Adhikarana अध्यायोपक्रमः · Śloka
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अस्मादनन्तरं वातरक्तचिकित्सितमारभ्यते| यतो वातशोणिताख़्यो व्याधिः प्रायो वातव्याधिरेव| शोणितयुक्तेन वायुना कृतत्वाद्बहुवक्तव्याच्च पृथगस्योपदेशः, इत्यत आह-
Adhikarana वातशोणितचिकित्सिताध्यायः वातरक्ते अल्पाल्पं रक्तहरणम् (२-१) · Śloka १
अथातो वातशोणितचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
) वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्|
अल्पाल्पं पालयन् वायुं यथादोषं यथाबलम्||१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातशोणितिनो नरस्य स्निग्धस्य सतो बहून् वारान् लोहितमल्पाल्पं हरेद्वातकोपभयात्| अत एवाह,-पालयन् वायुम्, तथा यथादोषं-दोषानतिक्रमेण, तथा बलानतिक्रमेण| यथादोषमित्युपलक्षणार्थम्, दूष्याद्यनतिक्रमेणापि रक्तं हरेत्|
Adhikarana वातरक्ते रूग्रागादियुते जलौकोभिः वातरक्ते चिमचिमादियुते शृङ्गतुम्बैः वातरक्ते देशान्तरगते प्रच्छानसिराभिः (२-३) · Śloka ३
रुग्रागतोददाहेषु जलौकोभिर्विनिर्हरेत्|
शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्दूयनान्वितम्||२||
प्रच्छानेन सिराभिर्वा देशाद्देशान्तरं व्रजत्|
|३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रुग्रागादिषु सत्सु जलौकोभी रुधिरं हरेत्| चिमिचिमाद्यन्वितं रक्तं शृङ्गतुम्बैर्हरेत्| देशाद्देशान्तरं गच्छदसृक् प्रच्छानेन सिरया वा हरेत्|
Adhikarana वातरक्ते अङ्गग्लान्यादौ रक्तस्त्रावनिषेधः वातरक्ते रक्तक्षयात् गम्भीरशोथादयः (३-४) · Śloka ४
|
अङ्गग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत्||३||
गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान्|
ग्लानिमन्यांश्च वातोत्थान् कुर्याद्वायुरसृक्षयात्||४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अङ्गग्लानौ तु सत्यां न साध्यं स्यात्| तथा रूक्षे वातोत्तरे च यद्रक्तं तदपि न स्राव्यम्| रूक्षे सति वातचिकित्सितं सेवेत| ननु, कस्माद्रक्तस्रावो न विधीयते ? इत्याह-वायुरसृक्क्षयाद्गम्भीरशोफादीन् कुर्यात्|
Adhikarana वातरक्ते विरेच्ये स्नेहविरेचनम् (५) · Śloka ५
विरेच्यः स्नेहयित्वा तु स्नेहयुक्तैर्विरेचनैः|
|५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विरेचनयोग्यः पुरुषः स्नेहयित्वा विरेचनद्रव्येः स्नेहयुतैर्विरेचनीयः|
Adhikarana वातरक्ते वाताधिके पुराणं घृतम् (५) · Śloka ५
वातोत्तरे वातरक्ते पुराणं पाययेद्घृतम्|
||५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वातोत्तरे वातरक्ते पुराणं घृतं पाययेत्|
Adhikarana वातरक्ते वाताधिके श्रावण्यादिघृतम् (६) · Śloka ६
श्रावणीक्षीरकाकोलीक्षीरिणीजीवकैः समैः|
सिद्धं सर्षभकैः सर्पिः सक्षीरं वातरक्तनुत्||६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्रावण्यादिभिः ऋषभयुक्तैः कल्कीकृतैः सिद्धं घृतं दुग्धयुक्तं वा वातशोणितहृत्|
Adhikarana वातरक्ते वाताधिके द्राक्षादिघृतम् वातरक्ते वाताधिके गुडूचीसिद्धण् क्षीरम् वातरक्ते वाताधिके तैलपयः शर्करामिशृणम् (७-८) · Śloka ८
द्राक्षामधूकवरिभ्यां सिद्धं वा ससितोपलम्|
घृतं पिबेत्तथा क्षीरं गुडूचीस्वरसे शृतम्||७||
तैलं पयः शर्करां च पाययेद्वा सुमूर्च्छितम्|
|८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्राक्षामधूकयोः क्वाथे सिद्धं वा घृतं सशर्करं पिबेत्| क्षीरं च गुडूचीस्वरसे क्वथितं पिबेत्| तैलादि वा सम्मिश्रितं पाययेत्|
Adhikarana वातरक्ते वाताधिके बलादिक्षीरम् (८-९) · Śloka ९
|
बलाशतावरीरास्नादशमूलैः सपीलुभिः||८||
श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः|
|९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलादिभिः शृतं पयो वातरुजानाशनं स्यात्|
Adhikarana वातरक्ते वाताधिके दोषनुलोमनं क्षीरम् (९) · Śloka ९
|
धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम्||९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धारोष्णं क्षीरं गोमूत्रयुक्तं वा दोषानुलोमनं स्यात्|
Adhikarana वातरक्ते पित्ताधिके शतावर्यादिक्वाथःवातरक्ते पित्तास्वदुतिक्तसिद्धं धृतं क्षीरं वा (१०) · Śloka १०
पैत्ते पक्त्वा वरीतिक्तापटोलत्रिफलामृताः|
पिबेद्धृतं वा क्षीरं वा स्वादुतिक्तकसाधितम्||१०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पैत्ते-पित्ताधिके वातशोणिते, शतावर्यादीन् पक्त्वा पिबेत्| स्वादुतिक्तद्रव्यैः साधितं घृतं क्षीरं वा पिबेत्|
Adhikarana वातरक्ते पित्ताबहुदोषे विरेकार्थ एरण्डतैलम् (११) · Śloka ११
क्षीरेणैरण्डतैलं च प्रयोगेण पिबेन्नरः|
बहुदोषो विरेकार्थे जीर्णे क्षीरौदनाशनः||११||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बहुदोषो नरो विरेकार्थमेरण्डतैलं क्षीरेण पिबेत्| जीर्णे तस्मिन् क्षीरौदनाशी स्यात्|
Adhikarana वातरक्ते पित्तादोषे हरीतकी कषायः,वातरक्ते पित्तादोषे त्रिवृताचूर्णम् (१२) · Śloka १२
कषायमभयानां वा पाययेद्धृतभर्जितम्|
क्षीरानुपानं त्रिवृताचूर्णे द्राक्षारसेन वा||१२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा, हरीतकीनां क्वाथं घृतभर्जितं पाययेत्| त्रिवृतामूलचूर्णं क्षीरानुपानं द्राक्षारसेन वा पाययेत्|
Adhikarana वातरक्ते पित्तदोषे क्षीरबस्तयः वातरक्ते पित्तदोषेबस्तिप्रशंसा (१३-१४) · Śloka १४
निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः|
न हि बस्तिसमं किञ्चिद्वातरक्तचिकित्सितम्||१३||
विशेषात्प्युपार्श्वोरुपर्वास्थिजठरार्तिषु|
|१४|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा तस्य-वातरक्तवतो, मलं क्षीरबस्तिभिर्घृतान्वितैर्निर्हरेत्| यस्माद्बस्तितुल्यं नान्यद्वातरक्तचिकित्सितमस्ति| विशेषेण पाथ्वादिपीडासु बस्तिर्हितः|
Adhikarana वातरक्ते कफाधिके मुस्तादिकथः (१४-१५) · Śloka १५
|
मुस्ताधात्रीहरिद्राणां पिबेत्क्वाथं कफोल्बणे||१४||
सक्षौद्रं त्रिफलाया वा गुडूचीं वा यथातथा|
|१५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुस्तादीनां क्वाथं माक्षिकान्वितं कफोत्तरे वातशोणिते पिबेत्| त्रिफलायाः क्वाथं वा समाक्षिकं पिबेत्| सर्वेण प्रकारेण गुडूचीं वा पिबेत्|
Adhikarana वातरक्तेरक्ते कफाधिके त्रिफलाक्वाथः,वातरक्ते कफाधिके गुडूचीक्वाथादि वातरक्ते कफाधिके रक्तेस्नेहो वमनं रूक्षणं च वातरक्ते त्रिदोषजे शूलान्विते त्रिफलादिकल्कः (१५-१८) · Śloka १८
|
यथार्हस्नेहपीतं च वामितं मृदु रूक्षयेत्||१५||
त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम्|
विडङ्गम् ं पिप्पलीमूलं लोमशां वृषकं त्वचम्||१६||
ऋद्धिं लाङ्गलिकीं चव्यं समभागानि पेषयेत्|
कल्ये लिप्त्वाऽऽयसीं पात्रीं मध्याह्ने भक्षयेदिदम्||१७||
वातास्रे सर्वदोषेऽपि परं शूलान्विते हितम्|
|१८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यो यस्यार्हः स्नेहस्तं पीतवन्तं कृतवमनं च मृदु कृत्वा रूक्षयेत्| स०-त्रिफलादीनि समांशानि जलेन पेषयेत्| पिष्ट्वा च प्रभाते लौहीं पात्रीं लिप्त्वा मध्याह्न इदं भक्षयेत्| एतच्च वातरक्ते सर्वदोषेऽपि परं शूलान्विते हितम्|
Adhikarana वातरक्ते त्रिदोषजे कोकिलाक्षकक्वाथः (१८-१९) · Śloka १९
|
कोकिलाक्षकनिर्यूहः पीतस्तच्छाकभोजिना||१८||
कृपाभ्यास इव क्रोधं वातरक्तं नियच्छति|
|१९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोकिलाक्षभोजिना कोकिलाक्षकक्वाथः पीतो वातरक्तं शमयति| कृपाभ्यासः क्रोधं यथा|
Adhikarana वातरक्ते त्रिदोषजे लेलीतकीवसा (१९-२०) · Śloka २०
|
पञ्चमूलस्य धात्र्या वा रसैर्लेलीतकीं वसाम्||१९||
ख़ुडं सुरूढमप्यङ्गे ब्रह्मचारी पिबन् जयेत्|
|२०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमूलस्य रसैरामलकरसैर्वा लेलीतकीं वसां ब्रह्मचारी पिबन् शरीरे ख़ुडं सुस्थिरीभूतमपि जयेत्|
Adhikarana वातरक्ते इत्याभ्यन्तरं कर्मं वातरक्ते अतः परं बाह्यम् (२०) · Śloka २०
|
इत्याभ्यन्तरमुद्दिष्टं कर्मबाह्यमतः परम्||२०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-एवं, अभ्यन्तरं कर्म-चिकित्सितमुक्तम्| स०-अतः परं बाह्यं कर्मोच्यते|
Adhikarana वातरक्ते ज्वरदाहार्तौ आरनालतैलम् (२१) · Śloka २१
आरनालाढके तैलं पादसर्जरसं शृतम्|
प्रभूते ख़जितं तोये ज्वरदाहार्तिनुत्परम्||२१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काञ्जिकस्याढके तैलं चतुर्थभागसर्जरसं पक्वं प्रभूते जले मथितं परं ज्वरदाहार्तिनुत्|
Adhikarana वातरक्ते रूजायां पिण्डतैलम् (२२) · Śloka २२
समधूच्छिष्टमञ्जिष्ठं ससर्जरससारिवम्|
पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम्||२२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्वोक्तं तैलं पक्वं सह मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाभिरावापरूपाभिर्वर्तते यत्तदेवभूतं सत्पिण्डतैलमुच्यते| तच्चाभ्यङ्गाद्वातरक्तरुजाहरम्|
Adhikarana वातरक्ते रूजायां दशमूलशृतक्षीरेण परिषेकः,वातरक्ते रूजायां कोष्णसर्पिषा (२३) · Śloka २३
दशमूलशृतं क्षीरं सद्यः शूलनिवारणम्|
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा||२३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दशमूलेन क्षीरं सिद्धं शीघ्रमेव शूलहृत्, परिषेकेणेत्यर्थादवगम्यते| अत एवाह-परिषेकोऽनिलप्राये| तथेव कोष्णेन सर्पिषा-घृतेन, हितः|
Adhikarana वातरक्ते स्तम्भाद्यार्ते मधुरसिद्धस्नेहैः परिषेकः (२४) · Śloka २४
स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत्|
स्तम्भाक्षेपकशूकार्तं कोष्णैर्दाहे तु शीतलैः||२४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा स्तम्भादिभिरार्तं नरं चतुर्भिर्मधुरद्रव्यसाधितैः स्नेहैः कोष्णैः परिषेचयेत्| दाहे पुनस्तैरेव शीतैः परिषेचयेत्|
Adhikarana वातरक्ते स्तम्भाद्यार्तेगव्यादिक्षीरैः (२५) · Śloka २५
तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः|
|२५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथवा, गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः कोष्णैः स्तम्भाक्षेपकशूलार्तं तद्वत्-प्राग्वत्, परिषेचयेत्| दाहे पुनरेतैरेव क्षीतैः परिषेचयेत्|
Adhikarana वातरक्ते स्तम्भाद्यार्तेजीवनीयक्वाथैःवातरक्ते स्तम्भालघुपञ्चमूलक्वाथैः (२५) · Śloka २५
|
निःक्वाथैर्जीवनीयानां पञ्चमूलस्य वा लघोः||२५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवनीयानां द्रव्याणां निःक्वाथैर्लघोर्वा पञ्चमूलस्य क्वाथैः कोष्णैः स्तम्भाद्यार्तं परिषेचयेत्| दाहे तु शीतलैः|
Adhikarana वातरक्ते स्तम्भद्यार्तेद्राक्षेक्षुरसाद्यैः (२६) · Śloka २६
द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम्|
सेकार्थं तण्डुलक्षौद्रशर्कराम्भश्च शस्यते||२६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दाहे द्राक्षारस इक्षुरस मद्यानि दधिमस्त्वम्लकाञ्जिकं सेकार्थं शस्यते| तथा, तण्डुलाम्भः क्षौद्राम्भः शर्कराम्भश्च सेकार्थं शस्यते|
Adhikarana वातरक्ते दाहरूक्ल्कमेषु प्रियनारीस्पर्शः (२७) · Śloka २७
प्रियाः प्रियंवदा नार्यश्चन्दमार्द्रकरस्तनाः|
स्पर्शशीताह् सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम्||२७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नार्यः प्रियाः-वल्लभाः, प्रियवचसश्चन्दनोनार्द्राः कराः स्तनाश्च यासां तां एवंविधाः स्पर्शेन शीताः सुखस्पर्शाश्च् दाहं [ रुजं ] क्लमं च घ्नन्ति|
Adhikarana वातरक्ते सरागादिके प्रपौण्डरीकादिलेपः (२८-२९) · Śloka २९
सरागे सरुजे दाहे रक्तं हृत्वा प्रलेपयेत्|
प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः||२८||
सितोपलैरकासक्तुमसूरोशीरपद्मकैः|
लेपो रुग्दाहवीसर्परागशोफनिबर्हणः||२९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दाहे सरागे सति रक्तं हृत्वा प्रपौण्डरीकादिभिर्लेपः कार्यः| स च लेपो रुग्दाहादिनिबर्हणः| दार्वी-दारुहरिद्रा| मधुकं-यष्टीमधु| सितोपला-शर्करा| एरकासक्तुः-एरकाबीजसक्तुः|
Adhikarana वातरक्ते शूले वारन्धसिद्धः कृशरो उपनाहनम् (३०) · Śloka ३०
वातघ्नैः साधितः स्निग्धः कृशरो मुद्गपायसः|
तिलसर्षपपिण्डैश्च शूलघ्नमुपनाहनम्||३०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कृशरः-तिलमुद्गादिकृतो, वातघ्नैः साधितो मुद्रपायसो-मुद्रक्षीरे यो मिश्रितः, तिलसर्षपपिण्डैश्चैतदुपनाहनं शूलघ्नम्|
Adhikarana वातरक्ते स्तम्भादिके औदकादिवेसवाराः वातरक्ते स्तम्भाऔदकादिवसा (३१-३२) · Śloka ३२
औदकप्रसहानूपवेसवाराः सुसंस्कृताः|
जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने||३१||
स्तम्भतोदरुगायामशोफाङ्गग्रहनाशनाः|
जीवनीयौषधैः सिद्धा सपयस्का वसाऽपि वा||३२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-औदकाद्या जीवनीयौषधैः साधिताः स्नेहयुक्ताः सुसंस्कृता उपनाहेन स्तम्भादिनाशनाः स्युः| अथवा, औदकादीनां वसा जीवनीयौषधैः सिद्धा सपयस्का स्तम्भादिनाशना स्यात्|
Adhikarana वातरक्ते स्तम्भाद्यार्ते घृतादिलेपः वातरक्ते स्तम्भा भृष्टतिललेपः (३३) · Śloka ३३
घृतं सहचरान्मूलं जीवन्ती छागलं पयः|
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निवृताः||३३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सहचरजीवन्तीमूलकल्को घृतच्छागपयोमिश्रो लेप उपयोगी भवति| पिष्टास्तिला भृष्टाः-भजिताः, पयसि-क्षीरे, निवृताः-प्रक्षिप्ताः, तद्वत्-प्राग्वत् प्रलेपे योज्याः|
Adhikarana वातरक्ते वाताधिकेधिके शूले उमैरण्ड्लेपौ (३४) · Śloka ३४
क्षारप्रिष्टक्षुमां लेपमेरण्डस्य फलानि वा|
कुघार्च्छूलनिवृत्त्यर्थं शताह्वां वाऽनिलेऽधिके||३४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुमां-अतसीं, क्षीरेण पिष्टामधिकेऽनिले शूलनिवृत्यर्थं लेपं कुर्यात्| यद्वा, एरण्डस्य फलानि क्षीरपिष्टानि शूलनिवृत्त्यर्थं लेपं कुर्यात्| यद्वा, शतपुष्पां क्षीरे पिष्ट्वा शूलनिवृत्त्यर्थं लेपं कुर्यात्|
Adhikarana वातरक्ते वाताधिकेमूत्रादिपव्कं घृतं अम्यञ्जनम् (३५) · Śloka ३५
मूत्रक्षारसुरापक्वं ग़ृतमभ्यञ्जने हितम्|
|३५|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूत्रादिभिः सिद्धं ग़ृतमधिकेऽनिलेऽभ्यञ्जने हितम्|
Adhikarana वातरक्ते वाताधिके सिद्धं शुक्तं सेकाभ्यङ्गे (३६) · Śloka ३६
|
सिद्धं समधु शुक्तं वा सेकाभ्यङ्गे|३५|
|३६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्तं-चुक्रं, सिद्धं समाक्षिकं सेके परिषेकेऽभ्यङ्गे च हितम्||३६||
Adhikarana वातरक्तेरक्ते कफोत्तरे शूले गृहधूमादिलेपः (३५-३६) · Śloka ३६
|
कफोत्तरे||३५||
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्|
प्रलेपः शूलनुद्वातरक्ते|३६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफोत्तरे वातरक्ते गृहधूमादिप्रलेपो हितो भवति| शताह्वा-शतपुष्पा| रजनीद्वयं-हरिद्रे द्वे|
Adhikarana वातरक्ते वातरक्तेकफोत्तरे मधुशिप्रुबीजलेपः (३६-३७) · Śloka ३७
|
वातकफोत्तरे||३६||
मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम्|
|३७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातकफोत्तरे वातरक्ते मधुशिग्रोर्बीजं काञ्जिकसंयुक्तं तद्वत्-प्रलेपे हितम्|
Adhikarana वातरक्ते वातरक्ते अम्लैः सेचनम् (३७) · Śloka ३७
|
मुहूर्तलिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरे||३७||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातकफोत्तरे वातरक्ते मुहूर्तलिप्तमर्थादेव काञ्जिकपिष्टमधुशिग्रुबीजेन लिप्तमम्लैः-शुक्तादिभिः, सिञ्चेत्|
Adhikarana वातरक्ते उत्ताने लेपादयः (३८) · Śloka ३८
उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः|
|३८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्तानं वातरक्तं लेपादिभिराचरेत्-चिकित्सेत्|
Adhikarana वातरक्ते गम्भीरे लेपादयः (३८) · Śloka ३८
|
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत्||३८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गम्भीरं वातशोणितं विरेकादिभिराचरेत्|
Adhikarana वातरक्ते वातरक्तेष्लेष्मोत्तरे कोष्णा लेपाद्याः शीतलेपनाद्यौर्विदाहादिवृद्धि (३९) · Śloka ३९
वातश्लेष्मोत्तरे कोष्णा लेपद्यास्तत्र शीतलैः|
विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत्||३९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातश्लेष्मोत्तर उत्ताने वातशोणिते लेपाद्याः कोष्णा हिताः| तत्र-तस्मिन् वातश्लेष्मोत्तरे, शीतलैर्लेपनैः स्तम्भनात् विदाहादीनां विवृद्भिर्भवति|
Adhikarana वातरक्ते पित्तरक्तोत्तरे हिमाले पाद्याः उष्णैः ल्पोषादयः (४०) · Śloka ४०
पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः|
उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः||४०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातरक्ते पित्तरक्तोत्तरे हिमाः शीता लेपादयो हिताः| तत्र पित्तरक्तोत्तरे वातरक्त उष्णैर्लेपैः प्लेषादयो भवन्ति|
Adhikarana वातरक्ते मधुयष्टीतैलम् (४१-४४) · Śloka ४४
मधुयष्ट्याः पलशतं कषाये पादशेषिते|
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः||४१||
स्थिरातामलकीदूर्वापयस्याभीरुचन्दनैः|
लोहहंसपदीमांसीद्विमेदामधुपर्णिभिः||४२||
काकोलीक्षीरकाकोलीशतपुष्पर्द्धिपद्मकैः|
जीवकर्षभजीवन्तीत्वक्ऽऽपत्रनख़वालकैः||४३||
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः|
चतुष्प्रयोगं वातसृक्ऽऽपित्तदाहज्वरार्तिनुत्||४४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुयष्ट्याः पलशतं क्वाथकल्पनया क्वथितं तस्मिन्कषाये पादशेषिते चतुर्भागावशिष्टे तैलस्याढकं समक्षीरमाढकप्रमाणेन क्षीरेण तुल्यं स्थिरादिभिः पलोन्मितैः कल्कीकृतैर्युक्तं पचेत्| तत्तैलं चतुष्प्रयोगं-पाने नस्येऽनुवासने बस्तौ च योजितं, वातासृगादीनामर्तिनुद्भवेत्| स्थिरा-शालिपर्णी| तामलकी-भूधात्री| पयस्या-अर्कपुष्पी| अभीरुः-शतावरी| लोहं-अगरु| हंसपदी-कीटमारी| मधुपर्णी-गुडूची| ऐन्द्री-विशाला| वितुन्नकं-परिपेलवम्|
Adhikarana वातरक्ते बलातैलम् (४५-४६) · Śloka ४६
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्|
सहस्रशतपाकं तद्वातासृग्वातरोगनुत्||४५||
रसायनं मुख़्यतममिन्द्रियाणां प्रसादनम्|
जीवनं बृहणं स्वर्यं शुक्रासृग्दोषनाशनम्||४६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बलाकषायेण कल्केन च तैलं क्षीरेण समं तुल्यं पचेत्| तत्-तैलं, सहस्रपाकं शतपाकं वा वातशोणितवातरोगहरम्| तथा, मुख़्यतमं-श्रेष्ठम्, तद्रसायनमिन्द्रियाणां-चक्षुरादीनां, प्रसादनं-प्रसादजनकम्| जीवनं-प्राणधारणम्| बृंहणं-उपचयकरम्| स्वर्यं-स्वरकरम्| शुक्रासृग्दोषाणां नाशनम्|
Adhikarana वातरक्ते मार्गसंरोधात्कुपिए वाते आढ्चवातोक्तं कर्म, ततः स्नेहनादि (४७-४८) · Śloka ४८
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा|
अतिवृद्ध्याऽनिले शस्तं नादौ स्नेहनबृंहणम्||४७||
कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः|
भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम्||४८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनिले-वाते, मेदसोऽतिवृद्ध्या कफस्य वाऽतिवृद्ध्या मार्गसंरोधात् कारणात् कुपिते स्नेहनबृंहणमौषधमादौ न शस्तम्| तत्र-मेदसावृते कफावृते वा वाते, आढ्यवातोक्तं यच्चिकित्सितमुक्तं तत्कार्यम्| ततः-अनन्तरं, वातशोणितिकं स्नेहनं भेषजं कुर्यात्| यच्चापि रक्तस्य प्रसादनं तदपि कुर्यात्| वातशोणितचिकित्सितमुक्त्वा प्राणादिचिकित्सामाह-
Adhikarana प्राणाद्यावृतवातरक्तेचिकित्सा (४९) · Śloka ४९
प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्|
यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम्||४९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्राणादीनां पञ्चानां युगपत्-तुल्यकालं कोपे, यथोद्दिष्टं-यथोक्तवातव्याधिचिकित्सानतिक्रमेण, यथामयं-प्राणादिकोपजनितरोगाद्यपेक्षया, यथासन्नं-प्राणादीनामन्यतममासन्नमनतिक्रम्य, यस्मिन्नेव रोगे य एव प्राणादीनामन्यतम आसन्नस्तमेव चिकित्सेत्| यथाबलं-बलानतिक्रमेण, प्राणादीनामन्यतमस्य बलिनः पूर्वप्रतीकारं कुर्यात्| इत्येवमत्र भैषज्यं-औषधं, विकल्प्यं-विकल्पनीयं, स्यात्-भवेत्|
Adhikarana वाते सामे स्वेदादयः (५०) · Śloka ५०
नीते निरामतां सामे स्वेदलङ्घनपाचनैः|
रूक्षैश्चालेपसेकाद्यैः कुर्यात्केवलवातनुत्||५०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सामे वाते स्वेदादिभिस्तथा रूक्षैः सेकलेपादिभिर्निरामतां नीते पश्चात् केवलवातनुत्-शुद्धवातचिकित्सितं, कुर्यात्|
Adhikarana शोषादयो वातरक्तेरोगा नवाः साध्याः (५१-५३) · Śloka ५३
शोषाक्षेपणसङ्कोचस्तम्भस्वपनकम्पनम्|
हनुस्रंसोऽर्दितं ख़ाञ्ज्यं पाङ्गुल्यं ख़ुडवातता||५१||
सन्धिच्युतिः पक्षवधो मेदोमज्जास्थिगा गदाः|
एते स्थानस्य गाम्भीर्यात्सिध्येयुर्यत्नतो नवाः||५२||
तस्माज्जयेन्नवानेतान् बलिनो निरुपद्रवान्|
|५३|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शोषः-अङ्गशोषः| आक्षेपणं-आयामः| सङ्कोचः-अङ्गावयवानाम्| स्तम्भो-दण्डवत् स्तब्धता| स्वपनं-अचैतन्यम्| कम्पनं-वेपथुः| हनुस्रंसो-हनुभ्रंशः| अर्दित्तं-वायुना वक्रीकृतं वक्रार्धम्| खाञ्ज्यं-खञ्जता| पाङ्गुल्यं-पङ्गुता| खुडवातो-वातशोणितम्| सन्धिच्युतिः-स्थानाद्भ्रंशः| पक्षवधः-पक्षाघातः| तथा, ये गदाः-रोगाः, मेदआदिस्थानस्था भवन्ति त एते स्थानस्य गाम्भीर्यभावेन जाता नवाः-अचिरकालोत्पन्नाः, यत्नतः सिध्येयुः, बलिनः पुंसः| तस्मादेतान् शोषादीन् निरुपद्रवान् [ नवान्- ] शीघ्रजन्मनो, जयेत्-चिकित्सेत्|
Adhikarana वाते पित्तावृते पर्यायेण शीतोष्णा क्रिया वाते पित्तावृते जीवनीयं सर्पिः धन्वमांसादि च (५३-५४) · Śloka ५४
|
वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम्||५३||
व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्|
धन्वमांसं यवाः शालिर्विरेकः क्षीरवान् मृदुः||५४||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वायौ पित्तावृते व्यत्यासात्-पर्यायेण, शीतामुष्णां च क्रियां बःउशः-शतशो, योजयेत्| तथा, जीवनीयं सर्पिस्तमातुरं पाययेत्| अत्र च पित्तावृते वायौ धन्वमांसं-जाङ्गलं पिशितं, योज्यम्| यवाः शालयश्च, तथा क्षीरवान्-क्षीरयुक्तो, मृदुर्विरेको योज्यः|
Adhikarana वातरक्ते पित्ता सक्षीरा बस्तयोऽनु वासनं च (५५) · Śloka ५५
सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्|
कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः||५५||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्रापि पित्तावृते वायौ बस्तयः सक्षीरा योज्याः| पञ्चमूलं-महत्, तेन बलासहितेन शृतं क्षीरं प्रयोक्तव्यम्| काले-यथावसरमनुवासनयोग्ये, मधुरौषधसाधितैस्तैलैरनुवासनं देयम्|
Adhikarana वातरक्ते पित्ता मधुयष्टीतैलादिना सेचनम् (५६) · Śloka ५६
यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम्|
पञ्चमूलकषायेण वारिणा शीतलेन वा||५६||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुयष्टितैलेन बलातैलेन घृतेन क्षीरेण च सेचनं हितम्| पञ्चमूलस्य कषायेण-क्वाथेन, वा शीतलेन वारिणा पित्तावृते वाते सेचनं योज्यम्|
Adhikarana वातरक्तेकफावृते यवान्नादि स्वेदनिरूहादयः पुराण घृतादि च (५७-५८) · Śloka ५८
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः|
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्||५७||
पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्|
|५८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफावृते यवान्नानि हितानि| जाङ्गला मृगाः पक्षिणश्च तथा स्वेदा हिताः| तीक्ष्णा निरूहाः-आस्थापनविशेषाश्च| तीक्ष्णं वमनं सविरेचनं हितम्| पुराणं च सर्पिः, तिलसर्षपजं च तैलं हितम्|
Adhikarana वाते कफावृते आदौ पित्तजयः (५८) · Śloka ५८
|
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्||५८||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफपित्ताभ्यां द्वाभ्यां संसृष्टे वात आदावेव पित्तं विनिर्हरेत्| पश्चात् कफं वातयुक्तं जयेत्|
Adhikarana वाते रक्तावृते वातरक्तेशोणितिकीक्रिया (५९) · Śloka ५९
कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम्|
|५९|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तसंसृष्टे वाते वातशोणितिकीं क्रियां कारयेत्|
Adhikarana वातरक्ते मांसावृते स्वेदादयः (५९) · Śloka ५९
|
स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम्||५९||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसावृते स्वेदाभ्यङ्गमांसरसाः क्षीरं स्नेहश्च यथायोगमेतद्धितम्|
Adhikarana वातरक्ते अस्थिम्ज्जस्थे स्वेदादयः,वातरक्ते रेतसावृते शुक्रस्थवातोक्तम् (६०) · Śloka ६०
प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम्|
महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसाऽऽवृते||६०||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आढ्यवाते-मेदसाऽऽवृते वायौ, प्रमेहनं मेदोघ्नं वातघ्नं च भिषग्जितं-औषधं, हितम्| स०-अस्थिमज्जस्थे वाते महस्नेहो-घृतमज्जावसातैलैः सिद्धो, यद्वा नारायणादिर्हितः| रेतसाऽऽवृते पूर्वोक्तं-वातव्याधौ शुक्रस्तवातोक्तं (हृ. चि. अ. २१|२०) , हितम्|
Adhikarana वातरक्ते अन्नावृते पाचनीयादि (६१) · Śloka ६१
अन्नावृते पाचनीयं वमनं दीपनं लघु|
|६१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्नेनावृते पाचनीयमौषधं वमनं हितम्| दीपनीयं-आग्नेयं, यदौषधं लघु च-प्रकृत्या, तत्सर्वं हितम्|
Adhikarana वातरक्ते मूत्रावृते मूत्रलादि (६१) · Śloka ६१
|
मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः|६१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूत्रेणावृते वाते मूत्रलानि-त्रपुसादीनि, स्वेदाश्चोत्तरबस्तयोः हिताः|
Adhikarana वातरक्ते पुरीषावृते एरण्डतैलादि (६१) · Śloka ६१
एरण्डतैलं वर्चःस्थे बस्तिस्नेहाश्च मेदिनः|
||६१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वर्चसाऽऽवृते वात एरण्डतैलं बस्तयश्च स्नेहाश्च मेदिनो हिताः|
Adhikarana वातरक्ते वाते सर्वकुष्ठेषु स्थानावृते कफापित्ताविरूद्धं वाताधिकेनुलोमनं स्त्रोतः शुद्धिकरं बस्तिविरेचनं रसायनानि शिलाजतु इत्यादि (६२-६६) · Śloka ६६
|
कफपित्ताविरुद्धं यद्यश्च वातानुलोमनम्||६२||
सर्वस्थानावृतेऽप्याशु तत्कार्यं मातरिश्वनि|
अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम्||६३||
यापना बस्तयः प्रायो मधुराः सानुवासनाः|
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्||६४||
रसायनानां सर्वेषामुपयोगः प्रशस्यते|
शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः||६५||
लेहो वा भार्गवस्तद्वदेकादशसिताशितः|
|६६|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वस्थानावृते मातरिश्वनि-वायौ, आशु-शीघ्रमेव, यदौषधं कफपित्तयोरविरुद्धं वातस्य चानुलोमनं तत्कार्यम्|स०-तस्मिन् सर्वधात्वावृते मातरिश्वनि यदनभिष्यन्दि स्निग्धं स्रोतसां यच्छुद्धिकरं तत्सर्वमन्नपानौषधं योज्यम्| यापनसंज्ञा बस्तयो बाहुल्येन मधुराः सानुवासनाः-स्नेहबस्तयश्च, हिताः| बलस्याधिक्यं प्रसमीक्ष्य-बुद्ध्वा, मृदु विरेचनं हितम्| सर्वेषां रसायनप्रयोगाणामुपयोगः प्रशस्यते| तथा शुद्धस्य गुग्गुलोः प्रयोगः, भार्गवो लेहो-ब्राह्मरसायनोक्तश्च्यवनप्राशो वा, तद्वदेकादशसिताशितो-ब्राह्मरसायनोक्तः (?), प्रशस्यते|
Adhikarana वातरक्ते अपाने आवृते दीपनादि (६६-६७) · Śloka ६७
|
अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम्||६६||
वातानुलोमनं कार्यं मूत्राशयविशोधनम्|
|६७|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपाने वायौ येनकेनचिदावृते सर्वं भेषजं दीपनं-अग्नेः, ग्राहि-सङ्ग्रहणं, वातस्यानुलोमनं मूत्राशयस्य-बस्तेः, विशोधनं तत्सर्वं कार्यम्|
Adhikarana वातरक्ते प्राणादावावृत्ते सर्वकुष्ठेषु ं विचार्य (६७-६८) · Śloka ६८
|
इति सङ्क्षेपतः प्रओक्तमावृतानां चिकित्सितम्||६७||
प्राणादीनां भिषक्कुर्याद्वितर्क्य स्वयमेव तत्|
|६८|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-अनन्तरोक्तेन प्रकारेण, आवृतानां सङ्क्षेपतश्चिकित्सितं-औषधं, प्रोक्तम्| यत् प्राणादीनां पञ्चानामावृतानां चिकित्सितं तत्-पूर्वोक्तं, भिषक् स्वयमेव वितर्क्य-विचार्य, कुर्यात्|
Adhikarana वातरक्ते उदाने आवृते ऊर्ध्वं योजयेत्वातरक्ते अपाने आवृते अनुलोमनम् वातरक्ते समाने अवृते शमनम् वातरक्ते व्याने आवृते रिधायोजयेत् वातरक्ते प्राणवायोश्चतुर्भो रक्षणीयत्वम् वातरक्ते एवमावृतवाताधिकेनां स्वस्थाननयनम (६८-७०) · Śloka ७०
|
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्||६८||
समानं शमयेद्विद्वांस्त्रिधा व्यानं तु योजयेत्|
प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः||६९||
स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान्|
|७०|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उदानाख्यं वायुमूर्ध्वमेव योजयेत्-यतोऽसौ सदैवोर्ध्वगामी, तथा प्रयतेत यथोर्ध्वगामी भवति| अपानाख्यं चानिलमनुलोमयेत्-अधोगतिर्ह्ययं सदैव समीरणस्तस्मादधोगमनं यथाऽस्य सम्पद्येत तथा चिकित्सितं कार्यमित्यर्थः| समानाख्यं वायुं विद्वान् वैद्यो वातघ्नैरौषधैः शमयेत्| अयमभिप्रायो ग्रन्थकृतः-किल नास्योर्ध्वगामिता नैवाधोगामिता यथा सम्पद्यते तथा चिकित्सितं हितम्, किं तर्हि स्वस्थानप्रतिपत्तिरेवेत्येवं चिकित्सा कार्येति| व्यानाख्यं तु वायुं त्रिधा योजयेत्-ऊर्ध्वाधोमध्यगमनं यथाऽस्य शरीरे सम्पद्यते तथा चिकित्सा कार्येति| तथा, प्राणो वायुश्चतुर्भ्योऽपि-उदानापानसमानव्यानेभ्योऽपि, सर्वप्रयत्नेन रक्ष्यः-य्थोदानादिभिर्नास्य बाधा सम्पद्यते तथा चिकित्सा कार्येत्यर्थः| यतस्तस्य-प्राणस्य, स्थितौ सत्यां देहस्य-शरीरस्य, संस्थितिः-जीवनं भवति, प्राणं विना न जीवतीत्यथः| एवं-अनेन प्रकारेण, वातान् विमार्गगानावृतान् स्वं स्वं स्थानं नयेत्|
Adhikarana वातरक्ते सर्वावरेणे पित्तरक्तवर्जिते लशुनरसायनम् (७०-७१) · Śloka ७१
|
सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम्||७०||
रसायनविधानेन लशुनो हन्ति शीलितः|
|७१|
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वमेवावरणं वातानां पित्तरक्तसंसर्गवर्जितं रसायनविधिना शीलितो लशुनो हन्ति| एतेन पित्तरक्तसंसृष्टमावरणं वर्जयित्वा सर्वावरणान्यन्यानि लशुनः केवल एव निहन्ति|
Adhikarana वातरक्ते पित्तावृते पित्तहरादे (७१) · Śloka ७१
|
पित्तावृते पित्तहरं मरुतश्चानुलोमनम्||७१||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तावृत उदानादौ पित्तहरं पवनस्य चानुलोमनं हितम्|
Adhikarana वातरक्ते रक्तावृते तद्वत् खुडोक्तं च (७२) · Śloka ७२
रक्तावृतेऽपि तद्वच्च ख़ुडोक्तं यच्च भेषजम्|
रक्तपित्तानिलहरं विविधं च रसायनम्||७२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तावृते तद्वत्-पित्तहरं तथैव मारुतानुलोमनं, हितम्| यच्च ख़ुडोक्तं-वातशोणितोक्तं, भेषजं तथा पित्तरक्तानिलहरं च हितम्, विविधं रसायनं च| विविधं-नानाप्रकारं, सर्वदोषदूष्यादिकं चालोक्य यथायोगं विधेयम्|
Adhikarana एवम् च्चिकित्सितस्थानं आयुर्वेदफलभूतम् (७३) · Śloka ७३
यथानिदानं निर्दिष्टमिति सम्यक् चिकित्सितम्|
आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनात्||७३||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-अनेन प्रकारेण, यथानिदानं-निदानानतिक्रमेण, यथोद्देशस्तथा निर्देशः| अनया रीत्या सर्वमेव चिकित्सितं निर्दिष्टम्| एतच्चायुर्वेदफलभूतं स्थानम्, एतदुपदेशेन सद्योऽर्तिनाशनाद्धेतोः|
Adhikarana औषधस्य पर्यायाः इति चिकित्सितस्थानम् (२२) · Śloka २२
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्|
भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम्||७४||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने वातशोणितचिकित्सितं नाम द्वाविंशोऽध्यायः||२२||
Hide commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चिकित्सितादय औषधस्य पर्यायाः स्मृता इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने वातशोणितचिकित्सितं नाम द्वाविंशोऽध्यायः समाप्तः|| २२||