Skip to content

१०. प्रमेहनिदानाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अश्मरीनिदानादनन्तरं प्रमेहनिदानमारभ्यते -

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहनिदानाध्यायः, प्रमेहा विंशतिः (२-१) · Śloka

अश्मरीनिदानादनन्तरं प्रमेहनिदानमारभ्यते - - - - अथातः प्रमेहनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२| प्रमेहा विंशतिस्तत्र श्लेष्मतो दश, पित्ततः| षट्, चत्वारोऽनिलात्|१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रमेहा विंशतिर्भवन्ति| तत्र-विंशतिप्रमेहेषु, दश श्लेष्मतः प्रमेहाः, षट् पित्ततः, चत्वारो वातात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहाणां निदानम् (१-३) · Śloka

| तेषां मेदोमूत्रकफावहम्||१|| अन्नपानक्रियाजातं यत्प्रायस्तत्प्रवर्तकम्| स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतलम्||२|| नवधान्यसुरानूपमांसेक्षुगुडगोरसम्| एकस्थानासनरतिः शयनं विधिवर्जितम्||३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तेषां-प्रमेहाणां, मेदोमूत्रकफकरं यदन्नपानक्रियाजातं प्रायो-बाहुल्येन, तत्प्रवर्तकं-उत्पादकम्| जातशब्दः प्रकारे| क्रिया-चेष्टा शय्यासननिद्रालस्यादिका कफकारी| तदेवान्नादि दर्शयितुमाह-स्वाद्वम्लेत्यादि| एकस्थानासने रतिः-प्रीतिः| शयनं-स्वप्नो, विधिवर्जितं-अयथोक्तम् (हृ. सू. अ. ७|५४) - "अकालेऽतिप्रसङ्गाञ्च न च निद्रा निषेविता| सुखायुषी पराकुर्यात्कालरात्रिरिवापरा||" इत्यादि|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana कफप्रमेहाणां संप्राप्तिः (४) · Śloka

बस्तिमाश्रित्य कुरुते प्रमेहान् दूषितः कफः| दूषयित्वा वपुःक्लेदस्वेदमेदोरसामिषम्||४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफः प्रमेहकारणैर्दूषितो बस्तिमाश्रित्य प्रमेहान् कुरुते| किं कृत्वा ? वपुरादीन् दूषयित्वा|कफजप्रमेहाणां सम्प्राप्तिमुक्त्वा पित्तप्रमेहसम्प्राप्तिमाह|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana पित्तप्रमेहाणां संप्राप्तिः (५) · Śloka

पित्तं रक्तमपि क्षीणे कफादौ मूत्रसंश्रयम्| |५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तं कर्तृ रक्तं मूत्रसंश्रयं दूषयित्वा प्रमेहान् कुरुते| अपिशब्दाद्वपुरादींश्च| कदा ? कफादौ,-सौम्ये धातौ, क्षीणे सति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana वातप्रमेहाणां संप्राप्तिः (५) · Śloka

| धातून् बस्तिमुपानीय तत्क्षयेऽपि च मारुतः||५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मारुतश्च दूषितो धातून्-वातप्रमेहसम्पादनयोग्यान्, बस्तिमुपानीय-समन्तान्मूत्राधारसमीपं नीत्वा, तत्क्षयेऽपि च प्रमेहान् कुरुते| तेषां-धातूनां, क्षयस्तस्मिंश्च सति| न केवलं धातून् बस्तिमुपानीय यावदधःक्षरणत्वादिना तेषामपि स्वयं कृत्वेत्यपि चेत्यस्यार्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहाणां साध्यासाध्यत्वम् (६) · Śloka

अथ साध्यासाध्यविभागमाह - - - - साध्ययाप्यपरित्याज्या मेहास्तेनैव तद्भवाः| समासमक्रियतया महात्ययतयाऽपि च||६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सः-श्लेष्मादिः, भवो-जन्म, येषां ते तद्भवाः कफादिसमुत्थाः, तेनैव-विशिष्टेन सम्प्राप्तिविशेषेण, साध्ययाप्यपरित्याज्याः स्युः| तथा च,-कफप्रमेहा वपुरादिदूषणमात्रोत्थितत्वात् साध्याः, पित्तप्रमेहाणां सौम्यधातुक्षये वपुरादे रक्तस्य च दूषणेन समुत्थानाद्याप्यत्वम्, वातप्रमेहास्तु सर्वधातुक्षयोद्भूतत्वादसाध्याः| अन्यदपि हेत्वन्तरं साध्ययाप्यासाध्यत्वे वक्ति-समेत्यादि| समं चासमं च समासमे,-समानासमाने, समासमे क्रिये ययोस्तावेवम्, तयोर्भावः समासमक्रियता, तया| तथा, महात्ययतया| महांश्चासावत्ययो-विनाशः शरीरविघटनरूपो महात्ययः, तस्य भावो महात्ययता, तया| तत्र कफस्य तथा शरीरक्लेदादेः प्रमेहदूष्यस्याप्यतर्पणरूपयैकयैव क्रियया साध्यत्वात् कफप्रमेहाः साध्याः| पित्तस्य शीतमधुरादिरूपा क्रिया प्रमेहाणां रूक्षतीक्ष्णादिका दूष्यप्रतिपक्षत्वादौपयिकीति तस्मात्ते पित्तप्रमेहा याप्याः| वातप्रमेहाणां रूक्षतीक्ष्णादि तु पथ्यम्| वातस्य स्निग्धमधुरादिकं सन्तर्पणरूपं पथ्यम्| तदेवं विरुद्धक्रियत्वाद्वातप्रमेहा असाध्याः| अपिचेति समुञ्चये|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहाणां सामान्यलक्षणम् (७) · Śloka

सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता| |७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तेषां-प्रमेहाणां, सामान्यलक्षणं प्रभूतमूत्रताऽऽविलमूत्रता च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहभेदानां कारणम् (७-८) · Śloka

ननु, दोषस्य-कफादेः, दूष्यस्य च-वपुःक्लेदादेः, तुल्यत्वात् कथं प्रतिदोषं प्रमेहानेकत्वं स्यात् ? इत्याह - - - - | दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः||७|| मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते| |८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दोषदूष्याविशेषेऽपि-समानत्वेऽपि सति, तत्संयोगविशेषतो मेहेषु भेदः-अनेकत्वं कल्प्यते| तयोः-दोषदूष्ययोः, संयोगः-संश्लेषः, तत्संयोगः, तस्य विशेषः-प्राक्कृतकर्मवशाद्भेदो, दोषदूष्ययोः संयोगानेकत्वमित्यर्थः| तस्मान्मूत्रस्य यो वर्णादिभेदो-वर्णगन्धरसस्पर्शादिविशेषः, तेन भेदेन भेदो मेहेषु कल्प्यते-निरूप्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana उदकमेहस्य लक्षणम् (८-९) · Śloka

अथोदकमेहादीन् लक्षयति - - - - | अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्||८|| मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छिलम्| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उदकमेहेनाच्छादिगुणयुक्तं मेहति| किञ्चिच्चाविलपिच्छिलमिति ईषत्स्वच्छमूत्रादाविलं पिच्छलं च भवति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana इक्षुमेहस्य लक्षणम् (९) · Śloka

| इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः||९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इक्षोर्मेहादिक्षुरससदृशं मेहति| अत्यर्थं मधुरं चेतीक्षुरसाद्विशेषमाह|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana सान्द्रमेहस्य लक्षणम् (१०) · Śloka १०

सान्द्रीभवेत्पर्युषितं सान्द्रमेहेन मेहति| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सान्द्रमेहेन यन्मेहति तत्पर्युषितं-रात्रिस्थितं, घनीभवेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana सुरामेहस्य लक्षणम् (१०) · Śloka १०

| सुरामेही सुरातुल्यमुपर्यच्छमधो घनम्||१०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सुरामेही सुरातुल्यं मेहति| तच्च मूत्रं पर्युषितमेवोपरिभागेऽच्छमधः-अधस्तात्, घनं भवेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana पिष्टमेहस्य लक्षणम् (११) · Śloka ११

संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम्| |११|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पिष्टेन-पिष्टमेहेन, संहृष्टरोमा सन् पिष्टवत्-पिष्टसदृशं, बहलं शुक्लं च मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana शुक्रमेहस्य लक्षणम् (११) · Śloka ११

| शुक्राभं शुक्रमिश्रं वा शुक्रमेहि प्रमेहति||११||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुक्रमेही शुक्राभं शुक्रमिश्रं वा प्रमेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana सिकतामेहस्य लक्षणम् (१२) · Śloka १२

मूर्ताणून् सिकतामेही सिकतारूपिणो मलान्| |१२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सिकतामेहि मूर्ताणून्-संहतान्- सूक्ष्मांश्च, मलान् सिकतासदृशान् मेहति| मलानिति बहुवचनं जातौ, कफाख्यो ह्येक एव मलोऽत्र गृह्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana शीतमेहस्य लक्षणम् (१२) · Śloka १२

| शीतमेही सुबहुशो मधुरं भृशशीतलम्||१२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शीतमेही सुष्ठु बहुशो मधुरमतिशीतलं च मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana शनैर्मेहस्य लक्षणम् (१३) · Śloka १३

शनैःशनैःशनैर्मेही मन्दंमन्दं प्रमेहति| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शनैर्मेही शनैःशनैर्मेहतीत्युद्देशे मन्दंमन्दमिति निर्देश इत्यपि पौनरुक्त्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana लालामेहस्य लक्षणम् (१३) · Śloka १३

| लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम्||१३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लालामेहेन लालातन्तुयुतं विच्छिलं च मूत्रं प्रमेहति| इति कफप्रमेहा दश|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana क्षारमेहस्य लक्षणम् (१४) · Śloka १४

पित्तजानाह - - - - गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत्| |१४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षारतोयमिव गन्धवर्णरसस्पर्शैः क्षारमेहेन मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana नीलमेहस्य लक्षणम् (१४) · Śloka १४

| नीलमेहेन नीलाभं|१४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नीलमेहेन नीलाभं गन्धादिभिर्मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana कालमेहस्य लक्षणम् (१४) · Śloka १४

| कालमेही मषीनिभम्||१४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- कालमेही मषीसदृशं मूत्रं मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana हारिद्रमेहस्य लक्षणम् (१५) · Śloka १५

हारिद्रमेही कटुकं हरिद्रासन्निभं दहत्| |१५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हारिद्रमेहि हरिद्रासदृशं कटुकं दहत्-दहदिव, मूत्रं मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana माञ्जिष्ठमेहस्य लक्षणम् (१५) · Śloka १५

| विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम्||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-माञ्जिष्ठमेही मञ्जिष्ठाजलसदृशं विस्रं च मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana रक्तमेहस्य लक्षणम् (१६) · Śloka १६

विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः| |१६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तमेहेन विस्रादिकं मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana वसामेहस्य लक्षणम् (१६) · Śloka १६

अधुना वातजान् वक्ति - - - - | वसामेही वसामिश्रं वसां वा मूत्रयेन्मुहुः||१६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वसामेही वसामिश्रं वसां वा पुनःपुनर्मूत्रयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana मज्जमेहस्य लक्षणम् (१७) · Śloka १७

मज्जानं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः| |१७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मज्जमेही मज्जानं मज्जमिश्रं वा पुनः पुनर्मेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana हस्तिमेहस्य लक्षणम् (१७-१८) · Śloka १८

| हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम्||१७|| सलसीकं विबद्धं च हस्तिमेही प्रमेहति| |१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हस्तिमेही मत्तगज इवानवरतं वेगरहितं लसीकया सह विबद्धं च मूत्रं प्रमेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana मधुमेहस्य लक्षणम् (१८) · Śloka १८

| मधुमेही मधुसमम्|१८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मधुमेही मधुसमं प्रमेहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana मधुमेहस्य द्वैविध्यम् (१८-१९) · Śloka १९

| जायते स किल द्विधा||१८|| क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा| |१९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स तु-मधुमेहो, वायौ धातुक्षयात्कुपिते सति, अथवा दोषावृतपथे मरुति, किल द्विधा जायते| अत्र च केचिदेवाचार्या द्विधा आहुः| बहवस्त्वेकमेव धातुक्षयवातकोपजमाहुः, न तु मार्गावृतवातकोपजमिति सूचनार्थः किलशब्दः| वायोस्तु द्विधा कोपः| तथा चोक्तम्-"वायोर्धातुक्षयात्कोपो मार्गस्यावरणेन च|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana आवृतवातस्य कृच्छ्रसाध्यत्वम् (१९-२०) · Śloka २०

| आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत्||१९|| क्षीणः क्षणात्क्षणात् पूर्णो भजते कृच्छ्रसाध्यताम्| |२०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सः-वायुः, आवृतमार्गो लिङ्गानि-वातावरकदोषलक्षणानि वातशोणितनिदानोक्तानि, अनिमित्तं-अकस्मात्, प्रदर्शयेत् चलस्वभावत्वाद्वायोः| अत एव च क्षणात्क्षीणो-बस्तेरपूरणाद्रिक्तः| क्षणाच्च पूर्णो-मूत्राशयपूरणात्पूर्णो, न तु रिक्तः| अत एव दोषावृतमार्गवातकोपजत्वादसौ कृच्छ्रसाध्यतां भजते, न तु धातुक्षयवातकोपजवदत्यन्तासाध्यताम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana उपेक्षया सर्वेषां मधुमेहत्वम् (२०-२१) · Śloka २१

| कालेनोपेक्षिताः सर्वे यद्यान्ति मधुमेहताम्||२०|| मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति| सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः||२१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत्-यस्मात्, सर्वे मेहाः कालेनोपेक्षिताः सन्तो मधुमेहतां यान्ति| यच्च-यस्माच्च, सर्वेषु मेहेषु मधुरं मध्विव-मधुसदृशं, मेहति| तनोः-शरीरस्य, च स्वभावादेव माधुर्यम् (र्यात्)| अतः-अस्मात्कारणसन्दोहात्, सर्वेऽपि मधुमेहसंज्ञाः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana कफजानां उपद्रवाः (२२) · Śloka २२

अविपाकोऽरुचिश्र्छर्दिर्निद्रा कासः सपीनसः| उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्||२२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफजानां मेहानामविपाकादय उपद्रवाः प्रजायन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana पित्तजानां उपद्रवाः (२३) · Śloka २३

बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः| दाहस्तृष्णाऽम्लको मूर्च्छा विड्भेदः पित्तजन्मनाम्||२३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तजन्मनां बस्त्यादितोदादयो जायन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana वातजानां उपद्रवाः (२४) · Śloka २४

वातिकानामुदावर्तकम्पहृद्ग्रहलोलताः| शूलमुन्निद्रता शोषः कासः श्वासश्च जायते||२४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातिकानामुदावर्तादयः स्युः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana उपेक्षया दश पिटिकाः (२५-२६) · Śloka २६

प्रमेहिणां च पिटिकाः शराविकाद्याः प्रायेण भवन्ति, इति ता एवाह - - - - शराविका कच्छपिका जालिनी विनताऽलजी| मसूरिका सर्षपिका पुत्रिणी सविदारिका||२५|| विद्रधिश्चेति पिटिकाः प्रमेहोपेक्षया दश| सन्धिमर्मसु जायन्ते मांसलेषु च धामसु||२६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शराविकादयो दश पिटिकाः प्रमेहाणामुपेक्षया जायन्ते| सन्धिमर्मसु मांसलेषु च-बहुमांसेषु स्थानेषु|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana शराविकाया लक्षणम् (२७) · Śloka २७

अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुजान्विता| शरावमानसंस्थाना पिटिका स्याच्छराविका||२७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शराविकासंज्ञा पिटिकाऽन्तोन्नतत्वादिगुणयुक्ता भवति| तथा शरावस्येव मानं-प्रमाणं, संस्थानं-आकारश्च, यस्याः सैवम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana कच्छपिकायाः लक्षणम् (२८) · Śloka २८

अवगाढार्तिनिस्तोदा महावस्तुपरिग्रहा| श्लक्ष्णा कच्छपपृष्ठाभा पिटिका कच्छपी मता||२८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अर्तिः-पीडा| निस्तेदो-विच्छिन्नं व्यथनम्| अवगाढावर्तिनिस्तोदौ यस्याः सैवम्| तथा, महान् वस्तुपरिग्रहः-शरीरावयवविशेष आश्रयो, यस्याः सैवम्| तथा, श्लक्ष्णा कच्छपपृष्ठतुल्या च कच्छपीसंज्ञा पिटिका मता| तन्त्रकृतामिति शेषः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana जालिन्याः लक्षणम् (२९) · Śloka २९

स्तब्धा सिराजालवती स्निग्धस्रावा महाशया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी||२९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्तब्धादिगुणयुक्ता जालिनीसंज्ञा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana विनतायाः लक्षणम् (३०) · Śloka ३०

अवगाढरुजाक्लेदा पृष्ठे वा जठरेऽपि वा| महती पिटिका नीला विनता विनता स्मृता||३०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अवगाढरुजादियुक्ता पिटिका महति तथा नीला-नीलवर्णा, विनता च| सा च विनतासंज्ञा पृष्ठे जठरे वा स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अलज्याः लक्षणम् (३१) · Śloka ३१

दहति त्वचमुत्थाने भृशं कष्टा विसर्पिणी| रक्तकृष्णाऽतितृट्स्फोटदाहमोहज्वराऽलजी||३१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अलजीसंज्ञा उत्थाने सति त्वचं दहति| अतिदुःसहा विसर्पणशीला तथा रक्तकृष्णाऽतितृडादियुक्ता च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana मसूरिकायाः लक्षणम् (३२) · Śloka ३२

मानसंस्थानयोस्तुल्या मसूरेण मसूरिका| |३२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मसूरिकासंज्ञा मसूरेण प्रमाणाकृतिभ्यां तुल्या|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana सर्षपिकायाः लक्षणम् (३२-३३) · Śloka ३३

| सर्षपामानसंस्थाना क्षिप्रपाका महारुजा||३२|| सर्षपी सर्षपातुल्यपिटिकापरिवारिता| |३३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्षपीसंज्ञा सर्षपतुल्यप्रमाणाकारा तथा शीघ्रपाका महारुजा च| तथा सर्षपसदृशीभिः पिटिकाभिः परिवारिता च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana पुत्रिण्याः लक्षणम् (३३) · Śloka ३३

| पुत्रिणी महती भूरिसुसूक्ष्मपिटिकाचिता||३३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पुत्रिणीसंज्ञा प्रमाणेनापरपिटिकापेक्षया महती| तथा भूरिभिः सुसूक्ष्माभिः पिटिकाभिराचिता च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana विदारिकायाः लक्षणम् (३४) · Śloka ३४

विदारीकन्दवद्वृत्ता कठिना च विदारिका| |३४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विदारिकासंज्ञा श्रृगालिकाकन्द इव वर्तुला कठिना च स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana विद्रधेः लक्षणम् (३४) · Śloka ३४

| विद्रधिर्वक्ष्यतेऽन्यत्र|३४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विद्रधिरन्यत्रेत्यतोऽध्यायादन्यस्मिन्ननन्तराध्याये वक्ष्यते-भणिष्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana पिटिकानां साध्यासाध्यत्वम् (३४-३५) · Śloka ३५

| तत्राद्यं पिटिकात्रयम्||३४|| पुत्रिणी च विदारी च दुःसहा बहुमेदसः| सह्याः पित्तोल्बणास्त्वन्याः सम्भवन्त्यल्पमेदसः||३५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तासु पिटिकासु मध्ये, आद्यं-शराविकाकच्छपिकाजालिनीत्येतत, पिटिकात्रयं तथा पुत्रिणी विदारिका चेति पञ्च दुःसहाः, कृच्छ्रसाध्यत्वात्| यतो बहुमेदस एताः सम्भवन्ति|स०-अन्याः-एताभ्योऽपरास्तु, पित्तोल्बणाश्चतस्रः (श्च ताः) सह्याः-सोढुं शक्याः, सुखसाध्यत्वात्| ताश्चाल्पमेदसः सम्भवन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहेण विनाऽप्येतासामुत्पत्तिः (३६) · Śloka ३६

तासु मेहवशाच्च स्याद्दोषोद्रेको यथायथम्| |३६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तासु-पिटिकासु, मेहानुरोधाद्दोषोद्रेको यथायथं-यथास्वं स्यात्| वातमेहजासु वाताधिक्यं पित्तमेहजासु पित्ताधिक्यं कफमेहजासु कफाधिक्यम्| उद्रेकशब्देनैतद्ऽऽद्योतयति,-त्रिदोषजाः सर्वा एवैता इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहरक्तपित्तयोर्भेदकलक्षणम् (३६) · Śloka ३६

प्रमेहेण विनाऽप्येता जायन्ते दुष्टमेदसः| तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः||३६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एताः-पूर्वोक्ताः पिटिकाः, प्रमेहेण विनाऽपि-अप्रमेहिणोऽपि पुंसो, दुष्टमेदसो जायन्ते| जाता अपि तास्तथाविधस्य नरस्य तावन्न लक्ष्यन्ते-यथायथं लक्षणं नोत्पद्यते, यावत्-यथास्वं, पृष्ठोदरादि वस्त्वासामाधारत्वेन तन्त्रकृता यत्परिभाषितं तन्न परिगृहीतम्| एवं चिरेण कालेनोत्पन्ना अपि ज्ञायन्त इत्यर्थः |

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहाणां पूर्वरूपम् (३७-३९) · Śloka ३९

हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम्| यो मूत्रयेन्न तं मेहं रक्तपित्तं तु तद्विदुः||३७|| स्वेदोऽङ्गगन्धः शिथिलत्वमङ्गे शय्यासनस्वप्नसुखाभिषङ्गः| हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः||३८|| शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः| भविष्यतो मेहगणस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च||३९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मेहस्य यत् प्राग्रूपं तेन वर्जितं हारिद्रवर्णं रक्तं वा यो मूत्रयेत् तं मेहं न विदुः, किन्तर्हि ? तत् रक्तपित्तमित्याहुः| स०-एतद्भविष्यतो-भाविनो, मेहगणस्य-विंशतिसङ्ख्यस्य, स्वेद इत्यादि रूपम्| न केवलमेतत् प्राग्रूपं यावत्पिपीलिका मूत्रेऽभिधावन्ति| मधुररसप्रियत्वात्तेषां| मुनिस्त्वत्र नखवृद्धिं न जगाद (?)|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहे द्विविधो विचारः (४०) · Śloka ४०

दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः| सम्पूरणाद्वा कफसम्भवः स्यात् क्षीणेषु दोषेष्वनिलात्मको वा||४०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मधूपमं-माक्षिकतुल्यं, मधुरं तथा सह पिच्छया-शाल्मलीनिर्यासतुल्यया, वर्तत इति सपिच्छम्| एवंविधं प्रमेहं दृष्ट्वा तदानीं द्विविधो विचारः स्यात्| सम्पूरणात्कारणात् किमयं कफसम्भवो मेहोऽपतर्पणसाध्यः ? उत क्षीणेषु दोषेषु-कफादिदोषक्षयात्, सन्तर्पणसाध्योऽनिलात्मकः स्यात् ? इति सन्देहो मन्दबुद्धेः| तीक्ष्णमतिस्तु कफमेहान् वातमेहांश्च लिङ्गान्तरैः सम्यग्वेत्त्येव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana प्रमेहाणां साध्यासाध्यत्वम् (१०) · Śloka १०

अधुना यदुक्तं साध्ययाप्यपरित्याज्याः कफादिसम्भवा इत्यस्यापवादमाह - - - - सपूर्वरूपाः कफपित्तेमेहाः क्रमेण ये वातकृताश्च मेहाः| साध्या न ते, पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि नातिदुष्टम्||४१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने प्रमेहनिदानं नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सह पूर्वरूपैः-"स्वेदोऽङ्गगन्धः" (श्लो. ३८) इत्यादिभिर्वर्तन्तेऽनवरतं कृत्वाऽनुबध्यन्ते ये ते सपूर्वरूपा असाध्याः| सर्वेषां पूर्वरूपाव्यभिचारेऽपि विशेषणं साकल्यप्रापणार्थम्| सर्वैः पूर्वरूपैः सह ये वर्तन्ते ते कफमेहाः पित्तमेहाश्चासाध्याः, साधयितुमशक्यत्वात्| उपलक्षणं चेदम्,-अपरेऽपि हि रोगाः सपूर्वरूपाः प्रायेणासाध्या एव| तथा क्रमेण कफानुपूर्व्या ये वातकृता मेहास्तेऽसाध्याः| ननु, वातकृता मेहा असाध्या इति प्रागुक्तमेव, तत्किमनेन ग्रन्थेन ? इति| ब्रूमः| अक्रमेण प्रथममेव ये वातोत्पन्नास्ते त्याज्या इति पूर्वमुक्तम्| इह तु क्रमेण प्रथमं कफप्रमेहास्ततः पित्तप्रमेहास्ततः कालेन त एव ये वातप्रमेहाः सम्पन्नास्ते पूर्वं कफप्रमेहत्वात्साधयितुमपि शक्यन्त इत्याशङ्कायां क्रमेण ये वातकृतास्तेऽसाध्या इत्युक्तम्| पित्तकृतास्त्वसपूर्वरूपा अपि याप्या असमक्रियत्वादिति प्राङ्निर्दिष्टम्| तेषां यदि मेदो नातिदुष्टं भवेत्तदा तेऽपि याप्याः सन्तः साध्या भवन्ति| मेदो नातिदुष्टमित्यनेनैतज्ज्ञापयति,-सर्वमेहेषु मेदोदुष्टिरवश्यंभाविनीति| मेहिनो राजयक्ष्मिणश्च केशनखातिवृद्धिः किट्टबाहुल्याद्भवति, रोगस्वभावादित्यन्ये| वृत्तान्युपजातिसंज्ञानि| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने प्रमेहनिदानं नाम दशमोऽध्यायः समाप्तः|| १०||

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००