Skip to content

. रक्तपित्तचिकित्सिताध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

ज्वरचिकित्सितादनन्तरं रक्तपित्तचिकित्सितमुच्यते| यतो महेश्वरस्य ललाटाज्ज्वरो बभूव, तत्सन्तापाद्रक्तपित्तमित्युक्तम्| अतो रक्तपित्तचिकित्सितस्यैवारम्भो युक्तः| तथा, निदाने यद्विशेषेण नोक्तं तदिह विशेषेण स्पष्टं कृत्वा निदानाभिप्रायमपि भण्यते, रक्तपित्तस्य क्षिप्रकारित्वात्|

Adhikarana रक्तपित्तचिकित्सिताऽध्यायः रक्तपित्तस्य साध्यत्वम् (२-१) · Śloka

अथातो रक्तपैत्तचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्| रक्तपित्तं सुख़े काले साधयेन्निरुपद्रवम्||१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बलिनो-बलवतः पुंसो न स्त्रियाः, यदुत्पन्नमूर्ध्वगं रक्तपित्तं तत्साधयेत्-उपक्रमेत्| तथा यदेवोर्ध्वगमवेगं-अवेगवत्, तथैको दोषः-कफाख़्यः, अनुगः-अनुबलो, यस्य तदेकदोषानुगम्| निदानेऽप्युक्तम् (हृंइ.अ.३/८)-"ऊर्ध्वं साध्यं कपाद्यस्मात्" इति| तथा नवं-अचिरोत्पन्नं, तथा यत्सुख़े काले- तद्व्याधिप्रतिपक्षभूते हेमन्ते शिशिरे वा जातं, तथा यन्निरुपद्रवं-विकृतविज्ञानीयाध्याध्यायोक्तैः (हृ.शा.अ.५/७४)" रक्तपित्तंभृशं रक्तं" इत्यादिग्रन्थनिर्दिष्टैरुपद्रवै रहितम्| अतो लक्षणाद्यद्विपर्ययलक्षणमूर्ध्वगमपि रक्तपित्तं तदर्थादसाध्यं याप्यं वा स्यादिति गम्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ रक्तपित्तचिकित्सितम्| तत्र साध्यमाहऊर्ध्वगमिति| अवोगं-वेगबाहुल्यरहितम्| सुखे-हेमन्तादौ|

Adhikarana रक्तपित्तस्य याप्यत्वम् (२) · Śloka

अधोगं याप्ययेद्रक्तम् यच्चदोषद्वयानुगम्| शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरं च यत्||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधोगं रक्तपित्तमूर्ध्वगरक्तपित्तोक्तैकदोषानुगादिविशेषणविषिष्टमपि यापयेत्| यच्च दोषद्वयानुगं-वातकफाभ्यां हीनबलाभ्यामनुगतमूर्ध्वगमपि, तच्च यापयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- याप्यमाह-अधोगमिति, शान्तं शान्तमिति च| यत्-गच्छ्त्, इण् गतौ|

Adhikarana रक्तपित्तस्य असाध्यत्वम् (३) · Śloka

अतिप्रवृत्तं मन्दाग्नेस्त्रिदोषं द्विपथं त्यजेत्| |३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शान्तं शान्तं-अतिशयेन शान्तं, पुनः कुप्यत्-कोपं गच्छत्, ऊर्ध्वगमेकदोषानुगमधोगं वा त्यजेत्| अथ मार्गात्-ऊर्ध्वात् नासाक्षिकर्णास्यलक्षणात्, मार्गान्तरं-गुदमेढ्रलक्षणं, यत्-गच्छ्हत्, एवं यत्प्रवृत्तं तच्च त्यजेत्| यदिति इणः शतरि इणो यणिति यादेशे यदिति रूपम्| तथा अतिप्रवृत्तमूर्ध्वमार्गाधोमार्गाद्वा यद्रक्तपित्तं तत्त्यजेत्, रक्तस्य प्राणायतनत्वात्| उक्तं च-"जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति|" इति| तथा, मन्दाग्नेर्यत्प्रवृत्तमधोगमूर्ध्वगं व तदपि विरुद्धोपक्रमत्वात्त्यजेत्| तथा हि,-मन्दाग्नेः कटुकाम्लोष्णरूक्षतीक्ष्णाद्यौषधमग्निसन्धुक्षणं यत्तद्धितम्, रक्तपित्ते चातो विपरीतप्रायं यत्तत्पथ्यम्| तथा, त्रिदोषमूर्ध्वगमधोगं वा तदपि त्यजेत्, विषमत्वात्| यतो न तद्वमनविषयं भवतुमर्हति नापि विरेचनविषयम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- असाध्यमाह-अतिप्रवृत्तमिति| यत्रानुबन्ध्यपि पित्तं तद्धि (न्त्रि) दोषजम्| यत्र तु जनकमेव तद्द्विदोष [ ज ] मेकदोषं (ष)[जं] वा| निदानोक्तानामपि साध्यादीनां पुनरुक्तिरपरिपूर्णपूरणाय| तत्र साध्यत्वे युक्तिरुक्ता, इह तु लक्षणमिति वा, पूर्वाचार्यातिविप्रकीर्णोक्तिप्रदर्शनं वा|

Adhikarana लङ्घनीयबृंहणीयशोधनीयशमनीयविभागः (३-४) · Śloka

| ज्ञात्वा निदानमयनं मलावनुबलौ बलम्||३|| देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत्| लङ्घनं बृंहणं वाऽऽदौ शोधनं शमनं तथा||४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निदानादि ज्ञात्वाऽनन्तरं रक्तपित्ते-ऊर्ध्वगेऽधोगे वा, आदौ-प्रथमत एव, लङ्घनं प्रयोजयेत्, अथवा बृंहणं, अथवा शोधनं शमनं वा| तत्र निदानं-तीक्ष्णोष्णकट्वम्लादिसेवनम्, एतज्ज्ञानं हि तन्निदानवर्जन उपयुज्यते| तथा च वक्ष्यति (श्लो.२४)-"यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्|" इति| अयनं-ऊर्ध्वाघोलक्षणं ज्ञात्वा| तथा च वक्ष्यति (श्लो.८)- "रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे| लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्||" इति| तथा (श्लो.४७)- "गुदागमे विशेषेण शोणिते वस्तिरिष्यते|" इत्यादि| तथा, पित्ताख्यस्य मलस्यात्र मूलभूतत्वात्सामर्थ्यात् मलौ-वातकफाख्यौ, अनुबलौ ज्ञात्वा चिकित्साविशेषं प्रयोजयेत्| तथा च वक्ष्यति (श्लो.३६)-"रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः| युञ्जयाच्छागं" इत्यादि| तथा, बलं ज्ञात्वा| यतो वक्ष्यति (श्लो. १३)- "यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्|" इति| देशो-द्विविधः शारीरो भूमिदेशश्च| तत्र शारीरो-मुखनासाद्यवयवरूपः| ऊर्ध्वगे हि रक्तपित्ते सत्यपि नासाप्रवृत्ते विशेषेणान्यदौषधमन्यप्रवृत्तेऽन्यत्| तथा, अधोगे रक्तपित्ते सत्यपि गुदप्रवृत्तेऽन्यदौषधं मेढ्रप्रवृत्ते चान्यत्| भूमिदेशश्च-त्रिविधोव्याख्यातो जाङ्गलानूपसाधारणभेदेन| तत्र जाङ्गलेऽन्यधौषधमनूपेऽन्यत् साधारणे चान्यत्| कालो-मुहूर्तादिः शीतोष्णवर्षलक्षण आवस्थिकश्च| तथा च शीते कालेऽन्यादृसमौषधमन्यस्मिन् कालेऽन्यादृषमौषधं रक्तपित्ते| आदिग्रहणेनानलाहा रसत्त्वसात्म्यवयःप्रकृतिप्रभृतयो गृह्यन्ते| अवस्थां च ज्ञात्वा अवस्थावशात्, रक्तपित्तस्य ह्यवस्थाविशेषेणान्यदौषधं स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- लङ्घनीयबृंहणीयशोधनीयशमनीय विभागमाह-ज्ञात्वेति| तत्र निदानज्ञानात् बृंहणोत्थे लङ्घनं लङ्घनोत्थे बृंहणम्| अयनज्ञानात् ऊर्ध्वगे लङ्घनमधोगे बृंहणम्| अनुबलमलज्ञानात् कफ़े लङ्ग़नं वाते बृंहणम्| बलज्ञानात् सम्पूर्णे बले लङ्घनमल्पे बृंहणम्| देशज्ञानात् अनूपे लङ्घनं जाङ्गले बृंहणम्| कालज्ञानात् विसर्गे लङ्घनमादाने बृंहणम्| आदिशब्दात् यौवने लङ्घनं वार्धके बृंहणमित्यादि| अवस्थाज्ञानात् अपक्वे लङ्घनं पक्वे बृंहणम्| पूर्वं शमनशोधनविभागो ज्ञेयः| आदौग्रहणात् लङ्घनानन्तरं बृंहणं बृंहणानन्तरं लङ्घनं च कार्यम्|

Adhikarana शोध्यत्वेऽपि लङ्घनशाम्यबृंहणशाम्यविभागः (५-६) · Śloka

सन्तर्पणोत्थं बलिनो बहूदोषस्य साधयेत्| ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्||५|| शमनैर्बृंहणैश्चान्यल्लङ्घ्य बृंह्यानवेक्ष्य च| |६|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सन्तर्पणोत्थं बलिनो बहुदोषस्य नरस्य रक्तपित्तमूर्ध्वगं विरेकेण साधयेत्, अधोगतं तु वमनेन साधयेत्| अन्यतपतर्पणोत्थं रक्तपित्तं दुर्बलस्याल्पदोषस्योर्ध्वगं शमनैरधोगं बृंहणैरुपाचरेत्| बृंहणैर्वा शमनैः| न चेदं चिकित्सितं निरपेक्षं युञीतेत्याह-लङ्घ्यबृंह्यानवेक्ष्य चेति| लङ्घनादुत्पन्नमधोगमपि शमनैरुपाचरेत्| बृंहणादुत्पन्नमूर्ध्वगमपि लङ्ह्घनैरुपाचरेदित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-शोध्यत्वेऽपि वम्यविरेच्यविभागमाह-सन्तर्पणोत्थमिति| अधोगे वमनम्| ऊर्ध्वगे विरेचनम्| सन्तर्पणोत्थं इत्यत्र उभयत्र तुल्यम्| शाम्यत्वेऽपि लङ्घनशाम्यबृंहणशाम्यविभागमाह- शमनैर्बृंहणैश्चेति| अन्यत्- अपतर्पणोत्थमल्पबलस्य चाल्पदोषस्यच| ऊर्ध्वगं लङ्घनशमनैस्तथा लङ्घ्ये पुरुषे सन्तर्पणोत्थत्वादित्रये सत्यपि बृंहणम्| बृंह्ये पुरुषे अतर्पणोत्थत्वादित्रये सत्यपि लङ्घनम्|

Adhikarana शमनौषधम् (६-७) · Śloka

| ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ||६|| उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः| |७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ऊर्ध्वं प्रवृत्ते रक्तपित्ते शुण्ठीरहितं षडङ्गोदकं पिबतः पुंसस्तिक्तकषायौ रसौ शमनम्| तथा, उपवासः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शमनमाह-ऊर्ध्वं प्रवृत्त इति| षडङ्गोदकं-"घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्|" (हृ. चि. अ. १/१५) इति ज्वरोक्तम्, तच्चात्र शुण्ठीं विना कार्यम्|

Adhikarana बृंहणौषधम् (७) · Śloka

| अधोगे रक्तपित्ते तु बृंहणौ मधुरो रसः||७||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधोगे तु रक्तपित्ते बृंहणो मधुरो रसो हितः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- बॄंहणमाह-अधोगे रक्तपित्त इति|

Adhikarana ऊर्ध्वगाधोगयोः पथ्यविभागः (८) · Śloka

ऊर्ध्वगे तर्पणं योज्यं प्राक् च पेया त्वधोगते| |८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ऊर्ध्वगे रक्तपित्ते प्राक्-पूर्वं, तर्पणं योज्यम्, तथासात्म्यत्वात्| एवमधोगे रक्तपित्ते प्राक् पेया योज्या|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ऊर्ध्वगाधोगयोः पथ्यविभागमाह्न-ऊर्ध्वगे तर्पणमिति| ऊर्ध्वगे प्राक् तर्पणं पथ्यम्, अधोगे तु पेया शेषं ज्वरवत्|

Adhikarana अशुद्धरक्तस्य स्तम्भननिषेधः शुद्धरक्तस्य स्तम्भनम् (८-९) · Śloka

| आश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत्||८|| धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्| |९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बलिनो नरस्याश्नतो रक्तमशुद्धं-दुष्टं, न धार्यं-न स्तम्भनीयम्| तद्धि ग़ृतं सिराव्यधविध्युक्तान् विसर्पविद्रधिप्लीहादीन् रोगान् करोति| अन्यथा-विधिविपर्यये सति दुर्बलस्याभोजनस्य च, शीघ्रं धारयेत्| यस्मादग्निवच्छीघ्रं मरणकारि तत्-रक्तमस्तम्भितं, स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अशुद्धस्य रक्तस्य स्तम्भनं निषेधति-अश्नत इति| शुद्धस्य स्तम्भनं विधत्ते-धारयेदिति| अन्यथा-शुद्धत्वे, बलाशनयोरल्पयोरशुद्धत्वेऽपि| तत्-अस्तम्भितं रक्तम्|

Adhikarana विरेचनौषधम् (९-१०) · Śloka १०

| त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्||९|| साधयेद्विधिवल्लेहं लिह्यात्पाणितलं ततः| |१०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिवृता-शुक्लगोपीत्युच्यते| श्मामा-मालविका त्रिवृदुच्यते| तयोः कषायेण तथा तयोरेव [कल्केन] मात्रामाश्रित्यैतदुक्तम्| अत्र च कण्टकारिकालेहवत् (हृ.चि.अ.३/६२) क्वाथकल्कशर्कराणां परिमाणं वेद्यमिति वृद्धवैद्यव्यवहारः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विरेचनमाह-त्रिवृच्छामाकषायेणेति| कल्केनत्रिवृद्द्वयस्यैव| पाणितलं कर्षम्|

Adhikarana विरेचनान्तरद्वयम् (१०-११) · Śloka ११

| त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु||१०|| मोदकः सन्निपातोर्ध्वरक्तशोफज्वरापहः| त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता||११||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा त्रिवृतादिभिर्मोदको-वटकः| शर्करापरिमाणं च पद्मकाद्यचूर्णवदवबोध्यम्| स च मोदकः सन्निपातोर्ध्वरक्तशोफज्वरहृद्भवति| पूर्वोक्तस्य लेहस्य विषयनिर्देशादेव विषयो वेद्यः| त्रिवृत्समसिता पिप्पलीपादसंयुता तद्वत्-सन्निपातादि हृदित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विरेचनान्तरमाह-त्रिवृतेति| सन्निपातस्त्रिभिः सम्बध्यते| विरेचनान्तरमाह-त्रिवृत्समसितेति| सङ्ग्रहे (चि. अ. ३)- " त्रिफ़लात्रिवृताधात्रीत्रायन्त्यारग्वधाभयाः| गवाक्षीक्षुरसक्षीरद्राक्षाः क्षौद्रसितोत्कटाः|| यथास्वं कल्पबिहिता विरेकार्थं प्रयोजयेत्|" इति| त्रिफ़लादीनि दश विरेचनानि| प्रत्येकं मधुसितोत्कटानि| गवाक्षी-इन्द्रवारुणी|

Adhikarana वमनपञ्चकम् (१२-१३) · Śloka १३

वमनं फलसंयुक्तं तर्पणं ससितामधु| ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्||१२|| क्षीरं वा रसमिक्षोर्वा| |१३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मदनफलेन संयुक्तं तर्पणं सितामधुभ्यां सह वमने देयम्, वातकोपभयादित्यभिप्रायः| अथवा सशर्करं फल संयुक्तं, [अथवा] मधुकोदकमथवा क्षौद्रसंयुक्तं, अथवा क्षीरं, अथवेक्षुरसम्| सर्वमेतत् मदनफलसंयुक्तं पृथक् प्रत्येकं देयम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वमनपञ्चकमाह-वमनं फ़लसंयुक्तमिति| पञ्चस्वपि मदनफ़लसंयोगः| सङ्ग्रहे तु (चि. अ. ३)- "फलेन्द्रयवगाङ्गेयीमधुकं वा समाक्षिकम्|" इति|

Adhikarana शुद्धस्य पथ्यम् (१३) · Śloka १३

शुद्धस्यानन्तरो विधिः| यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्||१३||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ऊर्ध्व[ग]रक्तपित्तिनोऽधोगरक्तपित्तिनो वा यथाक्रमं विरेकवमनाभ्यां शुद्धस्यानन्तरं [यथास्वं-] यथायोगं यथाविधि, मन्थपेयादिः प्रयोक्तव्यः,-ऊर्ध्वगे मन्थादिरधोगे पेयादिरिति यथार्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शुद्धस्य पथ्यमाह-शुद्धस्येति| अनन्तरः "ऊर्ध्वगे तर्पणं योज्यम्" (श्लो. ८) इत्यादि| बलं अग्निबलं देहबलं च|

Adhikarana मन्थद्वयम् (१४) · Śloka १४

मन्थो ज्वरोक्तो द्राक्षादिः, पित्तघ्नैर्वा फलैः कृतः| |१४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मन्थो ज्वरोक्तो द्राक्षादिः-"द्राक्षामधूकमधुक" (हृ. चि. अ. १/५५) इत्यादिः| पित्तग़्नैर्वा-द्राक्षामलकक्राश्मर्यमधुकादिभिः, फलैः कृतः प्रयोक्तव्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मन्थमाह-मन्थो ज्वरोक्त इति| द्राक्षादिः-"द्राक्षामधूकमधुक" इत्यादिः| मन्थान्तरमाह-पित्तघ्नैर्वेति|

Adhikarana मन्थान्तरद्वयम् (१४-१५) · Śloka १५

| मधुख़र्जूरमृद्वीकापरूषकसिताम्भसा||१४|| मन्थो वा पञ्चसारेण सग़ृतैर्लाजसक्तुभिः| दाडिमामलकाम्लो व मन्दाग्न्यम्लाभिलाषिणाम्||१५||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथवा मध्वादिना द्रव्यपञ्चकेन कृतेन पञ्चसाराख़्येन लाजसक्तुभिः ससर्पिष्कैर्मन्थो हितः| मन्दाग्नीनामम्लाभिलाषिणां च दाडिमामलकाभ्यामम्लश्च मन्थः प्रयोक्तव्यः| 'अधोगे प्राक्पेया प्रयोज्या' इत्युक्तम्| अतस्ता एव पेया ब्रूते-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मन्थान्तरमाह-मधुखर्जूरेति| पञ्च मध्वादीनि साराण्यत्रेति पञ्चसारम्, संज्ञा चेयम्| मन्थान्तरमाह-दाडीमामलकाम्लो वेति| दाडिमामलकरसयोगादम्लः|

Adhikarana पेयासप्तकम् (१६-१८) · Śloka १८

कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः| उशीरं शाबरं रोध्रं शृङ्गबेरं कुचन्दनम्||१६|| हीवेरं धातकीपुष्पं बिल्वमध्यं दुरालभा| अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः||१७|| भूनिम्बसेव्यजलदा मसूराः पृश्निपर्ण्यपि| विदारिगन्धा मुद्गाश्च बला सर्पिर्हरेणुकाः||१८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कमलोत्पलेत्यादिभिर्वर्गैरर्धश्लोकैः पेया विहिताः| पादयौगिका वक्ष्यन्ते| भूनिम्बसेव्येत्यादयः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- त्रिभिरर्धर्चैस्तिस्त्रः पेया आह-कमलोत्पलेति| चतुर्भिः पादैश्चतस्नः पेया आह-भूनिम्बसेव्यजलदा इति| विदारिगन्धा-शालिपर्णी| हरेणुकाः-सतीनाः| सङ्ग्र्हे त्वधिकाः पेयाः (चि. अ. ३)- "चन्दनाम्बुप्रियङ्गवः| तुवर्यो वाऽतिबलया बलया वा हरेणवः||" इति|

Adhikarana उक्तानां पेयानां प्रकारान्तरम्,मांसरसाः (१९-२०) · Śloka २०

जाङ्गलानि च मांसानि शीतवीर्याणि साधयेत्| पृथकपृथग्जले तेषां यवागूः कल्पयेद्रसे||१९|| शीताः सशर्कराक्षौद्रास्तद्वन्मांसरसानपि| ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||२०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मांसानि जाङ्गलानि शीतवीर्याणी-शशादिसबन्धीनि, पूर्वोक्तपेयौषधानां पृथक्पृथग्जले साधयेत्| अनन्तरं तस्मिन् रसे यवागूः कल्पयेत्| कीदृशीः ? शीतास्तथा सशर्कराक्षौद्राः| तद्वदित्यनेन शीतत्वं मांसरसानामतिदिशति, न तु सशर्कराक्षौद्रत्वमपि, अयोगार्हत्वात्| अत एवाह-तान् मांसरसान् ईषदम्लानम्लाभिलाषिणः, अनम्लाभिलाषिणोऽनम्लानेव| तथा, घृतभृष्टान् सशर्करान्-शर्करायुक्तान्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- उक्तानां पेयानां प्रकारान्तरमाह-जाङ्गलानि चेति| तेषां-पेयौषधानां, जले-काथे| रसे-क्वाथसिद्धमांसरसे| मांसरसानाह-तद्वदिति| तद्वत्-पेयावत्, तण्डुलप्रक्षेपंविना| सङ्ग्रहे तु (चि. अ. ३)- "तत्कषाये हिताः पेयामांसपेयास्तथा रसाः| अनम्लाः किञ्चिदम्ला वा सघृतक्षौ द्रशर्कराः||" इति|

Adhikarana धान्यानि शाकानि च (२१) · Śloka २१

शूकशिम्बीभवं धान्यं रक्ते शाकं च शस्यते| अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम्||२१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा, शूकशिम्बीजं, धान्यं शाकं च रक्तपित्ते शस्यते| अन्नस्वरूपविज्ञानीयेऽध्याये (सू.अ. ६) यदुक्तं लघु च शीतलं च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- धान्यानि शाकानि चाह-शूकशिम्बीभवं धान्वमिति रक्ते-रक्तपित्ते|

Adhikarana पानार्थमुदकम् (२२) · Śloka २२

पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्| लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा||२२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूर्वोक्तमम्बु-षडङ्गं शुण्ठीरहितं, पानीयं-पातव्यम्| अथवा लघुना पञ्चमूलेन शृतम्| पानीयस्य श्रपणे तन्त्रकारैर्विधिरुक्तः| यथा-"कर्षं गृहीत्वा द्रव्यस्य क्वाथयेत्प्रास्थिकेऽम्भसि| अर्धशृतं प्रयोक्तव्यं जलपाके त्वयं विधिः||" इति| केवलं वा जलं शृतशीतं हितम्| मध्वम्भो-माक्षिकयुक्तं पानीयम्| फलाम्बु वा-द्राक्षाभिर्वा पित्तघ्नैः फलैः कृतम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तृषितस्य पानार्थमुदकमाह-पूर्वोक्तमम्ब्विति| पूर्वोक्तं-निःशुण्ठीषडङ्गोदकम्| लघुपञ्चमीलसिद्धं वा| शृतशीतं वा केवलम्| मधूदकं वा| फ़लोदकं वा फ़लानि-दाडिमादीनिलौ शीतलानि|सङ्ग्रहे तु (चि. अ. ३)पद्मकाद्यञ्जनादि च सारिवादिं च कल्पयेत्| अन्नपाने गणं तद्वद्दशकं दाहनाशनम्|| कफानुगे यूषशाकं मारुतानुगते रसम्| अभीरोरङ्कुरैर्लावाः सह मुद्गाः पटोलजैः| मकुष्ठा धन्वयासोत्थै रक्तपित्ते परं मताः|" इति|

Adhikarana विबद्धे मांसरसत्रयम् (२३) · Śloka २३

शशः सवास्तुकः शस्तो विबन्धे| |२३|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शशः-शशस्य मांसं, सहवास्तुकेन विड्विबन्धे सति रक्तपित्तिनः शस्तः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विबन्धे रसमाह-शशः सवास्तुक इति|

Adhikarana मारुताधिके मांसरसत्रयम् (२३-२४) · Śloka २४

तित्तिरिः पुनः| उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके||२३|| प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः| |२४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तित्तिरिस्तु मारुतेऽधिक उदुम्बरस्य क्वाथे साधितः शस्तः| प्लक्षस्य क्वाथे साधितो बर्हिणो-मयूरः, तद्वत्-मारुतेऽधिके शस्तः| बर्हिण इति "फलबर्हाभ्यामिनच्|" तथैवन्यग्रोधस्य निर्यूहे कुक्कुटः शस्तः| उदुम्बरादिक्वाथसाधनं तित्थिर्यादीनामौष्ण्यं प्रतिहन्तुम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मारुताधिके रसमाह-तित्तिरिः पुनरिति| मारुता[धिके रसा] न्तरमाह-प्लक्षस्य बर्हिणस्तद्वदिति| बर्हिणो-मयूरः| रसान्तरमाह-न्यग्रोधस्य च कुक्कुट इति| सङ्ग्रहे तु (चि. अ. ३)- "बिसोत्पलमृणालानां वर्तकक्रकरौ हितौ| वर्तीरोऽम्भोजनालानामश्वत्थस्य कपिञ्चलः||" इति|

Adhikarana वर्जनीयम् (२४) · Śloka २४

| यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्||२४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत्किञ्चिद्रक्तपित्तस्य कारणं-येन सेवितेन तज्जातं, तच्च वर्जयेत्-परिहरेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वर्जनियमाह-यत्किञ्चिदिति|

Adhikarana शमनौषधत्रयम् (२५-२६) · Śloka २६

वासारसेन फलिनीमृद्गोध्राञ्जनमाक्षीकम्| पित्तासृक् शमयेत्पीतं, निर्यासो वाऽटरूषकात्||२५|| शर्करामधुसंयुक्तः केवलो वा, शृतोऽपि वा| वृषः सद्यो जयत्यस्रं, स ह्यस्य परमौषधम्||२६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

सं-वासकस्य रसेन फलिन्यादिकं पीतं रक्तपित्तं शमयति| अथवा, अटरूषकस्य रसः शर्करामधुयुक्तः पीतो रक्तपित्तं जयेत्| अथवा केवलो वासारसः| अथवा क्वथितो वृषः शीघ्रं रक्तं जयेत्| स वृषो यस्मादस्य-रक्तस्य, परमौषधम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शमनमाह-वासारसेनेति| फ़लिनी-प्रियङ्गुः| मृत्-सौराष्ट्री| अञ्जनं-रसाञ्जनम्| माक्षिकं-मधु| [ शमनान्तरमाह-निर्यास इति| निर्यासः-स्वरसः| स शर्करामधुसंयुक्तः केवलो वेति द्विविधः| ] शमनान्तरमाह-शृतोऽपि वा वृष इति| श्रुतोऽपि शर्करामधुसंयुक्तः केवलो वेति स्वरसवद्द्विविधः|

Adhikarana क्वाथत्रयम् (२७-२८) · Śloka २८

पटोलमालतीनिम्बचन्दनद्वयपद्मकम्| रोध्रो वृषस्तन्दुलीयः कृष्णा मृन्मदयन्तिका||२७|| शतावरी गोपकन्या काकोल्यौ मधुयष्टिका| रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः||२८||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पटोलादयोऽर्धश्लोकास्त्रयः क्वाथा मधुशर्करायुता रक्तपित्तं जयन्तीति योज्यम्| अत्र च वासक आर्द्रोऽपि द्विगुणो न योज्यः| एवं ह्युक्तं तन्त्रान्तरे-"वासाकुटजकूष्माण्डशतपुष्पासहाचराः| नित्यमार्द्राः प्रयोक्तव्यास्तथाऽपि द्विगुणा न ते||" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- त्रिभिरर्धर्चैः व्काथत्रयमाह-पटोलमालतीति| चन्दनद्वयं-श्वेतं रक्तं च| कृष्णा मृत्-कृष्णमृत्तिका| मदयन्तिका-यूथिका|

Adhikarana क्वाथान्तरम् लेहः (२९) · Śloka २९

पलाशवल्कक्वाथो वा सुशीतः शर्करान्वितः| लिह्याद्वा मधुसर्पिभ्यां गवाश्वशकृतो रसम्||२९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथवा पलाशत्वक्क्वाथः शीतः शर्करायुतः पूर्वोक्तगुणः| अथवा मधुसर्पिभ्यां गवाश्वशकृतो रसं पिबेत्| गवाश्चेति "अवड् स्फोटायनस्य" इत्यवङादेशः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- क्वाथान्तरमाह-पलाशवल्कव्काथो वेति| वल्कलं-त्वक्| लेहमाह-लेह्याद्वा मधुसर्पिर्भ्यामिति| शकृद्रसस्य पाकाद्ग़नीभावेन लेहत्वम्|

Adhikarana ग्रथिते रक्ते लेहः (३०) · Śloka ३०

सक्षौद्गं ग्रथिते रक्ते लिह्यात्पारावताच्छकृत्| |३०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ग्रथिते-ग्रन्थिमति, रक्तपित्ते पारावतस्य शकृत् क्षौद्गेण सह लिह्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ग्रथिते रक्ते लेहमाह-सक्षौद्रमिति| ग्रथितं तन्तुलम्|

Adhikarana अतियोगे रूधिरपानम् अतियोगे यकृभक्षणम् (३०-३१) · Śloka ३१

| अतिनिः स्रुतरक्तश्च क्षौद्गेण रुधिरं पिबेत्||३०|| जाङ्गलं, भक्षयेद्वाऽऽजमामं पित्तयुतं यकृत्| |३१|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अतिनिःस्रुतरक्तश्च जाङ्गलं रक्तं क्षौद्गेण सह पिबेत्| आजं यकृदपक्वं पित्तयुतं भक्षयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अतियोगे रुधिरमाह-अतिनिःसृतरक्तो वेति| जाङ्गलं-जाङ्गलवर्गीयहरिणादिशरीरजम्| अतियोगे यकृद्भक्षणमाह-भक्षयेद्वेति| अजस्य-छागस्येदमाजम्| आमं-अपक्वम्| आजेनैव पित्तेन युक्तम्|

Adhikarana अतियोगे शीतकषायः (३१-३२) · Śloka ३२

| चन्दनोशीरजलदलाजमुद्गकणायवैः||३१|| बलाजले पर्युषितैः कषायो रक्तपित्तहा| |३२|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-चन्दानादिभिर्बलाजले पर्युषितैः कषायो रक्तपित्तजित्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अतियोगे शीतकषायमाह-चन्दनोशीरेति| बलाजले-बलाक्वाथे|

Adhikarana अतियोगे शीतकषायान्तरद्वयम् (३२-३४) · Śloka ३४

| प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः||३२|| सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्| आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः||३३|| स्थितं तद्गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्| मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम्||३४||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-चन्दनादिजः प्रसाद सुशीतः शर्करामाक्षिकाभ्यां सह रक्तस्यातिप्रवृत्तिं जयेत्|सं-इक्षुगण्डिका आपोथ्य भृशमादौ सङ्कुट्य जले प्लावयेत्| नवे कुम्भे रात्रिमाकाशे गुप्तं-कीटाद्युपहतं यथा न स्यात्तथा. स्थितं तत्-इक्षुगण्डिकाजलं, प्रातः स्रुतं समाक्षिकं विकसितपद्मेन कृतशेख़रं तद्गुणं-पूर्ववद्गुणमित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अतियोगे शीतकषायान्तरमाह-प्रसादैति| मृद्भृष्टलोष्टं-पाकादग्निवर्णतां नीतं मृल्लोष्टम्|आ० र०- अतियोगे शीतकषायान्तरमाह-आपोथ्य वेति| आपोथ्य-जर्जरीकृत्य| प्लवयेत्-नवकुम्भस्थे जले क्षिपेत्| अल्पत्वार्थं इक्षुगण्डिकाः-इक्षुखण्डानि| रात्रिमाकाशे स्थितंशिक्यालम्बनात्| गुत्पं-प्रकृतिकीटादिभ्यः| मधुमत्-क्षोद्रयुक्तम्| विक्कचाम्भोजकृतोत्तंसं-कुम्भकण्ठबद्धैरन्तःप्रविशद्भिरिव विकसितकमलैः सुरभीकृतम्| तद्गुणं-पूर्वौषधसमानम्|

Adhikarana पित्तज्वरोक्ताश्च कषायाः (३५) · Śloka ३५

ये च पित्तज्वरे चोक्ताः कषायास्तांश्च योजयेत्| |३५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तज्वरे च ये कषाया उक्ताः-"शक्रयवाग़नम्| कटुका चेति सक्षौद्गा" (हृ. चि. अ. १/५२) इत्यादयः, तांश्च-कषायान्, अत्र योजयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पित्तज्वरकषायानतिदिशति-ये चेति| सङ्ग्रहे तु (चि. अ. ३)- "वासारसेन भूनिम्बकटुकाशर्कराः पिबेत्| तेनैव वा क्षौद्रयुक्तं पद्मकेसरपद्मकम्|| सरोध्रनागकुसुमशाड्वलोत्पलवास्तुकम्| शाड्वलं-दूर्वा| पथ्यारजन्यहिंस्त्रा वा पलाण्डुं तद्वदेव वा|| अहिंस्त्रा-कन्थारिभेदः| तद्वत्-मधुसर्पिर्भ्या लिह्यात्| फ़लिनीलोध्रखदिरशाल्मलीकोविदारजम्| शिरीषशेलुककुभसिन्दुवारातिमुक्तजम्|| पलाशयूथिकाशिग्रुमधूकासनजन्म च| मधुनाचूर्णितं पुष्पमेकत्र पृथगेव वा|| पुष्पैरेभिर्विपव्कं च सक्षौद्रं माहिषं घृतम्| लिह्यात् क्षौद्रेण पथ्यां वा किञ्जल्कं कमलस्य वा|| लाजान् शृङ्गाटकं मुस्तं खर्जूरं कृष्णमृत्तिकाम्| क्षीरिवृक्षाङ्कुरान् द्राक्षां तवक्षीरिं सितोपलाम्|| गैरिकं मधुकं रोध्रं शङ्खं शम्बूकमञ्जनम्| तण्डुलीयकमूलं वा बीजं वा वास्तुकोद्भवम्|| रोध्रकालीयकोशीरफ़लिनीशङ्खगैरिकम्| पटोलपत्रं दूःस्पर्शा समङ्ग सारिवा लता|| त्वग्जम्बूवेतसाश्वत्थहयाह्वोदुम्बरार्जुनात्| किराततिक्तक्रमुकमुस्तकट्फ़लपद्मकम्|| प्रपौण्डरीकहीबेरकमलोत्पलपर्पटम्| चन्दनेन पृथग्युक्तं समस्तं वा सशर्करम्|| फाण्टीकृतं शृतं शीतं चूर्णं वा तण्डुलाम्भसा| पीतमाशुजयत्यस्त्रं तृड्दाहतमकानपि|| तद्वदच्छः सितारोध्रमधूकोशीरचन्दनात्| मृच्छ्यामासारिवामुस्तुधातकीयष्टिकान्वितात्|| अच्छः-प्रसादः| तद्वत्-चन्दनादिवत्| वैडूर्यमुक्तामृच्छङ्खगैरिकामलकोददकम्| मधूदकं रसं वेक्षोः पिबञ्जयति शोणितम्|| त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना| पिबेत्करञ्जबीजं वा तेन क्षौद्रसितायुतम्|| रोध्रचन्दनयष्टयाह्वं तेन यष्टयाह्वमेव वा| नीलोत्पलं सिता यष्टी मधूकं पद्मकेसरम्|| छिन्नोद्भवा च शीतोऽयं कषायो रक्तजित्परम्|" इति| वङ्गसेने तु (रक्तपित्ताधिकारे श्लो ४८)- "तालीसचूर्णयक्तः पेयः क्षौद्रेणवासकस्वरसः| कफ़पित्तश्वासवमीतमकस्वरभेदरक्तपित्तहरः|| आटरूषकमृदीकापथ्याव्काथः सशर्करः| क्षौद्राढ्यः कसनश्वासरक्तपित्तनिबर्हणः|| शतावरी बला रास्ना काश्मर्यं सपरूषकम्| पाययेद्रक्तपित्तघ्नं सद्यः शूलहरं परम्|| चन्दनेन्द्रयवाः पाठाकटुका सदुरालभा| गुडूची वासकं रोध्रं पिप्पलीक्षौद्रसंयुतम्| [ कफ़ान्वितं जयेद्रक्तं तृष्णाकासज्वररापहम्|| ] पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसम्भवम्| उदुम्बरफ़लानां वा रसं समधु पाययेत्|| अतसीकुसुमसमङ्गा वटप्ररोहत्वगम्भसा पीता| प्रशमयति रक्तपित्तं यदि भुङ्क्ते मुद्गयूषेण|| लोहगन्धिनि निःश्वासे उद्गारे धूमगन्धिनि| पृथ्वीकां शणमात्रां तु खादेद्द्विगुणशर्कराम्|| (श्लो. ४६)- " वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेसराणि| पित्वासिताक्षौद्रयुतानि हन्यात्पित्तासृजो वेगमुदीर्णमाशु|| वासायां विद्यमानायामाशायां जीवितस्य च| रक्तपित्ती क्षयी कासी किमर्थमवसीदति|| समाक्षिकः पद्मप(द)लोद्भवो वा पीतो रसः शोणितमाशु हन्ति|| (श्लो. ६९)- " पव्कोदुम्बरकाश्मर्यपथ्याखर्जूरगोस्तनाः| मधुना घ्नन्ति संलीढ रक्तपित्तं पृथक् पृथक्|| वासकस्वरसे पथ्या सप्तधा परिभाविता| कृष्णा वा मधुना लीढा रक्तपित्तं द्रुतं जयेत्|| (श्लो. ९३)- चन्दनं नलदं लोध्रमुशीरं पद्मकेसरम्| नागपुष्पं च बिल्वं च भद्रमुस्तं सशर्करम्|| हीबेरं चैव पाठा च कुटजस्य फ़लं त्वचम्|शृङ्गबेरं सातिविषं धातकी च रसाञ्जनम्|| आम्रास्थि जम्बुसारास्थि तथा मोचरसोऽपि च| नीलोत्पलं समङ्गा च सूक्ष्मैला दाडिमत्वचम्|| चतुर्विशतिरेतानि समभागानि कारयेत्| तण्डुलोदकसंयुक्तं क्षौद्रेण सह योजयेत्| हितं लोहितपित्तानामर्शः सुज्वरितेषु च| मूर्च्छतमोपसृष्टानां तृषार्तानां च दापयेत्|| [अतीसारं तथा छर्दिः स्त्रीणां च रजसो ग्रहम्|] चलितानां च गर्भाणां स्तम्भनं परमुच्यते| अश्विभ्यां विहितो योगोरक्तपित्तविनाशनः||" इति| जम्बूसारा-राजजम्बूः| इति नवरक्तपित्तम्|

Adhikarana जीर्णरक्तपित्तचिकित्सा छागक्षीरप्रयोगः,गव्यक्षीरप्रयोगत्रयम् (३५-३८) · Śloka ३८

| कषायैर्विविधैरेभिर्दीप्तेऽग्नौ विजिते कफे||३५|| रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः| युञ्जयाच्छागं शृतं, तद्वद्गव्यं पञ्चगुणेऽम्भसि||३६|| पञ्चमूलेन लघुना शृतं वा ससितामधु| जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः||३७|| पृथक्पृथक्शृतं क्षीरं सघृतं सितयाऽथवा| |३८|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एभिर्विविधैः-नानाप्रकारैः कषायैः, अग्नौ दीप्ते कफे च विजिते सति यदि रक्तपित्तं न शाम्यति, तदा तत्र वातोल्बणे रक्तपित्ते सति पञ्चगुणेऽम्भसि शृतं छागं पयो युञ्जयात्| पञ्चगुणेऽम्भसि गव्यं क्षीरं क्वथितं तद्वत्-तेन छागेन समानगुणं, तच्च युञ्जयात्| अथवा लघुना पञ्चमूलेन शृतं गव्यं सशर्करामधु तद्गुणम्| तथा, जीवकर्षभकादिभिः पृथक् पृथक् शृतं सह घृतेनाथवा शर्करया सह तद्गुणम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ जीर्णरक्तपित्तम्| तत्र छागक्षीरप्रयोगमाह-कषायैर्विविधैरिति| गव्यक्षीरमाह-तद्वद्गव्यमिति| तद्वत्-"अल्पाम्बुपानव्यायामकटुतिक्ताशनैः " (हृ. सू. अ. ५/२४) इत्युक्तहेतुमत्| पञ्चगुणेऽम्भसि शृतम्| क्षीरान्तरमाह-पञ्चमूलेनेति क्षीरान्तरमाह-जीवकर्षभकेति|

Adhikarana मूत्रमार्गगे क्षीरम् (३८-३९) · Śloka ३९

| गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः||३८|| हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्| |३९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गोकण्टकादिभिस्तथा [ पर्णिनीभिः-] शालिपर्णीपृश्निपर्णीमुद्गपर्णीमाषपर्णीभिः, शृतं शीघ्रमेव रक्तं सवेदनं हन्ति| विशेषेण मूत्रमार्गगतम्| विषेषग्रहणादन्यमार्गगमपि रक्तं हन्तीति द्योतयति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मूत्रमार्गगे क्षीरमाह-गोकण्टकाभीरुशृतमिति|

Adhikarana विण्मार्गगे क्षीरचतुष्टयम् (३९-४०) · Śloka ४०

| विण्मार्गगे विशेषेण हितं मोचरसेन तु||३९|| वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि| |४०|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विण्मार्गगे-गुदगते, रक्तपित्ते तु विशेषेण मोचरसेन शृतं क्षीरं हितम्| वटप्ररोहैर्वा शृतं क्षीरं, अथवा वटशुङ्गैः-प्रथमोद्भूतमुकुलितैः पल्लवप्रायैः, शुण्ठ्युदीच्योत्पलैर्वा शृतं पयो हितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- गुदप्रवृत्ते क्षीरचतुष्टयमाह-विण्मार्गगे विशेषेणेति| मोचरसः-शाल्मलीनिर्यासः| शृ(शु)ङ्गैः-वटशृ(शु)ङ्गैः| मुकुलावस्यं पत्रं-शृ(शु)ङ्गः|

Adhikarana रक्ताकषायाः सपयस्काः (४०) · Śloka ४०

| रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्||४०||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तशब्दस्यातिसारदुर्नाम्रोः सम्बन्धः| रक्तातिसारस्य रक्तार्शसश्च, या चिकित्सा तामत्र-रक्ते, योजयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रक्तातिसाररक्तार्शश्चिकित्सामतिदिशति-रक्तातिसारेति|

Adhikarana पूर्वोक्तकषायसिद्धानि घृतानि (४१) · Śloka ४१

पीत्वा कषायान् पयसा भुञ्जीत पयसैव च| कषाययोगैरेभिर्वा विपक्वं पाययेद्धृतम्||४१||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कषायान्-पूर्वोक्तान्, पयसा पीत्वा पयसैवाश्नियात्| स०-एतैर्वा कषायाख्यैर्योगैर्विपक्वं घृतं रक्तपित्तिनं पाययेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पूर्वोक्तकषायान् सपयस्कानाह-पीत्वा कषायानिति| आ० र०- पूर्वोक्तकषायसिद्धानि घृतान्याह-कषाययोगैरिति|

Adhikarana वासाघृतम् (४२-४४) · Śloka ४४

समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि| पक्त्वाऽष्टांशावशेषेण घृतं तेन विपाचयेत्||४२|| तत्पुष्पगर्भं तच्छीतं सक्षौद्गं पित्तशोणितम्| पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः||४३|| तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्| |४४|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मूलपल्लवादियुक्तं क्षुण्णं-चूर्णितं, वृषमष्टगुणे जले पक्त्वा तेन-आष्टाशावशेषेण क्वाथेन, घृतं विपाचयेत्| किम्भूतम् ? तत्पुष्पगर्भम्| तस्य-वृषस्य, पुष्पाणी गर्भः-कल्को, यस्य तदेवम्| तच्च शीतिभूतं क्षौद्गेण सह पित्तशोणितादीन्नाशयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वासाघृतमाह-समूलमस्तकमिति| [सिद्धसारे रक्तपित्ताधिकारे श्लो. ४८ ]-"शतवर्यादिके चाज्ये शर्करामधु पादिकम्| मध्वेव पादिकं श्रेयो वासासर्पिषि सम्मतम्||" इति| वङ्गसेने तु (रक्तपित्ताधिकारे)- "वृषस्य पत्राङ्कुरपुष्पशाखाकषायकल्केन घृतं विपक्वम्| समाक्षिकं क्षोणकफ़े प्रयुक्तं तद्रक्तपित्तं शमयत्युदीर्णम्|| (श्लो. १२६)- वासकस्वरसे सर्पिः पयसा सह पाचयेत्| कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः|| उशीरमधुकानन्तासारिवोदीच्यपद्मकैः| त्रायन्त्युत्पलमूर्वाभिर्मदयन्त्याश्चपल्लवैः| सिताक्षौद्रयुतं हन्याद्रक्तपित्तं सुदारुणम्| पैत्तंकासं च गुल्मं च स्वरभेदं हलीमकम्|| ये चान्ये कीर्तितारोगा रक्तपित्तकफ़ाश्रयाः| तान् सर्वान् शमयेदेतत् पीयमानं हिताशिना|| अश्वगन्धापलशतं तदर्धं गोक्षुरस्य च| शतावरी विदारी च शालिपर्णी बलाऽमृता|| अश्वत्थस्य च शुङ्गानि पद्मबीजं पुनर्नवा| काश्मर्यस्य फ़लं चेव माषबीजं तथैव च|| पृथग्दश पलानेताश्चतुर्द्रोणेऽम्भसः पचेत्| द्रोणशेषे रसे तस्मिन् पुते शीते प्रदापयेत्|| मृद्वीका पद्मकं कुष्टं पिप्पली रक्तचन्दनम्| पत्रकं नागपुष्पं च आत्म गुत्पाफ़लं तथा|| नीलोत्पलं सारिवे द्वे जीवनीयान्यशेषतः| पृथक्कर्षासमा भागाः शर्करायाः पलद्वयम्|| रसः स्यात्पौण्ड्रकेक्षूणामाढकाकमाहरेत्| [ चौर्गुणेन पयसा घृतप्रस्थं विपाचयेत्|| ] रक्तपित्तं क्षतक्षीणं कामलां वातशोणितम्| हलीमकं पाण्डुरोगं वर्णभेदं स्वरक्षयम्|| मूत्रकृच्छ्रमुरोदाहं पार्श्वशूलं च नाशयेत्| एतद्राज्ञां प्रदातव्यं बह्वन्तःपुरचारिणाम्|| स्त्रीणां चैवाप्रजातानां दुर्बलानां च देहिनाम्| श्रेष्ठं बलकरं धन्यं हृद्यं वृष्यं रसायनम्|| ओजस्तेजस्करं स्वर्यमायुष्यं प्राणवर्धनम्| संवर्धयति शुष्कं च पुरुषं दुर्बलेन्द्रियम्|| सर्वरोगविनिर्मुक्तस्तोयसोक्तो यथा द्गुमः| कामदेवमिति ख्यातं सर्पिरुक्तं महागुणम्|| (श्लो. ९९)- दूर्वासोत्पलकिञ्जल्का मञ्जिष्ठा सैलवालुका| सितासितमुशीरं च मुस्तचन्दनपद्मकम्|| विपचेत्कार्षिकैरेतैः सर्पिराजं सुखाग्निना| तण्डुलाम्बुत्वजाक्षीरं दत्वा चैव चतुर्गुणम्|| [द्राक्षायश्ट्याह्वधुककाश्मरीचन्दनं सितम्| पिष्ट्वा तत्कार्षिकैर्द्रव्यैर्घृतप्रस्थं विपाचयेत्||] तत्पानं वमतो रक्तं नावनं नासिकागते| कर्णभ्यां यस्य गच्छेच्च तस्य कर्णौ प्रपूरयेत्|| चक्षुःस्नाविणि रक्ते च पूरत्तेन चक्षुषी| मेढ्रपायुप्रवृत्ते च बस्तिकर्मणि तद्धितम्|| रोमकूपप्रवृत्ते च तदभ्यङ्गे प्रयोजयेत्| पित्तजेषु विकारेषु विस्फ़ोटादिषु बुद्धिमान्|| विषेषु कीटदोषेषु विसर्पेषु प्रयोजयेत्| [रक्तस्त्रावीणि चार्शासि लेपयेत्तेन सर्पिषा|| ] दूर्वा सेन्दीवरी पद्मं मञ्जिष्ठासैलवालिका| राला मुस्ता तथोशीरं चन्दनं मधुकाह्वयम्|| पद्मकं रोध्रकुष्ठं च चन्दनं रजनीद्वयम्| काकोल्यौ सारिवा चेति कल्कैरेतैश्च कार्षिकैः|| घृतप्रस्थमजाक्षीरं तण्डुलोदकसंयुतम्| दूर्वायाः स्वरसेनैव साधितं पुर्ववद्गुणम्|| न्यग्रोधोदुम्बराश्वत्थशुङ्गान्यापोथ्य वासयेत्| अहोरात्रं जले तत्पे घृतं तेनाम्भसा पचेत्|| तदर्धशर्करायुक्तं लेहयेत्क्षौद्रपादिकम्| अधो वा यदि वाऽप्यूर्ध्वं रक्तं यस्य प्रवर्तते| सुखं भवति तस्याशु अग्निवेशवचो यथा|| शतावरीदाडीमतित्तिडीकं काकोलि मेदे मधुकं विदारीम्| पिष्ट्वा च मूलं फ़लपुरकस्य घृतं पचेत् क्षीरचतुर्गुणं च| कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्ति|| शतावर्यास्तु मूलानां रसप्रस्थद्वयं मतम्| तत्समं च भवेत्क्षीरं घृतप्रस्थं विपाचयेत्|| जीवकर्षभकौ मेदा महामेदा तथैव च| काकोली क्षीरकाकोली मृद्वीका मधुकं तथा|| मुद्गपर्णी माषपर्णी विदारी रक्तचन्दनम्| शर्करामधुसंयुक्तं सिद्धं विस्त्रावयेत् घृतम्|| रक्तपित्तविकारेषु वातरक्तगदेषु च| क्षीणशुक्रेषु दातव्यं वाजीकरणमुत्तमम्|| अङ्गदाहं शिरोदाहं ज्वरपित्तसमुद्भवम्| योनिशूलं च दाहं च मूत्रकृच्छ्रं च पैत्तिकम्|| एतान् रोगान्निहन्ताशु छिन्नाभ्रमिव मारुतः| शतावरीसर्पिरिदं बलवर्णाग्निवर्धनम्||[शतावर्यादिके चाज्ये शर्करामधु पादिकम्||] (श्लो. १४१)- अनन्ता सारिवा पद्मं सलोध्रं नीलमुत्पलम्| कल्कैरेभिः पचेत्सार्पिः सक्षीरं नावनं परम्|| रक्तपित्तं प्रशमयेन्नारीणां प्रदरं तथा| हस्तापादाङ्गदाहेषु ज्वरे रक्ते तत्थोर्ध्वगे| वासाघृतं शतावर्या सितया परमं हितम्|| दूर्वामधुकमञ्जिष्ठाद्राक्षेक्षुरसचन्दनैः| सारिवाद्वयनक्ताह्वैस्तैलप्रस्थं विपाचयेत्|| क्षीरं चतुर्गुणं दत्वा सिद्धमभ्यञ्जनं भवेत्| रक्तपित्तहरं ह्येतद्वल्यं वातन्धमुत्तमम्| दूर्वातैलमिति ख्यातं सवर्णकरणं महत्|| (श्लो. १६७)- तुलामादय वासायाः पचेदष्टगुणे जले| तेन पादावशेषेण पाचयेदाढकं भिषक्|| चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा| द्विपलं पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्|| कुडवं पलमानं च चातुर्जातं सुचूर्णितम्| क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती यथाबलम्| कासश्वासगृहीतश्च यक्ष्मणा च प्रपीडितः|| लोहाच्चतुर्गुणं क्षीरमाज्यं द्विगुणमुत्तमम्| चुर्णपादं च वैडङ्गं दद्यान्मधुसिते समे|| सर्वमेकत्र प्रक्षिप्य पात्रे ताम्रमये द्दढे| पाकमानीय तत्वेन स्थापयेत् घृतभाजने|| माषकादिक्रणादौ बक्षयेद्विधिपूर्वकम्| अनुपानं प्रयुञ्जीत नालिकेरजलादिकम्|| रक्तपित्तं जयेत्तीव्रमम्लपित्तं क्षतं क्षयम्| पुष्टिदं कान्तिजननमायुष्यं वृष्यमुत्तमम्|| (श्लो. १९३) शतावरी छिन्नरुहा वृषमुण्डितिका बला| तालमूली च गायत्री त्रिफ़लायास्त्वचस्तथा|| भार्गी पुष्करमूलं च पृथक् पञ्च पलानि च| जलद्रोणे विपक्तव्यमष्टभागावशेषितम्|| दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा| पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम्|| खण्डतुल्यं घृतं देयं पलषोडकं बुद्धैः| पचेत्ताभ्रमये पात्रे गुडपाको मतो यथा|| प्रस्थार्धं मधुनो देयं शुभाश्मजतुकं त्वचम्| शृभाश्मजतुकं त्वचम्| शृङ्गी विडङ्गं कृष्णा च शुण्ठ्याजाजी पलं पलम्|| त्रिफ़ला धान्यकं पत्रं व्द्यक्षं मरिचकेसरम्| चूर्णं दत्वा सुमथितं स्निग्धेभाण्डे निधापयेत्|| यथाकालं प्रयुञ्जीत बिडलपदकं ततः गव्यक्षीरानुपनं च सेव्यं मांसरसं पयः||गुरुवृष्यान्नपानानि स्निग्धमत्स्यादि बृंहणम्| रक्तपित्तं प्रदुष्टं च क्षतकासं विशेषतः|| वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम्| श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा|| आनाहं रक्तस्त्रावं च अम्लपित्तं निहन्ति च| चक्षुष्यं बृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम्|| आरोग्यं पुत्रदं श्रेष्ठं कायाग्निबलर्धनम्| श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम्|| छागं पारावतं मांसं तित्तिरिक्रकराः शशाः| कुलिङ्गाः कृष्णसारा ये तेषां मांसानि योजयेत्|| नारिकेलपयः पानं सुनिषण्ण्कवास्तुकम्| शुष्कमूलकजीवाख्यं पटोलं बृहतीफ़लम्|| फ़लं वार्ताकपव्काम्रं खर्जूरं स्वादुदाडिमम्| ककारपूर्वकं यच्च मासं चानूपसम्भवम्|| वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता| लोहान्तरवदत्रापि पुटनादिक्रियेष्यते| (श्लो. १६१)- पञ्ज्चाशत्पलिकं स्विन्नं कूष्नाण्डं प्रस्थामाज्यतः| पक्वं पलशतं खण्डाद्वासाव्काथाढके पचेत्|| शुभाधात्रीघनैर्भार्गीत्रिसुगन्धैश्च कर्षिकैः| ऐलेयविश्वधान्याकमरिचैश्च पलांशकैः|| पिप्पलीकुडवं चैव मधुमानीं प्रदापयेत्| कासं श्वा [सं क्षयं हिक्कां रक्तपित्तं हलीमकम्|| हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति| युक्तसर्पिषि कूष्माण्डे पाको बन्धेन मुद्गया||" इति|

Adhikarana पलाशघृतम् त्रायमाणाघृतम् (४४-४५) · Śloka ४५

| पलाशवृन्तस्वरसे तद्गर्भं च ग़ृतं पचेत्||४४|| सक्षौद्रं तच्च रक्तघ्नं, तथैव त्रायमाणया| |४५|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पलाशवृन्तानां स्वरसे तद्गर्भं-पलाशवृन्तकल्कं, ग़ृतं पचेत्| तच्च क्षौद्रेण सह रक्तघ्नं भवति| तद्वदेव त्रायमाणया शृतं रक्तपित्तघ्नम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पलाशघृतमाह-पलाशवृन्तस्वरस इति| वृन्तं पुष्पनालम्| तद्गर्भं-वृन्तकल्कगर्भम्| त्रायमाणाघृतमाह-तथैवेति| तथैव-क्वाथकल्कीकृतया| सङ्ग्रहे तु (चि. अ. ३)- "क्षीरेण वपनीपुष्पं मधुकं मधुशर्करा| वपनी-कार्पासी| रोध्रोत्पलसमङ्गाभिस्तद्वद्वत्सकसाधितम्|| रोध्रादित्रयेण, वत्सकेनैकेन| तद्वत्-क्वाथकल्काभ्यां घृतम्| लाजगोधूममधुकसिताचुर्णं पयोद्रुतम्| घृतेनोत्कारिकां कृत्वाखादेत्पित्तास्त्रवारिणीम्||" इति| वङ्गसेने तु (रक्त. श्लो.६८)-" द्राक्षया फ़लिनीभिर्वा बलया मधुकेन वा| श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः|| (श्लो. ६६)-सशर्करं माक्षिकसंप्रयुक्तं विदारिगन्धादिगणे शृतं वा|| (श्लो.७४)- क्षीरेण लाक्षां मधुमिश्रितेन प्रपीय जीर्णे पयसाऽन्नमद्यात्| सद्योनिहन्याद्रुधिरं क्षतोत्थं कान्तार्जुनानामथवाऽपि कल्कम्|| कल्कं मधूकत्रिफ़लार्जुनानां निशि स्थितं लोहमये सुपात्रे| साज्यं विलिह्यानुपिबेत्सुशीतं सशर्करं छागपयः क्षुधार्तः|| पारावतस्य मांसं वा घृतसिद्धं सशर्करम्| भक्षयेन्मधुनाशीतं रक्तपित्तनिवारणम्|| प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते| प्राप्नोति वाऽऽस्यवैतस्यं न चान्नमभिनन्दति|| नागरेन्द्रयवौ तत्र पातव्यौ तण्डुलाम्बुना| सिद्धां यवागूं जीर्णे च चाङ्गेरीत(प)त्रदाडिमैः||" इति|

Adhikarana रक्तपित्तविशेषे क्षारचतुष्टयम् (४५-४६) · Śloka ४६

| रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे||४५|| लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्| पृथक्पृथक् तथाऽम्भोजरेणुश्यामामधूकजम्||४६||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्ते पिच्छावति, पिच्छा-शाल्मल्या रससदृशी, तथा सकफे, तथा ग्रथिते-ग्रन्थिसदृशे, तथा कण्ठमार्गगे सति, क्षारमुत्पलनालजं माक्षिकसर्पिर्भ्यां लिह्यात्| ननु, क्षारस्य तैक्ष्ण्यादिगुणयोगाद्रक्तपित्ते न युक्त उपयोगः| तत्कथमिह तमनुमेने तन्त्रकृत् ? ब्रूमः| उत्पलादीनि शीतस्वभावानि| तत्समुत्थश्च क्षारः सयोनिमनुकरोति| तथा चोक्तम् (हृ.शा.अ. १/४)- "कारणानुविधायित्वाकार्याणां तत्स्वभावता|" इति| क्षारस्वरूपं च विष्यन्दनात्मकं धत्ते| तदेवं कण्ठमार्गगस्य कफानुबन्धस्य ग्रथितस्य रक्तस्य क्षारो घृतमाक्षिकाभ्यां संयुक्तो विष्यन्दनपूर्वं शोधयत्येव, न तु तस्य कोपाय स्यादिति युक्तोऽत्र क्षारोपयोगः| अम्भोजरेण्वादिजं च पृथक् पृथक् तथा माक्षिकघृताभ्यां लिह्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रक्तपित्तविशेषे क्षारचतुष्टयमाह-रक्ते सपिच्छ इति| अम्भोजरेणुः-पद्मकेसरम्| श्यामा-प्रियङ्गुः| सङ्ग्रहे तु (चि. अ. ३)- " मृणालाम्भोजकिञ्जल्कश्यामासनमधूकजम्| तद्वत्पृथक्पृथक् क्षारं, घृतं क्षीरेण साधयेत्|| पिष्टैरभीरुकाकोलीमेदावृक्षाम्लदाडिमैः| फ़लपूरकमूलेन विदार्या मधुकेन च|| तद्विबन्धज्वरानाहशूलकासास्त्रपित्तजित्| पञ्चभिः पञ्चमूलैर्वा सिद्धमाद्यैस्तदर्थकृत्||" इति|

Adhikarana गुदप्रवृत्ते रक्ते बस्तिः (४७) · Śloka ४७

गुदागमे विशेषेण शोणिते बस्तिरिष्यते| |४७|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गुदागमे रक्ते विशेषेण बस्तिरिष्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- गुदप्रवृत्ते बस्तिमाह-गुदगम इति| सङ्ग्रहे तु (चि. अ. ३)- " मधूकाञ्जनमञ्जिष्ठामृणालोत्पलगैरिकैः| सुवर्णरोध्रकालीयसमङ्गम्राम्बुचन्दनैः|| सौगन्धिकसिताशङ्खैः पिष्टैर्मधुघृतान्वितैः| क्षीरेणास्थापयेदेवं स्नानं च शिशिराम्भसा|| क्षीरेणैवाशयेच्छालींस्ततो मधुकसर्पिषा| कालेऽनुवासयेदेवमतीसारेऽपि दुस्तरे|| जीर्णेऽसृक्प्रबले कुर्याद्विरेकेचातियोगिनि| विदार्यादिगणेनेष्टं शृतं वाऽऽस्थापने पयः|| सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने| मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः|| ईद्दशैरएव तद्वच्च प्रदरेऽपि विधिः स्मृतः| छेदभेदादिभिश्चातिप्रवृत्ते शुद्धशोणिते|| विशेषात्प्रदरस्योक्तं योनिरोगेषु चौषधम्|" इति|

Adhikarana घ्राणप्रवृत्ते रक्ते नस्यम् (४७-४९) · Śloka ४९

| घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्||४७|| कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्वादिरसाप्लुतान्| क्षीरादीन्ससितांस्तोयं केवलं वा जलं हितम्||४८|| रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य वा| |४९|

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-घ्राणगे रुधिरे शुद्धे सति नावनमनुषेचयेत्-नस्यं दद्यात्| कषाययोगान् पूर्वोक्तान्-वासकादीन्, घ्राणगेऽनुषेचयेत्| किम्भूतान्? क्षीरेक्ष्वादिरसेनाप्लुतान्-सद्रवान्| आदिशब्देन मांसरसघृतादि गृह्यते| क्षीरादीन् वा सशर्करान् दद्यात्| तथा तोयमर्थात्ससितं, वा केवलं जलं हितमिति| तथा दाडिमपुष्पाणां रसः, तथा चूतफलास्थ्नः, तथा दूर्वाया रसो, नस्यं पृथक्पृथक् हितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- घ्राणप्रवृत्ते नस्यमाह-घ्राणगे रुधिर इति| क्षीरादीन् ससितानित्यन्यः प्रयोगः| तोयं ससितमित्यन्यः| केवलं वा जलमित्यन्यः| रसो दाडिमपुष्पाणामित्यन्यः| आम्रास्थ्नो रस इत्यन्यः| शाद्वलस्य रस इत्यन्यः|

Adhikarana प्रदेहाभ्यञ्जनादयः (४९) · Śloka ४९

| कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु||४९||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शीतवीर्यवर्गं च प्रलेपाभ्यञ्जनादिषु कल्पयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- प्रदेहादीनाह-कल्पयेदिति|

Adhikarana पित्तज्वरौषधं क्षतक्षीणौषधं च रक्तपित्ते हितम् (२) · Śloka

यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्| रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्||५०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित स्थाने रक्तपित्तचिकित्सितं नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

Hide commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यच्च पित्तज्वरेऽभिहितमौषधं बहिरन्तरे, तच्च रक्तपित्ते हितम्| तथा, यच्च क्षते क्षीणे च हितं तदपि रक्तपित्ते हितमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम द्वितीया- ध्यायः समाप्तः|| २||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पित्तज्वरौषधं क्षतक्षीणोषध च रक्तापित्तऽतिदिशति-यच्चेति| वङ्गसेने तु (रक्त. श्लो.८१)- "नासाप्रवृत्तरुदिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्| सेतुरिव तोयवेगं रुणद्धि मूर्न्ध्नि प्रलेपेन|| रसो दाडीमपुष्पस्य दूर्वारससमन्वितः| अलक्तकरसोपेस्रयं नासापुटे भिषक्|| योजयेन्नाशयेत् क्षिप्रं त्रिदोषमपि दारुणम्| नासारक्तं प्रवृत्तं तु हन्यादिति किमद्भुतम्|| दूर्वाभयादाडिमपुष्पकाणां लाक्षामलक्योः स्वरसेन नस्यम्| [ दिनत्रयं यः कुरुते प्रभाते नासासृजं नाम रुजं निहन्ति|| श्यामाश्वमोरटानन्ताशकराभिः शृतं घृतम्| सर्वदोषहरं हृद्यं नस्यं ] नासागतेऽसृजि|| अश्वः-अश्वकन्दः| दूर्वा भव्यफ़लं माषः कुलत्था वंशपत्रिकाः| जलस्थलोद्भवौ कर्णमोटकौ खरमञ्जरी|| दण्डोत्पलस्य मूलं च निष्व्काथ्याष्टगुणेऽम्भसि| तत्पादशेषितं तैलं तुल्यं कृत्वा विपाचयेत्| तत्तैलं प्रतिमर्शेन आनाहाख्यं गदंजयेत्||" इति| इति नासारुधिरम्| इति हेमाद्रिटीकायामायुर्वेदरसायने| रक्तपित्त्तप्रकारणं सामस्त्येन निरूपितम्||