Adhikarana अध्यायोपक्रमः · Śloka
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
राजयक्ष्मनिदानादनन्तरं मदात्ययनिदानारम्भः| यतो यथा राजयक्ष्मा दोषत्रयजस्तथा मदात्ययोऽपि| वक्ष्यति हि तत्र (श्लो. १४) - "सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा|" इति|
Adhikarana मदात्ययादिनिदानाध्यायः (२) · Śloka २
तस्मान्मदात्ययनिदानमुच्यत इत्याह - - - - अथातो मदात्ययादिनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्ववद्व्याख्या|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मद्यस्य गुणाः (१) · Śloka १
तीक्ष्णोष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु|
विकाषि विशदं मद्यमोजसोऽस्माद्विपर्ययः||१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तीक्ष्णोष्णादिगुणं मद्यम्| अस्मात्-मद्यात्, ओजसो विपर्ययो-वैपरीत्यम्, यथा-मन्दशीतस्निग्धसान्द्रमधुरस्थिरचिरकृद्गुरुश्लक्ष्णपिच्छिलत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मद्यगुण एवोत्कर्षतो विषेऽपि (२) · Śloka २
तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः|
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः||२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एत एव तीक्ष्णादयो दश गुणा विषेऽप्युक्ताः| चित्तमुपप्लावितुं शीलं येषां ते चित्तोपप्लाविनः,-चित्तविभ्रमकारिणः| न केवलं मद्य इत्यपिशब्दार्थः| ननु, यदि त एव तीक्ष्णादयो गुणा विषे, त एव मद्ये, तत्कथं विषस्था एव तीक्ष्णादयो मारयन्ति न मद्यस्थाः ? इत्यत्र युक्तिमाह-जीवितान्तायेत्यादि| विषस्थास्तीक्ष्णादयो ये गुणास्ते मारणाय सम्पद्यते, उत्कर्षवृत्तितः-उत्कर्षवर्तनात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana प्रथममदस्य लक्षणम् (३-४) · Śloka ४
कथं कृत्वा मद्यं चेतो विकारं नयति ? इत्याह - - - - तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्|
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्||३||
आद्ये मदे|
|४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तीक्ष्णादिभिर्दशभिर्गुणैर्मन्दादीनोजसः सम्बन्धिनो गुणान् सङ्क्षोभ्य-समन्ताद्दुष्टतामापाद्य, चेतो विक्रियां-विकारं नयति, आद्ये मदे| ननु, तीक्ष्णादिभिर्मन्दादीनित्येतावदेवास्तु, किं दशभिर्दशेत्यनेन? पाठादेव हि दशसङ्ख्याऽवगमिष्यते| अस्त्येतत्| किन्तु सर्वैरेव तीक्ष्णादिभिः सर्वानपि मन्दादीन् सङ्क्षोभ्य चेतो विक्रियां मद्यं नयति, न तु कियद्भिरपि तीक्ष्णादिभिः कियत एव मन्दादीन्, इति प्रतिपादनाय सङ्ख्याग्रहणम्| उत्कर्षतारतम्यतस्त्वस्त्येव विशेषः, तेन सर्वत्र मदेनैव तुल्यः क्षोभ इति वेद्यम्| आद्ये च मदे यथास्वं प्रबोधजनके पुमान् स्थितो मद्यपानात्तादात्विकं सुखं समधिगच्छतीत्यनुक्तमपि सम्भाव्यते| तथा च मुनिः (च. चि. अ. २४|६४)- "पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे| यूनां वा स्थविराणां वा तस्या नास्त्युपमा भुवि||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana द्वितीयमदस्य लक्षणम् (४) · Śloka ४
द्वितीये तु प्रमादायतने स्थितः|
दुर्विकल्पहतो मूढः सुखमित्यधिमुच्यते||४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनन्तरं द्वितीये तु मदे स्थितः-प्राप्तः, स्वार्थैर्दुष्टैस्तैस्तैर्विकल्पैर्हतः-पुरुषार्थाद्विनष्टः, अत एव मूढः-कार्याकार्यानभिज्ञः, सुखमित्यधिमुच्यते-सुखमिति ज्ञानेन प्रथममदोत्पन्नेन तदानीमधिमुच्यते-अधिकं कृत्वा तेन सुखेन परित्यज्यते| तादात्विकमाद्यं सुखं नानुभवति, ओजसो विहतत्वात्| अन्ये त्वाहुः,-अवमुच्यते-निश्चिनोति सुखमेतदित्यभिनिविशते| किम्भूते मदे स्थितः ? प्रमादायतने, प्रमादानां-साहसानामिहामुत्र चाशुभहेतूनां, [ आयतने- ] स्थाने|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana द्वितीयतृतीयसन्धिस्थितस्य लक्षणम् (५) · Śloka ५
मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः|
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः||५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मध्यमोत्तमयोः-द्वितीयतृतीययोः, सन्धिं प्राप्य-अन्तरं लब्ध्वा, पुरुषो राजसतामसो न किञ्चिदशुभं नाचरेत्-अपि तु सर्वमशुभमाचरेत्| राजससहितस्तामसो राजसतामसः| शाकपार्थिवादित्वात् मध्यम (उत्तर) पदलोपी समासः, राजसो वा तामसो वेत्यर्थः| राजसतामसग्रहणात् सात्विकः पुरुषो नेदृशीमवस्थां प्राप्नोतीति गमयति| निरङ्कुश इव व्यालः| यथा,-व्यालो-दुष्टहस्ती, जडो-बधिरः, तथा निरङ्कुशो, न किञ्चिदशुभं नाचरेत्, उन्मार्गप्रवृत्तत्वात्| तन्त्रान्तरे चैवमुक्तम्-"सात्विके शौचदाक्षिण्यहर्षमण्डनलालसः| गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः|| राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्| कलहं सानुबन्धं च करोति पुरुषे मदः|| अशौचनिद्रामात्सर्यागम्यागमनलोलताः| असत्यभाषणं चापि कुर्याद्वै तामसे मदः||" इति| व्यालग्रहणाद्यः शुद्धस्वभावो हस्ती स सृणिरहितोऽपि कदाचिद्धस्त्यारोहशब्दश्रवणात् कालोचितं सङ्केतमुपलभ्य युक्तमाचरत्येवेति, अतो व्यालो निरङ्कुश इति द्वितयमुपन्यस्तम्| तेजसः किञ्चिच्छेषत्वात् निन्द्यामिमामवस्थां प्राप्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana तृतीयमदस्य लक्षणम् (६-७) · Śloka ७
अत एवाह - - - - इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदम्|
एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम्||६||
निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः|
मरणादपि पापात्मा गतः पापतरां दशाम्||७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अवद्यानां-निन्द्यानां, इयं-मदावस्था, भूमिः-आकरः| तथा, दौःशील्यस्य-असमाहितत्वस्य, इदं-मदावस्थान्तरं, आस्पदं-आवसथः| एकोऽयं-मदविशेषो, बहुमार्गायाः-अनेकमुखाया दुर्गतेः, परं कृत्वा देशिकः-आचार्यः| स०-तृतीये-उत्तमे मदे, स्थितो नरस्तेजसो विहतत्वात् निश्चेष्टः-चेष्टया कायवाङ्मनोलक्षणया रहितः, अत एव शववच्छेते-मृतानुकल्पः स्वपिति| एवं च सत्यसौ पापात्मा मरणादपि पापतरामवस्थां प्राप्तः| यतो मृतो मरणात्समनन्तरमेव शरीरान्तरं प्राप्य सुखादीन् विन्दते| तृतीयां मदावस्थां प्राप्तस्तु पुरुषोऽपरशरीराप्राप्तेर्न कथाञ्चित् सुखाद्यनुभवतीति मरणादप्यस्य निकृष्टत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मद्यशीलननिषेधः (८) · Śloka ८
धर्माधर्मं सुखं दुःखमर्थानर्थं हिताहितम्|
यदासक्तो न जानाति कथं तच्छीलयेद्बुधः||८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्मिन्नासक्तो-यदासक्तो, धर्मादीन् न जानाति| तत्-तथाविधं मद्यं, बुधो-मतिमान्, कथं शीलयेत्-अभ्यसेत्| तत्र धर्मो-दानाध्ययनदेवगुरुपूजादिकः| अधर्मो-हिंसादिः| सुखं-आह्लादकोऽनुभवः| दुःखं-उपतापः| अर्थः-उभयलोकहितम्| अनर्थः-अहितम्| शीलयेदित्यनेन तत्रासक्तिं निषेधति, न तु मद्यपानमपि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मद्येऽतिपीते मोहादयः (९-१०) · Śloka १०
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः|
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः||९||
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्|
|१०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मद्येऽतिपीते मोहादयः संश्रिताः-आश्रिताः, मद्यातिपानादनन्तरं मोहादीनां सद्भावात्| अथवा किमत्र बहुनाऽभिहितेन| यत्र-यस्मिन् मद्ये, स्मृतेर्विभ्रंशो-लोपः, तत्र यत्किञ्चिद्विद्यते तत्सर्वमसाधु-अशोभनम्| यत्रौजसौ न विहतिर्हृत्प्रबोधश्च स प्रथमो मदः| यत्राल्पा विहतिरोजसः स मध्यमः| यत्र सर्वस्यौजसौ विहतिः स उत्तमः| तथा च मुनिः (च. चि. अ. २४|३५) - "ओजस्यविहते पूर्वो हृदि च प्रतिबोधिते| मध्यमो विहतेऽल्पे तु विहते तूत्तमो मदः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अयुक्तियुक्तमद्यस्य त्रिवर्गादिनाशकत्वम् (१०-११) · Śloka ११
|
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा||१०||
मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्|
|११|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्मादयुक्त्या योजितमन्नमपि-यत्प्राणकरं तदपि, कर्मवशाद्व्याधये मरणाय वा सम्पद्यते| मद्यं त्वयुक्तियोजितं त्रिवर्गादेरपि नाशनम्| युक्तिपीतं पुनस्तदेव त्रिवर्गादीनां साधनमित्यपिशब्देन द्योतयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मद्यपानस्य विषयः (११-१२) · Śloka १२
तामेव युक्तिं वक्ष्यमाणेन ग्रन्थेन प्रतिपादयन्नाह - - - - |
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः||११||
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः|
मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः||१२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यत एवंविधा नरा नातिमाद्यन्ति, ततो बलवद्भिः पुरुषैः कृताहारैर्महाशनैः स्निग्धैः सत्वयुक्तैर्वयोयुक्तर्मद्योचितैस्तदन्वयैः-मद्यपकुलप्रसूतैः, मेदोधिकैः कफाधिकैः स्वल्पवातपित्तैर्दृढाग्निभिः-अपकारसहिष्ण्वग्निभिः, मद्यं पेयम्, नातो विपर्यस्तैः, इत्यन्यतन्त्रकारकथिताया युक्तेरत्रैवान्तर्भावोऽनेन तन्त्रकृता कृतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मद्यपानस्याविषयः (१३-१७) · Śloka १७
विपर्ययेऽतिमाद्यन्ति विश्रब्धाः कुपिताश्च ये|
मद्येन चाम्लरूक्षेण साजीर्णे बहुनाऽति च||१३||
वातात्पित्तात्कफात्सर्वैश्चत्वारः स्युर्मदात्ययाः|
सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा||१४||
सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा|
विड्भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरोऽरुचिः||१५||
शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः|
उरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः||१६||
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः|
प्रलापश्चर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम्||१७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथानिर्दिष्टाद्वैपरित्येन, यथा-अबलिनो यावददृढाग्नय इति| तथा, विश्रब्धाः-अमृतमिवेदं स्पृहणीयं सुरेभ्यः पेपीयतेऽस्माभिरिति तद्गतमनसो विश्वस्ताः, तथा कुपिताः-क्रुद्धाः, ये तेऽतिमाद्यन्ति| मद्येनेत्यादि| अम्लरूक्षेण च मद्येन पीतेन सर्व एवातिमाद्यन्ति| अत्र चात्यम्लेनेति वेद्यम्, मद्यस्य सर्वस्यैवाम्लप्रायत्वात्| रूक्षेण-न त्वीषत्स्निग्धेन| तथा, साजीर्णे-सशब्द ईषदर्थे ईषदजीर्णे, तस्मिन्नेव मद्ये पीतेऽतिमाद्यन्ति| तथा, अतिबहुना पीतेन मद्येनातिमाद्यन्ति| स०-वातादिभिः पृथक्ऽऽस्थितैर्दोषैः सन्निपातेन चेति चत्वारो मदात्यया वस्तुस्वभावाज्जायन्ते, नोनाधिकाः| सर्वेऽपि मदात्ययाः सर्वैरपि दोषैर्जायन्ते| भूयसा-बाहुल्येन तु, व्यपदेशः-संज्ञा भवति, अयं वातमदात्ययो यावत् सन्निपातमदात्ययोऽयमिति| स०-तेषां-मदात्ययानां, सामान्यं लक्षणं-अविभागेन [चिह्नम्], प्रमोहादिदुःस्वप्नदर्शनपर्यन्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana वातजस्य लक्षणम् (१८) · Śloka १८
विशेषाज्जागरश्वासकम्पमूर्धरुजोऽनिलात्|
स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते||१८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातेन मदात्यये जागरादिकं प्रेतैः सह भाषत इति पर्यन्तं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana पित्तजस्य लक्षणम् (१९) · Śloka १९
पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः|
देहो हरितहारिद्रो रक्तनेत्रकपोलता||१९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेन मदात्यये दाहादिकं रक्तनेत्रकपोलतापर्यन्तं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana कफजस्य लक्षणम् (२०) · Śloka २०
श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरवम्|
||२०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मणा मदात्यये छर्द्यादिकमङ्गगौरवपर्यन्तं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana त्रिदोषजस्य लक्षणम् (१) · Śloka १
|
सर्वजे सर्वलिङ्गत्वम्||१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वजे मदात्यये सर्वलिङ्गत्वं भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ध्वंसकविक्षययोर्निदानम् (२०-२१) · Śloka २१
सम्प्रति ध्वंसकविक्षयौ लक्षयति - - - - |
मुक्त्वा मद्यं पिबेत्तु यः||२०||
सहसाऽनुचितं वाऽन्यत्तस्य ध्वंसकविक्षयौ|
भवेतां मारुतात्कष्टौ दुर्बलस्य विशेषतः||२१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उचितं मद्यं मुक्त्वा-चिरं कालं परित्यज्य, यः पुरुषस्तदेव सहसा-अतिमात्रया पिबेत्, अथवाऽन्यद्यन्मद्यं यदनुचितं-असात्म्यं मद्यं, तत्सहसा-अतिमात्रं पिबेत्, तस्य-पुरुषस्य, ध्वंसकविक्षयौ व्याधी मारुताद्भवेतां-जायेयाताम्| किम्भूतौ ? कष्टौ,-कृच्छ्रसाध्यौ| दुर्बलस्य पुनः पुंसस्तौ विशेषेण भवेताम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ध्वंसकस्य लक्षणम् (२२) · Śloka २२
ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्रता|
शब्दासहत्वं तन्द्रा च|२२|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ध्वंसके श्लेष्मनिष्ठीवादयः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana विक्षयस्य लक्षणम् (२२-२३) · Śloka २३
|
विक्षयेऽङ्गशिरोतिरुक्||२२||
हृत्कण्ठरोगः सम्मोहः कासस्तृष्णा वमिर्ज्वरः|
|२३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विक्षये अङ्गशिरोतिरुगाद्याः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana निवृत्तमद्यस्य फलम् (२३-१) · Śloka १
|
निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्||२३||
विकारैः स्पृश्यते जातु न स शारीरमानसैः|
|२४|
इति मदात्ययनिदानम्||१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शारीरमानसानां रोगाणां मद्यं कारणमिति कृत्वा यः पुमान् जितात्मा मद्येभ्यो निवृत्तो बुद्धिपूर्वकृत्-विमृश्यकारी, स कदाचिच्छारीरैर्मानसैर्वा विकारैर्न स्पृश्यते-नाक्रम्यते| इति मदात्ययः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana मदमूर्च्छायसन्न्यासानां हेतुत्रयमधिष्टानत्रयं बलोत्तरत्वं च (२४-२५) · Śloka २५
अथ मद्यवच्चेतोविहतिकारणसामान्यान्मदादीन् लक्षयति - - - - |
रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः||२४||
रसासृक्ऽऽचेतनावाहिस्रोतोरोधसमुद्भवाः|
मदमूर्च्छायसन्न्यासा यथोत्तरबलोत्तराः||२५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रजःप्रधानस्य मोहप्रधानस्य तथाऽपथ्याहारपरस्य त्रयो गदाः स्युः-जायेरन्| किम्भूताः ? रसश्चासृक् च चेतना च, ता वहन्ति यानि स्रोतांसि, तेषां रोधः समुद्भवो-हेतुः, येषां ते रसासृक्ऽऽचेतनावाहिस्रोतोरोधसमुद्भवाः| मदमूर्छायसन्न्यासाः-एतत्संज्ञाः| ते च यथोत्तरबलोत्तराः| यो य उत्तरो यथोत्तरम्, बलस्योत्तरं-उत्कर्षः, यथोत्तरं बलोत्तरं येषां त एवम्| मदान्मूर्छायो बलवान् तस्मादपि सन्न्यास इत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रजःपरः-दुर्लभं लिप्सुः| मोहपरोदुर्बोधबुभुत्सु| रसरक्तप्राणवाहिनां त्रयाणामन्तःस्त्रोतसां रोधः-असम्यग्वहनम्| हेतुत्रयेऽधिष्ठानत्रयेऽपि यथोत्तराधिक्यं ज्ञेयम्, बलाद्जिक्यान्यथाऽनुपपत्तेः|
Adhikarana मदः सप्तविधः (२६) · Śloka २६
अथ मदं लक्षयति - - - - अथ मदनिदानम्|
मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि|
|२६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्र-एषु मदादिषु मध्ये, मदः सप्तधा,-पृथग्दोषैः सन्निपातेन रक्तेन मद्येन विषेण च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मदस्य भेदानाह-मदोऽत्रेति| दोषैस्त्रयो भेदाः|
Adhikarana वातजस्य लक्षणम् (२६-२७) · Śloka २७
|
सक्तानल्पद्रुताभाषश्चलः स्खलितचेष्टितः||२६||
रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्|
|२७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातोद्भवे मदे सति पुमान् सक्तानल्पद्रुताभाषणादिलक्षणो भवेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वातजलक्षणमाह-सक्तानल्पेति| चलं-सकम्पम्|स्खलितं-सप्रतिबन्धम्|
Adhikarana पित्तजस्य लक्षणम् (२७) · Śloka २७
|
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः||२७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेन क्रोधनादिलक्षणः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पित्तेन क्रोधनादिलक्षणः|
Adhikarana कफजस्य लक्षणम् (२९) · Śloka २९
स्वल्पसम्बद्धवाक्पाण्डुः कफाद्ध्यानपरोऽलसः|
||२९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफात् स्वल्पसम्बद्धवागादिलक्षणः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कफजलक्षणमाह-स्वल्पसम्बद्धवागिति|
Adhikarana सन्निपातजस्य लक्षणम् (२८) · Śloka २८
|
सर्वात्मा सन्निपातेन|२८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वात्मा-सर्वदोषलक्षणः, सन्निपातेन|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सर्वजलक्षणमाह-सर्वात्मेति|
Adhikarana रक्तजस्य लक्षणम् (२८-२९) · Śloka २९
|
रक्तात्स्तब्धाङ्गदृष्टिता||२८||
पित्तलिङ्गं च|
|२९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तात्-रक्तमदात्, स्तब्धदृष्टिता तथा पित्तमदलिङ्गं च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रक्तजलक्षणमाह-रक्तादिति|
Adhikarana मद्यजस्य लक्षणम् (२९) · Śloka २९
मद्येन विकृतेहास्वराङ्गता|
|२९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मद्येन मदे विकृता चेष्टा तथा स्वरस्य विकृतत्वमङ्गस्य च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मद्यजलक्षणमाह-मद्येनेति|
Adhikarana विषजस्य लक्षणम् (२९) · Śloka २९
|
विषे कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकस्तु सः||२९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विषे-विषोत्थे मदे, कम्पोऽतिनिद्रा च स्यात्| स च-विषमदः, सर्वेभ्योऽधिकः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विषजलक्षणमाह-विषे कम्प इति|
Adhikarana रक्तजादिषु दोषानुबन्धः (३०-२) · Śloka २
लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु|
|३०|
इति मदनिदानम्||२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शोणिताद्युत्थेषु मदेषु वातादीन् लक्षयेत्-जानीयात्| कुतः ? लक्षणोत्कर्षात्-स्वस्वलक्षणोत्कर्षेण|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अदोशजेष्वपि दोषानुबन्धमाह-लक्शयेदिति| नात्र यथासङ्ख्यम्| किन्तु यथासम्भवम्|
Adhikarana मूर्छायश्चतुर्विधः, वातजस्य लक्षणम् (३०-३१) · Śloka ३१
अथ मूर्च्छायं लक्षयति - - - - अथ मूर्च्छायनिदानम्|
|
अरुणं कृष्णनीलं वा खं पश्यन्प्रविशेत्तमः||३०||
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः|
कार्श्यं श्यावारुणा छाया मूर्छाये मारुतात्मके||३१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मारुतोद्भवे मूर्छाये अरुणाद्यन्यतमवर्णमाकाशं पश्यन् पुमांस्तमः प्रविशेत्-मूढावस्थां प्राप्नोति| शीघ्रं च प्रतिबुध्येत-संज्ञां लभेत्| हृत्पीडावेपथुभ्रमयुतस्तथा कार्श्यादि च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मूर्च्छायस्य तु दोषजा एव चत्वारो भेदाः तत्र वातजलक्षणमाह-अरुणमिति| तमः प्रविषेत्-अज्ञानव्यात्पो भवेत्| प्रतिबुध्येत-तमसो निर्गच्छेत्|
Adhikarana पित्तजस्य लक्षणम् (३२-३३) · Śloka ३३
पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः|
विबुध्येत च सस्वेदो दाहतृट्तापपीडितः||३२||
भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः|
|३३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेन मूर्छाये रक्तं पीतं वा नभः पश्यंस्तमः पुमान् विशेत्-मूढावस्थां प्राप्नुयात्| सह स्वदेन विबुध्येत-संज्ञां लभते| तथा दाहादिपीडितस्तथा भिन्नविडादिकः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पित्तजलक्षणमाह-पित्तेनेति| दाहः-अग्निनेव दुःखम्| तापः-सुर्येणेव|
Adhikarana कफजस्य लक्षणम् (३३-३४) · Śloka ३४
|
कफेन मेग़संकाशं पश्यन्नाकाशमाविशेत्||३३||
तमश्चिराच्च बुध्येत सहृल्लासः प्रसेकवान्|
गुरुभिः स्तिमितैरङ्गैरार्द्रचर्मावनद्धवत्||३४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफेन मूर्च्छाये मेघाभमाकाशं पश्यंस्तम आविशेत्, चिरेण च बुध्येत-संज्ञा लभते| हृल्लासादिमान्, तथाऽऽद्रेण चर्मणाऽवनद्धो-वेष्टित इव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कफजलक्षणमाह-कफेनेति| स्तिमितैः-आर्द्रैः| आर्द्रचर्मावनद्धवत्-[अ]यथाबुद्धिं जनयद्भिः|
Adhikarana त्रिदोषजस्य लक्षणम् (३५-३६) · Śloka ३६
सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः|
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः||३५||
इति मूर्च्छायनिदानम्|३६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिभिर्दोषैर्यो मूर्च्छायः सर्वाकारः सोऽपरोऽपस्मार इवाशु-शीघ्रमेव, पुरुषं निश्चेष्टं पातयति| विना बीभत्सचेष्टितैः-अपस्मारोत्थानि निन्द्यानि चेष्टितानि वर्जयित्वा, अन्यत्सर्वं समानम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सर्वजलक्षणमाह-सर्वाकृतिरिति| रुग्विनिश्चये (मा. नि. मूर्च्छा. श्लो. १) - " क्षीणस्य बहुदोषस विरुद्धाहारसेविनः| वेगाघातादभिघाताद्धीनसत्वस्य वा पुनः|| करणायतनेषूग्रा बाह्येष्वाभ्यान्तरेषु च| निविषन्ते यदा दोषास्तदा मूर्च्छान्तु मानवाः|| द्रवस्वभाव इत्येके द्दष्टा यदाभिमुह्यति| गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः|| त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथोरितोउ| स्तब्धाङ्गद्दष्टिस्त्वसृजा गूढोश्वासश्च मूर्च्छितः|| मद्येन विलपंच्छेते नष्टविभ्रान्तमानसः| गात्राणि विक्षिपन्भूमौ जरां यावन्न तत्|| वेपथुस्वन्पतृष्णाः स्युस्तमश्च विषमूर्च्छिते| वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः|| मूर्च्छा पित्ततमःप्राया रजः पित्तानिलाद्भ्रमः| तमोवातकफातन्द्रा निद्रा श्लेष्मतमोभवा|| योऽनायासः श्रमो देहे प्रभूतश्वासवर्जितः| क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः|| हृत्पीडा जृम्भणं ग्लानिः संज्ञादोउर्बल्यमेव च| मूर्च्छानां पुर्वरूपाणि यथास्वं च विभावयेत्|| पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः| तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः||" इति|
Adhikarana मदमूर्छाययोरौषधं विना निवृत्तिः,सन्यासस्यौषधैकनिवर्त्यत्वम् (३६) · Śloka ३६
इदानीं सन्न्यासं लक्षयितुमाह - - - - अथ सन्न्यासनिदानम्|
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्|
स्वयमेवोपशाम्यन्ति, सन्न्यासो नौषधैर्विना||३६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मदाश्च मूर्च्छायाश्च मदमूर्च्छायाः, कृतवेगेषु दोषेषु सत्सु स्वयमेव-औषधं विनाऽपि, शाम्यन्ति| सन्न्यासः पुनरौषधैर्विना न शान्तिमेति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मदमूर्च्छयोरओउषधाभेदान्मदभेदा अपि मूर्च्छाभेदत्वेनोक्ताः| मदादीनामोउषधं विना निवृत्तिमाह-दोषोष्विति| सन्न्यासस्यौषधैकनिवर्त्यत्वमाह-सन्यास इति|
Adhikarana संन्यासस्य संप्राप्तिः संन्यासस्य लक्षणम् (३७-३८) · Śloka ३८
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः|
सन्न्यासं सन्निपतिताः प्राणायतनसंश्रयाः||३७||
कुर्वन्ति, तेन पुरुषः काष्ठीभूतो मृतोपमः|
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते||३८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वाक् च देहश्च मनश्च, तेषां चेष्टां-यथास्वलक्षणां, आक्षिप्य मलाः-वातपित्तकफाः, सन्निपतिताः सन्तः-त्रय एककार्योद्यताः, सन्न्यासं कुर्वन्ति| किम्भूताः ? अतिबलास्तथा प्राणायतनसंश्रयाः,-विशेषेण हृदयाश्रयाः| तेन-सन्न्यासेन, पुरुषः काष्ठीभूतः-स्थाणुकुड्यकल्पः, तथा मृतोपमः-तत्सदृशो भूत्वा, अनन्तरं शीघ्रं म्रियेत| यदि शीघ्रं चिकित्सा न प्रयुज्यते| म्रियेत इति सम्भावनायां लिङ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सन्न्यासस्य सम्प्रात्पिमाह-वाग्देहमनसामिति| सन्न्यासलक्षणमाह-तेनेति|
Adhikarana संन्यासस्त्वरया चिकित्स्यः (३९-३) · Śloka ३
शीघ्रं चिकित्सनाज्जीवेत्, इत्यत्रैवोदाहरणार्थमाह - - - - अगाधे ग्राहबहुले सलिलौघ इवातटे|
सन्न्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्||३९||
इति सन्न्यासनिदानम्||३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अगाधे-अतलस्पर्शे, सलिलौघे, तथा ग्राहबहुले-मकरादिप्राणहरप्राणिभूयसि, तथाऽतटे-अरोधसि| तथा तस्मिन्निमज्जन्तं नरमाशु-शीघ्रं, निवर्तयेत्-तस्मादुद्धरेत्, एवं सन्न्यासेऽपि निमज्जन्तं नरमाशु निवर्तयेत्| अनेनोदाहरणेन मदा(हा)त्ययत्वमस्य व्याधेः प्रदर्शयन् स्वल्पकालहापनमप्यत्र व्याधौ न कार्यमिति द्योतयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सन्न्यासस्त्वरया चिकित्स्य इत्याह-अगाध इति| इति मदादिनिदानम्|
Adhikarana युक्तिवियुक्तस्य मद्यपानस्य फलम् (४०) · Śloka ४०
इदानीं मदात्ययनिदानत्वान्मद्यस्य मद्येनैवोपसंहारं कुर्वन्नाह - - - - मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः|
युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन||४०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-युक्तिवियुक्तेन मद्येन मदादिभिर्निजैः-सहजातैः, [अरिभिः-] शत्रुभिर्दृष्टादृष्टविनाशकारिभिः, परिष्वङ्गः-अतिसंश्लेषो, भवति| न केवलं मद्येन मदाद्यतिसङ्गः, यावद्युक्तायुक्तं समं-तुल्यं, सम्पद्यते| युक्तमनुष्ठेयम्, अयुक्तमननुष्ठेयम्, तदुभयं समं जायते, कार्याकार्यं न जानातीत्यर्थः| यतश्चैवं ततो मद्यपाने युक्तेर्गरीयस्त्वम्| युक्तिश्च प्रागेव दर्शिता| "आर्याद्वितीयदलभवलक्ष्म प्रतिनियतमवगम्य| उभयत्राप्युपगीतिं वदन्ति यत्यंशकैर्गदितैः||"
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana युक्तियुक्तस्य मद्यपानस्य फलम् (६) · Śloka ६
पुनरपि युक्तिं प्रदर्शयन्नाह - - - - बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि|
प्रविभज्य तदनुरूपं यदि पिबति ततः पिबत्यमृतम्||४१||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने मदात्ययादिनिदानं नाम षष्ठोऽध्यायः||६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलकालादीन् प्रविभज्य-बुद्ध्या विमृश्य, तदनुरूपं-तद्योग्यं, यदि पिबति ततोऽमृतं पिबति| मद्यव्याजेनामृतमास्वादयतीत्यर्थः| आर्या| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने मदात्ययादिनिदानं नाम षष्टोऽध्यायः समाप्तः|| ६||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- इति हेमाद्रिटीकायामायुर्वेदरसायने| मदात्ययनिदानं च समस्त्येन निरूपितम्||