्यमाह-मण्डपेयेति| असिक्थो द्रवो-मण्डः, ससिक्थो-यवागूः| सा द्विविधा,- अल्पसिक्था-पेया, बहुसिक्था-विलेपी| अद्रवाणि सिक्थानि-ओदनः| यथापूर्वं ओदनाद्विलेपी लघुः ततः पेया, ततो मण्ड इति| मण्डगुणानाह-शिवस्तत्रेति| शिवः-आरोग्यप्रदः| वमनलङ्घनाद्यवशिष्टो दोषो-दोषशेषः| धातुसाम्यकृत्-लङ्घनादिकृतधातुवैषम्यशमनात्| स्रोतोमार्दवकृत्-लङ्घनादिकृतस्रोतःकाठिन्यशमनात्| स्वेदी-स्वेदवहस्रोतोरोधशमनात्|
Adhikarana पेयागुणाः (२८-२९) · Śloka २९
| क्षत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा||२८|| मलानुलोमनी पथ्या पेया दीपनपाचनी| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुच्च तृष्णा च, ताभ्यं ग्लानिः, सा च दौर्बल्यं च कुक्षिरोगश्च ज्वरश्च, तानपहन्ति या सैवंभूता पेया| दौर्बल्यं- कार्श्यम्| तथा, मलान्-वातादीन्, अनुलोमयति-स्वमार्गस्थान् करोति| तथा, पथ्या-शरीरस्य हिता| तथा, दीपनी चासौ पाचनी चेति "पुंवत्कर्मधारय" इति पुंवद्भावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
अ० र०-पेयागुणानाह-क्षुत्तृष्णेति| कुक्षिरोगः-अतीसारः| पथ्या-औषधरूपत्वात्|
Adhikarana विलेपीगुणाः (२९-३०) · Śloka ३०
| विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता||२९|| व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता च| व्रणश्चाक्षिरोगश्च संशुद्धश्च दुर्बलश्च स्नेहपायी च, तेषां हिता| व्रणाक्षिरोगशब्दौ मत्वर्थीयाकारान्तौ|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विलेपीगुणानाह-विलेपीति| व्रणादीनां हिता| संशुद्धः-सम्यक्कृतवमनादिः| यः स्नेहनार्थं प्रत्यहं स्नेहं पिबति सः-स्नेहपायी|
Adhikarana ओदनगुणाः (३०-३१) · Śloka ३१
| सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः||३०|| यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः| विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ओदनः सुष्ठु धौतस्तथा प्रस्रुतो-निश्चोतितः स्विन्नोऽत्यक्तबाष्पश्च लघुर्भवति| यश्चौदन आग्नेयौषधानां-मरीचचित्रकादीनां क्वाथेन साधितः, सोऽतिलघुः| तथा, भृष्टास्तण्डुला यस्मिन्नोदने सोऽतिलघुतमः| यथोक्तलक्षणादोदनाद्विपरीतो-योऽधौतादिः, स गुरुः| क्षीरमांसादिभिः-मधुरैर्यश्च साधितः, सोऽतिगुरुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ओदनगुणानाह-सुधौत इति| सुधौतादिविशिष्ट ओदनो लघुः| तद्विपरीतः क्षीरादिसाधितश्च गुरुः| सुधौतः-सम्यक्प्रक्षालिततण्डुलः| प्रस्रुअतः-सम्यक्प्रस्रावितमण्डः| स्विन्नः-सम्यक्पक्वः| अत्यक्तोष्मा-शीतत्वमप्राप्तः| आग्नेयौष क्वाथसाधितः- चित्रकादिक्वाथं द्रवस्थाने दत्वा साधितः| भृष्टतण्डुलः-भृष्टैस्तण्डुलैः साधितः| विपरीतः-अधौततण्डुलादिः| यश्च क्षीरादीनि द्रवस्थाने दत्वा साधितः| मांसशब्देनात्र मांसरसः| आद्यशब्दात्स्नेहादयः| क्षीरादिसाधने उदकं प्रक्षेप्यमेव| उक्तं च सङ्ग्रहे (क. अ. ८)-"क्षीरादिसाधितं द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशेऽनुपदग्धं क्वाथयेत्|" इति|
Adhikarana ओदनोदाहरणा परिभाषा (३२) · Śloka ३२
इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत्| |३२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-अनया दिशा, सर्वं-पेयादिकं पूर्वोक्तं वक्ष्यमाणं च भक्ष्यादिकं, द्रव्येण क्रियया संयोगेन मानेन चादिशेत्| तत्र द्रव्यतो यथा-ओदनस्य रक्तशाल्यादिजस्य लाघवम्, यवकादिजस्य तु गौरवम्| क्रियातो यथा-साक्षादग्निपाकादिसंस्काराच्छूल्यस्य मांसस्य लघ्वादिगुणयोगः, अपरस्य त्वन्यथात्वं दृश्यते| तथा चोक्तं तन्त्रान्तरे-"वृष्यं वातहरं बल्यं पथ्यं शूल्यामिषं लघु| अपथ्यं गुरु विष्टम्भि मांसं यच्च रसोद्धतम्||" इति| तन्त्रान्तरे चोक्तम्-"स्विन्नं मांसं गुरु स्तम्भि शूलपक्वं त्रिदोषजित्|" इति| क्रिया-संस्कार इत्यर्थः| योगः-संयोगः, तेन यथा-आग्नेयचित्रकाद्यौषधक्वाथैः साधितस्य लाघवम्| मानतो यथा-बहुभिर्लघुभिरल्पैश्च गुरुभिर्युक्तैर्लघुरेव, विपरीतैस्तु विपरीत एव| आद्यग्रहणेन देशादिपरिग्रहः| जाङ्गलदेशप्रभवतण्डुलकृतो लघुः, आनूपदेशतण्डुलकृतो गुरुरित्यादि बोध्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ओदनप्रसङ्गादोदनोदाहरणां परिभाषामाह-इति द्रव्येति| इति-एवमोदनवत्| द्रव्यादीनां कारणानां स्वरूपं शास्त्रेण बुद्धाकार्याणां स्वरूपमकथितमपि स्वबुद्ध्या निर्धार्य मन्दबुद्धीनां कथयेदित्यर्थः| तत्र, कार्यत्वेन परिणतं कारणं-द्रव्यम्| तत्परिणामहेतुः कर्तृव्यापारः-क्रिया| प्रधानद्रव्ये द्रव्यान्तरसम्पर्को-योगः| संयोगिनां न्यूनाधिकसमत्वं-मानम्| आद्यशब्दाद्देशकालौ| तत्र, द्रव्यस्योत्पत्तिस्थितिपरिणामस्थानं-देशः| उत्पत्त्यादिसमय आमाद्यवस्थाश्च-कालः| तत्र, द्रव्येणादेशो यथारक्तशालीनामोदनः पथ्यो, यवकानामपथ्यः| क्रियया यथा-भृष्टविदलितनिस्तुषीकृतानं सूप्यानां सूपो लघुः, इतरेषां गुरुः| योगेन यथा-मरीचादियुक्ता मांसभक्ष्या लघवः, मरीचाद्ययुक्ता गुरवः| मानेन यथा-मिश्रकौदने मुद्गाद्यल्पत्वबहुत्वाभ्यां लघुत्वगुरुत्वे| उत्पत्तिदेशेन यथा-दग्धावनिजातानां शालीनामन्नं लघु, इतरेषां गुरु| उक्तं हि सुश्रुतेन (सू. अ. ४६/१५)- "दग्धायामवनौ जाताः शालयो लघुपाकिनः|" इति| स्थितिदेशेन यथा-दुर्भाजनस्थाभिर्द्राक्षाभिः कृतं पानकं दोषलम्, इतराभिरदोषलम्| उक्तं हि (सङ्ग्रहे सू.अ.७)-"दुर्भाजनस्था द्राक्षाऽम्ला दोषला च प्राजायते|" इति| परिणामदेशेन यथा-मृण्मये पात्रे सिद्धानां तन्दुलानामोदनो गुरुः, ताम्रमये लघुः| उत्पत्तिकालेन यथा-आर्तवेन दिव्योदकेन सिद्धमन्नं पथ्यम्, अनार्तवेनापथ्यम्| स्थितिकालेन यथारात्रिमुषितेन शृतशीतेनालोडितमपथ्यम्, इतरेण पथ्यम्| परिणामकालेन यथा-शीघ्रजन्मना सूप्येन कृतः सूपो लघुः, चिरजन्मना गुरुः| आमाद्यवस्थाकालेन यथा-आमेन शुष्केण वा मूलकेन कृतो यूषः पथ्यः, जीर्णेनाद्रेण वा कृतोऽपथ्यः| इत्यादि स्वबुद्ध्या सर्वमूह्यम्|
Adhikarana मांसरसगुणाः (३२) · Śloka ३२
| बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहां रसः||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रस इति मांसरसः, आदिशब्दलोपात्| स बृंहणादिगुणयुक्तः| कृताकृतस्य च रसस्यायं गुणनिर्देशो बोध्यः| रसो हि स्नेहशुण्ठ्यादियुतः-कृत इत्युच्यते, विपरीतस्तु-अकृतः| तत्र कृतस्य तन्त्रान्तरे विधानमुक्तं गुणाश्च| यथा-"छागलं सक्थिजं मांसं निरस्थि तैत्तिरं तथा| चतुष्पलोन्मितं सूक्ष्मं कल्पितं क्षालितं जले|| पिप्पलीपिप्पलीमूलशुण्ठीचित्रकधान्यकैः| द्विशाणैः संयुते तोये क्वाथ्यं सार्धाढकोन्मिते|| मांसेऽरिमन् द्विपलं तत्र दाडिमात्कुट्टितात्क्षिपेत्| तं रसं मर्दितं पूतं हिङ्गुसैन्धवजीरकैः|| युक्तं सुधूपितं पथ्यं शुद्धानां शुद्धिकाङ्क्षिणाम्| शुष्यतां व्याधिमुक्तानां व्रणिनां वातरोगिणाम्|| भग्नविश्लिष्टसन्धीनां क्षीणधात्विन्द्रियौजसाम्|" इति| तन्त्रान्तरे चोक्तम्-"रसस्तत्र वरोऽनम्लः शाकुनो बृंहणः सरः| तक्रसिद्धस्तु विष्टम्भी लघुर्वातकफापहः|| फलाम्लगोरसोदारं सविश्वाजाजिधान्यकम्| स्निग्धं मांसं हितं बल्यं बृहणं रोचनं गुरु|| कासमर्दकधान्याम्लदाडिमादिरजःकृताः| लेहास्तक्रादिजाश्चान्ये योनिवद्गुरुरोचनाः|| मालुधानीयवासादिपुष्पैर्योऽतिगुणः खलः| फलमूलैर्घनादानं व्यञ्जनं पाकतो घनम्|| लेहवत्खल इत्यन्ये दोषलः स्वस्वयोनिवत्| तद्वच्च तिलकल्काम्लप्रायः काम्बलिको मतः|| कट्वरः कफजिद्ग्राही पित्तलो रोचको लघुः| मांसादजाजिशुण्ठ्यादिगलितः सट्टको लघुः|| इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसरसगुणानाह-बृंहण इति| प्रीणनः-तृप्तिजननः| रसो-मांसरसः| उक्तं हि सङ्ग्रहे (सू.अ.७)-"पिशितेन रसस्तत्र, यूषो धान्यैः, खलः फलैः| मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः||" इति| स च कृताकृतदकलावणिकभेदान्त्रिधा| उक्तं हि सङ्ग्रहे (सू. अ.७)-"ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः| अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः||' इति| तथा, तनुसान्द्रभेदादम्लस्वादुभेदाच्च द्विधा| उक्तं हि सङ्ग्रहे (सू. अ. ७)-"विद्याद्यूषे रसे सूपे शाके चैवोत्तरोत्तरम्| गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् पृथक्||" इति| सङ्ग्रहे तु (सू. अ. ७)-"शुष्यतां व्याधिमुक्तानां नराणां शुद्धिकाङ्क्षिणाम्| कृशक्षामक्षतोरस्कक्षीणधात्विन्द्रियौजसाम्|| दृष्टिश्रवणवन्ह्यायुर्बलवर्णस्वरार्थिनाम्| भग्नविश्लिष्टसन्धीनां व्रणिनां वातरोगिणाम्|| हृद्यः पथ्यः परं वृष्यो बृंहणः प्रीणनो रसः|" इति| शुष्यतां-वृद्धिं त्यजताम्| कृशानां-स्थूलत्वं त्यजताम्| क्षामाणां-बलंत्यजताम्|
Adhikarana मुद्गयूषगुणाः (३३) · Śloka ३३
| मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्|३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मौद्गो रसो-यूषो, व्रणिनां कण्ठरोगिणां अक्षिरोगिणां च पथ्यः| अस्य च संस्कृतस्य विधानमुक्तम्-"मुद्गानां द्विपलं तोये शृतमर्धाढकोन्मिते| पादस्थं मर्दितं पूतं दाडिमस्य पलेन तु| युक्तं सैन्धवविश्वाह्वधान्यकैः पादकार्षिकैः| कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम्| संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः|" तथा-"पटोलपत्राच्छाणो द्वे मुद्गानां द्विपलं जले| द्रव्याद्वात्रिंशद्गुणिते अर्धस्थे दाडिमात्पलम्|| कर्षमामलकानां च क्षिप्त्वा पुनरधिश्रयेत्| पूर्वं तत्सैन्धवाद्यैश्च युक्तमाज्येन योजितम्|| पटोलपत्रकाख्योऽयं यूषः पित्तोत्थरोगजित्| निम्बपत्रैर्निम्बयूषमेवमेव प्रकल्पयेत्|| मुलकाच्छुण्ठिका स्विन्ना घृतभृष्टा सधान्यका| हिङ्गुजीरकसंयुक्ता ततो मथितदाडिमे|| ससैन्धवे विनिक्षिप्य पुनरग्नावधिश्रयेत्| तावद्यावन्मृदूभूतं ततस्त्र्यूषणसंयुतम्|| सुधूपितं हिङ्गुघृतैश्चातुर्जातावचूर्णितम्| शुण्ठीरसं दीपनीयं बातश्लेष्मामयापहम्|| अकृताकृतयूषाच्च रसाच्च जलसाधितात्| स्नेहाम्लपटुयुक्ताच्च पूर्वः पूर्वो लघुर्मतः|| (सङ्ग्रहे सू. अ. ७)-विद्याद्युषे रसे सूपे शाके चैवोत्तरोत्तरम्| गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् तथा||" तथोक्तम् (सङ्ग्रहे सू.अ.७)-"खलकाम्बलिकौ हृद्यौ छेदिनौ स्वौषधानुगौ| पिशितेन रसस्तत्र, यूषो धान्यैः खलः फलैः|| मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः| ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः|| अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः|" इति| स्वल्पेन मांसेन शुण्ठ्यदिभिः स्वल्पैः स्वच्छा ये क्रियन्ते, ते दकलावणिका बोध्याः| एवं यूषे यत्र धान्यमल्पं, खलादौ वा मूलादीन्यल्पानि, तत्रापि दकलावणिकत्वं बोध्यम्| तन्त्रान्तरे चोक्तम् (सुश्रुते सू.अ.४६|३८०)-"अथ गोरसधान्याम्लफलाम्लैरन्वितं चयत्| यथोत्तरं लघु हितं संस्कृतासंस्कृतं तथा|| प्रभूतास्तमलोयूषः सूपाल्लघुतरः स्मृतः| सूपस्तु रसयूषाभ्यां स्थैर्याद्गुरुतरो मतः|| तं सरोगो न चाश्रीयान्न चाल्पाशी कथञ्चन|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुद्गयूषगुणानाह-मौद्ग इति| रस इत्यनुवर्तते| मौद्गो रसो-मुदयूषः, "यूषो धान्यैः" (सं.सू.अ.७) इत्युक्तत्वात्| संशुद्धादीनां पथ्यो-हितः| कण्ठाक्षिभ्यां रोगशब्दः सम्बध्यते|
Adhikarana कुलत्थयूषगुणाः (३३) · Śloka ३३
| वातानुलोमी कौलत्थो गुल्मतूनीप्रतूनिजित्||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कौलत्थो यूषो वातमनुलोमयति| गुल्मादींश्च जयति| तूनीप्रतूनीरोगौ-गुल्मनिदाने वक्ष्यमाणलक्षणौ|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुलत्थयूषगुणानाह-वातानुलोमीति| तूनिप्रतून्यौ-गुल्मनिदाने (हृंइ.अ.११/६१) वक्ष्येते|
Adhikarana तिलविकृत्यादिगुणाः (३४) · Śloka ३४
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्| शण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिलस्य विकृतिः पिण्याकस्य च| तथा शुष्कशाकादि दृष्टिघ्नं त्रिदोषकरं ग्लानिकरं गुरु च| अङ्कुरितं सस्यं-विरूढकम्| शाण्डाक्या सह संयुतं माषादिवटकं-शाण्डाकीवटकम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तिलविकृत्यादीनां गुणानाह-तिलपिण्याकविकृतिरिति| तिलविकृतिः-मयूराण्डकादिः| उद्धृततैलस्तिलादिपिण्डः, पिण्याकः तद्विकृतिः-पिण्डवटकादिदेशीया| शुष्कशाकं-शुकवार्ताककच्चरिकादि| विरूढकं-अङ्कुरितं धान्यम्| कृतान्नप्रस्तावादङ्कुरितधान्यकृतमन्नं ग्राह्यम्| येन वटकेन शाण्डाकी क्रियते तत्-शाण्डाकीवटकम्| दृग्घ्नंदृष्टिनाशनम्| दोषलं-त्रिदोषकरम्| ग्लपनं-ग्लानिकरम्|
Adhikarana रसालागुणाः (३५) · Śloka ३५
रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसाला-करमथितेन मरीचशर्करादियुक्तेन दध्ना कृता उल्लेखिकासंज्ञा, बृंहणी-देहस्य बृहत्त्वकरी, वृष्यादिगुणयुक्ता च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रसालागुणानाह-रसालेति| मरीचशर्करादियुक्तं करमथितं दधि-रसाला|
Adhikarana पानकगुणाः (३५-३६) · Śloka ३६
| श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु||३५|| विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्| |३६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पानकं श्रमादिहरं प्रीणनादिगुणयुक्तम्| प्रीणनं-मनः प्रीतिकरम्| यथाद्रव्यगुणं च-स्वस्वद्रव्यगुणेन च युक्तम्| पर्पटादीनां लाघवादिह गुणा नोक्ताः| यथा (सङ्ग्रहे सू. अ. ७)-"पर्पटा लघवो रुच्या लघीयान् क्षारपर्पटः| हृद्या वृष्या रुचिकरा गुरवो रागखाण्डवाः|| प्रीणना भ्रमतृट्छर्दिमदमूर्च्छाश्रमच्छिदः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पानकगुणानाह-श्रमक्षुत्तृडिति| गुडाम्लिकादिसंस्कृतमुदकादि द्रवं-पानकम्| यथाद्रव्यगुणं-यैर्द्रव्यैः क्रियते तद्गुणाननुवर्तते| एतेन सुश्रुतादिभिरुक्तानां द्राक्षादिपानकानां गुणा उक्ताः|
Adhikarana लाजागुणाः (३६-३७) · Śloka ३७
| लाजास्तृट्छर्द्यतीसारमेहमेदःकफच्छिदः||३६|| कासपित्तोपशमना दीपना लघवो हिमाः| |३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लाजास्तृडादींश्छिन्दन्ति| कासपित्ते चोपशमयन्ति| तथा, दीपना लघवः शीतवीर्याश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लाजानां गुणानाह-लाजा इति| भृष्टानां शालीनां तण्डुलाः-लाजाः|
Adhikarana पृथुकगुणाः (३७) · Śloka ३७
| पृथुका गुरवो बल्याः कफविष्टम्भकारिणः||३७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हरितधान्यानि निस्तुषभृष्टमुशलहतानि-पृथुकाश्चिपिटसंज्ञा गुरुत्वादियुक्ताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पृथुकगुणानाह-पृथुका इति| अशुष्कधान्यानां भृष्टास्तण्डुलाः-पृथुकाः|
Adhikarana धानागुणाः (३८) · Śloka ३८
धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धाना-भृष्टयवादि, विष्टम्भिनी रूक्षादिगुणयुक्ता च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धानागुणानाह-धाना विष्टम्भिनीति| भृष्टयवादिधान्यं-धाना| अन्ये तु यवानेव भृष्टान् धानाशब्देनाहुः| उलुम्बादींश्च पृथक् पठन्ति| यदाह सुश्रुतः (सू. अ. ४६/४१०)- "धानोलुम्बास्तु लघवः कफमेदोविशोषणाः|" इति| लघवः पाके, गुरवो गुणे, स्वमतेन गुरोर्गुणत्वात्|
Adhikarana सक्तुगुणाःसक्तुभक्षणगुणाः (३८-४०) · Śloka ४०
| सक्तवो लघवः क्षुत्तृट्श्रमनेत्रामयव्रणान्||३८|| घ्नन्ति सन्तर्पणाः पानात्सद्य एव बलप्रदाः| नोदकान्तरितान्न द्विर्न निशायां न केवलान्||३९|| न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून्| |४०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सक्तवो लघवः, क्षुधादींश्च घ्नन्ति| तथा, उदकपीताः सन्तर्पणाः, सद्य एव बलं कुर्वन्ति| तांश्च जलेनान्तरितान्-व्यवहितान्, नाश्नीयात्| अन्यभोजनेषु ह्यन्तरापानं विहितम्, न तथा सक्तुषु कार्यमिति बोधयति| (अपरे त्वेवमाहुः-आदौ पिण्डी मध्ये जलमन्ते च पिण्डीत्युदकान्तरिता इति|) तथा, न द्विः-द्वौ वारौ नाद्यात्| न निशायां- रात्र्याम्| न केवलान्-उदकादिरहितान्| न भुक्त्वा-अन्यद्भोजनादि| न द्विजैश्छित्त्वा-दन्तैः करस्थां पिण्डीं छित्त्वेत्यर्थः| बहूंश्च सक्तूंन्नाद्यात्| तन्त्रान्तरे चोक्तं रूक्षवातलत्वं सक्तूनामिह नोक्तम्, लघुत्वादिनैवावगतत्वात्| ननु, रूक्षवातलत्वं चेदभ्युपगम्यते सक्तूनाम्, ततः सन्तर्पणा इत्यनुपपन्नम्| सद्य एव बलप्रदा इत्येतदप्ययुक्तम्| भुक्तो ह्याहारः परिणमन् रसधातुगतो धातुपुष्टये, नान्यथा| अत्राचक्ष्महे| प्रभावादुभयमप्येतदुक्तम्| सक्तूनां ह्ययमचिन्त्यः प्रत्यक्षवेद्यः प्रभावः,यत्पीताः सन्तः सद्यः सन्तर्पयन्ति| सद्य एव च बलं प्रयच्छन्ति| वाजीकरणं हि-अपरिणतमेव स्वकार्यं जनयति| तथा च मद्यं,-अपरिणतमेव मदं जनयति| तस्मात्सन्तर्पणत्वं बलप्रदत्वं चैषामुपपन्नमेव| तन्त्रान्तरे चोक्तम्-"तुल्याज्यः सक्तुप्राशस्तु वृष्यो भेदी रसायनम्| (सं.सू.अ.७)-'तृट्छर्दिश्रमनुन्मन्थः शीतस्तृष्णानिवर्तकः|| प्रमेहक्षयकुष्ठानि न च स्युर्मन्थपायिनाम्| निचयात्कठिना गुर्वी पिण्डी प्रोक्ता मृदुर्लघुः|| सक्तूनां द्रवतायोगाल्लघीयस्यवलेहिका|' लाजसक्तुकृताऽपि स्याद्विलेपी तु गरीयसी||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सक्तुगुणानाह-सक्तव इति| भृष्टानां निस्तुषयवानां चूर्णं-सक्तवः| पीता एव बलप्रदाः, न तु भक्षितालीढा वा| सद्य एव, न तूत्तरकालमित्येवशब्दार्थः| सङ्ग्रहे तु (सू.अ. ७)-"निचयात्कठिना गुर्वी प्रोक्ता पिण्डी लघुर्मृदुः| सक्तूनां द्रवतायोगाल्लघीयस्यवलेहिका|| शष्कुलीमोदकादीनां व्याख्यातैवं च कल्पना| कर्कन्धुबदरादीनां श्रमक्षुत्तृट्क्लमच्छिदः|| सक्तवोऽम्लरसा हृद्या यथाद्रव्यगुणाश्च ते|" इति| सक्तुभक्षणं नियमयति-नोदकान्तरितानिति| येषां भोजनमध्ये उदकं पीयते ते-उदकान्तरिताः| द्बौ वारौद्विः| केवलान्-उदकादिरहितान्| द्विजैश्छित्त्वा-करस्थां पिण्डीं दन्तैर्विच्छिद्य भक्षितान्| बहून्-अतिमात्रान्| उदकान्तरितादीनां प्रत्येकं निषेधकरणत्वात् पृथक् नकारकरणम्|
Adhikarana पिण्याकगुणाः (४०) · Śloka ४०
| पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः||४०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिण्याकाख्यो-यस्तिलादीनां निष्पीडिततैलः कल्को, ग्लपनो-ग्लानिकरः| ग्लपन इति ग्लायतेर्णिजन्तात् "ग्लास्रावनुवमां च" इति मित्त्वाद्ध्रस्वः, बाहुलकात्कर्तरि ल्युट्| तथा, विष्टम्भी दृष्टिविकारकृच्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पिण्याकगुणानाह-पिण्याक इति| उद्धृततैलस्तिलादिपिण्डः-पिण्याकः| ग्लपनो-ग्लानिकरः| दृष्टिदूषणः-दृष्टिरोगप्रदः|
Adhikarana वेसवारगुणाः (४१) · Śloka ४१
वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः| |४१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वेसवारो-नागरधान्यकाजाजिहिङ्गुघृतादिसंस्कृतं कुट्टितं मांसम्| स गुरुः स्निग्धो बलवर्धनः शरीरोपचयवर्धनश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वेसवारगुणानाह-वेसवार इति| स्विन्नं पिष्टं गुडजीरकादिविमिश्रितं मांसं-वेसवारः| उपचयः-वपुष्पुष्टिः|
Adhikarana मुद्गादिजवेसवारगुणाः (४१) · Śloka ४१
| मुद्गादिजास्तु गुरवो यथाद्रव्यगुणानुगाः||४१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुद्गादिजातस्तु वेसवारा ये इण्डरिकादिभिर्द्रव्यैः सूक्ष्मच्छिन्नैः क्रियन्ते लोके पूरणशब्देन प्रसिद्धाः, ते गुरवः प्रकृतिद्रव्यगुणाश्च| आदिशब्देन माषादयो गृह्यन्ते| (अन्ये त्वादिशब्दात् वार्ताकसूरणालूकादीन् गृह्यन्ते|) तन्त्रान्तरे चोक्तम्-"सर्पिस्तैलगुडक्षीरैर्यवगोधूमपैष्टिकाः| पूपा विष्टम्भिनः शीताः पैष्टिका वातलाः खराः|| वृष्या बल्याः सरा माषैर्वातघ्ना मृदुपिच्छिलाः| यथान्नं गुरवो बल्याः स्थूलाश्च कठिनाश्च ये|| तैलपक्वास्तु त्वग्दृग्घ्ना गरीयांसो विदाहिनः| कासारसारा लघवो लाजैर्लघुतराः स्मृताः|| वातपित्तहरो वृष्यो घृतपूरः कफप्रदः| सद्यः प्राणकरो रुच्यो मांसलो रक्तलो गुरुः|| लघीयान् मण्डककृतो गरीयान् फलपूरितः मधुरोत्कारिका वृष्या, कासारः पिच्छिलो गुरुः|| गुडमत्स्यण्डिकाखण्डक्षीरेक्षुरसमाक्षिकैः| पूपाः शुक्रबलश्लेष्मरुचिदास्तर्पणाः क्षणात्|| नानाद्रव्यैः समायुक्ताः पक्वामक्लिन्नभर्जितैः| निमर्दको गुरुः स्निग्धो वृष्यो बलवतां हितः|| घारिकेण्डरिकापूरवटिकावटकादयः| विशदा रोचना बल्या गुरवः स्युः स्वयोनिवत्|| यावकः पिच्छिलः स्निग्धः प्लीहोदावर्तहा गुरुः| भृष्टस्विन्नतया वाऽऽद्यो कण्ठ्योऽतिकासिनाम्|| ज्वरोदावर्तमेहानां पथ्यो वातानुलोमनः| ओलकं हरितावस्थं शिम्बिजत्वात्खरं गुरु|| मन्दजर्यो यवादित्वादभ्योषो बृंहणः सरः||" इति|सिद्धसारे चोक्तम्-"अत्युष्णा मण्डकाः पथ्याः शीतला गुरुवो मताः|' इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुद्गादिवेसवारगुणानाह-मुद्गादिजा इति| येषु मांसस्थानेषु मुद्गचणकादयो गृह्यन्ते ते-मुद्गादिजाः| यथाद्रव्यगुणमनुगच्छन्तीति-यथाद्रव्यगुणानुगाः, यावन्तः प्रकृतिद्रव्यगुणास्तावन्तस्तेषां भवन्तीत्यर्थः| साकल्येऽव्ययीभावः|
Adhikarana पचनपात्रविशेषाद्गुणविशेषाः (४२-२) · Śloka २
कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान्| एकयोनींल्लघून्विद्यादपूपानुत्तरोत्तरम्||४२|| इति कृतान्न (पक्वान्न) वर्गः||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपूपान् कुकूलादिसिद्धान् एकयोनीन्-एककारणान् यथोत्तरं लघून्विद्यात्| तेन कुकूलपक्वात् सजातीयादपूपात्कर्परपक्वो लघुः| कर्परपक्वाच्च भ्राष्ट्रपक्वः| भ्राष्ट्रपक्वात्कन्दुपक्वः| कन्दुपक्वाच्चाङ्गारपक्वः| कुकूलः-अपां बाष्पस्वेदः, गोशकृदादिचूर्णसन्ताप इत्यन्ये| कर्परो-ज्वालासन्तप्तं कपालम्| भ्राष्ट्रकन्दू प्रसिद्धावेव| अङ्गाराः-बृहन्तः काष्ठसम्भूता इति| इति कृतान्नवर्गः| कृतान्नवर्गादनन्तरं मांसशकवर्गयोस्तद्व्यञ्जनभूतयोर्निर्देशः| तत्रापि प्राधान्यान्मांसवर्गस्य पूर्वं निर्देशः| प्राधान्यं चास्य भक्तेन सह प्रचुरोपयोगेऽप्यदोषात्| शाकस्य तु बहूपयोगे दोषं वक्ष्यति (हृ. सू. अ. ८|३९)- "शाकावरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्|" इत्यनेन-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पचनपात्रविशेषाद्गुणविशेषानाह-कुकूलेति| कुकूलं-श्वभ्रम्, "कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले|" इति (विश्वप्रकाशमेदिनीकोशयोः) वचनात्| तेन च मृन्मयमुत्तानमपूपपचनपात्रं लक्ष्यते श्वभ्राकारम्| तदेव न्युब्जं- परम्| तदेव सच्छिद्रं-भ्राष्ट्रम्| लोहमयं न्युब्जं-कन्दुः| अङ्गारशब्देन अङ्गारपूर्णं पात्रम्, हसन्तीत्यादि| पिष्ठकृतास्तनवो विस्तृताः- अपूपाः| एकयोनिग्रहणं प्रकृतिद्रव्याद्यविशेषेऽपिपात्रकृतमेवोत्तरोत्तरं लाघवमिति ज्ञापनार्थम्, यथा यथाऽग्निसन्निकर्षस्तथा तथा लाघवमित्यर्थः| सङ्ग्रहे तु (सू.अ.अ७)-"प्रभूताभ्यन्तरमलोमाषसूपः परं स्मृतः| खलकाम्बलिकौ हृद्यौ छेदिनौ स्वौषधानुगौ|| पर्पटा लघवो रूक्षा लघीयान् क्षारपर्पटः| हृद्या वृष्या रुचिकरा गुरवो रागखाण्डवाः| प्रीणना भ्रमतृट्छर्दिमदमूर्च्छाभ्रमच्छिदः| तृट्छर्दिश्रमनुन्मन्थ शीतः सद्यो बलप्रदः|| प्रमेहक्षयकुष्ठाद्या न च स्युर्मन्थपायिनाम्|" इति इति कृतान्नवर्गः|
Adhikarana मांसवर्गः हरिणादयो दश मॄगाः (४३) · Śloka ४३
अथ मांसवर्गः| हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः| शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हरिणादयो दश-मृगाः स्मृताः| आदिशब्देन कालपुच्छकपृषतादयः सङ्ग्रहोक्ता गृह्यन्ते (सू.अ.७)-("कालपुच्छकचारुष्कवरपोतशशोरणाः| श्वदंष्ट्रारामशरभकोहकार कशम्बराः| करालकृतमालौ च पृषतश्च मृगाः स्मृताः||" इति)
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ मांसवर्गः| मांसमष्टधा,-मृगविष्किरप्रतुदबिलेशयप्रसहमहामृगजलचरमत्स्यभेदेन| तत्र मृगानाह-हरिणैणेति| हरिणादयो-मृगाः| तेषु हरिणः-ताम्रवर्णः| एणः-कृष्णवर्णः| कुरङ्गो-लघुचतुरगतिः| ऋक्षोनीलाण्डः| गोकर्णो-गोसदृशकर्णो रासभाकारः| मृगमातृका-लघुपृथूदरा शशाभा| शशो-बिलेशयः| शम्बरः-विकटबहुविषाणः| चारुष्कः-चारुतनुः| शरभः-अष्टचरणः| आद्यशब्दात् पृषतकरालादयः| उक्तं हि सङ्ग्रहे (सू. अ. ७)-"कालपुच्छकचारुष्कवरपोतशशोरणाः| श्वदंष्ट्रारामशरभक्रोष्टुकारकशम्बराः|| करालकृतमालौ च पृषतश्च मृगा स्मृताः|" इति|
Adhikarana लावादय एकविंशतिर्विष्किराः (४४-४६) · Śloka ४६
लाववार्तीकवर्तीररक्तवर्त्मककुक्कुभाः| कपिञ्जलोपचक्राख्यचकोरकुरुबाहवः||४४|| वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी| ताम्राचूडाख्यबकरगोनर्दगिरिवर्तिकाः||४५|| तथा शारपदेन्द्राभवरटाद्याश्च विष्किराः| |४६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र लावादयो वरटान्ता एकविंशतिः, विकीर्य भक्षणाद्विष्किराः| रक्ते वर्त्मनी यस्यात्यर्थं स रक्तवर्त्मकः| वर्तको वर्तिकेति जात्यन्तरम्, न तु वर्तकस्य स्त्री वर्तिका| यथा च बलाका सारिकेति| पुंस्यपि स्त्रीलिङ्गत्वावेशात्| शिखी-मयूरः, व्रीह्यादित्वादिनिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विष्किरानाह-लाववार्तीकेति| पक्षिमध्ये ये विकीर्य भक्षयन्ति ते विष्किराः| तत्र लावः-चित्रयोधी| वार्तीको-वनचटकः स्वल्पसङ्घातचारी| वर्तीरः-अल्पकपिञ्जलसदृशः| कुक्कुभो द्विविधः,-स्थलजो जलजश्च, रक्तवर्त्मकविशेषणात्स्थलजो गृह्यते| उक्तं हि-"नीलच्छविः कृष्णगलः स्याद्ग्रामचटकाकृतिः| कुक्कुभः कुक्कुभारावः स्थलजो रक्तवर्त्मकः||" इति| कपिञ्जलो-गौरतित्तिरिः| उपचक्रः-श्वभ्रचरः कृशचञ्चुर्मदाविलः| चकोरो-रक्ताक्षः| कुरुबाहुः-नीलग्रीवो रक्तशिखः श्वेतपक्षः| वर्तको-वर्तीरादल्पः| तत्सदृशा-वर्तिका, ततोऽप्यल्पा| तित्तिरिः-चित्रपक्षः| क्रकरःक्रकचशब्दकारी पीतकृष्णगलः कृष्णचञ्चुचरणो रक्तपृष्ठः| शिखी-मयूरः| ताम्रचूडाख्यः-कुक्कुटः| बकरो-बकसदृशः| गोनर्दो-गोक्ष्वेडः| गिरिवर्तिका-गिरिकाख्या वर्तिकाभेदः, पर्वतचारी| सारपदः-कङ्कसदृशश्चारुगतिः| इन्द्राभः-कङ्कसदृशो विविधवर्णः| वरटः-हंससदृशः| आद्यशब्दात्तित्तिरीटादयः|
Adhikarana जीवंजीवकादयो दश प्रतुदाः (४६-४७) · Śloka ४७
| जीवञ्जीवकदात्यूहभृङ्गाह्वशुकसारिकाः||४६|| लट्वाकोकिलहारीतकपोतचटकादयः| प्रतुदाः|४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवञ्जीवकादयः प्रतुदा दश स्मृताः| प्रतुद्य-तुण्डेनाहत्य शाल्यादेर्भक्षणात् प्रतुदाः| आदिशब्देन सङ्ग्रहोक्ताः खञ्जरीटकपारावतादयो गृह्यन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रतुदानाह-जीवञ्जीवकेति| प्रतुद्य भक्षयन्तीति प्रतुदाः| तत्र जीवञ्जीवकः-एकोदरो द्विशिराः| दात्यूहः-अन्धकाकः| भृङ्गाह्वो-भृङ्गराजः कृष्णवर्णचटकसदृशः शिखावान् गोप्रेरकः| शुकः-कीरः| सारिका-मेधाविनी| लट्वा-रक्तपुच्छाधोभागः| कोकिलः-परपुष्टः| हारीतो-हरितपीतः| कपोतः-पाण्डुकः| चटकः-कलविङ्कः| आदिशब्दात्खञ्जरीटादयः| उक्तं हि सङ्ग्रहे (सू.अ. ७)-"शतपत्रो भृङ्गराजः कोयष्टिर्जीवजीवकः| (खञ्जरीटकहारीतदुर्नामागिरिशा गृहाः|| लट्वा लडूषो वटहा गोक्ष्वेडो डिण्डिमाणवः| जटीदुन्दुभिपार्कारलोहपृष्ठकुलिङ्गकाः|| सारिकाशुकशार्ङ्गाख्यचिरीटीककुयष्टिकाः| मञ्जुलीयकदात्यूहगोपापुत्रप्रियात्मजाः|| कलविङ्कः परभृतः कपोतोऽङ्गारचूडकः| पारावतः पाणाविक इत्युक्ताः प्रतुदाद्विजाः||" इति|
Adhikarana भेकादयश्चत्वारो बिलेशयाः (४७) · Śloka ४७
| भेकगोधाहिश्वाविदाद्या बिलेशयाः||४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भेकादयश्चत्वारो बिलेशयाः| बिले बाहुल्येन शेरत इति बिलेशयाः| आदिशब्देन श्वेतश्यामशल्यकादयो गृह्यन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विलेशयानाह-भेकगोधेति| बिले-विवरे, शेरते-निवसन्तीति बिलेशयाः| तत्र भेको-मण्डूकः| गोधापञ्चनखग्राहिणी| अहिः-सर्पः| श्वावित्-शलाकासदृशरोमा| आद्यशब्दान्नकुलादयः| सङ्ग्रहे तु (सू.अ.७)- "श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुली मृगः| भेकचिलककूचीका गोधाशल्यकशाण्डकाः|| वृषाहिकदलीश्वाविन्नकुलाद्या बिलेशयाः|" इति|
Adhikarana गवादयः प्रसहाः (४८-५०) · Śloka ५०
गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः| मार्जारमूषकव्याघ्रवृकबभ्रुतरक्षवः||४८|| लोपाकजम्बुकश्येनचाषवान्तादवायसाः शशघ्नीभासकुररगृध्रोलूककुलिङ्गकाः||४९|| धूमिका मधुहा चेति प्रसहा मृगपक्षिणः| |५०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गवादयः प्रसह्या| प्रसह्या-आहृत्य भक्षणात् प्रसहाः| मृगाश्च पक्षिणश्च मृगपक्षिणः, केचिन्मृगाः केचित्पक्षिण इत्यर्थः| अश्वतरो-वेगसरः| अश्वः-तुरगः| बभ्रुः-जाहको, नकुल इत्यन्ये| लोपाको-लोमशः| जम्बुकः-शृगालः| श्येनो-गरुडाकृतिः| चाषः-किकीदिविः| वान्तादः-श्वा| वायसः-काकः| उलूकः-काकारिः| कुलिङ्गकः-कृष्णचटकः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रसहानाह-गोखरेति| मृगाणां पक्षिणां मध्ये प्रसह्य-हृत्वा भक्षयन्तीति प्रसहाः| तत्र गौः-प्रसिद्धा| खरो-गर्दभः| अश्वतरः-अश्वायां गर्दभाज्जातः| उष्ट्रःकरभः| अश्वो-घोटकः| द्वीपी-चित्रव्याघ्रः| सिंहः-केसरी| ऋक्षो-लोमशो मर्कटसदृशः| वानरो-मर्कटः| मार्जारोबिडालः| मूषकः-उन्दुरुः| व्याघ्रो-महाव्याघ्रः| वृकोवत्सभक्षः| बभ्रुः-अच्छभल्लः| तरक्षुः-मृगादनः| लोपाको-लोमशो जम्बुकसदृशः| जम्बुकः-शृगालः| श्येनः शशानकः| चाषः-प्रसिद्धः| वान्तादः-श्वा| वायसःकाकः| शशघ्नी-शशारिः| भासः-श्वेतशिखावान् गृध्रसदृशो गोष्ठचारी| कुररः-अरुणः श्वेतमस्तको मत्स्यग्राही| गृध्रः-कृष्णो महान् दूरदर्शी| उलूको-घूकः| कुलिङ्गोगृहचटकः| धूमिका-धूम्याटः| मधुहा-मधुघातकः| इतिशब्दादेवंप्रकारा अन्येऽपि| मृगाश्च पक्षिणश्च मृगपक्षिणः| तत्र जम्बुकान्ता वान्तादसहिता मृगाः, इतरे पक्षिणः|
Adhikarana वराहादयो दश महामृगाः (५०-५१) · Śloka ५१
| वराहमहिषन्यङ्कुरुरुरोहितवारणाः||५०|| सृमरश्चमरः खड्गो गवयश्च महामृगाः| |५१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वराहादयो दश महामृग सज्ञा| वारणो-हस्ती|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-महामृगानाह-वराहमहिषेति| महान्तो मृगाः-महामृगाः| तत्र वराहः-शूकरः| महिषः-अश्वशत्रुः| न्यङ्कुः-कुरङ्गसदृशो विकटबहुविषाणः| रुरुः-बहुविषाणः शरदि शृङ्गत्यागी| रोहितो-लोहितवर्णः| वारणो-हस्ती| सृमरो-वनतुरगः| चमरो-वन्यो गौः| खङ्गो-गण्डकः| गवयः-सास्राककुदरहितो गोसदृशः| चकारोऽनुक्तसमुच्चयार्थः|
Adhikarana हंसादयोऽप्चराः (५१-५२) · Śloka ५२
| हंससारसकादम्बवककारण्डवप्लवाः||५१|| बलाकोत्क्रोशचक्राह्वमद्गुक्रौञ्चादयोऽप्चराः| |५२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हंसादयः क्रौञ्चान्ता अप्सु चरणादप्चरसंज्ञाः| आदिशब्देन रक्तशीर्षकादयो गृह्यन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलचरानाह-हंससारसेति| येऽप्सु-जले चरन्ति ते अप्चराः| तत्र हंसो-मानसौकाः| सारसो-लक्ष्मणः| कादम्बः| बकः-पाण्डुरपक्षः प्रसिद्धः| कारण्डवः-शुक्लो हंससदृशः| प्लवो-महान् प्रसेवकगलः| वलाका-विसकण्ठिका| उत्क्रोशः-कुररसदृशः| चक्राह्वः-चक्रवाकः| मद्गुः-जलकाकः| क्रौञ्चः-कुङ् आदिशब्दाच्चातकादयः| उक्तं च सङ्ग्रहे (सू.अ. ७)-"काकतुण्डघनारावमद्गुक्रौञ्चाम्बुकुक्कुटाः| मृणालकण्ठचक्राह्वबलाकारक्तशीर्षकाः|| उत्क्रोशः पुण्डरीकाक्षशरारीमणितुण्डिकाः| नन्दश्च मल्लिकाद्याश्च पक्षिणो जलचारिणः||" इति|
Adhikarana रोहितकादयो मत्स्याः (५२-५४) · Śloka ५४
| मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः||५२|| शुक्तिशङ्खोद्रशम्बूकशफरीवर्मिचन्द्रिकाः| चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः||५३|| राजीचिलिचिमाद्याश्च| |५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोहितकादय एकोनविंशतिर्जलोद्भवा मत्स्यसंज्ञाः| चशब्दोऽनुक्तकदलकपर्दकादिसमुच्चयार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मत्स्यानाह-मत्स्या इति| जलान्तर्वासिनोमत्स्याः| तत्र रोहितो-रक्ताङ्गः कृष्णपृष्ठो मत्स्यशैवलभोजनः| पाठीनो-रूष्योदरः कृष्णवर्णकः कण्टकमञ्जरिः| कूर्मः-कच्छपः| कुम्भीरो-महान्नक्रसदृशः| कर्कटः-कुलीरः| शुक्तिः-मुक्तास्फोटः| शङ्खः-कम्बुः| उद्रो-जलबिडालः| शम्बूकः-क्षुद्रशङ्खः| शफरी-क्षुद्रमत्स्यः| वर्मिः-सर्पाकारः| चन्द्रिका-पार्श्वेषु कण्टकवलयितो वर्तुलः| चुलूकी-दन्त्याकारोऽन्तर्वक्त्रो बहिर्निश्वासभुक्| नक्रो-रज्ज्वाकारः| मकरः-सिंहदंष्ट्रः| शिशुमारः-शिशुघ्नः| तिमिःशतयोजनविस्तृतः, तंगिलतीति-तिमिङ्गिलः| राजी-राजीवो वज्राभः| चिलिचिमः-शकली लोहितनयनः सर्वतो लोहितराजिः प्रायो भूमिचारी| आद्यशब्दाद्गोमत्स्यादयः|
Adhikarana इत्यष्टधा मांसम् (५४-१) · Śloka १
मांसमित्याहुरष्टधा| |५४| (मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्| प्रासहं च महामृग्यमप्चरं मात्स्यमष्टधा||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इत्यष्टभिः प्रकारैस्तन्त्रकारा मांसमाहुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तानां वर्गाणां मांसत्वमाह-मांसमित्याहुरिति| इति-उक्तप्रकारेण, अष्टधा-अष्टधा-अष्टप्रकारं, मांसमाहुः|
Adhikarana व्यामिश्रादयः (५४) · Śloka ५४
| योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते||५४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-योनिषु पूर्वोक्तास्वष्टासु मध्ये, व्यामिश्रगोचरत्वात्-व्यामिश्रविष्यत्वात्, अजावी-व्यामिश्रे| अजावी-छागोरभ्रौ, ते अनिश्चिते, ते हि जाङ्गलेऽपि देशे वर्तते अनूपेऽपि| अजावी इति स्त्रीलिङ्गनिर्देशोऽत्र विवक्षित एव| केचित्तु 'अनिश्चितौ' निजगदुः| ननु, तित्तिरिरपि धन्वानूपचारी प्रथितः| तत्कथमसाविह जाङ्गलः कीर्तितः? ब्रूमः| तत्स्वभावत्वात्| यद्यप्युभयचरोऽयं, तथाऽपि जाङ्गलस्वभावत्वाज्जाङ्गलोऽयम्| विकीर्य भक्षणाच्च विष्किरत्वं तित्तिरेर्निश्चितं निमित्तमस्ति| तस्मादयं जाङ्गल एव वक्तुं युक्ताः| हरिणादीनां च किरातकैवर्तादिभ्यो नानादेशप्रसिद्धाः संज्ञा वेद्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अजाव्योरनुक्तौ हेतुमाह-योनिष्वजावीति| अजावी-मृगविशेषौ| योनिषु-मृगप्रसहमहामृगाख्यासु योनिषु| अनिश्चिते-अनिर्धारिते| व्यामिश्रगोचरत्वात्योनित्रयविषत्वत्| अजाव्योर्मांसत्वेऽपि मृगादिविशेषो नास्तीत्यर्थः|
Adhikarana मांसस्य त्रैविध्यम् (५५) · Śloka ५५
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ| |५५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आदौ भवाः-आद्याः,- मृगविषिकरप्रतुदाख्याः, जाङ्गलचारित्वाज्जाङ्गलशब्दवाच्याः| एवमन्त्याः-महामृगाप्चरमत्स्याख्याः,-आनूपाः| मध्यौ-द्वौ बिलेशयप्रसहाख्यौ,-साधारणौ, जाङ्गलानूपचारिणावित्यर्थः| मध्याविति द्विवचननिर्देशसामर्थ्यादाद्यन्तानां वर्गाणां प्रत्येकं त्रित्वमनुमीयते त्रिग्रहणमन्तरेणापि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसस्य त्रैविध्यमाह-आद्यान्त्या इति| आद्यास्त्रयो मृगविष्किरप्रतुदाः-जाङ्गलाः| अन्त्यास्त्रयो महामृगजलचरमत्स्याः-आनूपाः| मध्यौ द्वौ बिलेशयप्रसहौसाधारणौ|
Adhikarana जाङ्गलानां गुणाः (५५-५६) · Śloka ५६
| तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः||५५|| पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे| |५६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु जाङ्गलानूपसाधारणेषु मध्ये, जाङ्गला बद्धमलाः- ग्रथितं पुरीषं कुर्वन्ति| शीतवीर्या लघवः| सन्निपाते हिताः| किम्भूते? पित्तोत्तरे,-पित्ताधिके| तथा वातो मध्यो यस्मिंस्तस्मिन् मध्यममरुति| तथा कफानुगे,-कफोऽनुगो-अबलो हीनो, यस्मिंस्तस्मिन् स्वल्पश्लेष्मणि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जाङ्गलगुणानाह-तत्र बद्धमला इति| बद्धमलाः-बद्धपुरीषाः| सन्निपाते-दोषत्रयप्रकोपे हिताः| कफानुगे-हीनकफे|
Adhikarana शशगुणाः (५६) · Śloka ५६
| दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः||५६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शशोऽग्निदीपनः पाके कटुको, ग्राही, रूक्षः, शीतश्च| ग्राहिशीतत्वं चास्य जाङ्गलत्वादेव लब्धमप्यतिशयार्थं पुनरिहोपात्तम्| स्वादुकषायत्वादिकमेषामिह युक्त्योक्तम्| सङ्ग्रहे तु (सू.अ.७) स्पष्टं कृत्वोक्तम्| यथा-"तत्र बद्धमला रुच्या मांसानामुत्तमा हिमाः| कषायस्वादुविशदा लघवो जाङ्गला हिताः|| ताम्रोऽत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित्| लघीयान् षड्रसश्चासौ, ग्राही रूक्षो हिमः शशः|| कटुपाकोऽग्निकृत्पथ्यः सन्निपांतेऽनिलावरे|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्र केषांचिद्विशेषः| तत्र शशगुणानाहदीपन इति|
Adhikarana वर्तकादिगुणाः,तित्तिरिगुणाः (५७-५८) · Śloka ५८
ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः| तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्||५७|| ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्| |५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वर्तकादारभ्य यावज्जाङ्गलसमाप्तिस्तावत्सर्वे औष्ण्यगौरवस्निग्धत्वैरल्पैर्युक्ताः| तेष्वपि मध्ये तित्तिरिः श्रेष्ठो मेधादिकरश्च| तथा, सङ्ग्रही| तथा, वर्ण्यो वाताधिकसन्निपातहरश्च| स च तित्तिरिर्धन्वन्यानूपे च देशे विचरति, अतः स्निग्ध उष्णो गुरुर्बृंहणश्च| तथा च सङ्ग्रहे (सू.अ.७)-"धन्वानूपविचारित्वात् स्निग्धोष्णगुरुबृंहणः|"इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वर्तकादिगुणानाह-ईषदिति| वर्तकादयो "वर्तको वर्तिका" इत्यादयो जाङ्गलाः| तित्तिरिगुणानाह-तित्तिरिरिति| तेषु-वर्तकादिषु| अनिलोद्रिक्तं- वाताधिकं, सन्निपातं-दोषत्रयप्रकोपं, हरते| सङ्ग्रहे तु (सू. अ. ७)-"धन्वानूपविचारित्वात्स्निग्धोष्णगुरुबृंहणः|"इति|
Adhikarana शिखिगुणाः (५८) · Śloka ५८
| नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोद्दशाम्||५८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शिखी-बर्ही, नातिपथ्यः| श्रोत्रादीनां पथ्यः| वयसः रतम्भनकारित्वेन पथ्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मयूरगुणानाह-नातिपथ्य इति| नातिपथ्यः-नातिस्वस्थहितः, दोषचयकारित्वात्| श्रोत्रादीनां तु पथ्यः, तद्दार्ढ्यकारित्वात्|
Adhikarana कुक्कुटगुणाः (५९) · Śloka ५९
तद्वच्च कुक्कुटो वृष्यः| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तद्वच्च कुक्कुटो-मयूरतुल्यगुणो वृष्यश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुक्कुटगुणानाह-तद्वच्चेति| तद्वत्-मयूरतुल्यगुणः|
Adhikarana ग्राम्यकुक्कुटगुणाः (५९) · Śloka ५९
ग्राम्यस्तु श्लेष्मलो गुरुः| |५९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ग्राम्यः पुनः कुक्कुटः श्लेष्मलो गुरुश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ग्राम्यकुक्कुटगुणानाह-ग्राम्यस्त्विति| ग्रामे भवो-ग्राम्यः|
Adhikarana क्रकरोपचक्रकयोर्गुणाः (५९) · Śloka ५९
| मेधाऽनलकरा हृद्याः क्रकराः सोपचक्रकाः||५९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्रकरा उपचक्रकाश्च मेधामग्निं च कुर्वन्ति हृद्याश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्रकरोपचक्रयोर्गुणानाह-मेधानलकरा इति| अनलो-वह्निः|
Adhikarana काणकपोतगुणाः (६०) · Śloka ६०
गुरुः सलवणः काणकपोतः सर्वदोषकृत्| |६०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काणः कपोतो गुरुरीषल्लवणस्त्रिदोषकृच्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-काणकपोतगुणानाह-गुरुः सलवण इति| काणकपोतः-अल्पारुणकपोतभेदः|
Adhikarana चटकगुणाः (६०) · Śloka ६०
| चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्||६०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चटकाः श्लेष्मलत्वादिगुणयुक्ता अतिशयेन शुक्रकृतश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चटकगुणानाह-चटका इति| चरकस्त्वाह (सू.अ. २७/७२)-"चटका मधुराः स्निग्धाः कफशुक्रविवर्द्धनाः| सन्निपातहराश्चैव शमना मारुतस्य च||" इति| तत्र सन्निपातस्य सम्पृक्तदोषत्रयवाचित्वात् सम्पृक्तानेव त्रीन् दोषान् घ्नन्ति, न त्वसम्पृक्तान्| अत एव'शमना मारुतस्य च' इत्युक्तम्| तस्मात् श्लेष्मलत्वं न संसृष्टविषयम्|
Adhikarana बिलेशयादीनां गुणाः (६१) · Śloka ६१
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्| मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः||६१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतः-अनन्तरम्, बिलेशयाद्या वर्गा यथोत्तरं गुरुत्वेन उष्णत्वेन स्निग्धत्वेन मधुरत्वेन चाधिकाः| यो यस्मादुत्तरो वर्गः , स तस्माद्गुरुत्वादिभिरधिक इत्यर्थः| तथा, यथोत्तरमेव मूत्रशुक्रकृतो बल्या वातघ्नाः श्लेष्मपित्तलाश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बिलेशयादिवर्गाणां गुणानाह-गुरूष्णस्निग्धमधुरा इति| अतः-एभ्यो जाङ्गलेभ्यः परे| वर्गाः-बिलेशयादयः| यथोत्तरं-बिलेशयेभ्यः प्रसहा गुर्वादिगुणयुक्ताः, ततो महामृगाः, ततो जलचराः, ततो मत्स्या इति|
Adhikarana महामृगगुणाः, क्रव्यादप्रसहगुणाः (६२-६३) · Śloka ६३
एवं वर्गपञ्चकस्य सामान्यगुणानुक्त्वा, अपवादमाह- शीता महामृगास्तेषु, क्रव्यादप्रसहाः पुनः| लवणानुरसाः पाके कटुका मांसवर्धनाः||६२|| जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः| |६३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषु वर्गेषु मध्ये महामृगाः शीतवीर्याः| क्रव्यं-आममांसं भुञ्जते ये, ते क्रव्यादाः| क्रव्यादास्तु ये प्रसहाः-मार्जारगृध्रोलूकादयः, ते लवणानुरसाः पाके कटुका मांसवर्धनाश्चातितराम्| जीर्णार्शःप्रभ्रुत्यामयानामतिशयेन हिताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्र केषांचिद्विशेषः| तत्र महामृगगुणानाहशीता महामृगा इति| क्रव्यादप्रसहगुणानाह-क्रव्यादप्रसहा इति| वानरमूषककुलिङ्गमधुहाव्यतिरिक्ता द्वीप्यादयो मांसाहारत्वात्-क्रव्यादप्रसहाः| जीर्णैः-कालेन पक्वदोषैः, अर्शःप्रभृतिभिरार्तानां हिताः| शोषो-राजयक्ष्मा| सङ्ग्रहे तु (सू. अ. ७)- "चक्षुष्याः सृष्टविण्मूत्रा मांसलाः कटुपाकिनः|" इति|
Adhikarana आजमांसगुणाः (६३-६४) · Śloka ६४
| नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्||६३|| शरीरधातुसामान्यादनभिष्यन्दि बृंहण्म्| |६४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नातिशब्दोऽत्रेषदर्थे| यदि तु प्रतिषेधनमात्रमभीष्टमभविष्यदाचार्यस्य, ततो नञ एव केवलस्योपादानमकरिष्यत्| तस्मादीषदर्थ एव विवक्षितः| अत एवं व्याख्यानयन्ति, यथा-अनतिदग्धो ग्राम इति| अदोषलमिति अल्पदोषलम्, (पथ्यमित्यर्थः| तथा च हारीतः-"त्रिदोषनुद्देहधातुसामान्याच्छागलं लघु|" इति| अन्ये तु चरकमतमनुसरन्त एवं व्याख्यानयन्ति,-अदोषलमिति नञ् ईषदर्थे, किञ्चिच्छीतगुरुत्वादल्पदोषलम्| यथा-अवृक्षो ग्राम इति|) शरीरस्य धातुः शरीरधातुः, प्रकृतत्वात्पुरुषशरीरस्य मांसाख्यो धातुः, तस्य सामान्यात्-तुल्यत्वात्, आजं मांसमनभिष्यन्दि बृंहणं च| गुणकृतं चात्र सामान्यं गृह्यते, न द्रव्यकृतम्| द्रव्यकृते हि सामान्ये गृह्यमाणे तुरगोरगादिमांसमपि पुरुषशरीरधातोर्मासाख्यस्य मांसत्वेन भवतीति तद्प्यमभिष्यन्दि बृंहणं च स्यात्, न केवलमाजं मांसम्| गुणकृते तु सामान्ये गृहीते शरीरधातु सामन्यादाजमेव मांसमनभिष्यन्दि बृंहणं चेति वक्तुं युज्यते| मांसग्रहणं चात्रोपलक्षणार्थम्| न केवलमाजं मांसं पुरुषशरीरधातुना मांसाख्येन तुल्यम्, यावदन्येऽपि ये छागशरीरगता धातवस्तेऽपि मनुष्यशरीरधातुना तुल्यगुणाः, तेऽप्यनभिष्यन्दिनो बृंहणाश्च| अनया भङ्ग्या पुरुषमांसस्याप्याचार्येणात्र गुणा उक्ताः| ननु, बृंहणं यद्द्रव्यं तद्भौमाप्यमभिष्यन्दि च| अपामेवाऽसाधारणो धर्मः स्रवणरूपः| तत्कथमनभिष्यन्दीत्युक्तम् ? ब्रूमः| द्रव्यप्रभावात्| ईदृशोऽयं द्रव्यप्रभावो यद्बृंहणमपि द्रव्यमनभिष्यन्दीति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आजमांसगुणानाह-नातिशीतेति| अदोषलंदोषत्रयविरुद्धम्, त्रिदोषघ्नमित्यर्थः| नञत्र विरुद्धार्थः| उक्तं हि कारणादिना-"अविदाह्यनतिस्निग्धं नातिशीतलमामिषम्| छागं लघु त्रिदोषघ्नमनभिष्यन्दि बृंहणम्||" इति| हारीतेन च-"त्रिदोषघ्नं देहधातुसामान्याच्छागलं लघु|" इति| गुरुत्वलघुत्वयोर्गुणत्वपाकत्वाभ्यामविरोधः| त्रिदोषघ्नत्वं वातोत्तरत्रिदोषविषयम्, किञ्चित्पित्तकफकरत्वात्| उक्तं च सुश्रुते (सू.अ. ४६/८७)-"नातिशीतगुरु स्निग्धो मन्दपित्तकफः स्मृतः| छागलस्त्वनभिष्यन्दी तेषां पीनसनाशनः||" इति| ननु, बृंहणस्य दध्यादेरभिष्यन्दित्वदर्शनात् कथं बृंहणमनभिष्यन्दि ? इत्यत आह-शरीरधातुसामान्यात्,- शरीरं-अर्थान्मनुष्यस्य, तस्य धातवोरसादयः, तैः सामान्यं-सदृशगुणत्वम्, यद्गुणा मनुष्यस्य धातवस्तद्गुणा एवाजस्य| अतोऽत्यन्तसामान्याद्बृंहणमप्यनभिष्यन्दि| यद्धि कैश्चिद्गुणैः समं कैश्चिद्विपरीतं तत् बृंहणं चाभिष्यन्दि च| यथा-स्त्यानं घृतं स्त्यानघृतप्रक्षेपाद्वर्धते न चाभिष्यन्दते| तदेवोष्णघृतप्रक्षेपाद्वर्धतेऽभिष्यन्दते च|
Adhikarana आविकमांसगुणाः (६४) · Śloka ६४
| विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्||६४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतः-आजमांसात्, विपरीतमाविकं मांसं-अत्युष्णस्निग्धगुरु सदोषलमभिष्यन्दि चेति| बृंहणत्वस्यापि विपर्यये प्राप्ते तदपवादमाह-बृंहणं तु तदिति| तुशब्दोऽवधारणे| बृंहणमेव तदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आविकमांसगुणानाह-विपरीतमिति| अतः-आजमांसात्, विपरीतं-अतिशीतगुरुस्निग्धं त्रिदोषकरमभिष्यन्दि च| विपरीतत्वात्कर्शनत्वे प्राप्त आह-बृंहणं तु तदिति| अजाव्योः प्रसहप्रस्तावे गुणकथनमनिश्चितत्वेऽपि प्रायः प्रसहत्वज्ञापनार्थम्| अत एव सुश्रुतेन ग्राम्येषु पठितौ (सू.अ.४६/८५)-"अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छप्रभृतयो ग्राम्याः|" इति| ग्राम्याश्चात्र प्रसहेषूक्ताः|
Adhikarana गोमांसगुणाः (६५) · Śloka ६५
शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्| कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति||६५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गोमासं शुष्ककासादीन्नियच्छति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गोमांसगुणानाह-शुष्ककासेति| शुष्ककासः कफादिनिष्ठीवनरहितः| केवलवातान्-शुद्धवातजान् व्याधीन्| बहुवचनाद्वातशब्देन वातव्याधयो गृह्यन्ते|
Adhikarana महिषमांसगुणाः (६६) · Śloka ६६
उष्णो गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत्| |६६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-महिष उष्णो गुरुतरः स्वप्नादींश्च करोति| गुरु शब्दादीयसुनि "प्रियस्थिर" इत्यादिना गरादेशः| दार्ढ्यमिति "वर्णदृढ" इत्यादिना ष्यञ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-महिषगुणानाह-उष्णो गरीयानिति| गरीयान्-अन्येभ्यो मांसेभ्यो गुरुः| स्वप्नो-निद्रा|
Adhikarana वराहमांसगुणाः (६६) · Śloka ६६
| तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः||६६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वराहः-सूकरः, तद्वत्-महिषगुणो, ज्ञेय इत्यर्थः| तथा, श्रमहा रुच्यादिप्रदश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वराहगुणानाह-तद्वद्वराह इति| तद्वत्-महिषवत्| ननु, "स्वेदनं बृंहणं वृष्यं तर्पणं शीतलं गुरु| श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम्||" इति सुश्रुतेन (सू.४६/१०२) शीतत्वमुक्तम्, इह तु तद्वद्वचनादुष्णत्वमिति विरोधः| न चातिदेशिकमुष्णत्वमौपदेशिकेन शीतत्वेन बाध्यत इति वाच्यम्, "स्वाद्वम्लपाकं स्निग्धोष्णं वातघ्नं बृंहणं गुरु| स्वेदनं तर्पणं हृद्यं बल्यं शौकरमामिषम्||" इति खारणादिवचनादुष्णत्वस्याप्यौपदेशिकत्वात्| मैवम्| उष्णत्वस्य स्पर्शविषयत्वात्| स्पर्शोष्णं शीतविर्यमप्युष्णोदकादि स्वेदनं दृष्टम्| न तूष्णवीर्यमपि स्पर्शशीतं काञ्जिकादि हिमं च स्वेदनम्| अतो युक्तैवेयं विषयव्यवस्था|
Adhikarana मत्स्यगुणाः (६७) · Śloka ६७
मत्स्याः परं कफकराः| |६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-"गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्|" इत्यनेन ग्रन्थेनातिगुरूष्णस्निग्धमधुरत्वमतिमूत्रशुक्रकृत्त्वमतिबल्यत्वमतिवातघ्नत्वमतिकफपित्तलत्वं च मत्स्यानामुक्तम्| "परं कफकराः" इत्यनेनाऽतः कफकृत्तमा मत्स्या इति बोधयति| सङ्ग्रहे स्पष्टार्थमेवमुक्तम् (सू.अ.७)-"कफपित्तकरा मत्स्याः परं पवननाशनाः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मत्स्यगुणानाह-मत्स्याः परमिति|
Adhikarana चिलिचीमगुणाः (६७) · Śloka ६७
चिलिचीमस्त्रिदोषकृत्| |६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चिलिचीमसंज्ञो मत्स्यस्त्रिदोषकरः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चिलिचीमगुणाः-चिलिचीम इति|
Adhikarana लावादयः स्वे स्वे वर्गै श्रेष्ठाः (६७) · Śloka ६७
| लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम्||६७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लावादयः स्वस्ववर्गेषु वरतराः| तत्र लावो-विष्किरेष्वतिश्रेष्ठः, रोहितो-मत्स्येषु| स हि प्रतिस्रोतोविचारी आकाशप्लवनश्च| तथा चोक्तम् (सङ्ग्रहे सू.अ.७)-"प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च| रोहितः प्रवरस्तेषाम्" इति| गोधा च-बिलेशयेषु वरा| एणो-मृगेष्विति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसेषु वरं निर्द्धारयति-लावरोहितेति| लावो-विष्किरेषु वरः| रोहितो-मत्स्येषु वरः| गोधा-बिलेशयेषु वरा| एणो-मृगेषु वरः| परमिति वरेभ्योऽपि वराः| वरास्तु सङ्ग्रहे उक्ताः (सू.अ.७)-"एणः कुरङ्गो हरिणः शशो लावः कपिञ्जलः| तित्तिरिः क्रकरो गोधा श्वाविद्गृध्रोमृगाधिपः|| बर्हिणः सारिका न्यङ्कुर्हंसो रोहितकच्छपौ| वर्मी चाग्र्याः स्ववर्गेषु, प्रवरास्तेष्वपि स्मृताः|| लावैणगोधासिंहाश्च, निन्दितो गौः सदर्दुरः| ऋष्यः काणकपोतश्च शेषमुक्तं यथायथम्||" इति|
Adhikarana सद्योहतादिमांसं सेव्यम् (६८) · Śloka ६८
मांसं सद्योहतं शुद्धं वयःस्थं च भजेत्| |६८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसं सद्योहतं भजेत्, सद्योहतस्य मांसं भजेदित्यर्थः| तथा, शुद्धं-स्नाय्वस्थ्यादिरहितम्| तथा, वयसि तिष्ठतीति वयःस्थम्,- यद्यपि सर्वं मांसं वयःस्थमेव, तथाऽपीह वयःस्थमित्युक्त्या शोभनं तरुणं वय इति गम्यते| तस्माद्यूनः प्राणिनो मांसं भजेत्, न बालवृद्धयोरिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसभजनं नियच्छति-मांसमिति| सद्योहतंतत्कालव्यापादितमृगादिजम्| शुद्धं-अस्थ्यादिरहितम्| वयःस्थं-तरुणमृगादिजम्| एभ्योऽन्यन्न सेव्यमित्यर्थः|
Adhikarana मृतमांसं त्याज्यम् (६८) · Śloka ६८
त्यजेत्| मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम्||६८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मृतं-स्वयं मृतं न भजेत्, अविज्ञातस्वरूपेण व्याधिनामृतस्य प्राणिनो यन्मांसं तत्त्यजेदित्यर्थः| कृशं-दुर्बलं न भजेत्| तथा, भृशं मेद्यं-अतिमेदुरं मासं त्यजेत्| तथा, व्याधिना-विज्ञातस्वरूपेण हतस्य, वारिणा विषेण च हतस्य, निर्जीवीकृतस्य, यन्मांसं तत्त्यजेत्| सङ्ग्रहे तु (सू,अ.७) हंसादीनां विशेषा उक्ताः| यथा-"हंसः स्वरकरः पित्तरक्तजिन्मधुरो हिमः| कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः|| गोधा नियच्छति विषं मूषकः शुक्रवर्धनः| गुरुण्यण्डानि बालानां कषायमधुरं पलम्|| वृद्धानां स्नायुभूयिष्ठमबल्यं गुरु दोषलम्|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सेव्येष्वपि भृतादीन्यपवदति-त्यजेदिति| यत् सद्योहतमपि केन हतमिति न ज्ञायते तत्-मृतम्| कृषं-अपुष्टम्| भृशं मेद्यं-अत्यन्तपुष्टम्| व्याधिहतं-ज्वरादिना हतम्| वारिहतं-जलमज्जनादिना| विषहतं-विषदिग्धशस्त्रहतं सर्पादिना वा|
Adhikarana पुंस्त्रियोरवयवादि विशेषेण गौरवलाघवे (६९-३) · Śloka ३
पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी, गर्भिणी गुरुः| लघुर्योषिच्चतुष्पात्सु, विहङ्गेषु पुनः पुमान्||६९|| शिरःस्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम्| तथाऽऽमपक्वाशययोर्यथापूर्वं विनिर्दिशेत्||७०|| शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्| मांसाद्गरीयो वृषणमेढ्रवृक्कयकृद्गुदम्||७१|| इति मांसवर्गः||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुंस्त्रियोः पूर्वपश्चार्धे यथासंख्यं गुरुणी| पूर्वं च पश्चं च पूर्वपश्चे, तयोरर्धे| पुंसः पूर्वार्धं गुरु, स्त्रियः पश्चार्धं गुर्वित्यर्थः| गर्भिणी गुरुः-गर्भिणीमांसं गुरु| चत्वारः पादा येषां ते चतुष्पादः, तेषु चतुष्पात्सु-गवादिषु मध्ये, स्त्री लघुः| चतुष्पादिति "संख्यासु पूर्वस्य" इत्यन्तलोपः| विहङ्गेषु-द्विजेषु तु, पुमान् लघुः| शिरःप्रभृतीनां मांसानां यथापूर्वं गुरुत्वं निर्दिशेत्| एवं सक्थ्यादिमांसेभ्यः शिरोमांसं गुरुतममित्यवतिष्ठते| आमपक्वाशययोश्च यथापूर्वं गुरुत्वनिर्देशः| तेन पक्वाशयादामाशयो गुरुः| रक्तादीनां धातूनां यथोत्तरं गुरुत्वं निर्दिशेत्| तेन लोहितान्मांसं गुरु, मांसान्मेद इत्यादि| "मांसाद्गरीयो वृषणमेढ्रवृक्कयकृद्गुदम्|" इत्यत्राऽप्युत्तरोत्तरमित्यनुवर्तते| तेन मांसाद्गुरुतरो वृषणः तस्मान्मेढ्रः, यावत्सर्वगरिष्ठं गुदं निर्दिशेदिति| इति मांसवर्गः| मांसवर्गादनन्तरं शकवर्गो निगद्यते--
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अवयवादिविशेषेण गौरवलाघवे आह-पुंस्त्रियोरिति| पुंसः-पुल्लिङ्गस्य मृगादेः शरीरस्य, पूर्वार्द्धं-नाभ्यादिशिरोन्तं गुरु| स्त्रीणां तु पश्चार्द्धं-नाभेरधोभागं गुरु| गर्भिणी तु सर्वैव गुरुः| चतुष्पात्सु मध्ये योषित्-स्त्री लघुः| विहङ्गेषु-पक्षिषु मध्ये, पुमान् लघुः| शिरस्कन्धोर्विति यथावयवेषु मध्ये पृष्ठस्य कट्याः सक्थ्नोरिति पृष्ठादित्रयस्य यथापूर्वं गौरवं निर्दिशेत्| सक्थिभ्यां कटी गुरुः, कट्याः पृष्ठं गुरु| सक्थिशब्देन जङ्घे ग्राह्ये, ऊर्वोः पृथग्ग्रहणात्| "शिरोवत्पादगौरवम्" इति खारणादिना पादयोः शिरस्तुल्यत्ववचनात् चकारात् पादयोश्च गौरवं विद्यात्| शिरःस्कन्धोरूणश्च गौरवं विद्यात्| ऊरुभ्यां स्कन्धौ गुरू, ताभ्यां शिरो गुरु| उरुस्कन्धशिरःसक्थिकटीपृष्ठानां यथोत्तरं गौरवमित्यर्थः| उक्तं च सुश्रुतेन (सू.अ.४६/१३०)-"तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि|" इति| कालेयकं-वृक्कः| तथाऽऽमपक्वाशययोः-पक्वाशयादामाशयो गुरुरित्यर्थः| शोणितप्रभृतीनामुत्तरोत्तरं-शोणितादिभिः शब्दैः शोणितसारादयो गृह्यन्ते, तेन शोणित सारस्य प्राणि नो मांसात् मांससारस्य मांसं गुरु, ततो मेदःसारस्य, ततोऽस्थिसारस्य, ततो मज्जसारस्य, ततः शुक्रसारस्येति| ननु, एवं चेत् त्वक्सत्वेऽपि ग्राह्ये| वक्ष्यति हि (हृ. शा. अ. ३/११७)-"त्वग्रक्तादीनि सत्वान्तान्यग्र्याण्यष्टौ यथोत्तरम्| बलप्रमाणज्ञानार्थं साराण्युक्तानि देहिनाम्||" इति| सत्यम्| किन्तु त्वक्सारस्य मांसत्वेनानुपयोगात् सत्वसारस्य तिर्यक्ष्वसम्भवादग्रहणम्| रक्तादिधातूनामेव यथोत्तरं गौरवे व्याख्यायमाने को दोषः? इति चेत् न| मांसप्रस्तावे तेषामप्रस्तुतत्वात्| सुश्रुतेनापि(सू. अ. ४६/१३०)-"स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः| तद्यथा-रक्तादिशुक्रान्तेषु धातुषूत्तरोत्तरा गुरवः|" इत्युक्तम्| तथा च चरकः (सू.अ. २७/३२८)-"चरः शरीरावयवाः स्वभावो धातवः क्रिया| लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते||" इति शरीरावयवादिवद्धातूनां गुरुलाघवत्वेनोपादानात्| किञ्च धातवश्चेद्विवक्षिताः स्युः, तदा रसादीनामिति ब्रूयादिति| मांसाद्दृषणादि यथोत्तरं गरीयः, वृषणान्मेढ्रम्, मेढ्राद्द्वृक्कौ, वृक्काभ्यां यकृत्, यकृत्-कालखण्डम्, ततो गुदम्, मांसादिति शिरोमांसात्| यदाह खारणादिः-"सक्थिस्कन्धा उरः शीर्षं मुष्कौ त्वङ् मेहनं कटिः| वृक्कौ यकृद्गुदे वक्षश्चामिषन्मध्यमेव च|| गुरूत्तरोत्तरं विद्याच्छिरोवत्पादगौरवम्|" इति| ननु, खारणादिस्त्वचोऽधिकं कट्या गौरवमाह, शिरःपादयोस्तुल्यम्| सुश्रुतस्तु शिरसोऽधिकं पादयोः, कट्या अधिकं त्वचः| तत्किमत्र प्रमाणम् ? उच्यते| त्वक्चर्मणोरर्थभेदादविरोधः| न हि त्वगेव चर्म| किन्तर्हि? बाह्या-त्वक्, संहतिः-चर्म| शिरःपादमिति द्वन्द्वैकत्वे कृत्वा क्रोडाच्छिरःपादं गुर्विति व्याख्येयम्, न तु क्रोडाच्छिरस्ततः पादाविति| सङ्ग्रहे तु (सू. अ. ७)-"ताम्रोऽत्र हरिणः कृष्णस्त्वेणो हृद्यास्त्रिदोषजित्| लघीयान् षड्रसश्वासौ, ग्राही रूक्षो हिमः शशः|| कटुपाकोऽग्निकृत्पथ्यः सन्निपातेऽनिलावरे| तद्वल्लावोऽप्यरूक्षश्च किञ्चिद्रूक्षः कपिञ्जलः|| पारावताः कपोताश्च तद्वद्वन्याः सुपूजिताः| गोधा नियच्छति विषं, मूषकः शुक्रवर्द्धनः|| हंसः स्वरकरः पित्तरक्तजिन्मेदुरो हिमः| प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च|| रोहितः प्रवरस्तेषां, परं चिलिचिमोऽवरः| अगोचरविचारित्वात्सर्वदोषकरो हि सः|| कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः| गुरूण्यण्डानि बालानां कषायमधुरं पलम्|| वृद्धानां स्रायुभूयिष्ठमबल्यं गुरु दोषलम्|" इति| इति मांसवर्गः|
Adhikarana शाकवर्गः पाठादिजशाकगुणाः (७२) · Śloka ७२
अथ शाकवर्गः| शाकं पाठाशठीसूषासुनिषण्णसतीनजम्| त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम्||७२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पाठादिजं शाकं त्रिदोषहरं लघु ग्राहि च| तद्वत् राजक्षवकवास्तुके|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ शाकवर्गः| स्नेहादिसंस्कृत उद्भिदवयवः-शाकम्| तत्र पाठादिगुणानाह-शाकं पाठेति| पाठाअम्बष्ठा| शठी-कर्चूरः| शूषा-कासमर्दिका कासमर्दसदृशी| सुनिषण्णः-चतुर्दलश्चाङ्गेरीसदृशपर्णः| सतीनो-विष्णुक्रान्ता| राजक्षवो-दुग्धिका| वास्तुकः-कङ्कवास्तुकः|
Adhikarana सुनिषण्णागुणाः (७३) · Śloka ७३
सुनिषण्णोऽग्निकृद्वृष्यस्तेषु| |७३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषु मध्ये, सुनिषण्णः-स्वस्तिकाख्यो, जलमध्ये भवति| पत्रैश्चाङ्गेरीतुल्योऽग्निकरो वृष्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्रकेषांचिद्विशेषः| तत्र सुनिषण्णगुणानाहसुनिषण्ण इति|
Adhikarana राजक्षवगुणाः (७३) · Śloka ७३
राजक्षवः परम्| ग्रहण्यर्शोविकारघ्नः|७३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-राजक्षवः-क्षुद्विबोधनो राजशाकाख्यः, परं-अत्यर्थं, ग्रहण्यर्शोविकारघ्नः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-राजक्षवगुणानाह-राजक्षव इति|
Adhikarana वास्तुकगुणाः (७३) · Śloka ७३
| वर्चोभेदि तु वास्तुकम्||७३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वास्तुकं तु-पुनः रक्तवास्तुकाख्यं, वर्चोभेदि-पुरीषस्य भेदनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वास्तुकगुणानाह-वर्चोभेदीति| वर्चोभेदिसरम्|
Adhikarana काकमाचीगुणाः (७४) · Śloka ७४
हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी| काकमाची सरा स्वर्या|७४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काकमाचीं त्रिदोषघ्नी, कुष्ठनाशिनी, बृष्या, किञ्चिदुष्णा, सरा-भेदिनी, स्वरहिता च| स्वास्थ्यसंवाहकत्वेन च रसायनसदृशी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-काकमाचीगुणानाह-हन्ति दोषत्रयमिति| रसायनी-वयःस्थापनी| काकमाची-कामाता| यत्तु सुश्रुतेनोक्तं (सू.अ.४०/५)- "तिक्ता काकमाची पित्तं वर्द्धयति, उष्णवीर्यत्वात्|" इति| तदन्यार्थम्| केवलं पित्तं करोत्येव|
Adhikarana चाङ्गेरीगुणाः (७४-७५) · Śloka ७५
| चाङ्गेर्यम्लाऽग्निदीपनी||७४|| ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः| |७५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चाङ्गेरी-क्षुद्राम्लिका, अम्ला, अग्निदीपनी, ग्रहण्यादिषु हिता, उष्णवीर्या, सङ्ग्राहिणी, लघ्वी च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चाङ्गेरीगुणानाह-चाङ्गेरीति| चाङ्गेरी-अम्लपत्रिका|
Adhikarana पटोलादीनां गुणाः (७५-७८) · Śloka ७८
| पटोलसप्तलारिष्टशार्ङ्गेष्टावल्गुजाऽमृताः||७५|| वेत्राग्रबृहतीवासाकुतिलीतिलपर्णिकाः| मण्डूकपर्णीकर्कोटकारवेल्लकपर्पटाः||७६|| नाडीकलायगोजिह्वावार्ताकं वनतिक्तकम्| करीरं कुलकं नन्दी कुचैला शकुलादनी||७७|| कटिल्लं केम्बुकं शीतं सकोशातककर्कशम्| तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्||७८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पटोलादीनि कर्कशान्तान्यष्टाविंशतिः शीतविर्याणि तिक्तानि पाके कटूनि ग्राहीणि वातलानि कफपित्तघ्नानि च| सप्तला-सातला| अरिष्टो-निम्बः| शार्ङ्गेष्टा-अङ्गारवल्लिका| अवल्गुजो-बाकुची| अमृता-गुडूची| वेत्रो-वंशसदृशः, तस्याग्रम्| वासा-वृषः| कुतिली-सूक्ष्मतिलजातिः| तिलपर्णी-बदरकः| मण्डुकपर्णीं-मण्डूकी, आदित्यवल्ली| कर्कोटकारवेल्लकेपुनः प्रथिते एव| पर्पटः-शीतप्रियाख्यः| नाडीकलायं-सकुलाक्षकः सुवर्चलाभेदः| गोजिह्वा-गोधूमिका, "गोधूमिका तु गोजिह्वा गोजी क्रोष्टुकमूलिका|" वनतिक्तकं-वत्सकः| कुलकं-काकतिन्दुकः| नन्दी-जयवृक्षश्चशब्दितः| कुचैला-पाठा| शकुलादनी-कटुका| कटिल्लं-दीर्घपत्रा वर्षाभूः| कोशातकोघण्टोलिः| कर्कशः-कम्पिल्लकः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पटोलादिगुणानाह-पटोलेति| पटोलं-राजीफलम्| सप्तला-सातला| अरिष्टो-निम्बः| शार्ङ्गेष्टा-अङ्गारवल्ली| अवल्गुजो-बाकुची| अमृता-गुडूची| वेत्रो-वंशसदृशः, तस्याग्रं-अग्रभागः| बृहती द्विधा,-सिंही व्याघ्री च| वासा-आटरूषकः| कुन्तिली-चञ्चुसदृशी दीर्घपत्रा| तिलपर्णिका-बदरकः| मण्डूकपर्णी-ब्राह्मी| कर्कोटं-कर्कोटीफलम्| कारवेल्लकं-सुषवीफलम्| पर्पटो-ज्वरघ्नः| नाडीकलायो-मत्स्याक्षः| गोजिह्वा-दार्विपत्रिका| वार्ताकं-वृन्ताकम्| वनतिक्तकं-किराततिक्तम्| करीरं-गूढपत्रम्| कुलकंकाकतिन्दुकम्| नन्दी-मेषशृङ्गी| कुचैला-कृष्णपाठा| शकुलादनी_कटुरोहिणी| कटिल्लं-रक्तपुनर्नवा| केम्बुकं-प्रसिद्धम्| कोशातकं-कृतवेधनम्| कर्कशं-कम्पिल्लम्| पटोलादिकं शीततिक्तादिगुणम्| अत्र पटोलनिम्बावल्गुजामृतावेत्राग्रकर्कोटककारवेल्लेषु विवादः| तत्र पटोलफनं प्रति सुश्रुतः (सू.अ. ४६/२६८)-"कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम्| पटोलं कटुकं पाके वृष्यं रोचनदीपनम्||" खारणादिः-"सस्नेहोष्णं लघु स्वादु पाके दोषानुलोमनम्| उक्तं तिक्तं तिक्तं त्रिदोषघ्नं शाकं निम्बपटोलयोः|| तथा,-पटोलनिम्बं वातघ्नं तिक्तमन्यत्तु वातलम्|" इति| तत्र खारणाद्युक्तं त्रिदोषघ्नत्वमेव ग्राह्यम्, अन्यथाऽन्वयानुपपत्तेः- वाग्भटोक्तस्य हि "वातलम्" इत्यस्य सप्तलादिभिरन्वयत्वेन सार्थक्यात्, पटोलस्य कफपित्तहरत्वादिभिः| अत एव हरिश्चन्द्रजैज्जटादयष्टीकाकारा अप्युद्दृतव्यक्तिव्यतिरेकेण गणगुणा इत्याहुः| सुश्रुतोक्तस्य तु "अवातलम्" इति शब्दस्य वात-घ्नत्वमेवार्थः, विरुद्धार्थत्वान्नञः| यद्यपि वातोदासीनत्ववातघ्नत्वयोः सहानवस्थानलक्षणो विरोधोऽस्ति, तथाप्यवात-लशब्देन वातोदासीनत्वं न ग्राह्यम्, तन्त्रान्तरविरोधस्य तद-वस्थत्वात्| अथवा, अवातलशब्देन वातकरणाभाव उच्यते, स च वातघ्नत्वेऽप्यस्ति, इत्यविरोधः| अत एव रसेभेदीये वक्ष्यति (हृ. सू.अ. १०/३५)-"तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्| ऋतेऽमृतापटोलीभ्यां शुण्ठीकृष्णारसोनतः||" इति| माधवकशमनं मूलं तस्य विरेचनम्||" इति| उष्णत्वशीतत्वयोरुष्णत्वं ग्राह्यम्, अनवकाशत्वात्| शीतलत्वं वातलत्ववत् सावकाशम्| निम्बे तु खारणाद्युक्तं त्रिदोपघ्नत्वं फलविषयम्, सस्नेहत्वादीनां फल एव सम्भवात् पटोलसाहचर्याच्च| चरकसश्रुताद्युक्तं वातलत्वं पत्रविपयम्| अवल्गुजस्य पित्तकरत्ववातघ्नत्वे आह खारणादिः-"अवल्गुजः सैडगजः पित्तकृत्कफवातजित्|" इति| तत्फलविषयम्, धान्यवर्गे पाठात्| अत एवोक्तं सङ्ग्रहे (सू. अ. १२)- "अवल्गुजैडगजयोर्बीजं वातकफप्रणुत्|" इति| पित्तघ्नत्वं वातलत्वं च पत्रविषयम्| सुश्रुतोऽप्याह (सू. आ. ४६/२६५)- "अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः|" इति| गुडूच्यास्त्रिदोषघ्नत्वमुष्णत्वं चोक्तं सङ्ग्रहे (सू. अ. १२)- "तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी| दीपनी ज्वरतृट्दाहकामलावातरक्तनुत्||" इति| तत्र त्रिदोषघ्नत्वोष्णत्वे ग्राह्ये, अनवकाशत्वात्| वातलत्व शीतलत्वे तु पटोलवत्सावकाशे| तथा, वेत्राग्रस्य खारणादिना त्रिदोषघ्नत्वमुक्तम्-"चञ्चुर्मर्मरिका पाठा वेत्राग्रं सुनिषण्णकम्| शठीशाकं च सङ्ग्राहि दोषत्रयहितं लघु||" इति| तत्र त्रिदोषघ्नत्वं ग्राह्यम्, हारीतेन वातलस्यापोहितत्वात्,-"सर्वं तिक्तं वातलमवृष्यं चान्यत्र वेत्राग्रपटोलात्|" इति| सुश्रुतेन अनुक्तत्वाच्च, (सू. अ. ४६/२७०)- "आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः| किराततिक्तसहितास्तिक्ताः पित्तकफापहाः||" इति| कर्कोटकारवेल्लयोः सुश्रुतेन वातघ्नत्वमुक्तम् (सू.अ. ४६/२६९)-"कफवातहरं तिक्तं रोचनं कटुकं लघु| वाऱ्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम्|| तद्वत्कर्कोटकं विद्यात्कारवेल्लकमेव च||" इति| तत्र वातलत्वं ग्राह्यम्, आतिदेशिकादौपदेशिकस्य बलीयस्त्वात् सादृश्यस्य च कतिपयैरपि गुणैश्चरितार्थत्वाच्च| उपमानादुपमेयस्य हीनगुणत्वात्| किञ्च चरकादिविरुद्धः सुश्रुतपाठो न प्रमाणमित्युक्तं जैज्जटेन| विगीतश्चायमतिदेशपाठः|
Adhikarana पटोलगुणाः (७९) · Śloka ७९
हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्| |७९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सामान्यगुणानुक्त्वा केषांचिद्गुणकर्मविशेषमाह- स०-पटोलं हृद्यादिगुणयुक्तम्| मुनिना (?) तु त्रिदोषशमनत्वमुक्तम्-"पटोलपत्रं पित्तघ्नं वल्ली चास्य कफापहा| फलं त्रिदोषशमनं मूलं चास्य विरेचनम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्र केषांचिद्विशेषः| तत्र पटोलगुणानाहहृद्यमिति|
Adhikarana बृहतीद्वयगुणाः (७९) · Śloka ७९
| पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्||७९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बृहतीद्वयं,-स्थूलबृहती-महोटिकाख्या, क्षुद्रबृहती-कण्टकारिकाख्या| तदेतदुभयं पित्तकरमग्निदीपनं शकृदादीनां भेदनं वातघ्नं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बृहतीद्वयगुणानाह-पित्तलमिति|
Adhikarana वृषगुणाः (८०) · Śloka ८०
वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्| |८०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृषं छर्दिकासौ हन्ति| रक्तपित्तं चात्यर्थं जयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वासागुणानाह-वृषमिति|
Adhikarana कारवेल्लगुणाः (८०) · Śloka ८०
| कारवेल्लं सकटुकं दीपनं कफजित्परम्||८०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कारवेल्लमीषद्रसे कटुकमग्निदीप्तिकरमतिश्लेष्मघ्नम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कारवेल्लगुणानाह-कारवेल्लमिति|
Adhikarana वार्ताकगुणाः (८१) · Śloka ८१
वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्| सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्||८१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वार्ताकं रसे कटु तिक्तमुष्णवीर्यं मधुरं वातश्लेष्मघ्नम्| सह क्षारेण वर्तते सक्षारं,-किञ्चित्क्षारत्वयुक्तम्| अग्निजननम्| हृद्यं-हृदयाय हितम्| रुच्यं-रुचिकृत्| अपित्तलं-नञीषदर्थे, किञ्चित्पित्तकरमित्यर्थः| ननु, सह क्षारेण वर्तते इत्यत्र सक्षारमित्येवं कथमुक्तम् ? यावता क्षारो द्रव्यम्| तथा च प्रागुक्तं क्षरणादित्यादि| न द्रव्यं द्रव्येण सह वर्तते| तथा च गुणानामेवायं धर्मो यद्द्रव्याश्रितत्वं नाम| तस्मात् सक्षारमित्ययुक्तमिव मन्यामहे| अत्राऽऽचक्ष्महे| क्षारशब्देनात्र क्षारधर्म उपलक्ष्यते विस्रावणाद्यात्मकः| यद्वशात् सक्षारमिति द्रव्यं व्यपदिश्यते| तस्मात्सक्षारमित्युपपन्नम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वार्ताकगुणानाह-वार्ताकमिति| अपित्तलत्वंबालपक्वव्यतिरेकेण| यदाह माधवकारः-"तद्बालं कफपित्तघ्नं पक्वं सक्षारपित्तलम्|" इति| सुश्रुतोऽप्याह (सू. अ. ४६/२६९)- "जीर्णं सक्षारपित्तलम्|" इति|
Adhikarana करीरगुणाः (८२) · Śloka ८२
करीरमाध्मानकरं कषायं स्वादु तिक्तकम्| |८२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-करीरं-गूढपत्राख्यम्, आध्मानकरं रसे कषायमधुरतिक्तकम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-करीरगुणानाह-करीरमिति|
Adhikarana कोशातकावल्गुजकयोर्गुणाः (८२) · Śloka ८२
| कोशातकावल्गुजकौ भेदिनावग्निदीपनौ||८२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोशातकावल्गुजकौ भेदिनावग्निदीपनौ च| अनयोश्च पित्तकारित्वं वातकफघ्नत्वं च वेद्यम्| तथा हि-प्रायेण यदुष्णं गुडूच्यादिद्रव्यं, तत्पित्तलं वातकफहरं च दृष्टम्| तथा चाह मुनिः(?)-"कफवातनुदवल्गुजः" इति| तदेवमन्यत्राप्यौचित्येन दोषकरत्वादि कल्प्यम्| सङ्ग्रहे (सू.अ.७) चान्येऽप्युक्ताः| यथा-"सतरूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु| कुमारजीवलोणिका नलिनी चुचुपर्णिका|| स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु| श्यामाशाल्मलिकाश्मर्यफञ्जीकर्णिकयूथिकाः| वृक्षादनीक्षीरवृक्षबिम्बीतनिकवृक्षकाः| रोध्रः शणः कर्बुदारः सशेलुर्वृषमूषिका|| भल्लातकः कोविदारः कमलोत्पलकिंशुकम्| पटोलादिगुणं स्वादु कषायं पित्तजित्परम्|| वातपित्तहरा भण्डी पर्विणी पर्वपुष्पिका| लघुरुष्णा सरा तिक्तासोरुबूका च लाङ्गली| वातलौ कटुतिक्ताम्लभेदिनौ तिलवेतसौ| विश्वरास्नाबलाशाकं वातघ्नमतिसारनुत्|| वातं वत्सादनी हन्यात्कफं कण्डीरचित्रकौ|" इति| मुनिना चान्येऽप्युक्ताः (च.सू.अ.२७|१०२)-"न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः| कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम्||" इति| तथा, सुश्रुते गदितम् (सू.अ.४६|२८२)-"करीरकुसुमं ज्ञेयं कफपित्तहरं लघु| आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते|| चातुर्थकज्वरहरं नस्ययोगेन शीलितम्| राजवृक्षस्य निम्बस्य शिग्रोः सिंहमुखस्य च|| कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च| श्रेयसी तिलपर्णी च बिल्वपत्रं च वातनुत्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कोशातकावल्गुजकयोर्गुणानाह-कोशातकेति|
Adhikarana तण्डुलीयगुणाः (८३) · Śloka ८३
तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः| मदपित्तविषास्रघ्नः|८३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तण्डुलीयो-मण्डीरकाख्यः, शीतवीर्यो रूक्षः स्वादुपाकरसो लघुर्मदादिनाशनश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तण्डुलीयगुणानाह-तण्डुलीय इति| तण्डुलीयः-अल्पमारिषः|
Adhikarana मुञ्जातगुणाः (८३-८४) · Śloka ८४
मुञ्जातं वातपित्तजित्||८३|| स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्| |८४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुञ्जातं वातपित्तहृत् स्निग्धादिगुणयुतमतिशुक्रकृच्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुञ्जातगुणानाह-मुञ्जातमिति| मुञ्जातं-कन्दविशेषः, काशमीरे प्रसिद्धः|
Adhikarana पालङ्क्यागुणाः (८४) · Śloka ८४
| गुर्वी सरा तु पालङ्क्या|८४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पालङ्क्या गुर्वी| तथा, सरा-शकृदादिभेदिनी| तुशब्दः पिच्छिलश्लेष्मलहिमादीनां सङ्ग्रहोक्तानां समुच्चयार्थः| तथा चोक्तं सङ्ग्रहे (सू.अ.७)-"पालङ्क्या पिच्छिला गुर्वी श्लेष्मला भेदिनी हिमा|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पालङ्क्यागुणानाह-गुर्वीति| ईषल्लोहितचीरितपत्रा वास्तुकसदृशा-पालङ्क्या| "वास्तुकेन समा ज्ञेया ईषल्लोहितपत्रिका| तथा चीरितपत्रा च पालङ्क्या सा प्रकीर्तिता||" ननु, "चिल्ली वास्तुकवत् ज्ञेया पालङ्क्या तण्डुलीयवत्| वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता||' इति सुश्रुतेन (सू.अ. ४६/२६१) बद्धविण्मूत्रोक्ता, इह तु सरेति विरोधः| मैवम्| आमा बद्धविण्मूत्रा, पक्वा तु सरेति विषयभेदात्| यदाह चरकः-"सर्वाणि सूप्यकानि" इत्यादौ पालङ्क्यां पठित्वा, (च. सू. अ. २७/९९)-"शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति| मधुरं शीतवीर्यं च पुरीषस्य च भेदनम्||" इति| सुश्रुतोक्तं च पित्तकफहितत्वं पित्तावृतकफविषयमिति| "पालङ्क्या पिच्छिला गुर्वी श्लेष्मला भेदिनी हिमा||" इति सङ्ग्रहे (सू. अ. ७) श्लेष्मलत्ववचनात्|
Adhikarana उपोदकागुणाः (८४) · Śloka ८४
| मदघ्नी चाप्युपोदका||८४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उपोदका मदनाशिनी| अपिशब्दात् गुर्वी सरा च| उपोदका-मयाली, खण्डपालङ्क्येति प्रथिता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उपोदकागुणानाह-मदघ्नीति| उपोदका-पोतकी| चकारात् पूर्ववत्| उक्तं च सङ्ग्रहे (सू.अ.७)-"मदघ्न्युपोदका चञ्चुर्ग्राही तौ पूर्ववत्तथा||" इति|
Adhikarana चञ्चुगुणाः (८५) · Śloka ८५
पालङ्क्यावत्स्मृतश्चञ्चुः स तु सङ्ग्रहणात्मकः| |८५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चञ्चुः पालङ्क्यासदृशो गुणैः स्मृतः| स पुनश्चञ्चुः सङ्ग्रहणात्मको-न भेदी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चञ्चुगुणानाह-पालङ्क्यावदिति| गुरुरिति सिद्धे पालङ्क्यावद्वचनमुक्तानुक्तपालङ्क्यागुणप्रास्यर्थम्| ननु, "लघुः पाके तु जन्तुघ्नः पिच्छिलो व्रणिनां हितः| कषायमधुरो ग्राही चञ्चुस्तेषां त्रिदोषहा||' इति सुश्रुतेन (सू.अ. ४६/२५१) लघुत्वं त्रिदोषहरत्वं चोक्तम्| इह तु गुरुत्वं श्लेष्मलत्वं चेति विरोधः| मैवम्| त्रिदोषहरत्वलघुत्वे एव ग्राह्ये, आतिदेशिकस्यौपदेशिकेन बाधात्| अत एवोक्तं खारणादिना-"चञ्चुर्मर्मरिका पाठा वेत्राग्रं सुनिषण्णकम्| शठी शाकं च सङ्ग्राही दोषत्रयहितं लघु||" इत्यादि|
Adhikarana विदारीगुणाः (८५-८६) · Śloka ८६
| विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला||८५|| जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्| |८६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विदारी-शृगालिका, वातपित्तहरा मूत्रलादिगुणयुक्ता रसायनं च| कन्दस्यैवायं गुणनिर्देशो बोध्यः| तथा च मुनिः (च.सू.अ.२७|११७)-"जीवनो बृंहणो वृष्यो बल्यः शस्तो रसायनम्| विदारिकन्दः कण्ठ्यश्च मूत्रलः स्वादुशीतलः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विदारीगुणानाह-विदारीति| विदारी-भूकुष्माण्डी, तस्याः कन्दोऽत्र ग्राह्यः| उक्तं च (चरकेण सू. अ. २७/११७)- "विदारिकन्दो बल्यश्च मूत्रलः स्वादुशीतलः|" इति|
Adhikarana जीवन्तीगुणाः (८६) · Śloka ८६
| चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा||८६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्ती चक्षुष्यादिगुणयुक्ता| या मधुऱ्रा सा शीतवीर्या च| या त्वमधुरा सा एभिर्गुणैः किञ्चिदूना| तथा चोक्तं सङ्ग्रहे (सू.अ.७)-"चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा| शाकानां प्रवरा, न्यूना द्वितीया किञ्चिदेव तु||" इति| मुनिना तु जीवन्त्याः शतावर्याद्याश्च वातपित्तहरत्वमगादि| तत्पाठो हि (च,सू.अ.२७|१०४)-"भण्डीशतावरीशाकं बलाजीवन्तिजं च यत्| पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं मतम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जीवन्तीगुणानाह-चक्षुष्येति| जीवन्ती-स्वर्णवर्णमूलनालादिका| सङ्ग्रहे तु (सू. अ. ७)- "शाकानां प्रवरा, न्यूना द्वितीया किञ्चिदेव तु|" इति|
Adhikarana कूष्माण्डादिगुणाः (८७-८८) · Śloka ८८
कूष्माण्डतुम्बकालिङ्गकर्कार्वेर्वारुतिण्डिशम्| तथा त्रपुसचीनाकचिर्भटं कफवातकृत्||८७|| भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु| |८८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कूष्माण्डादिकं कफवातकृत् भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुष्माण्डादिगुणानाह-कूष्माण्डेति| कूष्माण्डंपुष्पफलम्| तुम्बं-अलाबुः| कालिङ्गं-कलिङ्गडम्| कर्कारुः-खर्बुजः| एर्वारुः-कर्कटी| तिण्डिशं-छाटकम्| त्रपुसं-वालुकम्| चीनाकं-वीणकम्| चिर्भटं-डङ्गरम्| भेदि-मलानाम्| विष्टम्भि-वायोः| गुरुत्वे च क्रम उक्तः खारणादिना-"त्रपुसैर्वारुकर्कारुकूष्माण्डालाबुचिर्भाटः| मधुरा रूक्षणाः शीता गौरवं तूत्तरोत्तरम्||' इति|
Adhikarana कूष्माण्डगुणाः (८८-८९) · Śloka ८९
अत्र विषेशमाह | वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्||८८|| बस्तिशुद्धिकरं वृष्यम्| |८९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वल्लीफलानां मध्ये कूष्माण्डं-पुष्पफलसंज्ञ वरम्| तथा, वातपित्तहरं बस्तिशुद्धिकरं वृष्यं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अत्र केषांचिद्विशेषः| तत्र कूष्माण्डगुणानाहवल्लीफलानामिति|
Adhikarana त्रपुसगुणाः (८९) · Śloka ८९
त्रपुसं त्वतिमूत्रलम्| |८९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रपुसं पुनरतिशयेन मूत्रलम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्रपुसगुणमाह-त्रपुसमिति| अतिग्रहणात् कूष्माण्डादीनामीषन्मूत्रलत्वम्|
Adhikarana तुम्बगुणाः कालिङ्गादीनां गुणाः बालकूष्माण्डादेर्गुणाः पक्वकूष्माण्डादेर्गुणाः (८९-९०) · Śloka ९०
| तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम्||८९|| बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा| |९०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तुम्बं-अलाबुसंज्ञं रूक्षतरम्| एर्वारुकाद्यपि रूक्षम्, तुम्बं त्वतिशयेनेत्यर्थः| तथा, ग्राहि| पूर्वाणि तु सामान्यगुणोक्त्या भेदीन्येव| चरकमुनिमतानुसारिणस्त्वेवं व्याचक्षते,-तुम्बं रूक्षतरम्, कालिङ्गैर्वारुचिर्भटं ग्राहीति| कालिङ्गं- कर्चरम्| एर्वारुः-कर्कटिका| चिर्भटं-डङ्गरम्, मालवेषु प्रसिद्धम्, अतिप्रसिद्धं जालन्धरादिषु| एतच्च बालं-असम्पूर्णरसादि, पित्तहरं शीतवीर्यं च| अतो-बालाद्विपरीतम्, पक्वं पित्तकरमुष्णवीर्यं चेत्यर्थः| सुश्रुतेनोक्तम् (सू.अ.४६|२१८)-" नीलं यत्त्रपुसं बालं वृष्यं पित्तहरं मतम्| तत्पाण्डु कफकृज्जीर्णमम्लं पित्तकरं स्मृतम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तुम्बगुणानाह-तुम्बं रूक्षतरमिति| तरग्रहणात् कूष्माण्डादीनामीषद्रूक्षत्वम्| कालिङ्गादीनां गुणानाह-ग्राहि कालिङ्गेति| ग्राहीति केचित्तुम्बेन सम्बध्नन्ति| तदसत्| "अलाबु भेदनं तेषां त्रपुसं त्वतिमूत्रलम्| एर्वार्रुकं सृष्टमूत्रं, ग्राहि कर्कारुचिर्भटम्||" इति खारणादिवचनात्| बालकुष्माण्डादेर्गुणानाह-बालमिति| केचित्कालिङ्गादिविषयत्वमेवास्य वाक्यस्याहुः| तदसत्| "पित्तनुत्तेषु कूष्माण्डं बालम्" इति, "बालं सुनीलं त्रपुसं तेषां पित्तहरं स्मृतम्|" इति च सुश्रुतवचनात् (सू.अ. ४६/२१३)| पक्वस्य कूष्माण्डादेर्गुणानाह-पक्वमिति| अतोऽन्यथा-पित्तकरमुष्णं च| पक्वं-ईषत्पम्क्वम्, सम्यक्पक्वस्य वक्ष्यमाणत्वात्|
Adhikarana शीर्णवृन्तस्य कूष्माण्डादेर्गुणाः (९०-९१) · Śloka ९१
| शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्||९०|| रोचनं दीपनं हृद्यमष्ठीलाऽनाहनुल्लघु| |९१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीर्णवृन्तं-कर्चरम्, ईषत्क्षारं पित्तलं कफवातघ्नं च| रुचिकरमग्निदीप्तिकृत् हृद्यम्, अष्ठीलामानाहं च हन्ति, लघु च|| "घनोऽष्ठीलोपमो ग्रन्थिरष्टीलोर्ध्वं समुन्नतः|" इति (हृ. नि. ह. ११|६०) अष्ठीलालक्षणम्| साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्| ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते " इति (हृ. नि. अ. ११|५९) आनाहलक्षम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शीर्णवृन्तस्य कूष्माण्डादेर्गुणानाह-शीर्णवृन्तमिति| अष्ठीलानाहौ-गुल्मनिदाने वक्ष्येते| पित्तलत्वं-कूष्माण्डं विना, "शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम्| सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम्||" इति (सू.अ.४६/२१३) सुश्रुतवचनात्| शीर्णवृन्तशब्देन सम्यक्पक्वं लक्ष्यते| सम्यक्पक्वस्य हि वृन्तं शीर्यते|
Adhikarana मृणालादिगुणाः (९१-९२) · Śloka ९२
| मृणालबिसशालूककुमुदोत्पलकन्दकम्||९१|| नन्दीमाषककेलूटशृङ्गाटककसेरुकम्| क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु||९२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मृणालादि रूक्षं सङ्ग्रहणं शीतवीर्यं गुरु च| मृणालं द्विविधं,-सूक्ष्मं स्थूलं च| तत्र सूक्ष्मं-मृणालम्, इतरत्-बिसम्| शालूकं-पद्ममूलम्| कुमुदकन्दम्| कुमुदं-शशिप्रियम्| उत्पलकन्दकं-रक्तोत्पलकन्दम्| नन्दी-तुण्डेरिका| माषको-वास्तुलः| केलूटं-किस्मकसंज्ञमुदुम्बरभेदः| शृङ्गाटकं-त्रिकोणाकृति जलोद्भवं कन्दम्| कसेरुकं-मागधम्| क्रौञ्चादनं-तमेदम्| कलोड्यं-पद्मबीजम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मृणालादिगुणानाह-मृणालेति| मृणालंसूक्ष्मं कमलमूलम्, बिसं-स्थूलम्, शालूकं-पद्मकन्दः, कुमुदोत्पलयोः कन्दस्य पृथग्ग्रहणात्| रक्तं-पद्मम्, श्वेतं-कुमुदम्, नीलं-उत्पलम्| नन्दीमाषको-वानीरकः| केलूटं-जलोदुम्बरः| शृङ्गाटकः-त्रिकोणो जलकन्दः| कसेरुकं-लोमशकृष्णवर्तुलसूक्ष्मस्तडागकन्दः| क्रौञ्चादनं-थेम्बुलिका| कलोड्यं-पद्मबीजम्|
Adhikarana कलम्बादिगुणाः (९३-९६) · Śloka ९६
कलम्बनालिकामार्षकुटिञ्जरकुतुम्बकम्| चिल्लीलट्वाकलोणीकाकुरूटकगवेधुकम्||९३|| जीवन्तझुञ्झ्वेडगजयवशाकसुवर्चलाः| आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम्||९४|| स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु| शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति||९५|| स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्| |९६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कलम्बादिकं मधुरं रूक्षं किञ्चिल्लवणं वातश्लेष्मकरं गुरु च| शीतविर्यं सृष्टमूत्रपुरीषं च| मूत्रपुरीषे सृजति-बहिः क्षिपति| बिष्टभ्य-उदरप्रदेशे पिण्डीभूय, जीर्यति-परिणमति| प्रायोग्रहणं किञ्चिदेषां मध्ये नैवंस्वरूपमिति ज्ञापनार्थम्| कलम्बं-कदम्बः| नालिका-दीर्घनालरूपा कलम्बुसंज्ञा| मार्षो-गन्धारिका| कुटिञ्जरं-ताम्रमूलकम्| कुतुम्बको-द्रोणपुष्पी| चिल्ली-पृथुपत्रं यवशाकं कुनामसंज्ञम्| लट्वाको-गुग्गुलुशाकम्| लोणीका-लोणारः| कुरुटकः-स्थितिवारकः| गवेधुकं-तृणधान्यविशेषः| जीवन्तो-बृहद्गान्धारम्| झुञ्झुः-झुञ्झुरुकः| एडगजः-प्रपुन्नाटः| यवशाकं-ह्नस्वपत्रा चिल्ली| सुवर्चला-रविभक्ता| आलुकानि च सर्वाणि-नानाविधानि रक्तालुकमधुकालुकादिभेदेन| सूप्यानि-मुद्गराजमाषादिपत्राणी| लक्ष्मणं-मधुयष्टिका| एतच्च सर्वं स्विन्नं निष्पीडितरसमतिबहुस्नेहं च नात्यपथ्यम्| सुश्रुते(?)चोक्तम्-"संस्कृतं वेसवारेण सस्नेहं शाकमिष्यते| राजिकासक्तुभक्तादिसंस्कारं चानुवर्तते||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कलम्बादिगुणानाह-कलम्बनालिकेति| कलम्बो-नाड्याकारः सूक्ष्मसुषिरो बहुतोयजः| नालिका-तस्मादल्पा श्लक्ष्णा मार्पः-मण्टकः| कुटिञ्जरः-प्रसिद्धः| कुतुम्बको-द्रोणपुष्पी| चिल्ली-प्रसिद्धा| लट्वाकं-गुग्गुलुशाकम्| लोणीका-घोलिका| कुरूटकः-शितिवारकः| गवेधुका-कसिका| जीवन्तो-रक्तनालो मार्षः| झुञ्झुः-झुञ्झुरूकः| एडगजः-प्रपुन्नाटः| यवशाकं-चिल्लीसदृशं लघुपत्रम्| सुवर्चला-रविभक्ता| सर्वाण्यालुकानि-पिण्डालुकमध्वालुकहस्त्यालुकादीनि| सूप्यानि-मुद्गादीनाम् शिम्ब्यः पत्राणि च| लक्ष्मणा _ रक्तबिन्दुच्छदा, तस्या इदं लाक्ष्मणम्| लक्ष्मणं-यष्टीमधु, तस्येदं लाक्ष्मणमित्येके| प्रायोग्रहणं प्रपुन्नाटादिषु व्यभिचारार्थम्| यदाह सुश्रुतः (सू.अ. ४६/२७१)-"कफापहं शाकमुक्तं वरुणप्रपुनाटयोः| रूक्षं लघु च शीतं च वातपित्तप्रकोपणम्||" इति| विष्टब्य जीर्यति-पच्यमानं विष्टम्भं करोतीत्यर्थः| अत एव पक्वं सत् सृष्टविण्मूत्रम्| सङ्ग्रहे तु (सू. अ. ७)- चिल्लीनिष्पावलट्वाककुरूटकगवेधुकाः| यातुका शालकल्याणी त्रिपर्णी पीलुपर्णिका|| कुमारजीवलोणीकायवशाकसुवर्चलाः| कुकुण्डनलिनीझुञ्झुमृगधूमकलाक्ष्मणम्|| आलुकानि च सर्वाणि तथा सूप्यानि रालकः| जीवन्तकश्चञ्चुपर्णी प्रपुन्नाटः कुठेरकम्||' इति| कलम्बादीनां संस्कारादिवशाद्विशेषमाह-स्विन्नं निष्पीडितरसमिति| पूर्वं स्विन्नम्, ततो निष्पीडितरसम्, ततो बहुना स्नेहेन साधितम्, न तु स्नेहाक्तम्, नातिदोषलमिति| अतिदोषलग्रहणात् कलम्बादीनां किञ्चित्पित्तकरत्वमपि ज्ञेयम्| वातश्लेष्मकरत्वोक्तिस्त्वतिशयार्था| उक्तं च सुश्रुतेन (सू. अ.४६/२७५)- "स्वादुपाकरसाः शीताः श्लेष्मला नातिपित्तलाः| लवणानुरसा रूक्षाः सक्षारा वातलाः सराः||' इति|
Adhikarana लघुपत्राचिल्लीगुणाः (९६) · Śloka ९६
| लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता||९६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लघुपत्रा या चिल्ली-यवशाकविशेषः, सा तु वास्तुकसमा गुणैर्मता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चिल्लीविशेषस्य गुणानाह-लघुपत्रेति|
Adhikarana तर्कारीवरूणयोर्गुणाः (९७) · Śloka ९७
तर्कारीवरुणं स्वादु सतिक्तं कफवातजित्| |९७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तर्कारी-अरणिका, वरुणः-तमालः, समाहारेण तयोर्द्वन्द्वः| एतत्स्वादु किञ्चित्तिक्तं कफवातघ्नं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तर्कारीवरुणयोर्गुणानाह-तर्कारीति| तर्कारी अग्निमन्थः| वरुणः-सेतुवृक्षः| यत्तु सुश्रुतेन वरुणस्य वातपित्तप्रकोपणत्वमुक्तम्, तत्संसृष्टविषयम्|
Adhikarana पुनर्नवादिगुणाः (९७-९८) · Śloka ९८
| वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्||९७|| दीपनं भेदनं हन्ति गरशोफकफानिलान्| |९८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वर्षाभ्वौ-पुनर्नवे, तथा कालशाकं, किञ्चित्क्षारं रसे च कटुतिक्तं वह्निदीपनं भेदनं गरादींश्च हरति| कठिल्लोऽपि वर्षाभूः स च प्रागुक्तगुणः| तथा च निघण्टुः (धन्वन्तरीयः वर्गः १|२७४)-"पुनर्नवा विशाखश्च कठिल्लः शशिवाटिका| वृश्चीरः क्षुद्रवर्षाभूर्दीर्घपत्रः कठिल्लकः|| पुनर्नवोऽपरः क्रूरः सद्यो मण्डलपत्रकः| श्वेतमूलो वर्षकेतुर्महावर्षाभुरुच्यते||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वर्षाभूद्वयस्य कालशाकस्य च गुणानाह-वर्षाभ्वाविति| वर्षाभ्वौ-हृस्वमहत्यौ रक्तश्वेतपुनर्नवे| कालशाकं-कालिकाशाकम्| अनिलघ्नत्वं तु कालशाकं विना, तस्य वातलत्वात्| यदाह खारणादिः-"कालशाकं सकारञ्जं कटुकं वातकोपनम्| दीपनीयं प्रशस्तं च विषशोफोदरार्शसाम्||" इति| चरकोऽपि (सू. अ. २७/८८)- "लघूष्णं वातलं रूक्षं कालाख्यं शाकमुच्यते|" इति| अत एव माधवकारो वर्षाभूभ्यां पृथगाह-"कालशाकं गरश्लेष्मशोफघ्नं दीपनं लघु|" इति, "वर्षाम्ब्वौ कफवातघ्नौ हितौ शोफोदरार्शसाम्|" इति च|
Adhikarana चिरिबिल्वाङ्कुरगुणाः (९८) · Śloka ९८
| दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः||९८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चिरिबिल्वः-पूतिकरञ्जः, तस्याङ्कुरा वह्निदीपनाः कफवातघ्नाः सराश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चिरिबिल्वाङ्कुरगुणानाह-दीपना इति| चिरिबिल्वः-करञ्जः|
Adhikarana शतावर्यङ्कुरगुणाः (९९) · Śloka ९९
शतावर्यङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः| |९९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शतावर्या अङ्कुराः-प्ररोहाः, तिक्तरसा वृष्याः शुक्रकृतस्त्रिदोषघ्नाश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शतावर्यङ्कुरगुणानाह-शतावर्यङ्कुरा इति|
Adhikarana वंशाङ्कुरगुणाः (९९) · Śloka ९९
| रूक्षो वंशकरीरस्तु विदाही वातपित्तलः||९९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वंशकरीरो-वंशाङ्कुरो, रूक्षो विदाही वातपित्तकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वंशाङ्कुरगुणानाह-रूक्ष इति| वंशो-वेणुः, तस्य करीरः-अङ्कुरः| ननु, दोषल इत्युच्यताम्, सुश्रुतेन कफकरत्वस्योक्तत्वात्-"वेणोः करीराः कफला मधुरा रसपाकतः| विदाहिनो वातकराः सकषाया विरूक्षणाः||" इति| मैवम्| अनार्षोऽयं पाठः, जैज्जटोपेक्षितत्वात्| आर्षस्तु-"वेणोह् करीराः श्लेष्मघ्नाः" इत्यादि| उक्तं हि सङ्ग्रहे (सू. अ. ७)- "वंशकरीरास्तु विदाहिनः| वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः||" इति| माधवकारेणाप्युक्तम्-"वातपित्तकरा रूक्षाः कटुका रसपाकतः| वेणोः करीराः श्लेष्मघ्नाः सकषाया विदाहिनः|| इति| यत्तुकन्दवर्गे सौश्रुतीयाः पठन्ति (सू.अ. ४६/३०५)-"वेणोः करीरा गुरवः कफमारुतकोपनाः|" इति| तदप्यनार्षम्, पुनरुक्तत्वात्| वंशमूलाङ्कुरविषयं वा|
Adhikarana पत्तूरगुणाः (१००) · Śloka १००
पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित्| |१००|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पत्तुरो दीपनस्तिक्तरसः प्लीहादिजित्| पत्तूरो-मत्स्याक्षकः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पत्तूरगुणानाह-पत्तूर इति| पत्तूरो-लोहमारः|
Adhikarana कासमर्दगुणाः (१००) · Śloka १००
| कृमिकासकफोत्क्लेदान् कासमर्दो जयेत्सरः||१००||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासमर्दः सरः कृम्यादींश्च नाशयति| उत्क्लेदःस्रोतसां मालिन्येनार्द्रत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कासमर्दगुणानाह-कृमीति| उत्क्लेदः-क्लेदाधिक्यम्|
Adhikarana कुसुम्भशाकगुणाः (१०१) · Śloka १०१
रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्| |१०१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुसुम्भशाकं रूक्षमुष्णवीर्यमम्लं गुरु पित्तकृत्सरं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कौसुम्भगुणानाह-रूक्षोष्णमिति| कौसुम्भंकुसुम्भशाकम्|
Adhikarana सार्षपशाकगुणाः (१०१) · Śloka १०१
| गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत्||१०१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सार्षपं शाकं गुरूष्णवीर्यम्| तथा, विशं-शकृत्, मूत्रं च बध्नाति| त्रिदोषकृच्च| सङ्ग्रहे तु (सू.अ.७) सक्षारत्वमस्योक्तम्| तत्पाठो हि-"सक्षारमधुरं स्निग्धमुष्णं च गुरु सार्षपम्|" इति| सुश्रुतेन चोक्तम् (सू.अ.४६|२३८ टीका)-"कफघ्नं सार्षपं शाकमासुरं शाकमेव च|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सार्षपगुणानाह-गुरुष्णमिति| सार्षपं-सर्षपशाकम्| सङ्ग्रहे तु (सू. अ.७)-"सक्षारमधुरं स्निग्धमुष्णं गुरु च सार्षपम्| शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत्||' इति|
Adhikarana बालमूलकगुणाः (१०२-१०३) · Śloka १०३
यद्बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्| तन्मूलकं दोषहरं लघु सोष्णं नियच्छति||१०२|| गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्| स्वराग्निसादोदावर्तपीनसांश्च|१०३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यन्मूलकं बालं, अव्यक्तरसं-अस्फुटास्वादम्, तथा किञ्चित्क्षारं-ईषत्क्षारगुणयुक्तं कार्यतोऽनुमीयमानम्, तथा सतिक्तं-ईषत्तिक्तकं रसनेन्द्रियस्य किञ्चिदुद्वेजकम्, तन्मूलकं दोषाणां हरं-दोषहरम्, नान्यावस्थम्| बालं मूलकं दोषहरमित्यनेनास्य विशिष्टा बालावस्था दोषहरत्वेन नियम्यते| न सर्वं बालावस्थं दोषहरम्, अपि त्वीदृग्रूपमित्यर्थः| अन्ये तु दोषयोर्हरं-दोषहरम्, इत्यत्र समासं कृत्वा |वातश्लेष्मघ्नत्वमेवास्य प्रतिजानते| यतः किञ्चिदुष्णवीर्यत्वात् पित्तकरत्वमस्यास्त्येव| किञ्चित्तिक्तरसोपेतत्वेन पित्तकर्तृत्वमस्य व्याहर्तुं न युक्तम्| वक्ष्यति हि (हृ.सू.अ.९|२५)-"रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति|" इति| एवं चैतन्मूलकं वातश्लेष्मघ्नमेव युक्तम्, न तु पित्तहृच्च, इति तेषामभिप्रायः| एतच्च मूलकं गुल्मादीन्नियच्छति| पीनसांश्चेति चशब्दः समुच्चये| अन्यानप्येवंप्रायान् रोगान्नियच्छतीति| सुश्रुतस्तु (सू.अ.४६|२४०)-सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका|" इति यद्भेदान्तरमूचे, तदप्यत्रैव बालमूलकलक्षणेऽन्तर्भूतमिति तन्त्रकृतेह पृथङ्नोक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ मूलकगुणानाह| तत्र बालमूलकगुणानाह-यद्बालमिति| बालं-कोमलम्| तस्य तिस्रोऽवस्थाः,-प्रथममव्यक्तरसम्, तत ईषल्लवणम्, तत ईषत्तिक्तम्| तदवस्थात्रयेऽपि दोषहरत्वादिगुणम्| स्वराग्न्योः सादः|
Adhikarana महत्मूलकगुणाः (१०३-१०४) · Śloka १०४
महत्पुनः||१०३|| रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत्| गुर्वभिष्यन्दि च|१०४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अव्यक्तरसादिलक्षणावस्थां विहाय यावद्व्यक्तरसाद्यवस्थं तत्सम्पद्यते| ततोऽनन्तरं क्रमेण रसविपाकयोः कटुकमुष्णवीर्यं तन्मूलकं महत्-वृद्धं त्रिदोषकृद् गुर्वभिष्यन्दि च भवति| वृद्धस्य च मूलकस्यानेका अवस्थाः सम्भवन्ति| तत्र चास्याद्यावस्थायां किञ्चित्त्रिदोषकृत्त्वम्, अन्त्यावस्थायां त्वतिशयेन त्रिदोषकृत्त्वं वेद्यम्| सङ्ग्रहे (सू.अ.७) त्वस्य स्वादुविपाकित्वमुक्तम्| तत्पाठे-"महत्पुनः| रूक्षोष्णं कटुकं स्वादु विपाके सर्वदोषकृत्||" इति| तच्चामविषयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-महद्गुणानाह-महत्पुनरिति| महत्-जरठम्| सङ्ग्रहे तु स्वादुपाकमुक्तम् (सू.अ. ७)-"महत्पुनः| रूक्षोष्णं कटुकं स्वादु विपाके सर्वदोषकृत्||" इति| तच्चामविषयम्| तथा च खारणादिः-"रूक्षं विदाहि तीक्ष्णोष्णं कटुकं स्वादु पच्यते| उत्क्लेदि स्तम्भि गुर्वामं मूलकं त्रिमलोल्बणम्||" इति| अग्निपक्वं तु कटुपाकमेव|
Adhikarana स्निग्धसिद्धमूलकगुणाः (१०४) · Śloka १०४
| स्निग्धसिद्धं तदपि वातजित्||१०४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपिशब्द एवार्थे| तदेव-महन्मूलकं स्निग्धस्विन्नं वातजित्| स्निग्धं च तत्स्विन्नं च स्निग्धस्विन्नम्| न त्वस्निग्धस्विन्न्मात्रमित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्निग्धसिद्धगुणानाह-स्निग्धसिद्धमिति| स्निग्धैर्घृतमांसरसादिभिः साधितं-स्निग्धसिद्धम्| यद्दोषलं महदपि स्निग्धसिद्धं वातघ्नम्| किंपुनर्यद्दोषघ्नं बालम् ? इत्यपिशब्दार्थः|
Adhikarana शुष्कमूलकगुणाः (१०५) · Śloka १०५
वातश्लेष्महरं शुष्कं सर्वम्| |१०५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वं-बालं वृद्धं च मूलकं, शुष्कं सत् वातश्लेष्महरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुष्कगुणानाह-वातश्लेष्महरमिति| तदपीत्यनुवर्तते| पूर्ववदपिशब्दार्थः|
Adhikarana आममूलकगुणाः (१०५) · Śloka १०५
आमं तु दोषलम्| |१०५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आमं पुनर्मूलकं हरितकत्वेन यद्भक्ष्यते तद्दोषलम्| सर्वमित्यत्रायत्नकृतेन सम्बन्धेन सम्बध्यते| तेनादोषलस्य बालस्याप्यामस्य दोषलत्वम्, न तु वृद्धस्यैवेत्यर्थः| मूलकं नीलकण्ठापरसंज्ञम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आमगुणानाह-सर्वमिति| सर्वं-बालं महच्छुकमार्द्रं च| आमं-अनग्निपक्वम्|
Adhikarana पिण्डालुगुणाः (१०५) · Śloka १०५
| कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः||१०५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिण्डालुः कटुको रसे, वीर्ये चोष्णो, वातकफघ्नः पित्तकरश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पिण्डालुगुणानाह-कटूष्ण इति| पिण्डालुः वाराहीकन्दः| स हि वक्त्रालुरुच्यते| उक्तं ह्यायुर्वेदप्रकाशे पण्डितकेशवेन-"वाराहीकन्दः पिण्डालुस्तथा शबरकन्दकः| प्रोक्तो मूलकमूलाभो वक्त्रालुस्त्वक्छदस्तथा||' इति| पिण्डशब्देन च ग्रासवाचिना ग्रसनं-वक्त्रं लक्ष्यते| ननु, "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः' इति न्यायात्पिण्डालुशब्दस्य मुख्यमर्थं पिण्डालुकं विहाय गौणोऽर्थो वाराहीकन्दः कथं ग्राह्यः ? इति चेन्न| 'गङ्गायां घोषः' इत्यादौ मुख्यार्थबाधे गौणार्थग्रहणात्| अत्र च मुख्यार्थस्य बाधः कट्वादिगुणायोगात्| अत एवाह सुश्रुतः (सू. अ. ४६/३०४)- "पिण्डालुकं कफकरं गुरु विष्टम्भि शीतलम्|" इति| गौणस्य तु कट्वादिगुणयोगः| उक्तं ह्यायुर्वेदप्रकाशे-"किटिकन्दः कटुः स्वादुस्तिक्तोष्णः कटुपाक्यपि| स्वर्यो रसायनं वृष्यो बल्यः पित्तविवर्धनः|| हन्ति श्लेष्मरुत्कुष्ठमेहमूत्रामयकृमीन्|" इति| सुश्रुतोऽप्याह (सु. अ. ४६/३०९)-"वराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः| मेहकुष्ठकृमिहरो वृष्यो बल्यो रसायनम्||' इति| किञ्च पिण्डालुकं चेद्विवक्षितम्, तदा"आलुकानि च सर्वाणि" इत्यत्र प्रस्तावे ब्रूयात्| पिण्डालुकमिति च प्रयुञ्जीत| नापि पिण्डालुकेपिण्डालुरिति शब्दो मुख्यः, गौणत्वे तु तुल्यः| ननु, वक्त्रालुश्चे द्विवक्षितस्तर्हि वक्त्रालुरित्येव स्पष्टमुच्यताम्| सत्यम्| किन्त्वेवंविधैरपि लाक्षणिकैः शब्दैर्द्रव्याण्युच्यन्ते, इति द्योतयितुं पिण्डालुरित्युक्तवान्| यथा-रोध्रादौ कदम्बे वाच्ये कुत्सिताम्ब इति, कुत्सितशब्देन हि कुशब्दसमानार्थेन कदादेशो लक्ष्यते| असनादावर्जुने वाच्ये श्वेतवाह इत्यादि| "बहुभिः पठ्यमानस्य पाठत्येयं समर्थना| हेमाद्रिणा कृता किन्तु तुण्डालुरिति पठ्यताम्||" इति|
Adhikarana कुठेरादिहरितकगुणाः (१०६-१०७) · Śloka १०७
कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणम्| फणिज्जार्जकजम्बीरप्रभृति ग्राहि शालनम्||१०६|| विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्| दृक्शुक्रकृमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु||१०७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुठेरादि शालनं ग्राहि विदाहि कटुकं रसपाकयो रूक्षमुष्णवीर्यम् हृद्यमग्निदीपनं च| तथा, दृगादिहृत्तीक्ष्णम्| तथा, दोषान्-वातादीन्, उत्क्लेशयति-कोपयन् स्थानाच्चालयति, इती दोषोत्क्लेशकरम्, लघु च| शालनं-अवदंशः, येन सहान्नं भोक्तुं युज्यते| कुठेरो-वैकुण्ठकः| शिग्रुः-फलपत्रकः| सुरसः-कृष्णतुलसी| सुमुखः-कटुपत्रकः| आसुरी-राजिका| भूस्तृणं-गुह्यबीजकम्| 'फणिज्जको-मरिचकस्तीक्ष्णगन्धः प्रकीर्तितः|' आर्जकः-खरपत्रकः| जम्बीरः-करपत्रकः| प्रभृतिशब्देन सङ्ग्रहोक्ता गृह्यन्ते (सू.अ.७)-"धान्यतुम्बरुसालेययवानीशृङ्गबेरकाः| पर्णाशो गृञ्जनोऽजाजी कण्डीरं गजपिप्पली|| फणिज्जार्जकजम्बीरखराश्वाकालमालिकाः| दीप्यकः क्षवको द्वीपी बस्तगन्धादि बद्धविट्||" इति| तन्त्रान्तरे चोक्तम्-"कटुतिक्तरसा शीता कफपित्तविनाशिनी| विपाके मधुरा लघ्वी तस्कराङ्गुलिका स्मृता||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुठेरादिहरितकगुणानाह-कुठेरेति| कुठेरः-कालमाला| शिग्रुः-शोभाञ्जनः| सुरसः-तुलसी| सुमुखः-कुठेरसदृशोऽल्पः| आसुरी--राजिका| भूस्तृणं-मालातृणम्| फणिज्जः-मरिचकः| अर्जकः-पर्णासः| जम्बीरः-जम्बीरसदृशः किञ्चित्तीक्ष्णः| प्रभृतिशब्दात् कुस्तुम्बर्यादयः| उक्तं हि सङ्ग्रहे (सू. अ. ७)- "धान्यतुम्बरुशैलेययवानीशृङ्गबेरिकाः| पर्णाशो गृञ्जनोऽजाजी गण्डीरो गजपिप्पली|| फणिज्जार्जकजम्बीरखराश्वाकालमालिकाः| दीप्यकः क्षवको द्वीपी बस्तगन्धादि बद्धविट्||' इति| शालनं-हरितकम्, यदुपदंशेषु युज्यते येन च व्यञ्जनं वास्यते| उक्तं हि सङ्ग्रहे (सू. अ. ७)- "वर्गो हरितकाख्योऽयमुपदंशेषु युज्यते| वासनो व्यञ्जनानां च हृद्यो रोचनदीपनः||" इति| दोषोत्क्लेशकरत्वं चैषामार्द्रावस्थायामेव, फलव्यतिरेकेण च| यदाह चरकः (सू. अ. २७/१७२)- "शुष्काणि कफवातघ्नान्येतान्येषां फलानि च|"" इति|
Adhikarana सुरसगुणाः (१०८) · Śloka १०८
हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा| सुरसः|१०८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुरसो हिध्मादिघ्नः| पूतिगन्धं-दौर्गन्ध्यं, सौरभ्योत्पादनाद्धन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्र केषांचिद्विशेषः| तत्र सुरसगुणानाह-हिध्माकासेति| पूतिगन्धो-दौर्गन्ध्यम्|
Adhikarana सुमुखगुणाः (१०८) · Śloka १०८
| सुमुखो नातिविदाही गरशोफहा||१०८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुमुखः-कटुपत्राख्यः, किञ्चिद्विदाही गरशोफौ च हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सुमुखगुणानाह-सुमुख इति| गरं-कृत्रिमविषम्|
Adhikarana आर्द्रिकागुणाः (१०९) · Śloka १०९
आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्| |१०९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आर्द्रिका-आर्द्रधानिका, तिक्तमधुरा मूत्रकरी पित्तं च न करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आर्द्रीकागुणमाह-आर्द्रिकेति| आर्द्रिका-कुस्तुम्बरी| न च पित्तकृदिति हरीतकत्वात्प्राप्तं हरीतकत्वात्प्राप्तं पित्तोत्क्लेशनत्वं निषेधति|
Adhikarana लशुनगुणाः (१०९-१११) · Śloka १११
| लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः||१०९|| हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः| भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः||११०|| किलासकुष्ठगुल्मार्शोमेहक्रिमिकफानिलान्| सहिध्मापीनसश्वासकासान् हन्ति रसायनम्||१११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लशुनोऽतितीक्ष्णोऽत्युष्णवीर्यः, कटुपाकरसः सरः- भेदी, हृद्यादिगुणयुक्तश्च| किलासादीन् हन्ति, रक्तपित्तं च करोति| किलासं-श्वित्रम्| कन्दस्यैवायं गुणवीर्यनिर्देशो बोध्यः| पत्रमध्ययोर्मधुरत्वात् भृशोष्णत्वानुपपत्तिः| तथा चोक्तं सङ्ग्रहे (सू.अ.७)-"पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः| तीक्ष्णोष्णो लशुनः कन्दे" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लशुनगुणानाह-लशुन इति| किलासंश्वित्रम्| कन्दस्यैवैते गुणाः| उक्तं हि सङ्ग्रहे (सू. अ.७)- "पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः| तीक्ष्णोष्णो लशुनः कन्दे" इत्यादि|
Adhikarana पलाण्डुगुणाः (११२) · Śloka ११२
पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः| |११२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पलाण्डुः-धवलाक्षकाख्यः, तद्गुणन्यूनः,-तस्य-रसोनस्य गुणास्तद्गुणाः, तैर्हीनः| लशुनात्किञ्चिद्धीनगुण इत्यर्थः| तथा श्लेष्मलो नातिपित्तं च करोति| न तु लशुनवत्कफघ्नोऽतिपित्तकृच्च| कफवातार्शसां स्वेदे भक्षणे च प्रभावात्पथ्यः| तन्त्रान्तरेऽन्योऽप्युक्तः, यथा (सुश्रुते सू.अ.४६|२४७)-"स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च| स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः"|| इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पलाण्डुगुणानाह-पलाण्डुरिति| तद्गुणैः-लशुनगुणैस्तीक्ष्णोष्णत्वादिभिः, न्यूनः-हीनशक्तिभिर्युक्तः| सङ्ग्रहे तु (सू. अ. ७)- "विपाके मधुरस्तु सः| कफं करोति पित्तं च, केवलानिलनाशनः||" इति|
Adhikarana गृञ्जनकगुणाः (११२-११३) · Śloka ११३
| कफवातार्शसां पथ्यः स्वेदेऽभ्यवहृतौ तथा||११२|| तीक्ष्णो ग्ऱञ्जनको ग्राही पित्तिनां हितकृन्न सः| |११३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गृञ्जनकस्तीक्ष्णो ग्राही पित्तिनामहितश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गृञ्जनकगुणानाह-कफवातार्शसामिति| गृञ्जनकः-पलाण्डुभेदः| उक्तं च बाष्पचन्द्रेण-"गन्धाकृतिरसैस्तुल्यो गृञ्जनस्तु पलाण्डुना| सूक्ष्मनालाग्रपत्रत्वाद्भिद्यतेऽसौ पलाण्डुतः||' इति| स च स्वेदने भोजने च प्रयुक्तः कफवातजान्यर्शासि हन्ति, पित्तवतां नराणामपथ्यः|
Adhikarana सूरणगुणाः (११३-११४) · Śloka ११४
| दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः||११३|| विशेषादर्शसां पथ्यः| |११४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सूरणो नाम कन्दविशेषो दीपनो रुच्यः श्लेष्मघ्नो विशदो लघुरर्शसामतिपथ्यश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सूरणगुणानाह-दीपनः सूरण इति| विशदोविशदगुणः|
Adhikarana भूकन्दगुणाः (११४) · Śloka ११४
भूकन्दस्त्वतिदोषलः| |११४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भूकन्दः भूस्फोटाख्यः प्रावृडुद्भवः प्रसिद्ध एव| स चात्यर्थं दोषलः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भूकन्दगुणानाह-भूकन्द इति| भूकन्दोभूस्फोटः|
Adhikarana पत्रादीनां यथोत्तरं गुरूत्वम् (११४) · Śloka ११४
| पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्||११४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पत्रादीनां यथोत्तरं क्रमाद्गुरुत्वम्| तेन पत्रशाकमपेक्ष्य पुष्पशाकं गुरु, ततः फलशाकम्, ततो नालशाकम्, ततोऽपि कन्दशाकमिति| एवं हरितकेष्वपि गुरुत्वं वेद्यम्| बाहुल्येन चैतदुक्तम्| मूलके हि वैपरीत्यं दृश्यते| तथा हि- मूलकस्य हि कन्दे लघुत्वम्| अत एव मुनिरप्याह (?)-"मूलके तु विपर्ययः|"इति| शाकानां हरितकानां च येषामिह पर्याया नोक्तास्तेषां सद्वैद्येभ्योऽवगन्तव्याः| अथ वरावरत्वं निर्धारयति-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पुष्पादिशाकानां गौरवतारतम्यमाह-पुष्पे पत्र इति| उत्सर्गोऽयम्| अपवादस्तु यथायथम्| यथा-मूलके सुश्रुतेनोक्तम् (सू. अ. ४६/२४३)- "पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते लघवः प्रदिष्टाः|" इति|
Adhikarana शाकेषु जीवन्त्याःश्रेष्ठत्वम् सर्षपाणामवरत्वम् (२-११५) · Śloka ११५
वरा शाकेषु जीवन्ती सार्षपं त्ववरं परम्| इति शाकवर्गः||२|| |११५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शाकेषु मध्ये जीवन्ती वरा| सार्षपं पुनरवरम्| इति शाकवर्गः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शाकानं तारतम्यमाह-वरा शोकेष्विति| परमिति-अन्यान्यपि प्रशस्तानि, जीवन्ती तु प्रशस्ततरा| यदाह सुश्रुतः (सू. अ. ४६/३३५)- "सतीनो वास्तुकश्चञ्चुश्चिल्ली मूलकपोतिक| मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते||" इति| सङ्ग्रहे तु (सू. अ. ७)-"श्यामाशाल्मलिकाश्मर्यफञ्जीबाष्पिकयूथिकाः| वृक्षादनीक्षीरवृक्षबिम्बीतुनिकवृक्षकाः|| रोध्रः शणः कर्बुदारः सशेलुर्वृषमूषिका| भल्लातकः कोविदारः कमलोत्पलकिंशुकम्|| पटोलादिगुणं स्वादु कषायं पित्तजित्परम्| बद्धमूत्रा सरा फञ्जी करीरं स्यादभीरुजम्|| सतिक्तं लघु चक्षुष्यं वृष्यं दोषत्रयप्रणुत्| वातपित्तहरा भण्डी पर्वणी पर्वपुष्पिल्का|| [*सत रूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु| लघुरुष्णा सरा तिक्तासोरुबूका च लाङ्गली|| वातलौ कटुतिक्ताम्लौ भेदिनौ तिलवेतसौ| तद्वत् पञ्चाङ्गुलो, वंशकरीरास्तु विदाहिनः|| बिल्वरास्राबलाशाकं वातघ्नमतिसारजित्| वायुं वत्सादनी हन्यात्कफं गण्डीरचित्रकौ|| ] इति| इति शाकवर्गः|
Adhikarana फलवर्गः द्राक्षागुणाः (११५-११७) · Śloka ११७
अथ फलवर्गः| | द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्||११५|| स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः| निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान्||११६|| तृष्णाकासश्रमश्वासस्वरभेदक्षतक्षयान्| |११७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
फलानामाहारकाले शाकेभ्योऽल्पोपयोगित्वाच्छाकवर्गादनन्तरं फलवर्ग उच्यते| खरनादेऽप्युक्तम्-"भुक्तावसाने फलं भुज्यते, इति फलवर्गोऽभिधीयते" इत्याह स०-फलेषुत्तमा-फलोत्तमा गोस्तनीपर्याया द्राक्षा| सा वृष्यादिगुणयुक्ता| सकषाया-ईषत्कषया| अनिलादीन् क्षयान्तान् हन्ति| उदावर्तहरत्वं चरकमुनिनाऽस्या उक्तम्| तच्च स्निग्धत्ववृष्यत्वसृष्टविण्मूत्रत्वेनेहोक्तप्रायम्| अन्यासां च द्राक्षाणां गुणहीनत्वं देशाद्यनुरोधात् कल्प्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ फलवर्गः| तत्र द्राक्षगुणानाह-द्राक्षेति| उत्तमेति सिद्धे फलग्रहणमुत्तमेभ्योऽप्युत्तमार्थम्| उत्तमान्युक्तानि सुश्रुतेन (सू.अ. ४६/३३४)- "दाडिमामलकं द्राक्षा खर्जूरं सपरूषकम्| राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते||" इति| तिक्तास्यत्वं-मुखस्य तिक्तरसत्वम्| वातघ्नत्वं च-कोष्ठवातव्यतिरेकेण, "वातहृत्त्वेऽपि मृद्वीकाखर्जूरं कोष्ठवातकृत्|" इति सङ्ग्रहवचनात् (सू. अ. ७)|
Adhikarana दाडिमगुणाः (११७-११८) · Śloka ११८
| उद्रिक्तपित्ताञ्जयति त्रीन्दोषान्स्वादु दाडिमम्||११७|| पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्| सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्||११८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उद्रिक्तं-अतिरिक्तं, पित्तं येषां तांस्तथाविधान् त्रीन् दोषान् मधुरं दाडिमं जयति| मधुरस्य पूर्वकथनं प्राधान्यख्यापनार्थम्| पित्तेत्यादि| अम्लदाडिमं पित्ताविरोधि-न पित्तं कुरुते न च पित्तं शमयति| अत एवैतद्वातकफापहमुक्तम्| सर्वं-मधुरमम्लं, च, यद्दाडिमं तत् हृद्यादिगुणसंयुक्तम्| मुनिना तूक्तम् (च.सू.अ.२७|१४६)-"रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम्|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ दाडिमगुणाः| तत्र स्वादुदाडिमगुणानाह-उद्रिक्तपित्तानिति| अम्लदाडिमगुणानाह-पित्ताविरोधीति| पित्ताविरोधिपित्तोदासीनम्| स्निग्धाम्लस्यैवैते गुणाः, "रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम्|" इति खारणादि (चरक)- वचनात्| स्वाद्वम्लसाधारणगुणानाह-सर्वं हृद्यमिति|
Adhikarana मोचादिगुणाः (११९-१२२) · Śloka १२२
मोचखर्जूरपनसनारिकेलपरूषकम्| आम्राततालकाश्मर्यराजादनमधूकजम्||११९|| सैवीरबदराङ्कोल्लफल्गुश्लेष्मातकोद्भवम्| वातामाभिषुकाक्षोडमुकूलकनिकोचकम्||१२०|| उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्| दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्||१२१|| स्वादुपाकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्| |१२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मोचादिप्रियालान्तं बृंहणत्वादियुक्तम्| मोचं-कदलीफलम्| नारिकेलं-रोमफलाख्यम्| परुषको-मृदुफलः| आम्रातः-कपिचूडः| तालः-तलः| काश्मर्यं-काश्मरीफलम्| राजादनं-क्षीरशुक्ला| सौवीरं-बदरम्| बदरं-कर्णिकाबदरम्| अङ्कोल्ल इति बिल्वः| फल्गुः-काकोदुम्बरिका| श्लेष्मातकं-शेलुः| अभिषुकं-स्याराटम्| आक्षोडं-स्नेहफलाख्यम्| मुकूलकं- दन्तीफलम्| निकोचकं-सरलफलम्| उरुमाणं-स्निग्धफलम्| प्रियालं-सन्नतरुः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मोचादिगुणानाह-मोचखर्जूरेति| मोचंकदलीफलम्| खर्जूरं-खर्जूरीफलम्| पनसं-कण्टकिफलम्| नारिकेलं-त्र्यक्षम्| परूषकं-धन्वनसदृशं मृद्वल्पास्थिफलम्| आम्रातः-कपीतनः| तालः-तालद्रुमः| काश्मर्यंश्रीपर्णी| राजादनं-कपिप्रियम्| मधूको-मधुद्रुमः| मधूकजं द्विविधं,- फलं पुष्पं च| यदाह सुश्रुतः (सू. अ.४६/१८६)- "बृंहणीयमहृद्यं तु मधूककुसुमं गुरु| वातपित्तोपशमनं फलं तस्योपदिश्यते||' इति| द्विविधमप्यत्र ग्राह्यम्, गुणाभेदात्| तेभ्यो जातं फलम्| सौवीरबदरेबदरभेदौ| उक्तं हि-"कर्कन्धु कोलं बदरं सौवीरं सिञ्चतीफलम्| यथोत्तरं महत्स्वादु पञ्चधा बदरीफलम्||' इति| तत्र कोलकर्कन्धुनी स्वादुत्वाभावान्नात्र पठिते| वक्ष्यति हि (अ. ६/१३७)- "तथाऽम्लं कोलकर्कन्धु" इत्यादि| सिञ्चतीफलं तिक्तकषायत्वान्नोक्तम्| अत एव सङ्ग्रहे तिन्दुकादौ पठित्वा विशेषगुणा उक्ताः (सू. अ. ७)-"बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चतिकाफलम्|" इति| ननु, "कर्कन्धुकोलबदरमामं पित्तकफावहम्| पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम्|| पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु|" इति सुश्रुतेन (सू. अ. ४६/१४५) कोलतुल्यं बदरमुक्तम्, इह तु सौविरतुल्यमिति विरोधः| मैवम्| सुश्रुतेनापि सौवीरतुल्यमुक्तम् (सू. अ. ४६/१४६)- "सौवीरबदरं स्निग्धं मधुरं वातपित्तजित्|" इति| सौवीरं च बदरं चेति द्वन्द्वैकत्वम्| पूर्वत्र तु कोलं च तद्बदरं चेति कर्मधारयात्| विपरीतं कुतो न स्यात् ? इति चेन्न| सङ्ग्रहे विशेषगुणोक्तौ (सू.अ.७)-"बदरं सरणात्मकम्|" इति बदरग्रहणात्| न च बदरशब्देन सौवीरम्, सौवीरमित्यकरणात् सरत्वाभावाच्चेति| अङ्कोल्लः-अङ्कोठः| फल्गुः-काकोदुम्बरिका| श्लेष्मातकः-शेलुः| वातामाद्युरुमाणान्तं-उत्तरापथे प्रसिद्धम्| वातामः-स्निग्धमधुरमज्जं फलम्| आक्षोडं-मदनफलसदृशं मध्ये किञ्चिदुन्नतरेखम्| मुकूलकं-दन्तीफलसदृशम्| निकोचकं-अङ्ग्कोल्लफलसदृशम्| प्रियालं-चारफलम्| रक्तपित्तप्रसादनं-रक्तपित्तयोर्निर्मलीकरणम्|
Adhikarana तालफलगुणाः काश्मर्यजगुणाः वातामादिगुणाः प्रियालगुणाः, प्रियालमज्जगुणाः, कोलमज्जगुणाः (१२२-१२५) · Śloka १२५
| फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्||१२२|| शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्| वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्||१२३|| परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्| प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः||१२४|| कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः| |१२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तालस्येदं तालं फलं पित्तकारि| काश्मर्यजं फलं सरं शीतवीर्यादिगुणयुक्तम्| मधूकबदरयोरपि विशेषान्तरमुक्तं सङ्ग्रहे (सू.अ.७)-"मधूकजमहृद्यं तु बदरं सरणात्मकम्|" इति| वातामादीनां गुणविशेषप्रदर्शनार्थं निर्धारितम्| तुः-विशेषे| वातामादिकमुष्णवीर्यं कफपित्तकरं सरमतिशयेन वातघ्नं स्निग्धं च| आदिशब्देनाऽभिषुकादीनां ग्रहणम्| प्रियालजातं- प्रियालजं फलमनुष्णवीर्यम्| तुर्विशेषे, विशेषस्तु शीतवीर्यत्वमेव| शेषं बृंहणादि सर्वं समानम्| प्रियालस्य मज्जा-अस्थ्यभ्यन्तरं, मधुरादिगुणयुक्तम्| बदरमज्जा गुणैस्तद्वत्-प्रियालमज्जावत्, तृडादिजिच्च| तन्त्रान्तरे चोक्तम् (सुश्रुते सू.अ.४३|२०५)-"बैभीतको मदकरः कोलानां पित्तनाशनः|" तथा, "तालखर्जूरादीनां मस्तकमज्जानः स्वादुपाका वृष्याः शीतवीर्याश्च|" इति सुश्रुतोऽपठत्(?)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्र केषांचिद्विशेषः| तत्र तालफलगुणानाहफलं त्विति| यत्तु, "फलं स्वादुरसं तेषां तालजं गुरुपित्तहृत्||" इति सुश्रुतेन (सू. अ. ४६/१७९) पित्तहरत्वमुक्तम्, तत् पक्वविषयम्| अत एव चरकेण सिद्धानीति विशेषितम् (सू. अ. २७/१२६)-"तालसस्यानि सिद्धानि नारिकेलफलानि च| बृंहणस्निग्धशीतानि बल्यानि मधुराणि च||' इति| व्याख्यातं च बाष्पचन्द्रेण,- "तालसस्यानितालफलानि, सिद्धानि-पक्वानि, मधुरस्निग्धशीतत्वेन वातपित्तहरत्वं कफकरत्वं च वेद्यम्|" इति| काश्मर्यजगुणानाह-काश्मर्यजमिति| वातामादिगुणानाह-वातामादीति| वातामादिप्रियालान्तम्| प्रियालगुणानाह-अनुष्णं तु प्रियालजमिति| नञत्र विरुद्धार्थः| उष्णशब्देन वीर्यं पित्तं च, तेन शीतलं पित्तघ्नं च प्रियालजम्| उक्तं च सुश्रुतेन (सू. अ. ४६/१५६)-"वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम्|" इति| प्रियालमज्जगुणानाह-प्रियालमज्जेति| मज्जा-अस्थ्यन्तर्वर्ति बीजम्| कोलमज्जगुणानाह-कोलमज्जेति| कोलं-बदरम्|
Adhikarana बिल्वगुणाः (१२५-१२६) · Śloka १२६
| पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम्||१२५|| दीपनं कफवातघ्नं बालं, ग्राह्युभयं च तत्| |१२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बिल्वं पक्वं सुदुर्जरं पूतिमारुतं च-दुर्गन्ध्यपानवातकृत् भवति| बालं-असम्पूर्णमनुपचितं बिल्वं, दीपनं कफवातघ्नम्| उभयं-आमं पक्वं च, ग्राहि-मूत्रपुरीषादेः सङ्ग्रहणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ बिल्वम्| तत्र पक्वबिल्वगुणानाह-पक्वमिति| पूतिमारुतं-दुर्गन्ध्यधोवातप्रवर्तकम्| सङ्ग्रहे तु (सू. अ.७)-"गुर्वग्निसादकृद्बिल्वम्" इति| बालबिल्वगुणानाह-दीपनमिति| पक्वबालसाधारणगुणानाह-ग्राहीति|
Adhikarana कपित्थगुणाः (१२६-१२७) · Śloka १२७
| कपित्थमामं कण्ठघ्नं दोषलं, दोषघाति तु||१२६|| पक्वं हिध्मावमथुजित्, सर्वं ग्राहि विषापहम्| |१२७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आमं कपित्थं कण्ठं हन्ति, दोषलं-त्रिदोषकृत्| पक्वं कपित्थं दोषघ्नं हिक्काच्छर्दिहृच्च| सर्वं-आमं पक्वं च कपित्थं, ग्राहि विषापहं च| आमकपित्थस्य कषायत्वं कण्ठघ्नत्वेनैवोदितम्, अम्लत्वं चाम्लवर्गमध्ये पाठादवगतम्| पक्वस्य च मधुरत्वं सुप्रसिद्धमितीहैतन्नोक्तम्| तथा, आमकपित्थगुणकथनेन च तथाविधानि कषायाम्लस्वभावानि विविधानि कपित्थानि सदैवामकपित्थगुणानि वेद्यानि| पक्वकपित्थगुणकथनेन च तथाविधानि माधुर्यानुविद्धानि सदा पक्वगुणानि वेद्यानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ कपित्थम्| तत्र आमकपित्थगुणानाह-कपित्थमिति| आमं- बालम्| कण्ठघ्नं-स्वरसादकृत्| दोषलं-दोषत्रयकरम्| तत्र पित्तानिलौ कफेन संसृष्टौ, असंसृष्टौ च करोति| कफं तु ताभ्यां संसृष्टमेव| "आमं कपित्थमस्वर्यं कफघ्नं ग्राहिवातलम्|" इति सुश्रुतेन(सू.अ. ४६/१४७) कफघ्नत्वस्योक्तत्वात्| ननु, एवं चेत् दोषशब्देन पित्तानिलावेव गृह्येताम्| मैवम्|" कपित्थमामं कण्ठघ्नम् कषायाम्लं त्रिदोषकृत्|" इति सङ्ग्रहे(सू.अ.७) त्रिग्रहणात्| पक्वगुणानाह-दोषघातीति| वमथुः-छर्दिः| सङ्ग्रहे तु (सू.अ.७)-" पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत्| दोषघ्नं खाण्डवारिष्टरागयुक्तिषु पूजितम्|" इति| आमपक्वसाधारणगुणानाह- सर्वं ग्राहीति|
Adhikarana जाम्बवगुणाः (१२७-१२८) · Śloka १२८
| जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम्||१२७|| सङ्ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्| |१२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जाम्बवं गुर्वादिगुणयुक्तम्, मूत्रशकृतोश्च सङ्ग्रहणम्| कण्ठाय न हितम्, कफपित्तजिच्च| जाम्बवमिति फलार्थे "जम्ब्वा वा " इत्यण्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जाम्बवगुणानाह-जाम्ब्वमिति| जाम्बवं जम्बुफलम्|
Adhikarana आम्रगुणाः (१२८-१२९) · Śloka १२९
आम्रस्य त्र्यवस्थस्याप्युपयोगदर्शनात्तथैव गुणानाह | वातपित्तास्रकृद्बालं, बद्धास्थि कफपित्तकृत्||१२८|| गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्| |१२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातेत्यादि| आम्रमिति वक्ष्यमाणेन सम्बन्धः| आम्रं-चूताख्यं, बालं सद्वातपित्तास्रकृत्| बद्धास्थि-सञ्जातास्थि, कफपित्तकृत्| पक्वमाम्रं गुरु वातजित् मधुराम्लं कफशुक्रकृच्च| सङ्ग्रहे (सू.अ.७) सहकाररसस्यापि गुणा उक्ताः| यथा-"सहकाररसो हृद्यः सुरभिः स्निग्धरोचनः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथाम्रम्| तत्र बालाम्रगुणानाह-वातपित्तास्रेति| सङ्ग्रहे तु (सू. अ. ७)-"बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्|" इति| बद्धास्थिगुणानाह-बद्धास्थीति| बद्धास्थि-संहतावयवास्थि, मध्यावस्थमित्यर्थः| सङ्ग्रहे तु (सू.अ.७)-" सम्पूर्णमाम्रमम्लं च रक्तपित्तकफप्रदम्|" इति| पक्वगुणानाह-गुर्वाम्रमिति| सङ्ग्रहेतु (सू.अ.७)-"स्वादु साम्लं गुरु स्निग्धं मारुग्घ्नमपित्तलम्| हृद्यं पर्यागतं श्लेष्ममांसशुक्रबलप्रदम्|| सहकारसो हृद्यः सुरभिः स्निग्ध रोचनः| [*दीपनः पित्तवातघ्नःशुक्रशोणितशुद्धिकृत्|| ]" इति| "त्वङ्मूलपल्लवं ग्राहि कषायं पित्तनाशनम्|" इति (धन्वन्तरीयनिघण्टौ वर्गः ५/७)|
Adhikarana वृक्षाम्लगुणाः (१२९) · Śloka १२९
| वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु||१२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृक्षाम्लं ग्राह्यादिगुणैर्युक्तम्| वातश्लेष्महृल्लघु च| कोशाम्रं च किञ्चिदेतस्मान्न्यूनगुणं ज्ञेयम्| तथा च सङ्ग्रहे (सू.अ.७)-"वृक्षाम्लं ग्राहि रूक्षोष्णं लघु रोचनदीपनम्| वातश्लेष्महरं किञ्चिदूनं कोशाम्रजं ततः|| इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वृक्षाम्लगुणानाह-वृक्षाम्लमिति| वृक्षाम्लंत्त्तिडीकम्| पक्वस्यैवैते गुणाः| "वातापहं तिन्तिडीकमामं पित्तबलासकृत्|" इति सुश्रुतेन (सू. अ. ४६/१५९) तु बालस्य बलासकरत्वमुक्तम्| सङ्ग्रहे तु (सू.अ.७)-"रोचनदीपनम्| वातश्लेष्महरं किञ्चिदूनं कोशाम्रजं ततः||" इति|
Adhikarana शमीफलगुणाः (१३०) · Śloka १३०
शम्या गुरूष्णं केशघ्नं रूक्षम्| |१३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-फलापेक्षया षष्ठी| शम्याः फलं गुरु उष्णवीर्यं केशघ्नं रूक्षं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमीफलगुणानाह-शम्या इति| शम्याः फलम्| "फलं तु पित्तलं" इत्यतः फलमनुवर्तते|
Adhikarana पीलुगुणाः (१३०-१३१) · Śloka १३१
पीलु तु पित्तलम्| कफवातहरं भेदि प्लीहार्शःकृमिगुल्मनुत्||१३०|| सतिक्तं स्वादु यत्पीलु वात्युष्णं तत्त्रिदोषजित्| |१३१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीलुफलं च पित्तलं यावद्गुल्मनुत्| सतिक्तं-ईषत्तिक्तं मधुरं च यत्पीलु तन्नात्युष्णं त्रिदोषजिच्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पीलुफलं च पित्तलं यावद्गुल्मनुत्| तत्र कटुकगुणानाह-पीलुत्विति| अत्र कटुकं पीलु ग्राह्यम्, तिक्तमधुरस्य वक्ष्यमाणत्वात्, "कटुपाकरसं भेदि तीक्ष्णोष्णं पीलु पित्तलम्|" इति सङ्ग्रहवचनाच्च (सू.अ.७)| तिक्तमधुरगुणानाह-सतिक्तमिति|
Adhikarana मातुलुङ्गगुणाः (१३१-१३३) · Śloka १३३
मातुलुङ्गस्य त्वङ्मांसकेसराणां पृथगुपयोगदर्शनात् पृथगेव गुणानाह | त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्||१३१|| बृंहणं मधुरं मांसं वातपित्तहरं गुरु| लघु तत्केसरं कासश्वासहिध्मामदात्ययान्||१३२|| आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान् गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत्||१३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बीजपूरकस्य त्वक् तिक्तकटुका रसे, स्निग्धा वातघ्नी च| खरनादस्त्वाह-"त्वङ्मातुलुङ्गात्कटुका गुर्वी वातप्रकोपनी| इति चरकेऽप्युक्तम् (?)-"गुर्वी त्वगस्य कटुका मारुतस्य प्रकोपनी|" इति| एतन्मतानुसारिणस्त्वत्रैवं पाठं पठन्ति,-"त्वक्तिक्तकटुकाऽस्निग्धा मातुलुङ्गस्य वातकृत्|" इत्यकारप्रश्लेषात्| मांसं-केसरादर्वाक्, बृंहणं मधुरं वातपित्तहृत् गुरु च| तस्य-मातुलुङ्गस्य केसरं, तत्केसरं लघु| तथा, कासादीन् मन्दाग्नित्वान्तान्नाशयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ मातुलुङ्गम्| तत्र त्वग्गुणानाह-त्वगिति| ननु, "त्वङ्मातुलुङ्गात्कटुका गुर्वी वातप्रकोपणी|" इति खारणादिवचनेन विरोधः| मैवम्| सामं वायुं हन्ति, निरामं तु करोतीति विषयभेदात्| विपरीतं कुतो न स्यात् ? इति चेत् न| "त्वक्तिक्ता दुर्जरा तस्य वातकृमिकफापहा| इति सुश्रुतेन (सू.अ. ४६/१४९) श्लेष्मघ्नत्वस्योक्तत्वात्| श्लेष्मघ्नं चामघ्नं दृष्टमेव| तन्मांसगुणानाह-बृंहणमिति| त्वक्केसरव्यतिरिक्तोऽवयवो-मांसम्| केसरगुणानाह-लध्विति|
Adhikarana भल्लातकगुणाः (१३४) · Śloka १३४
भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्| तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्||१३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्वक् च मांसं च त्वङ्मांसं भल्लातकसम्बन्धि, बृंहणं मधुरं शीतलं च| तस्य-भल्लातकस्यास्थि,-तदस्थि, अग्निसमं-तीक्ष्णत्वात् अग्निवत्स्फोटककर्तृत्वात्(च्च)| अथवा, अग्निः-चित्रकः, तस्य गुणदोषकर्तृतया तुल्यं भल्लातकास्थीति| तथा, मेधायै हितम्| अतिकफवातघ्नम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ भल्लातकम्| तत्र त्वङ्मांसगुणानाह-भल्लातकस्येति| अस्थिव्यतिरिक्तोऽवयवः पुष्पाख्यः-त्वङ्मांसम्| अस्थिगुणानाह-तदस्थीति| अग्निसमं-अग्निवद्दाहपाकादिकरम्|
Adhikarana पालेवतगुणाः (१३५) · Śloka १३५
स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु| रुच्यमत्यग्निशमनम्|१३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पालेवतं-रैवतकाख्यं द्विधा| कथं द्विप्रकारम् ? इत्याह-स्वादु अम्लं च, तत्तु यथासंख्येन शीतमुष्णं च| तथा, द्वयमपि गुरु रुच्यमत्यग्निशमनं च| अथवा यथासम्भवं सम्बन्धः,-मधुरं गुरु अत्यग्निशमनं च, अम्लं रुच्यमिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पालेवतगुणानाह-स्वाद्वम्लमिति| पालेवतंतिन्दुकाकारम्| तद्द्विविधं,- स्वादु अम्लं च| यन्मधुरं तच्छीतम्, यदम्लं तदुष्णम्, उभयमपि गुर्वादिगुणम्|
Adhikarana पक्वारुकगुणाः (१३५-१३६) · Śloka १३६
| रुच्यं मधुरमारुकम्||१३५|| पक्वमाशु जरां याति नात्युष्णगुरुदोषलम्| |१३६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुरमारुकं रुच्यं भवति| अपक्वस्यैवैते गुणा वेद्याः| यस्मादाह-पक्वमित्यादि| पक्वं सत्तदाशु-द्रागेव परिणामं याति| किञ्जिदुष्णवीर्यम् किञ्चिद्गुरु, किञ्चिद्दोषलं-अपथ्यम्| निघण्टावुक्तम् (धन्वन्तरीये व.५|३८)-"आरुकं वीरसेनं च वीरा वीरारुकं तथा| विद्याज्जातिविशेषेण तच्चतुर्विधमारुकम्|| इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पक्वारुकगुणानाह-रुच्यमिति| आरुकं-वीरसेनम्| आशु जरां याति-शीघ्रं पच्यते| नात्युष्णगुरुदोषलत्वं-अम्लापेक्षया| अत एव दोषशब्देन पित्तश्लेष्माणौ ग्राह्यौ| अम्लस्य हि पित्तश्लेष्मलत्वं वक्ष्यति| तथा च खारणादिः-"नात्युष्णं गुरु वातघ्नं बृंहणं नातिपित्तलम्| आरुकं मधुरप्रायमम्लं तु कफपित्तलम्||" इति| आरुकं-भव्यमित्येके| तन्न| "भव्यं स्वादुकषायाम्लं रूक्षं गुर्वात्स्यशोधनम्| शीतं ग्राह्यरुचिच्छर्दिरक्तपित्तकफापहम्||" इति खारणादिना पृथग्गुणकथनात्|
Adhikarana अम्लद्राक्षापरूषककरमर्दकगुणाः (१३६-१३७) · Śloka १३७
| द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम्||१३६|| गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्| |१३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्राक्षापरूषकं सकरमर्दकं चार्द्रं-अशुष्कम्, अम्लं सत् पित्तश्लेष्मकरं गुरूष्णवीर्यं वातघ्नं सरं चेति| करमर्दकं-सुषेणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ द्राक्षादीनामम्लानां गुणाः| तत्र द्राक्षादित्रयस्यार्द्रस्य गुणानाह-द्राक्षापरूषकमिति| अम्लानि यानि द्राक्षापरूषककरमर्दकानि तान्यार्द्राणि चेत्तदा पित्तप्रदत्वादिगुणानि|
Adhikarana अम्लकोलादिगुणाः (१३७-१३८) · Śloka १३८
| तथाऽम्लं कोलकर्कन्धुलकुचाम्रातकारुकम्||१३७|| ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम्| नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्||१३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अम्लं कोलादिकं मृगलिण्डिकान्तं तद्वच्चेति अम्लद्राक्षादिवत्, गुणैर्ज्ञेयमित्यर्थः| कर्कन्धुः-ह्रस्वबदरी| लकुचं-लिकुचम्| आरुकस्याम्लस्यैवैते गुणा ज्ञेयाः| मधुरस्य हि विशेषेणपूर्वमुक्ता एव गुणाः| तथा, ऐरावतादि नात्यर्थं पित्तं करोति| ऐरावतं-नागरङ्गम्| दन्तशठं-जम्बीरम्| तथा, तूदं मृगलिण्डिकं च| तथा, करमर्दकं पक्वं शुष्कं च नात्यर्थं पित्तकरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कोलादीनां गुणानाह-तथाऽम्लमिति| अम्लानुवृत्तावम्लग्रहणमार्द्रनिवृत्त्यर्थम्| अम्लं यत्कोलादिकं तदार्द्रं शुष्कं वा, तथा-तद्वत्, पित्तप्रदत्वादिगुणमित्यर्थः| कोलकर्कन्धुनी-बदरभेदौ| लकुचं-ग्रन्थिफलम्| ऐरावतं-नारङ्गं एलानं च| दन्तशठं-जम्बीरं फलाम्लिकाख्यं च| तूदं तोदनं आम्रातकं (कोशाम्रं) च| उक्तं च खारणादिना-"फलाम्लिकैरावतककोशाम्रकरमर्दकम्| आम्रातकं दन्तशठमम्लोष्णं रक्तपित्तलम्||" इति| मृगलिण्डिकं-मृगविट्सदृशं कर्कटाख्यम्| द्राक्षादेर्मृगलिण्डिकान्तस्य पक्वस्य विशेषगुणमाह-नातिपित्तकरमिति| पक्वं द्राक्षादिकमम्लमपि नातिपित्तकरम्, स्वादुपाकत्वात्| तथाऽऽह माधवकारः-"द्राक्षाकरीरकर्कन्धुबदराण्यारुकाणि च| परूषकाणि चाम्लानि कफपित्तकःराणि च|| स्वादुपाकानि यान्येषां नातिपित्तकराणि च||" इति| यत्तूक्तं सुश्रुतेन (सू.अ. ४६/१७२)- "अत्यम्लं पित्तजननमामं विद्यात्परूषकम्| तदेव पक्वं मधुरं वातपित्तनिबर्हणम्||" इति| तत्पक्वावस्थायां मधुरपरूषकविषम्| यत्तु पक्वमप्यम्लत्वं न जहाति, तत्किञ्चित्पित्तकरमेव| एवं द्राक्षादिष्वपि बोध्यम्| शुष्कस्य करमर्दस्य विशेषगुणमाह-शुष्कमिति| नातिपित्तकरमिति चकारेणानुकृष्यते| शुष्कस्य करमर्दस्य विपर्ययतन्त्रयुक्त्या पित्तघ्नत्वे प्राप्ते किञ्चित्पित्तकरत्वं विधीयते|
Adhikarana शुष्काम्लीकाफलादिगुणाः (१३९) · Śloka १३९
दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम्| तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः||१३९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अम्लीकाफलं कोलफलं च शुष्कं सद्दीपनं भेदनं तृष्णादिनाशनं लघु कफवातयोश्च पथ्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुष्काणामम्लिकादीनां गुणानाह-दीपनमिति| अम्लिका-चिञ्चाफलम्| कोलयोरिति द्विवचनात् कोलकर्कन्धुनोर्ग्रहणम्| सुश्रुतेन (सू. अ. ४६/१४५) हि द्व योरपि तुल्यगुणत्वमुक्तम्, दर्शितं च बदरव्याख्याने| कफवातयोरिष्टं-कफवातघ्नमित्यर्थः| सरमिति सामान्योक्त्या भेदनत्वे सिद्धे भेदनमिति नियमार्थम्, शुष्काण्येवाम्लिकादीनि भेदनानि| अत एव खारणादिना-"ग्राह्यम्लं बदरं रुच्यं लघूष्णं मारुतापहम्| मधुरं तद्गुरु स्निग्धं शीतं पित्तानिलापहम्||" इत्युक्तं ग्राहित्वमशुष्कविषयम्|
Adhikarana फलानां मद्ये लकुचमवरम् (१४०) · Śloka १४०
फलानामवरं तत्र लकुचं सर्वदोषकृत्| |१४०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-फलानां सर्वेषां मध्ये लकुचमवरं-अप्रधानं, त्रिदोषकरं च| चरकमुनिस्त्वस्य पित्तश्लेष्मकृत्त्वमेवानुजज्ञे| तत्पाठो हि (सू.अ. २७|१२८)-"अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च| पित्तश्लेष्मप्रकोपीणि कर्कन्धुलकुचानि च||" इति| सङ्ग्रहे त्वतोऽप्यधिकमुक्तम् (सू.अ.७)-"तिन्दुकाश्मन्तकासीसफलिनीबिम्बतोदनम्| टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम्| श्वेतपाकं कपित्थानि सिञ्चतीभव्यजाम्बवम्| क्षीरिवृक्षफलं बीजं पौष्करं कफपित्तजित्|| कषायमधुरं रूक्षं शीतलं गुरु लेखनम्| विबन्धाध्मानजननं स्तम्भनं वातकोपनम्|| बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चितिकाफलम्| भव्यं विशदमम्लं च, जाम्बवं त्वतिवातलम्|| विष्टम्भकृदकण्ठ्यं च साम्लं तु क्षीरिवृक्षजम्| पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम्|| नीपं शताक्षिकं प्राचीनामलं तृणशूल्यजम्| अस्मादल्पान्तरगुणं सेङ्गुदं सविकङ्कतम्|| फलं करञ्जं विष्टम्भि पित्तश्लेष्माविरोधि च|"इति| मुनिना त्वतोऽपि किञ्चिदधिकमुक्तम्| यथा (च.सू.अ.२७|१५०)-"रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः| कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः|| वातलं कफपित्तघ्नं विद्यात्कर्पटकीफलम्| मधुराण्यतिपाकानि वातपित्तहराणि च|| अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि तु| प्राचीनामलकं चैव दोषघ्नं गरघाति च|| इङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित्|" इति| सुश्रुते चोक्तम् (सू.अ.४६|१८९,१६०)-|"सुगन्धि मधुरं स्निग्धं लवलीफलमुच्यते| वृक्षाम्लाल्पान्तरगुणं कोशाम्रफलमुच्यते||" इति| सम्प्रति यादृशं फलं शाकं च त्याज्यम्, तदुपदिशन्नाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लकुचगुणानाह-फलानामिति| एतच्च सर्वदोषकरत्वमनम्लस्य, अम्लस्य वातघ्नेषु कोलादिषु पठितत्वात्| सङ्ग्रहे तु (सू.अ.७)-[*"नारिकेलं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्| बलमांसकरं हृद्यं बृंहणं बस्तिशोधनम्|| मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्| रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु|| स्निग्धं स्वादुकषायं च राजादनफलं गुरु| ] मधूकजमहृद्यं तु बदरं सरणात्मकम्|| तिन्दुकाश्मन्तकाशीतिफलिनीबिम्बितोदनम्| टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम्|| श्वेतपाकं कपित्थानि सिञ्चतीभव्यजाम्बवम्| क्षीरिवृक्षफलं बीजं पौष्करं कफपित्तजित्|| कषायमधुरं रूक्षं शीतलं गुरु लेखनम्| विबन्धाध्मानजननं स्तम्भनं वातकोपनम्|| बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चतिकाफलम्| भव्यं विशदमम्लं च, [ *जाम्बवं त्वतिवातलम्|| विष्टम्भकृदकण्ठ्यं च ] साम्लं तु क्षीरिवृक्षजम्| पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम्|| कषायं रोचनं हृद्यं वातलं लवलीफलम्| फलं करञ्जं विष्टम्भि पित्तश्लेष्मा विरोधि च|| नीपं शताक्षिकं प्राचीनामलं तृणशूल्यजम्| पीलुनोऽल्पान्तरगुणं सेङ्गुदं सविकङ्कतम्||' इति|
Adhikarana त्याज्यानि धान्यशाकफलानि (१४०-३) · Śloka ३
| हिमानलोष्णदुर्वातव्याललालादिदूषितम्||१४०|| जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्| अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च||१४१|| धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्| असञ्जातरसं तद्वच्छूष्कं चान्यत्र मूलकात्||१४२|| प्रायेण फलमप्येवं तथाऽऽमं बिल्ववर्जितम्| |१४३| इति फलवर्गः||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दूषितशब्दः प्रत्येकं सम्बद्यते| धान्यं केदारस्थं हिमेन दूषितं त्यजेत्| तथा, अनलेन प्रवृद्धेन दूषितं, उष्णेन आतपादिना, दुर्वातेन-पुरोवातादिना, तथा, व्यालानां-सर्पादीनां लालया दूषितं त्यजेत्| आदिग्रहणेन शवकोथमूत्रपुरीषादीनां ग्रहणम्| तथा, जन्तुभिः-कृम्यादिभिः, जुष्टं-सेवितम्| जले मग्नं-आशिखं बुडितम्| अभूमौ-विपरीतभुवि जातं-अभूमिजम्, या यस्योचिता भूमिस्ततोऽन्या-विपरीता| अनार्तवं अप्राप्तसमयम्, यस्मिन्नृतौ यस्योत्पत्तिः प्रसिद्धा ततोऽन्यस्मिन् जातमित्यर्थः| तल्लक्षणं च रसादीनामपरिपूर्णत्वेन विज्ञेयम्| अन्येन-विजातीयेन धान्येन संयुतं केदारगतम्| { यथा, रक्तशालिर्यवकेन सह विरुध्यते| तथा, मुद्गो माषेण| } (एवं शूकधान्यं विजातीयेन शूकधान्येन| तथा, शिम्बीधान्यं शिम्बीधान्येन विजातीयेन सह विरुद्धं त्यजेत्) { केचिच्छूकधान्येन सह विरुद्धमिति वर्णयन्ति| अन्ये तु जीर्णं नवेनमिश्रितमन्यधान्ययुतमिति ब्रुवते| } जीर्णतया-अतिपुराणत्वेन, हीनवीर्यं-नष्टशक्ति| एवंविधं धान्यं त्यजेत्| तथा, शाकमपि त्यजेत्| कीदृशम् ? रूक्षसिद्धं-निःस्नेहसिद्धमित्यर्थः| अथवा, रूक्षेण-काञ्जिकादिना सिद्धं-रूक्षसिद्धम्| अकोमलं-जरठम्| असञ्जातरसं-अपरिपूर्णस्वरूपमित्यर्थः| तद्वच्छुष्कं-तथैव शुष्कशाकमप्यसञ्जातरसवत् त्यजेत्, अन्यत्र मूलकात्| शुष्कमूलकं भजेदेव| प्रायेण फलमप्येवंविधं त्यजेत्| प्रायोग्रहणं द्राक्षापरूषकादीनां शुष्काणामपि पथ्यत्वादत्याज्यत्वज्ञापनार्थम्| तथा, आमं-असम्प्राप्तपाकं फलं, त्यजेदिति वर्तते| किं सर्वम् ? नेत्याह-बिल्ववर्जितम्| बिल्वं त्वाममपि पथ्यत्वाद्भजेदेवेत्यर्थः| इति फलवर्गः| फलवर्गादनन्तरं विविधौषधवर्गारम्भः, प्रायेणास्याऽऽहारोपयोगित्वात्| तत्रापि लवणानां पूर्वमुपन्यासो युक्तः, सुतरामुपयोगित्वात्| इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-एवं धान्यादीनां गुणानुक्त्व यादृक् त्याज्यं तादृगाह| तत्र धान्यमाह-हिमानलेति| हिमं-तुहिनम्, अनलो-दावानलादिः, उष्णं-आतपः, दुर्वातः-पुरोवातादिः, व्यालानां-सर्पादिविषप्राणिनां लालादयः, [ आदिशब्देन कोथमूत्रपुरीषादयः, ] तैर्दूषितं-उपहतम्| जन्तुजुष्टं-कृमिसेवितम्| जले मग्नं-पानीयमग्नमञ्जरीकम्| अभूमिजं अनुचितक्षेत्रजम्| अनार्तवं-अनुचितकालजम्| अन्यधान्ययुतं-विजातीयेन धान्येन सहैकक्षेत्रजम्| अतिजीर्ण तया-बहुवर्षोषितत्वेन| हीनवीर्यं-नष्टशक्ति| यत्स्वभावतो हीनवीर्यम्, अतिजीर्णमप्यहीनवीर्यम्, तन्न त्याज्यम्| शाकमाह-तथेति| तथा-हिमदूषितादिकम्| अन्यधान्ययुतमित्यत्र धान्यस्थाने शाकशब्द ऊहनीयः| रूक्षसिद्धंस्नेहं विना पक्वम्| अकोमलं-जरठम्| असञ्जातरसं-अत्यन्तकोमलम्| मूलकादन्यच्छुष्कं त्यजेत्, मूलकस्य् शुष्कस्यैव गुणवत्त्वात्| फलमाह-प्रायेणेति| एवमिति धान्यवत्| अन्यफलयुतत्वं तु-एककालवालजत्वेन| बिल्ववर्जितमामं फलं त्यजेत्, बिल्वस्यामस्यैव गुणवत्त्वात्| अपिशब्दः प्रायेणेत्यस्य धान्यशाकाभ्यामपि सम्बन्धार्थः| जन्तुजुष्टस्याप्युदुम्बरादेः फलस्य, जलमग्नस्यापि पद्मनालादेः शाकस्य, अन्यधान्ययुतस्यापि कुसुम्भगोधूमादेर्धान्यस्य, सेव्यत्वदर्शनात् प्रायेणेत्युक्तम्| इति फलवर्गः|
Adhikarana औषधवर्गः लवणसामान्यगुणाः (१४३-१४४) · Śloka १४४
अथौषधवर्गः| | विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदु||१४३|| वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्| |१४४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वं लवणम् विष्यन्द्यादिगुणयुक्तं विदुः-जानन्ति, सद्वैद्या इति शेषः| विष्यन्दयति तच्छीलं-विष्यन्दि, स्त्यानस्य कफादिसङ्घातस्य विलीनविग्रहतामुत्पादयतीत्यर्थः| सूक्ष्मं-सूक्ष्मस्रोतोगामि| सृष्टं मलं-मूत्रपुरीषादि येन तत्सृष्टमलम्| तथा, वातापहम्| पाकि-अन्नव्रणादीनां पाककारि| तीक्ष्णं-अमृदु, मरीचादिवत्| उष्णं-उष्णवीर्यम्| रोचनं-रुचिकृत्| तथा, कफपित्तकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथौषधवर्गः| औषधस्यापि संस्कारकत्वेना हारोपयोगात्| तत्रादौ लवणम्| तच्चाष्टधा,-सैन्धवं सौवर्चलं बिडं सामुद्रं औद्भिदं कृष्णं रोमकं पांशुजं चेति| तत्र लवणसामान्यगुणानाह-विष्यन्दीति| विष्यन्दि-अभिष्यन्दि| मृदु-मृदुगुणम्| पाकि-पाचनम्|
Adhikarana सैन्धवगुणाः (१४४-१४५) · Śloka १४५
| सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्||१४४|| लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्| |१४५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु लवणेषु मध्ये, सैन्धवं सस्वादु-ईषन्मधुरं, वृष्यं हृद्यं त्रिदोषघ्नं लघु तथा किञ्चिदुष्णं दृष्टेः पथ्यं किञ्चिद्विदाहि अग्निदीपनं च| सामन्यगुणाश्च विष्यन्दिसूक्ष्मसृष्टमलत्वरोचनान्यस्य सन्त्येव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ विशेषगुणाः| तत्र सैन्धवगुणानाहसैन्धवमिति| सस्वादु-ईषन्मधुरम्| अनुष्णं-ईषदुष्णम्| ननु, "सस्नेहं मधुरं पाके वर्ण्यं रोचनदीपनम्| दोषत्रयघ्नं चक्षुष्यं शीतं सस्वादु सैन्धवम्||" इति खारणादिना शीतमुक्तम्| तत्कथमनुष्णम् ? अत्र ब्रूमः| शीतमिव शीतम्, चक्षुष्यत्वपित्तघ्नत्वादिकार्यकरत्वात्| अवश्यं चैवमङ्गीकर्तव्यम्, "सैन्धवं सारसं पाक्यं सौवर्चलमथौद्भिदम्| पूर्वं पूर्वं गुणोत्कृष्टमुष्णं तेषां यथोत्तरम्||" इति खारणादिनैवोष्णत्वस्योक्तत्वात्| सुश्रुतोऽप्याह (सू.अ. ४६/३१३)- "सैन्धवसामुद्रबिडसौवर्चलरोमकौद्भिदप्रभृतीनि लवणानि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणि च| यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि च|" इति| दृशः पथ्यं-चक्षुष्यम्|
Adhikarana सौवर्चलगुणाः (१४५-१४६) · Śloka १४६
| लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्||१४५|| कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्| |१४६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सौवर्चलं लघु हृदयाय हितं सुगन्धि उद्गारं शोधयति-दुष्टं सच्छुद्धं करोति| कटुपाकं च| तथा, विबन्धं स्रोतसां हन्ति-विबन्धघ्नम्| अग्निदीप्तिरुचिकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सौवर्चलगुणानाह-लघु सौवर्चलमिति| उद्गारशोधनं-दुष्टोद्गारप्रशमनम्|
Adhikarana बिडगुणाः (१४६-१४७) · Śloka १४७
| ऊर्ध्वाधःकफवातानुलोमनं दीपनं बिडम्||१४६|| विबन्धानाहविष्टम्भशूलगौरवनाशनम्| |१४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बिडं ऊर्ध्वंमधश्च कफवाताननुलोमयति| तथा, दीपनं विबन्धादिघ्नं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बिडगुणानाह-ऊर्ध्वाध इति| ऊर्ध्वाधःशब्दौ कफवाताभ्यां प्रत्येकं सम्बध्येते न तु यथासंख्येन, "ऊर्ध्वानुलोम्यकृद्वायोः शूलघ्नं दीपनं बिडम्|" इति खारणादिवचनात्, "ऊर्ध्वं चाधश्च वातानामानुलोम्यकरं बिडम्|" इति चरकवचनाच्च (सू.अ. २७/२९९)| विबन्धो-मलावरोधः| आनाहो-बद्धोदरता| विष्टम्भो-वातावरोधः|
Adhikarana सामुद्रगुणाः (१४७) · Śloka १४७
| विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्||१४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सामुद्रं विपाके मधुरं गुरु कफवर्धनं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सामुद्रगुणानाह-विपाक इति|
Adhikarana औद्भिदगुणाः (१४८) · Śloka १४८
सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्| |१४८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भूमिमुद्भिद्य यद्भवति तदौद्भिदम्, ईषत्तिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि च- दोषोत्क्लिष्टकरम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-औद्भिदगुणानाह-सतिक्तेति| भूमिमुद्भिद्योत्पन्नस्य क्षारोदकस्य सूर्यरश्मिभिर्वह्निना वा क्वथनाद्यल्लवणं तत्-औद्भिदम्| उत्क्लेदि-क्लेदाभिवृद्धिकरम्|
Adhikarana कृष्णलवणगुणाः (१४८) · Śloka १४८
| कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः||१४८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृष्णे लवणे सौवर्चलगुणाः-लघुत्वादयो, गन्धेन वर्जिताः-सौगन्ध्यरहिताः, सन्तीति शेषः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कृष्णलवणगुणानाह-कृष्ण इति| अत एव निर्गन्धं सौवर्चलमित्याचक्षते|
Adhikarana रोमकलवणगुणाःपांसुजगुणाः (१४९) · Śloka १४९
रोमकं लघु, पांसूत्थं सक्षारं श्लेष्मलं गुरु| |१४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोमकं लवणं लघु| पांसूत्थं-शिलालवणम्, ईषत् क्षारं श्लेष्मलं गुरु च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रोमकगुणानाह-रोमकमिति| रोमकं-शाकम्भरीदेशोत्थम्| पांसुजगुणानाह-पांसूत्थमिति| पांसूत्थं-क्षारमृत्तिकोद्भवम्|
Adhikarana लवणानां प्रयोगे सैन्धवादिप्रयोजनम् (१४९) · Śloka १४९
| लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत्||१४९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लवणानां प्रयोगे सैन्धवमादि कृत्वा प्रयोजयेत्-अन्यत्र प्रदेशे लवणानि द्वित्राणि त्रिचतुराणि वा यत्र प्रयुज्यन्ते तत्र सैन्धवमादि कृत्वा प्रयोज्यानि| यथा-हिङ्ग्वादिचूर्णे "द्विपटु" इत्युक्तम्| तत्र सैन्धवसौवर्चले प्रयोज्ये| { यत्र त्रयाणां प्रयोगः, तत्र सैन्धवसौवर्चलबिडानि| एवमौद्भिदादीनां लवणवर्गे पठितानामन्यत्राऽपि } वेद्यम्| खरनादे चोक्तम्-"सैन्धवं सारसं पाक्यं सौवर्चलमथौद्भिदम्| पूर्वं पूर्वं गुणोत्कृष्टमौष्ण्यं तेषां यथोत्तरम्|| इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रसङ्गाच्चिकित्स्तोपयोगिनीं परिभाषामाहलवणानामिति| यत्र लवणानामेकव्द्यादीनां सैन्धवादिशब्दैर्विना प्रयोग उक्तः, तत्र सैन्धवादि प्रयोजयेत्| सैन्धवमादि यत्र तद्यथा भवतीति क्रियाविशेषणम्| यथा, यत्रैकं लवणम्, तत्र सैन्धवम्| यत्र द्वे, तत्र सैन्धवसौवर्चले| यत्र त्रीणी, तत्र सैन्धवसौवर्चलबिडानीत्यादि| यत्र संख्यां विना बहुवचनम्, तत्र पञ्चैव ग्राह्याणि| "सौर्वचलं सैन्धवं च बिडमौद्भिदमेव च| सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च||" इति चरक(?) वचनात्| यथा (हृ.चि.अ. १०/६)-"चतुर्णा प्रस्थमम्लानां त्र्यूषणाच्च पलत्रयम्| लवणानां च चत्वारि शर्करायाः पलाष्टकम्|| तच्चूर्णं शाकसूपान्नरागादिष्ववचारयेत्| कासाजीर्णारुचिश्वासहृत्पाण्ड्वामयशूलनुत्||" इत्यत्र| एतदेव स्पष्टीकृतं सङ्ग्रहे (चि. अ. १२)-"दाडिमकपित्थवृक्षाम्लाम्लीकानां पृथक् पृथक् कुडवं लवणपञ्चककुडवं त्र्यूषणत्रिपलं शर्करापलाष्टकं चैकत्र चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासकासगुल्मप्ली हग्रहणीहृत्पाण्डुरोगघ्नम्|" इति|
Adhikarana यवक्षारगुणाः (१५०) · Śloka १५०
गुल्महृद्ग्रहणीपाण्डुप्लीहानाहगलामयान्| श्वासार्शःकफकासांश्च शमयेद्यवशूकजः||१५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवशूकजो-यवक्षारो, गुल्मादीन् शमयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ क्षारः| तत्र यवक्षारगुणानाह-गुल्मेति|
Adhikarana सामान्यक्षारगुणाः (१५१-१५२) · Śloka १५२
क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः| पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः||१५१|| अपथ्यः कटुलावण्याच्छुक्रौजःकेशचक्षुषाम्| |१५२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षारः सर्वश्च परमं-अतिशयेन, तीक्ष्णोष्णः कृमिजित् लघुश्च| पित्तासृजी दूषयति| पाकी-पाककारी| छेदी-मेदः श्लेष्मादिग्रन्थिघ्नः| अहृद्यो-हृदयाय न हितः| विदारणः पक्वगण्डादीनाम्| कटुलावण्याच्छुक्रादीनामपथ्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षारसामान्यगुणानाह-क्षार इति| परमं-अतिशयेन तीक्ष्णोष्णः| पाकी-पाचनः| छेदी-छेदनः| विदारणः-शोफादिपाटनः| कटुलवणरसत्वाच्छुक्रादीनामपथ्यः|
Adhikarana हिङ्गुगुणाः (१५२-१५३) · Śloka १५३
| हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्||१५२|| कटुपाकरसं रुच्यं दीपनं पाचनं लघु| |१५३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हिङ्गु वातादिघ्नं पित्तकोपनं कट्वादिगुणयुक्तं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र हिङ्गुगुणानाह-हिङ्ग्विति|
Adhikarana हरीतकीगुणाः (१५३-१५७) · Śloka १५७
| कषाया मधुरा पाके रूक्षा विलवणा लघु||१५३|| दीपनी पाचनी मेध्या वयसः स्थापनी परम्| उष्णवीर्या सराऽऽयुष्या बुद्धीन्द्रियबलप्रदा||१५४|| कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्| शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्||१५५|| सशोषशोफातीसारमेदमोहवमिक्रिमीन्| श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम्||१५६|| विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्| हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान्||१५७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हरीतकी कषाया-कषायरसा| कषायरसत्वात्कटुविपाकित्वं प्राप्तमित्याह-मधुरा पाक इति| तथा, रूक्षा| विलवणेति वचनं लवणं वर्जयित्वा शेषाः पञ्चरसा अस्याः सन्तीति वेदयति| ननु, एवं कषायेत्यनर्थकम्, यतः पञ्चसु रसेषु लवणहीनेषु मध्ये कषायोऽनुप्रविष्ट एव| अस्त्येवैतत्| कषायेत्येतदतिशयख्यापनाय, कषायो रसोऽस्यां बाहुल्येनास्तीत्यर्थः| तथा च मुनिः (च.चि.अ.१|२९)-"हरीतकीं पञ्चरसामुष्णां विलवणां शिवाम्|" इति| तथा, लघु| दीपनी-अग्रेः| पाचनी-आमादेः| मेध्या-मेधायै हिता| वयस इत्यादि,- कालकृता शरीरावस्था यौवनादिर्वयस्तस्य, परं-अतिशयेन, स्थापनी-स्थिरीकरणी| उष्णेत्येतावतैवोष्णवीर्येत्यस्यार्थस्य लब्धत्वात् वीर्यग्रहणमतिशयोष्णवीर्यत्वख्यापनार्थम्| सरा- भेदनी| तथा, आयुषे हिता| बुद्धिः-वर्तमानार्थग्राहिणी प्रज्ञा, इन्द्रियाणि-चक्षुरादीनि, तेषां बलं प्रददाति या सैवम्| कुष्ठादीन् रोगान् जयति| खरनादे त्वेवमभ्यधायि-"स्वाद्वम्लभावात्पवनं, कटुतिक्ततया कफम्| कषायमधुरत्वाच्च पित्तं हन्ति हरीतकी||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हरीतकीगुणानाह-कषायेति| कषायेति पञ्चरसत्वेऽप्यतिशयार्थम्| विलवणा-स्वाद्वम्लकटुकषायतिक्तरसेत्यर्थः| बुद्धेरिन्द्रियाणां च बलप्रदा| पुराणज्वरो-जीर्णज्वरः| शोषो-राजयक्ष्मा| मोहो-मूर्च्छा| स्रोतसां विबन्धः-स्रोतोरोधः| कफवातजानिति कुष्ठादीनां विशेषणम्| तांस्तांश्चेतिअन्येषामप्येवंप्रकारणामानुलोम्यादिसाध्यानां ग्रहणार्थम्| ननु, "स्वाद्वम्लभावात्पवनं, कटुतिक्ततया कफम्| कषायमधुरत्वाच्च पित्तं हन्ति हरीतकी||" इति खारणादिना पित्तघ्नत्वमप्युक्तम्| तत्किमिति कफवातयोर्ग्रहणम्| सत्यम्| पित्तजानपि व्याधीन् जयेत्, कफवातजांस्त्वतिशयेन, उष्णवीर्यत्वात्| खारणादिना हरीतकीलक्षणमुप्युक्तम्-"क्षिप्ताऽम्भसि निमज्जेद्या गुणकृत्सा प्रकीर्तिता|" इति|
Adhikarana आमलकगुणाः (१५८) · Śloka १५८
तद्वदामलकं शीतमम्लं पित्तकफापहम्| |१५८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तया-हरीतक्या, तुल्यं वर्तत इति तृतीयान्ताद्वतिः| हरीतकीसमानगुणमामलकमित्यर्थः| विशेषं त्वस्याह-अभयोष्णा इदं शीतं,- शीतवीर्यम्| तथा, अम्लं-अम्लरसं, पित्तकफघ्नं चेति| कृष्णात्रेयस्त्वामलकं त्रिदोषघ्नमाख्यत्| यथा-"अम्लभावाज्जयेद्वातं पित्तं माधुर्यशैत्यतः| कफं रूक्षकषायत्वादेवमेतत्त्रिदोषनुत्||" सुश्रुतेऽपि (सू.अ.४६|१४३) त्रिदोषघ्नत्वमुक्तम्| तद्ग्रन्थो हि-"चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम्| हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः|| कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं तु तत्|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आमलकगुणानाह-तद्वदिति| तद्वत्-हरीतकीवत्| सा तूष्णा कषायोत्कटा, अतिशयेन कफवातघ्नी| इदं तु शीतमम्लोट्कतमतिशयेन पित्तकफघ्नमिति व्यतिरेकः|
Adhikarana अक्षगुणाः (१५८) · Śloka १५८
| कटु पाके हिमं केश्यमक्षमीषच्च तद्गुणम्||१५८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अक्षं-बिभीतकं, पाके कटुकं शीतवीर्यं केशेभ्यो हितम्| तथा, ईषतद्गुणं,-ताभ्यां-हरीतकीधात्रीभ्यां, समाना गुणा यस्य तत्तद्गुणं किञ्चिदक्षम्| ननु, हरीतक्यादीनां स्थूलसूक्ष्मादिभेदेनानियतस्वरूपत्वात्कथमिवोपयोगः क्रियताम् ? इति केचित्| तान् ब्रूमहे| अक्षं तावदत्र कर्षप्रमाणं ग्राह्यम्| तथा च धन्वन्तरिराख्यत् (धंइघण्टौ व.१|२९२)-"बिभीतकः कर्षफलो" इत्यादि| अन्वर्था हीयं संज्ञा| कर्षं-कर्षप्रमाणं, फलं यस्य स कर्षफल इति| तदेवं बिभीतकस्य फलं यत्कर्षप्रमाणं तद्ग्राह्यमित्यवतिष्ठते| हरीतक्या अपि प्रमाणं नियतमेव| हरीतक्या अपि प्रमाणं नियतमेव| तन्त्रान्तरेऽप्युक्तम्-"नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता तथाऽम्भसि| निमज्जेद्या प्रशस्तत्वात् गुणकृत्सा प्रकीर्तिता| नवादिगुणयुक्तत्वं तथैकत्वं द्विकर्षता| हरीतक्याः फले येनं तेनैतच्छ्रेष्ठमुच्यते||" इति| तदेवं द्विकर्षप्रमाणत्वं हरीतक्याः स्थितम्| धात्रीफलस्यपि युक्त्या नियतप्रमाणत्वमेव| तथा चोक्तं तन्त्रान्तरे "अभयैक प्रदातव्या द्वावेव तु बिभीतकौ| धात्रीफलानि चत्वारि त्रिफलेयं प्रकीर्तिता|| इति| तदेवमामलकानामर्धकर्षप्रमाणत्वमवतिष्ठते| तस्मान्नियतप्रमाणत्वं त्रिफलायाः स्थितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बिभीतकगुणानाह-कटु पाक इति| अक्षं बिभीतकम्| तद्गुणं-आमलकगुणम्| कटु पाक इति स्वादुपाकत्वापवादः| अहिममिति शीतवीर्यस्य निषेधादुष्णवीर्यत्वस्यैव प्रतिप्रसवः| ईषदित्यतिशयो निषिध्यते| स चाम्लत्वस्यैव, न पित्तकफापहत्वस्य| तस्य तन्त्रान्तरे विधानात्| यदाह सुश्रुतः (सू.अ. ४६/२००)-"भेदनं लघु रूक्षोष्णं वैस्वर्यं कृमिनाशनम्| चक्षुष्यं स्वादुपाक्यक्षं कषायं कफपित्तजित्||' इति| खारणादिरपि-"कषायमधुरं शीतं लघु पित्तकफापहम्| बिभीतकफलं तस्मान्त्रिफला सार्वयौगिकी||" इति| स्वादुपाकीति,- स्वादु-मधुररसम्, पाकिपाचनम्| अत एव खारणादिना कषायमधुरमुक्तम्| शीतमिति शीतस्पर्शम्, सुश्रुतेनोष्णत्वस्योक्तत्वात्, "उष्णवीर्या" इति वीर्यग्रहणाच्च|
Adhikarana त्रिफलागुणाः (१५९) · Śloka १५९
इयं रसायनवरा त्रिफलाऽक्ष्यामयापहा| रोपणी त्वग्ग्दक्लेदमेदोमेहकफास्त्रजित्||१५९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इयं-ईदृशी, त्रिफला रसायनवरा| चक्षूरोगघ्नी| रोपणी-व्रणानाम्| त्वग्गदाः-कुष्ठादयः, क्लेदो-व्रणादीनां स्रावः मेदः-चतुर्थो धातुः, मेहः-प्रमेहः, कफः-श्लेष्मा, अस्रं-रक्तम्, तानि जयति या सैवम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हरीतक्यादित्रयस्य मिलितस्य संज्ञां कुर्वन् गुणानाह-इयमिति| इयं-हरीतक्यामलकबिभीतकाख्या फलत्रयी, त्रिफलेति ख्याता रसायनवरत्वादिगुणा च| अक्ष्यामयो-नेत्ररोगः| त्वग्गदाः-कुष्ठादयः|
Adhikarana चतुर्जातगुणाः त्रिजातकगुणाः (१६०) · Śloka १६०
सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्| पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम्||१६०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दीपनरोचनमित्येतत्पर्यन्तम्| त्वक् च पत्रं चैला चेति द्वन्द्वैकवद्भावः| एतस्य नाम त्रिजातकं त्रिसुगन्धमिति| एतत्त्रिजातकं केसरयुक्तं चतुर्जातकमित्युच्यते| तच्च पित्तप्रकोपित्वादिगुणम्| पित्तप्रकोपि तीक्ष्णादिगुणयुक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्वगादेस्त्रयस्य चतुष्टयस्य च संज्ञां कुर्वन् गुणानाह-सकेसरमिति| त्वक्पत्रैलं-त्रिजातकम्| तदेव सकेसरं-चतुर्जातसंज्ञम्| द्वयमपि पित्तप्रकोपित्वादिगुणम्| केचित्पूर्वार्द्धमपठित्वोत्तरार्द्ध मरिचेन योजयन्ति| तदसत्| त्रिफलावत् त्रिजातकचतुर्जातकाभ्यामपि प्यवहारात् पित्तप्रकोपित्वादिगुणयोगशङ्काया निर्बीजत्वाच्च| न हि तन्त्रान्तरे एतत्प्रतिकूला गुणा उक्ताः, किन्त्वनुकूलाः| यथा चिकित्साकलिकायाम् (श्लो.६०)-"त्वक्पत्रकैलं त्रिसुगन्धमेतत् प्रकीर्तितं वातकफापहारि| वर्ण्यं विषघ्नं च सनागपुष्पं ज्ञेयं चतुर्जातकमेतदेव||" इति|
Adhikarana मरिचगुणाः (१६१) · Śloka १६१
रसे पाके च कटुकं कफघ्नं मरिचं लघु| |१६१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसे पाके च कटुकं मरिचं कफघ्नं लघु च| कटुरसत्वेन कटुपाकत्वे लब्धे पाकग्रहण्मतिशयार्थम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मरिचगुणानाह-रसे पाक इति| यत्तु "रोचनं दीपनं छेदि सुगन्धि कफवातजित्| नात्युष्णं कटुकं तीक्ष्णं मरिचं नातिपित्तलम्||' इति खारणादिना नात्युष्णत्वं वातिपित्तलत्वं चोक्तम्| तदार्द्रावस्थाविषयम्, तस्य स्वादुपाकित्वात्| उक्तं च सुश्रुतेन (सू.अ. ४६/२२४)-"स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रसेकि च|" इति|
Adhikarana पिप्पलीगुणाः (१६१-१६३) · Śloka १६३
| श्लेष्मला स्वादुशीताऽऽर्द्रा गुर्वी स्निग्धा च पिप्पली||१६१|| सा शुष्का विपरीताऽतः स्निग्धा वृष्या रसे कटुः| स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा||१६२|| न तामत्युपयुञ्जीत रसायनविधिं विना| |१६३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आर्द्रा-अशुष्का, पिप्पली श्लेष्मला स्वादुरसा शीतवीर्या गुरुः स्निग्धा च| सा-पिप्पली, शुष्का अतः-आर्द्रायाः पिप्पल्याः सकाशात्, विपरीता-शीतविपर्ययेणोष्णा, गुरुविपर्ययेण लघुः, स्निग्धविपर्ययस्त्वत्र नास्ति स्निग्धेत्युक्तत्वात्| तथा, वृष्या रसे कटुश्च| कटुरसत्वाच्च कटुपाकत्वं प्राप्तमित्याह-स्वादुपाका| तथा, अनिलादीन् हन्ति, सरा च| एवंविधामपि तां-पिप्पलीं, नात्यर्थं युञ्जीत, रसायनविधिं विना| पिप्पलीं वर्धमानादिरसायनविधान एवातिशयेनोपयुञ्जीत|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आर्द्रपिप्पलीगुणानाह-श्लेष्मलेति| शुष्कपिप्पलीगुणानाह-सा शुष्केति| अतः-आर्द्रायाः, विपरीता-श्लेष्मघ्नी उष्णा लघुश्च| विपरीताद्रूक्षत्वे प्राप्ते स्निग्धेति वचनम्, तिक्तादिकेषु प्राप्तेषु रसे कटुरिति, वैपरीत्यादेव श्लेष्मघ्नत्वे सिद्धे पुनः श्लेष्मग्रहणं च नियमार्थम्, अनिलश्लेष्मघ्न्येव, न पित्तघ्नी| ननु, पित्तघ्नत्वशङ्कैव कुतः ? इति चेत्, "कटुका पिप्पली पित्तं शमयति, शीतवीर्यत्वात्" इति सुश्रुतवचनात् (सु.अ. ४०/५)| सुश्रुत वचनस्य का गतिः ? इति चेत्, आर्द्रा पिप्पली| तस्याः कटुकत्वं कुतः ? इति चेत्, प्रत्यक्षसिद्धत्वात्| स्वादुत्वोक्तिस्त्वतिशयार्था| सुश्रुतस्याप्यार्द्राविषयत्वमभिप्रेतम्| यत आह (सु. सू. अ. ४६/२२३)-"तेषु गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा| शुष्का कफनिलघ्नी सा वृष्या पित्तप्रकोपिणी||" इति| उक्तं च माधवकारेण-"सा पित्तशमनी पूर्वं दर्शिता वीर्यवादिना| शास्त्रकारेण निर्दिष्टा सा सत्यं पित्तकोपिनी| यद्वाऽऽर्द्रा पित्तशमनी शुष्का पित्तप्रकोपिणी||" इति| पिप्पल्या अतिसेवां निषेधति-न तामिति| चरकाचार्येण त्वत्रोपपत्तिरुक्त (वि. अ. १/१८)-"अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः| तद्यथापिप्पली क्षारो लवणमिति| पिप्पल्यो हि-कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्च सत्यः शुभाशुभकारिण्यो भवन्ति| आपातभद्राः प्रयोगसममसाद्गुण्याद्दोषसञ्चयानुबद्धाः| सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वात् श्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात्पित्तम्| न च वातप्रशमायोपकल्पन्ते, अल्पस्नेहोष्णभावात्| योगवाहिन्यः खलु ता भवन्ति| तस्मात्पिप्पलीर्नात्युपयुञ्जीत||" इति|
Adhikarana नागरगुणाः (१६३-१६४) · Śloka १६४
| नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्||१६३|| रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्| |१६४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नागरं-श्रुङ्गबेरं, दीपनादिगुणयुक्तम्| ग्राहि-विड्विबन्धकृत्| तथा, हृद्यम्| विबन्धनुत्-स्रोतःशुद्धिकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुण्ठीगुणानाह-नागरमिति| नागरं-शुण्ठी| ग्राहि-मलानाम्| विबन्धनुतु-वायोः|
Adhikarana आर्द्रकगुणाः,त्रिकटुकगुणाः (१६४-१६५) · Śloka १६५
| तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्||१६४|| स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्| |१६५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आर्द्रकं शुण्ठीसमानगुणमेव| एतच्च त्रयं-मरिचपिप्पलीशुण्ठ्याख्यं, त्रिकटुसंज्ञं स्थौल्यादीन् जयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आर्द्रकगुणानाह-तद्वदिति| तद्वत्-नागरवत्| सङ्ग्रहे त्वनयोर्विशेष उक्तः (सू.अ. ७)-"आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी||" इति, "आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम्|" इति च| मरिचादित्रयस्य संज्ञां कुर्वन् गुणानाह-एतच्चेति| एतत्त्रयं-मरिचपिप्पलीनागराख्यं त्रिकटुकसंज्ञम्| तच्च स्थौल्यादीञ्जयेत्| आर्द्रकस्य नागरादभिन्नत्वान्मरिचादित्रयं गृह्यते|
Adhikarana चविकापिप्पलीमूलयोर्गुणाः (१६५) · Śloka १६५
| चविकापिप्पलीमुलं मरिचाल्पान्तरं गुणैः||१६५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चविकापिप्पलीमूलं मरिचात् स्तोकविशेषं गुणैर्भवति कटुरसविपाकं कफघ्नं लघूष्णवीर्यं चेत्यर्थः| गुणशब्देन रसविपाकादयोऽपि पारतन्त्र्याद्गृह्यन्ते, न तु पारिभाषिका एव गुरुलघ्वादयः, व्याप्तेर्न्यायात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चव्यपिप्पलीमूलयोर्गुणानाह-चविकेति|
Adhikarana चित्रकगुणाः (१६६) · Śloka १६६
चित्रकोऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा| |१६६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चित्रको-दहनसंज्ञः, अग्निसमः पाके-अत्यन्तोष्ण इत्यर्थः| तथा, शोफादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चित्रकगुणानाह-चित्रक इति| पाके-पाचनक्रियायाम्, अग्निसमः-अग्निवत्, आमादीन् पचतीत्यर्थः|
Adhikarana पञ्चकोलगुणाः (१६६-१६७) · Śloka १६७
| पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्||१६६|| गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्| |१६७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एतच्च-पूर्वोक्तं, मरिचरहितं-पिप्पलीपिप्पलीमूलचव्यचित्रकशुण्ठ्याख्यं, पञ्चकोलसंज्ञं स्मृतं वैद्यके तन्त्रे| तथा, गुल्मादिघ्नमतिदीपनं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पिप्पल्यादिपञ्चकस्य संज्ञां कुर्वन् गुणानाहपञ्चकोलकमिति| एतत्-त्रिकटुकं चविकादित्रयं च, मरिचरहितं पञ्चकोलकसंज्ञम्| गुल्मादिघ्नं चात्यन्तमग्नेर्दीपनं च|
Adhikarana बृहत्पञ्चमूलगुणाः (१६७-१६८) · Śloka १६८
| बिल्वकाश्मर्यतर्कारीपाटलाटिण्टुकैर्महत्||१६७|| जयेत्कषायतिक्तोष्णं पञ्चमूलं कफनिलौ| |१६८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बिल्वादीनामुपलक्षणार्थे तृतीया| बिल्वादिभिरुपलक्षितं महत्पञ्चमूलं कफानिलौ जयेत्| तच्च कषायतिक्तरसमुष्णवीर्यं च| बिल्वं-श्रीफलम्| काश्मर्यं-गम्भारी| तर्कारी-अरणिका| पाटला-ताम्रपुष्पा| टिण्टुकः-स्योनाकः| महत् गुरु बृहत् अनल्पमिति पर्यायाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बिल्वादिपञ्चकस्य संज्ञां कुर्वन् गुणानाह बिल्वेति| बिल्वादिपञ्चकं-महापञ्चमूलाख्यं, कषायादिगुणं च| बिल्वः-श्रीफलः| काश्मर्यः-श्रीपर्णी| तर्कारी-अग्निमन्थः| पाटला-वसन्तदूती| टिण्टुकः-स्योनाकः|
Adhikarana हस्वपञ्चमूलगुणाः (१६८-१६९) · Śloka १६९
| ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्||१६८|| स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्| |१६९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमूलमिति वर्तते| हृस्वं कनीयो लघु अल्पमिति पर्यायाः बृहतीद्वयं-क्षुद्रबृहती महाबृहती च| अंशुमतीद्वयं- शालिपर्णी पृश्निपर्णी च गोक्षुरको-भक्षटकः| इदं हृस्वं पञ्चमूलं स्वादुपाकरसं नातिशीतं नात्युष्णं सर्वदोषजिच्च| [ गोक्षुरादिभिः पञ्चभिर्लघु द्वितीयं पञ्चमूलम्|]
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बृहत्यादिपञ्चकस्य संज्ञां कुर्वन् गुणानाह ह्रस्वमिति| बृहत्यादिपञ्चकं-ह्रस्वपञ्चमूलसंज्ञं, स्वदुपाकादिगुणं च| बृहतीद्वयं-व्याघ्री सिंही च| अंशुमतीद्वयं-शालिपर्णी *पृश्निपर्णी च| गोक्षुरकः-त्रिकण्टकः| नातिशब्दोऽत्र निषेधे, न त्वीषदर्थे, शीतोष्णयोरेकत्रानवस्थानात्, अनुष्णाशीतमित्यर्थः| सुश्रुतेन तु गोक्षुरस्थाने एरण्डः पठितः|
Adhikarana मध्यमपञ्चमूलगुणाः (१६९-१७०) · Śloka १७०
| बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन तु||१६९|| मध्यमं कफवातघ्नं वातिपित्तकरं सरम्| |१७०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलादिभिः पञ्चभिर्मध्यमं पञ्चमूलम्| एतच्च कफवातघ्नं नातिपित्तकरं सरं च| { बलादिभिः पञ्चभिस्तृतीयं पञ्चमूलम्| } अधुना चतुर्थं पञ्चमूलमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बलादिपञ्चकस्य संज्ञं कुर्वन् गुणानाह-बलेति| बलादिपञ्चकं-मध्यमपञ्चमूलाख्यं, कफघ्नादिगुणं च| बला-वाठ्यालकः| पुनर्नवा-वर्षाभूः| एरण्डः-पञ्चाङ्गुलः| शूर्पपर्णीद्वयं-मुद्गपर्णी माषपर्णी च|
Adhikarana जीवनाख्यपञ्चमूलगुणाः (१७०-१७१) · Śloka १७१
| अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्||१७०|| जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्| |१७१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभीरुवीरादिभिः पञ्चभिर्जीवनाख्यं पञ्चमूलं चक्षुष्यादिगुणयुक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभीर्वादिपञ्चकस्य संज्ञां कुर्वन् गुणानाह अबीर्विति| अभिर्वादिपञ्चकं-जीवनपञ्चमूलसंज्ञं, चक्षुष्या दिगुणं च| अभीरुः-शतावरी| वीरा-काकोली| जीवन्ती-शाकप्रवरा| जीवकर्षभकौ-स्वनामप्रसिद्धौ|
Adhikarana तृणसंज्ञकपञ्चमूलगुणाः (१७१-७) · Śloka ७
| तृणाख्यं पित्तजिद्दर्भकासेक्षुशरशालिभिः||१७१|| इत्यौषधवर्गः||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृणसंज्ञं पञ्चमूलं दर्भकासेक्षुशरशालिभिः| तच्च पित्तजित्| सङ्ग्रहे त्वधिकमुक्तम् (सू.अ.१२)| यथा-"सुवर्णं बृहणं स्निग्धं मधुरं रसपाकयोः| विषदोषहरं शीतं सकषायं रसायनम्| रूप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम्| वयसः स्थापनं शीतं लेखनं वातपित्तजित्|| ताम्रं सतिक्तमधुरं कषायं लेखनं लघु| कटुपाकरसं शीतं रोपणं कफपित्तजित्|| कांस्यं कषायानुरसं विशदं लेखनं सरम्| दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफापहम्|| सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत्| लेखनं पित्तलं किञ्चित् त्रपु, सीसं च तद्गुणम्|| चक्षुष्यं कृष्णलोहं तु कषायं स्वादु तिक्तकम्| लेखनं वातलं शीतं कृमिपित्तकफप्रणुत्|| (गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित्| तद्वत्तीक्ष्णं विशेषेण तद्विकाशि सुदुर्जरम्|| पद्मरागमहानीलपुष्परागविदूरकाः|) मुक्ताविद्गुमवज्रेन्द्रवैडूर्यस्फटिकादिकम्|| मणिरत्नं सरं शीतं कषायं स्वादु लेखनम्| चक्षुष्यं धारणात्तत्तु पाप्माऽलक्ष्मीविषापहम्|| सक्षार उष्णविर्यश्च काचो दृष्टिकृदञ्जनात्| शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ|| तुत्थकं कटु सक्षारं कषायं विशदं लघु| लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्|| विशदो गैरिकः स्निग्धः कषायमधुरो हिमः| कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा|| स्निग्धं कषायकटुकं हरितालं विषप्रणुत्| कषायमधुरं शीतं लेखनं स्निग्धमञ्जनम्|| रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम्| स्रोतोऽञ्जनं वरं तत्र ततः सौवीरकाञ्जनम्|| (सर्वदोषप्रशमनं कासमेहक्षयापहम्||) कफघ्नमुष्णं कटुकं शिलाजतु रसायनम्| (तिक्तं च छेदनं योगवाहित्वात्सर्वरोगजित्||) कषाया मधुरा रूक्षा कासघ्नी वंशरोचना| तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा|| कारव्यौ कुञ्जिकाऽजाजी कबरी धान्यतुम्बरु| अन्नगन्धहरं रुच्यं दीपनं कफवातजित्|| बाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम्| तद्वच्च राजिका (विघ्नसादनी दीपनी परम्|| शूलाटोपहरा) रुच्या, दीप्यकः कोष्ठशूलजित्| अहृद्याः सर्षपाः स्निग्धा बाष्पिकावत्प्रकीर्तिताः|| शताह्वाकुष्ठतगरसुरदारुहरेणवः| एलैलवालुसरलत्वग्व्याघ्रनखचोरकाः|| लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः| सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित्|| बस्तिमूत्रविबन्धघ्नो वृष्यो गोक्षुरको हिमः| पाचनं कफपित्तघ्नं तिक्तं शीतं विषाद्वयम्|| कफघ्नं तिक्तकटुकं मुस्तं सङ्ग्राहि पाचनम्| तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी|| दीपनी ज्वरतृड्दाहकामलावातरक्तनुत्| तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ|| निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः| महानिम्बः परं ग्राही कषायो रूक्षशीतलः|| गुग्गुलुः पिच्छिलः स्पर्शे विशदोऽभ्यवहारतः| सस्वादुः सकटुस्तिक्तः सकषायो रसायनम्|| व्रण्यः स्वर्यः कटुः पाके रूक्षः सूक्ष्मोऽग्निदीपनः| क्लेदमेदोनिलश्लेष्मगण्डमेहापचीकृमीन्|| पिटिकाग्रन्थिशोपांश्च हन्त्युष्णः स्रंसनो लघुः| शङ्खपुष्पी सरातिक्ता मेध्या कृमिविषापहा|| कटुतिक्तोष्णमगुरु स्निग्धं वातकफापहम्| पित्तास्रविषतृड्दाहकृमिघ्नं गुरु रूक्षणम्|| सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम्| लघु रक्तं, तथोशीरं वातलं पाचनं च तत्| ज्वरातिसारवमथुरक्तपित्तकफापहम्| मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम्|| गुरु स्वादु हिमं वृष्यं चक्षुष्यं स्वरवर्णकृत्| कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे|| प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम्| प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम्|| कषायमधुरं तिक्तं रक्तपित्तप्रसादनम्| बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम्|| तत्र नागाऽधिकं बल्या क्षतक्षीणहिता गुरुः| ताम्बूलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत्|| भेदि सम्मोहकृत्पूगं कषायं स्वादु रोचनम्| जातिपत्री कटुफलं कङ्कोलकलवङ्गकम्|| लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम्| सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्छेदनो हिमः|| लताकस्तूरिका तद्वन्मुखशोषहरा परम्| कषायमधुरं शीतं पद्मं पित्तकफास्त्रजित्|| तद्वद्बकुलपुन्नागकुमुदोत्पलपाटलम्| सचम्पकं ततो न्यूनं गुणैः कोरण्टकिंशुकम्|| मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम्| विषपित्तकफान्नागं सिन्दुवारं च तद्गुणम्|| कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च| वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्|| बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका| कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम्|| अवल्गुजैडगजजं बीजं वातकफप्रणुत्| आस्या वर्णश्लेष्ममेदःसौकुमार्यकृदन्यथा|| अतोऽध्वाऽग्निबलायूंषि कुर्याच्चङ्क्रमणं सुखम्| मारुतस्यानुलोम्यं च खुडस्तम्भश्रमापहम्|| अन्वर्थसंज्ञं पादत्रं बलकृच्छुक्रलं तथा| वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्|| प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान्| श्रमाग्निमूर्च्छाश्च जयेदप्रवातमतोऽन्यथा|| प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषेकृमीन्| सन्निपातज्वरश्वासमामवायुं च कोपयेत्|| याम्योऽसृग्वातकफकृच्छीतः स्वादुकषायकः| कषायः पश्चिमो रूक्षो लघुर्नातिविदह्यते|| वातकृत् कफपित्तघ्नो मूर्च्छादाहभ्रमापाहः| स्निग्धः शीतो लघुःसात्म्य उत्तरः षड्रसोऽनिलः|| ऐशानः कटुरूक्षोष्ण आग्नेयश्चैव मारुतः| अम्लो विदाही नैऋत्यो वायव्यस्तिक्त उच्यते|| आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः| कुर्यात्पित्तास्रवह्नींश्च, छाया त्वेतान्व्यपोहति|| तमः कषायकटुकं, ज्योस्ना मधुरशीतला|| इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दर्भादिपञ्चकस्य संज्ञां कुर्वन् गुणानाह-तृणाख्यमिति| दर्भादिपञ्चकं तृणपञ्चमूलसंज्ञं पित्तजिच्च| दर्भः-कुशः| काशः-काशेक्षुः| इक्षुः-गुडदण्डः| शरो-मुञ्जः| शालयः-स्वनामप्रसिद्धाः| सङ्ग्रहे तु (सू. अ. १२)-"अजशृङ्गी हरिद्रा च विदारी सारिवाऽमृता| बल्याख्यं कण्टकख्यं तु श्वदंष्ट्राभीरुसैर्यकैः|| सहिंस्राकरमर्दीकैः सर्वदोषहरे च ते| सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः|| विषदोषहरं शीतं सकषायं रसायनम्| रूप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम्|| वयसः स्थापनं शीतं लेखनं वातपित्तजित्| ताम्रं सतिक्तमधुरं कषायं लेखनं लघु|| कटुपाकरसं शीतं रोपणं कफपित्तजित्| कांस्यं कषायानुरसं विशदं लेखनं सरम्|| दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफापहम्| सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत्|| लेखनं पित्तलं किञ्चित् त्रपु, सीसं च तद्गुणम्| चक्षुष्यं कृष्णलोहं च कषायं स्वादु तिक्तकम्| लेखनं वातलं शीतं कृमिपित्तकफप्रणुत्| कृष्णलोहं-लोहम्| [*गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित्|| तद्वत्तीक्ष्णं विशेषेण तद्विकाषि सुदुर्जरम्| पद्मरागमहानीलपुष्परागविदूरकाः|| ] मुक्ताविद्रुमवज्रेन्द्रवैडूर्यस्फटिकादिकम्| मणिरत्नं सरं शीतं कषायं स्वादु लेखनम्|| चक्षुष्यं धारणात्तत्तु पाष्मालक्ष्मीविषापहम्| [*धन्यमायुष्यमोजस्यं हर्षोत्साहकरं शिवम्|| ] सक्षार उष्णवीर्यश्च काचो दृष्टिकृदञ्जनात्| शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ|| तुत्थकं कटु सक्षारं कषायं विशदं लघु| लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्|| विशदो गैरिकः स्निग्धः कषायमधुरो हिमः| कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा|| स्निग्धं कषायकटुकं हरितालं विषप्रणुत्| कषायं मधुरं शीतं लेखनं स्निग्धमञ्जनम्|| रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम्| स्रोतोऽञ्जनं वरं तत्र ततः सौवीरकाञ्जनम्|| कफघ्नं तिक्तकटुकं छेदि सोष्णं रसाञ्जनम्| सर्वदोषप्रशमनं कासमेहक्षयापहम्|| कफघ्नमुष्णं कटुकं शिलाजतु रसायनम्| तिक्तं च छेदनं योगवाहित्वात्सर्वरोगजित्|| [*विशेषात् कृच्छ्रमेहार्शःपाण्डुशोफकफापहम्|] कषायमधुरा रूक्षा कासाघ्नि वंशरोचना|| तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा| कारव्यौ कुञ्चिकाजाजी कबरीधान्यतुम्बरु|| अन्नगन्धहरं रूच्यं दीपनं कफवातजित्| कारव्यौ-शतपुष्पाद्वयम्| कुञ्चिका-कृष्णजीरकम्| बाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम्|| तद्वच्च राजिका [*विघ्नसादनी दीपनी परम्| शूलाटोपहरा ] रुच्या, दीप्यकः कोष्ठशूलजित्|| अहृद्याः सर्षपाः स्निग्धा बाष्पिकावच्च कीर्तिताः| शताह्वाकुष्ठतगरसुरदारुहरेणवः|| एलैलवालसरलत्वग्व्याघ्रनखचोरकाः| लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः|| सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित्| बस्तिमूत्रविबन्धघ्नो व्रुष्यो गोक्षुरको हिमः|| पाचनं कफपित्तघ्नं तिकं शीतं विषाद्वयम्| कफघ्नं तिक्तकटुकं मुस्तं सङ्ग्राहि पाचनम्|| तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी| दीपनी ज्वरतृड्दाहकामलावातरक्तनुत्|| तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ| निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः|| महानिम्बः परं ग्राही कषायो रूक्षशीतलः| गुग्गुलुः पिच्छिलः स्पर्शे विशदोऽभ्यवहारतः|| सस्वादुः सकटुस्तिक्तः सकषायो रसायनम्| व्रण्यः स्वर्यः कटुः पाके रूक्षः सूक्ष्मोऽग्निदीपनः|| क्लेदमेदोनिलश्लेष्मगण्डमेहापचीकृमीन्| पिटिकाग्रन्थिशोफांश्च हन्त्युष्णः स्रंसनो लघुः|| शङ्खपुष्पी सरा तिक्ता मेध्या कृमिविषापहा| कटुतिक्तोष्णमगुरु स्निग्धं वातकफापहम्|| पित्तास्रविषतृड्दाहक्लमघ्नं गुरु रूक्षणम्| सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम्|| लघु रक्तं, तथोशीरं वातलं पाचनं च तत्| ज्वरातीसारवमथुरक्तपित्तकफापहम्|| मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम्| गुरु स्वादु हिमं वृष्यं चक्षुष्यं स्वरवर्णकृत्|| कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे| प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम्|| प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम्| कषायमधुरं तिक्तं रक्तपित्तप्रसादनम्|| बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम्| तत्र नागाऽधिकं बल्या क्षतक्षीणहिता गुरुः|| ताम्बूलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत्| भेदि सम्मोहकृत्पूगं कषायं स्वादु रोचनम्|| जातिपत्री कटुफलं कङ्कोलकलवङ्गकम्| लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम्|| सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्छेदनो हिमः| लतकस्तूरिका तद्वन्मुखशोषहरा परम्|| कषायमधुरं शीतं पद्मं पित्तकफास्रजित्| तद्वद्वकुलपुन्नागकुमुदोत्पलपाटलम्|| सचम्पकं ततो न्यूनं गुणैः कोरण्टकिं शुकम्| मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम्|| विषपित्तकफान्नागं सिन्दुवारं च तद्गुणम्| कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च|| वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्| [*चातुर्थिकज्वरहरं नावनेनोपयोजितम्|| ] बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका| कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम्|| अवल्गुजैडगजजं बीजं वातकफप्रणुत्| आस्या वर्णश्लेष्ममेदःसौकुमार्यकृदन्यथा|| अतोऽध्वाऽग्निबलायूंषि कुर्याच्चङ्क्रमणं सुखम्| मारुतस्यानुलोम्यं च खुडस्तम्भश्रमापहम्|| अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्रवर्धनम्| वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्|| प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान्| श्रमाग्निमुर्च्छाश्च जयेदप्रवातमतोऽन्यथा|| प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषकृमीन्| सन्निपातज्वरश्वासमामवायुं च कोपयेत्|| याम्योऽसृग्वातकफकृच्छीतः स्वादुकषायकः| कषायः पश्चिमो रूक्षो लघुर्नाति विदह्यते|| वातकृत् कफपित्तघ्नो मूर्च्छादाहभ्रमापहः| स्निग्धः शीतो लघुः सात्म्य उत्तरः षड्रसो मरुत्|| ऐशानः कटुरूक्षोष्ण आग्नेयश्चैव मारुतः| अम्लो विदाही नैऋत्यो वायव्यस्तिक्त उच्यते|| आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः| कुर्यात्पित्तास्रवह्नींश्च, छाया त्वेतानपोहति|| तमः कषायकटुकं, ज्योत्स्ना मधुरशीतला| भवति चात्र| रसादिभेदैरिति भेषजानां दिङ्मात्रमुक्तं न यतोऽस्ति किञ्चित्| अनौषधं द्रव्यमिहावबोधो रूपस्य तेषां वनगोचरेभ्यः||" इति| इत्यौषधवर्गः| अथ मात्रादिप्रकरणम् (सङ्ग्रहे सू.अ.७)-"शूकशिम्बिजपक्वान्नमांसशाकफलाश्रयैः| वर्गैरन्नैकदेशोऽयं भूयिष्ठमुपयोगवान्|| निर्दिष्टो रसवीर्याद्यैर्यथास्वं कर्मसाधने| न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा|| हिताहितत्वेऽप्येकान्तनियमोऽस्मादनिश्चितः| मात्रायोगक्रियादेशकालावस्थादिभेदतः|| ततस्ततो यतो दृष्टास्ते ते भावास्तथा तथा| मात्रया सेवितं मद्यं हन्ति रोगांस्तदुद्भवान्|| निषेव्यमाणं तिलशो विषमप्यमृतायते| हीनातिमात्रमशनं मरुन्निचयकोपनम्|| भजेते विषरूपत्वं तुल्यांशे मधुसर्पिषी| क्षारोऽम्लरससंयोगे मधुरीभवति क्षणात्|| उत्तुण्डुक्यास्तिन्दुकेन तिक्तता मधुरायते| हिङ्गुगैरिकसिन्धूत्थं गन्धवर्णरसाधिकम्|| पूगताम्बूलशङ्खेभ्यो वर्णगन्धरसोद्भवः| कोद्रवो हन्त्यसृक्पित्तं करोत्येव विदाहिभिः|| कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह| गुडः कर्ताऽग्निसादस्य स हिनस्त्य भयादिभिः|| तृष्यत्यग्नौ समदनं सर्पिरप्युपदिश्यते| जीवनीयमपि क्षीरं विषलेशेन मृत्यवे|| तुल्ये अपि हतोऽन्योन्यं विषे स्थावरजङ्गमे| सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्तितु|| विनाऽपि चोपयोगेन मणिमन्त्रादि कार्यकृत्| आऱ्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी|| लघुभ्योऽपि हि सक्तुभ्यो गुरवः सिद्धपिण्डकाः| भृष्टः क्षुण्णोऽपि पृथुको रक्तशालेर्लघोर्गुरुः|| शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति| लघुपित्तहरा लाजा व्रीहितो गुरुपित्तलात्|| सङ्ग्राहिणो लघोर्मुद्गात् कुल्माषो भेदनो गुरुः| आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम्|| गुडात्तोयाच्च सुतरां मूत्रलं गुरु पानकम्| गरीयो गुडदध्युक्तं रसाला चातिशुक्रला|| दण्डाभिमथनाद्दध्नो गुरुणश्चातिशोफदात्| अनुद्धृतस्नेहमपि तक्रं शोफहरं लघु| सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत्| चक्षुष्योऽपि हिगोधूमस्तैलपक्वस्तु दृष्टिहा| मूलकं दोषजननं सिद्धं तु तददोषलम्| उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम्| दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते| श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्|| त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः| मेध्यस्तिलः स्पर्शशीतोऽमेध्यं तैलं खलोऽहिमः|| तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा| दध्नः श्वयथुकारित्वं न तक्रनवनीतयोः|| भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु| क्षारह् प्राच्येषु, मत्स्यास्तु सैन्धवेष्वश्मकेषु तु|| तैलाम्लं, कन्दमूलादि मलये, कौङ्कणे पुनः| पेया, मन्थ उदीच्येषु, गोधूमोऽवन्तिभूमिषु| बाह्लीका बाह्लवाश्चीनाः शूलीका यवनाः शकाः| मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः|| देहसात्म्यं घृतं क्षीरं मद्यं मांसं च कस्यचित्| पेया यूषो रसोऽन्यस्य गोधूमोऽन्यस्य शालयः|| अहितैरपि तेषां च तैरेवोपहितं हितम्| अन्नपानौषधं दोषमात्राकालाद्यपेक्षया|| सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि| स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित्|| मन्दाग्निर्भवति प्रायः कफवातोत्तरो हिमे| विषघ्नेनापि पयसा देहेऽहेर्वर्द्धते विषम्|| स्थूलस्थविरबालादौ वमनादि निषिध्यते| तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु|| वातहृत्त्वेऽपि मृद्वीकाखर्जूरं कोष्ठवातकृत्| नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्|| दृष्टेः स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम्| पयः स्वादु सरं शीतं, विपरीतं ततो दधि|| कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम्| पयो दधि च वातघ्नमजातं वातलं तु तत्|| तक्रं ग्राहि कषायाम्लमम्लमेव तु भेदनम्| धातकीगुडतोयानि कारणं मद्यशुक्तयोः|| शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः| उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ|| समयोगेऽपि घर्माद्या वातादिचयहेतवः| ऋतुष्वन्यो रसेष्वन्यो रौक्ष्यस्नेहबलक्रमः|| रसायनं काकमाची सद्यः, पर्युषिता विषम्| मूलकं दोषजिद्बालं, विपरीतं तु कन्दवत्|| ज्वरे पेया कषायाश्च सर्पिः क्षीरं विरेचनम्| षडहं षडहं युञ्ज्याद्वीक्ष्य दोषबलाबलम्|| छर्दिहृद्रोगगुल्मार्ते वमनं च चिकित्सिते| निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुष्ठिनोः|| ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यात्वहेतवः|| आश्चोतनमभिष्यन्दे युञ्जीतोर्ध्वं दिनत्रयात्| अञ्जनं पक्वदोषस्य प्रतिश्याये च नावनम्|| नातिप्रवृद्धे तिमिरे शिरामोक्षो विधीयते| दुष्टास्रसम्भवेऽपीष्टो नास्रपित्ते शिराव्यधः|| अपथ्यं पथ्यमप्यन्नं निशायां नेत्ररोगिणाम्| अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः| गुल्मिनः क्षीरदध्यादि हपुषादियुतं हितम्| वातलं वातकोपेऽपि वर्षासु मधु शस्यते|| तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम्| घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम्|| आलस्यगौरवे रूपं वातजेऽपि ज्वरे पुरः| स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः|| दिवास्वमाज्जरां याति भुक्तमन्येद्युरद्य न| कोष्ठे रुद्धोऽग्निकृद्वायुर्मेदसाऽर्शोभिरग्निहृत्|| दुष्पानं दुर्जरं सर्पिर्दीपनं च पयोऽन्यथ| सर्पादिशवकोथेभ्यां वृश्चिकानां समुद्भवः|| ते तैरेव पुनर्दष्टाः सद्यो जहति जीवितम्| स्वयमेव विषं तीव्रं तान् पुनर्नातिबाघते|| सर्वाङ्गव्यापि तेशां च शुक्रवत् संस्मृतं विषम्| तन्मांसमुपयोगाय मांसवर्गे च पठ्यते|| छर्दिघ्नी माक्षिकाविट् च मक्षिकैव तु वामयेत्| कफे लङ्घनसाध्येऽपि कर्तरि ज्वरगुल्मयोः|| तुल्येऽपि देशकालादौ लङ्घनं न समं मतम्| सर्वथा दोषजित्तक्रं ग्रहण्यां, दोषकृद्रणे|| पीनसश्वासकासादौ सिद्धमेव प्रशस्यते| इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्लभहेतुकाः|| धर्मा विचित्रा भावेषु किञ्चित्तेषां निदार्शितम्| दिशाऽनया शेषमपि स्वयमूहेत बुद्धिमान्|| न शास्त्रमात्रशरणो न चानालोचितागमः|" इति|
Adhikarana संग्रहश्लोकः (९६) · Śloka ६
शूकशिम्बीजपक्वान्नमांसशाकफलौषधैः| वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः||१७२|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि तायमष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नस्वरूपविज्ञानियो नाम षष्ठोऽध्यायः||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्प्रति सुखग्रहणधारणार्थं सङ्ग्रहश्लोकमाह-स०-शूकधान्यादिभिर्वर्गितैः-वर्गीकृतैः, अयमन्नस्य लेशः-एकदशः स्तोकमात्रो, निर्दिष्टः| किम्भूतः? नित्योपयोगो विद्यते यस्य स नित्योपयोगिकः, सदोपयोगवानित्यर्थः| मात्रायोगक्रियादेशकालावस्थादिविशेषाच्चोक्तानामपि द्रव्याणामन्यथात्वं दृष्टम्| यथा-"तिलशो निषेव्यमाणं विषमपि सञ्जायतेऽमृतसमानम्| भल्लातकः सह तिलैस्तत्कार्यपि कुष्ठमुपहन्ति|| संस्कारेण लघुभ्यः सक्तुभ्यः सिद्धपिण्डिका गुरवः| मरुवासिषु तु सात्म्यं दधिपीलुशमीकरीराणाम्|| घृतदुग्धैर्हेमन्ते मन्दाग्निः कफोत्तरो भवेत्प्रायः| दधिदुग्धं वातघ्नं तदजातं वातकृद्भवति|| रेचनमपि च क्षीरं गव्यं सङ्ग्राहि कस्यचिद्भवति|" इति| तस्मादेवमादि स्वबुद्ध्यैवोह्यम्| शास्त्रकृता तु ग्रन्थगौरवभयात्स्पष्टं कृत्वा नोक्तम्, प्रदेशान्तरेषु युक्त्यैव प्रतिपादितमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गासुन्दराख्यायां सूत्रस्थानेऽन्नस्वरूपादिविज्ञानीयोऽध्यायः षष्ठः|| ९६||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अध्यायार्थमुपसंहरति-शूकशिम्बिजेति| अन्नशब्देनाहारोपयोगीनि द्रव्याणि, तेषां लेशः-एकदेशः| उपयोगमर्हति-औपयौगिकः| नित्यं-सर्वकालमौपयोगिको नित्यौपयोगिकः| यस्य तु कादाचित्क उपयोगः स नोक्तः, ग्रन्थविस्तरभयात्| वर्गितैः-वर्गीकृतैः, शूकजादिभिः प्रकरणभेदैरित्यर्थः| इति हेमाद्रिटीकायामायुर्वेदरसायने| अन्नस्वरूपविज्ञानं सामस्त्येन निरूपितम्|| ६||